मनोवार्ता
मनोवार्तायां रतः प्रधानमन्त्री नरेन्द्र मोदी | |
शैली | भारतविषयकी चर्चा |
---|---|
समयः | ११ AