भ्रान्तभारतम्
भ्रान्तभारतम् | |
---|---|
भारतस्य सम्पूर्णमानचित्रम् | |
लेखकः | गोकुलदास-संस्कृतमहाविद्यालयस्य छात्राः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
भ्रान्तभारतस्य लेखका गोकुलदास-संस्कृतमहाविद्यालयस्य छात्राः सन्ति । छात्राणां विबुधवाग्विलासिनी नामैका सभाप्यस्ति ययास्य नाटकस्य प्रकाशनं विहितम् । नागेशपण्डितः, शालिग्रामद्विवेदी, अच्युतपाध्ये चैतस्य नाटकस्य लेखकाः सन्ति।लेखकानां धारणानुसारं भारतं भ्रष्टं भवदास्ते । यथोक्तं नान्द्याम्
मातस्त्वदीयचरणौ शरणं सदास्तु
भ्रान्तस्य भद्रविमुखोद्यतभारतस्य।
सत्सङ्गतोऽभवदिदं सुरराजपूज्यं
वर्षं विमोहऋषिराजनिवासभूमिः।।
अत्रारम्भे नारदो रङ्गमञ्चमागच्छति । स आधुनिकताप्रवणं भारतमनुशोचति | तच्छिष्यो वस्तुस्थित्या सुपरिचितोऽस्ति । स स्पष्टमेव निगदति -
पर्वतो वाथ पुरुषो दूरादेव हि शोभते।
किंवदन्ती कृतार्थास्मिन् देशे भारतसंज्ञके।।
संस्कृतेः सुरक्षा वैदेशिक-शिक्षा-बलेन विधातुं न शक्यते । नारदः कथयति -
‘मूलमुच्छिद्य चेच्छेत् को विद्वान् वृक्षस्य रक्षणम्।'
ततो विवाहायुरधिकृत्य तर्क-वितका जायन्ते। संवादानां शैली सरला रमणीया चास्ति । भाषा बलवती वर्तते । नाटके विविधा भाषाः प्रयुक्ताः । प्राकृतस्य स्थानं हिन्दीभाषयाधिष्ठितम्।