सामग्री पर जाएँ

मणिकर्ण

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मणिकरन्

रहस्यगर्भंस्थलं मणिकर्ण

[सम्पादयतु]

हिमालयः रहस्यगर्भः पर्वतः । अत्र भवन्ति हिमाच्छन्नाः उपत्यकाः, गभीराः खाताः, कुटिलगत्या प्रवहन्त्यः नद्यः, द्रष्टॄणां चित्तम् आकर्षन्ति विविधानि रमणीयानि स्थलानि च । अत्रत्यः कुलुखातः रजतखातत्वेन देवभूमित्वेन च निर्दिश्यते । परिसरप्रियाणां तु नयनोत्सवं जनयति एषः खातः । एतस्मिन् एव खाते अस्ति मणिकर्णप्रदेशः अपि । एषः प्रदेशः हिमाचलप्रदेशराज्ये अस्ति । मणिकर्णप्रदेशः समुद्रस्तरतः १७३७ मीटरुन्नते प्रदेशे अस्ति । हिमाचलप्रदेशराज्ये स्थितम् एतत् स्थानम् अनेकाश्चर्याणां अद्भुतस्थलमस्ति । उपरि वनभागे सवत्र भूप्रदेशे अतीव शीतलं वातावरणम् अस्ति । किन्तु अधः उष्णजलनिर्झराणि सन्ति । बदरीनाथः केदारनाथः इत्यादिप्रदेशेषु अपि एतादृशानि निर्झराणि सन्ति । हिमालयपर्वतश्रेण्यां पार्वतीप्रपाते दक्षिणभागे ४५ कि.मी गत्वा एतत् स्थान प्राप्तुं शक्यते । एतत् स्थानं अपूर्वम् अस्ति । एतस्य दर्शनार्थं यात्रिकाः विज्ञानिनः च कुलूहलेन आगच्छन्ति । अत्र पुराणकथा एवम् अस्ति । एकदा शिवपार्वती च अत्रागत्य स्थातुं निर्धारं कृतवन्तौ । निर्झरे स्थन कर्तु पार्वती गमनसमये वस्रैः साक एक वज्र स्थापितवती । शेषनागः सर्पः तं वज्र अपहत्य भूमिं प्रविश्य पाताल गतवान् । पार्वती यदा स्नानं कृत्वा आगता तदा वज्र न दृष्टवती । वज्रार्थ शिव प्रार्थितवती । शिव तृतीय नयन उध्द्याय्य् वज्र प्राप्तु इष्टवान् । शिवस्य तृतीयनयनस्य उध्दाटनया विश्व दग्घ भवति इति भीताः देवाः शोषनाग वज्र समर्पयितु प्रार्थितवन्तः । वज्र प्राप्य पार्वती सन्तुष्टाभवत् । किन्तु शिवस्य कोपेन तत्रत्य जल उष्ण भवत् । इदानीमपि तत्र जल अतीव उष्ण एवास्ति । हिन्दवः सिक्खधर्मीयाः च अत्र यात्रार्थम् आगच्छन्ति । श्रीरामचन्द्रदेवालयः, सप्तस्तरीयं गुरुद्वारं च अत्र निर्मितानि सन्ति । सदा अत्र गुरुग्रन्थसाहेबस्य पठनं प्रचलति । सायं वाद्यैः साकं भजनं प्रचलति । अत्रत्यजले उष्णता९४.५ सेण्टिग्रेड भवति । तेन जलेनैव स्नानं भोजनं चायकरणं च अत्र भवन्ति । अनेन जलेन चर्मव्याधिः अपगता भवति । अत्र आगन्तु अतीव श्रमः अनिवार्यः अस्ति । सन्धाकालिका पूजा अत्र विशिष्टा ।

विशिष्टाः उत्साः

[सम्पादयतु]
उष्णजलस्य उत्सः, मणिकर्ण, हिमाचलप्रदेशः

अत्रत्याः उत्साः नितरां प्रसिद्धाः । 'पार्वतीनद्याः तीरे अस्ति एतत् स्थलम् । एतेषु उत्सेषु स्नानं कृतं चेत् विविधाः व्याधयः अपगच्छन्ति इत्यस्ति जनानां विश्वासः । अत्र शिलानां मध्यतः उष्णजलं निस्सारयन्ति कानिचन उत्सांसि । एवं निर्गच्छतः जलस्य उष्णता ८८ से. - १५ से. भवति । तन्नाम तस्य जलस्य औष्ण्यं तावत् भवति यत् तस्मिन् जले स्थापितः तण्डुलः विंशतिनिमेषाभ्यन्तरे पक्वः भवति !! भूगर्भशास्त्रज्ञाः वदन्ति - "एतेषु उत्सेषु यत् जलं प्रवहति तस्मिन् युरेनियं द्रवस्य अन्येषां विकिरणशीलद्रव्याणां च विलयनं जातं दृश्यते इति ।

धार्मिककेन्द्रम्

[सम्पादयतु]

मणिकर्णप्रदेशः सिक्खमतीयानाम् अन्यहिन्दुजनानां च कृते पवित्रं स्थानम् अपि अस्ति । हिन्दुनां विश्वासानुगुणं मनुः जलप्रलयस्य अनन्तरम् इदं स्थलं शुद्धीकृत्य अत्र एव मनुष्यजातिम् असृजत् । प्रथमः सिक्खगुरुः गुरुनानकः यदत्र आगतवान् आसीत् तस्य संस्मरणाय गुरुद्वारम् एकं निर्मितम् अस्ति अत्र । पञ्चदशे शतके निर्मितं रघुनाथमन्दिरम् अपि अत्र अस्ति । एतत् मन्दिरं लक्षशः भक्तान् आकर्षति ।

सिक्खजनानां विश्वासः

[सम्पादयतु]
मणिकरन्-गुरुद्वारम्

१५७४ तमे वर्षे गुरुनानकः स्वशिष्याभ्यां भायी बाल-भायी मर्दनाभ्यां साकम् अत्र आगतवान् । मर्दनः बुभुक्षितः जातः । आहारः न आसीत् । गुरुनानकः मर्दनाय आहारं सङ्गृह्य आनेतुम् अवदत् । जनाः रोटिकानिर्माणाय पिष्टम् अदास्यन् । किन्तु पचनाय चुल्लिः न आसीत् । तदा गुरुनानकः मर्दनम् उद्दिश्य 'पुरतः विद्यमाना महाशिला अपसार्यताम्' इति अवदत् । मर्दनः तथैव अकरोत् । तत्र उष्णजलोत्सः दृष्टः । गुरुनानकस्य सूचनानुसारं मर्दनः अपक्वरोटिकाः उत्से अस्थापयत् । किन्तु ताः जले निमग्नाः जाताः । तदा एवं प्रार्थ्यताम् इति गुरुनानकः अवदत् - 'रोटिकाः यदि प्रतिप्राप्येरन् तर्हि एकां रोटिकां देवाय अर्पयामि' इति । मर्दनः तथैव प्रार्थयत् । क्षणाभ्यन्तरे सर्वाः पक्वाः रोटिकाः जलस्य उपरि प्लवन्त्यः दृष्टाः । गुरुनानकः अवदत् - 'अत्र यः कोऽपि यदि देवाय यत्किञ्चित् समर्पयेत् तर्हि तदीयं जले निमग्नं वस्तु उपरि प्रत्यागच्छति' इति ।

हिन्दूनां विश्वासः

[सम्पादयतु]

काचित् किंवदन्ती श्रूयते यत् कदाचित् भगवान् शिवः [[पार्वती] च अस्मिन् प्रदेशे विहरन्तौ आस्ताम् । इदं हरिद्वर्णीयं पर्वतप्रदेशं दृष्ट्वा नितरां सन्तुष्टौ तौ एकादशशतं वर्षाणि अत्रैव न्यवसताम् इति श्रूयते । तदा कदाचित् पार्वत्याः मणिः (कर्णाभरणम्) जले नष्टं जातम् । ततः खिन्ना सा प्रत्यानीयताम् इति पतिं शिवम् प्रार्थयत् । शिवः स्वस्य अनुचरान् आदिशत् । किन्तु ते प्रत्यानयने असमर्थाः जाताः । क्रुद्धः शिवः स्वस्य तृतीयं नेत्रम् उदघाटयत् । तस्मात् प्रपञ्चे विप्लवः उत्पन्नः । शिवस्य तोषणाय सर्पराजः शेषः प्रार्थितः । शेषः फूत्कृतवान् । ततः उष्णजलस्य उत्सः उद्भूतः । जलं सर्वत्र प्रसृतं जातम् । ततः पार्वत्याः मणिसदृशाः असंख्याः मणयः उत्पन्नाः । ततः शिवपार्वत्यौ सन्तुष्टौ जातौ । १९०५ तमे वर्षे भूकम्पः जातः तावत् पर्यन्तं मणिकर्णप्रदेशस्य जलराशितः आभरणानि प्राप्यन्ते स्म इति श्रूयते ।

मणिकर्णप्रदेशे विद्यमानं विष्णुमन्दिरम्

एतस्मात् एव कारणात् अस्य प्रदेशस्य नाम मणिकर्ण इति जातम् । अत्रत्यं जलम् अधुना अपि उष्णयुक्तम् अस्ति । इदं पवित्रतमम् इति मन्यते । इदं जलं रोगापहारकम् इति मन्यते । अत्र आगतं चेत् तीर्थयात्राकरणं समाप्तम् इति मन्यते । अत्र आगतवद्भिः काशी अपि द्रष्टव्या नास्ति इति विश्वस्यते ।

भगवतः रामचन्द्रस्य मन्दिरम्

[सम्पादयतु]

इदं मन्दिरं राजा जगत् सिंहः १७ शतके निर्मितवान् अस्ति । अत्रत्यः रामस्य मूर्तिः साक्षात् भगवतः शिवस्य देवालयतः आनीता इति विश्वासः । १९०५ तमे वर्षे जातात् भूकम्पात् मन्दिरं किञ्चित् विनष्टम् अपसारितं च अस्ति । देवताः कुल्लुपर्वतप्रदेशं प्रति निश्चिते दिने आगमिष्यन्ति इत्येतेन कारणेन मणिकर्णप्रदेशः प्रमुखतमः वीक्षणप्रदेशः जातः अस्ति ।

धूमशकटमार्गः

[सम्पादयतु]

पठाणकोट समीपस्थं धूमशकटनिस्थानम् अस्ति । धर्मशालातः जोगीन्दरनगरात् च गन्तु शक्यते ।

वाहनमार्गः

[सम्पादयतु]

कुलुतः ४० कि.मी । मनालीतः ८० कि.मी । वसत्यर्थम् अत्र अतिथिगृहाणि सन्ति । कुलूतः ४५ कि. मी. दूरे अस्ति मणिकर्नन् । यानमार्गमात्रेण एव एतत् स्थलं प्रति गन्तुं शक्यम् । समीपस्थं विमानस्थानकं 'भुन्तार'(कुलू)नामकम्, यच्च ३५ कि. मी. दूरे अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=मणिकर्ण&oldid=366111" इत्यस्माद् प्रतिप्राप्तम्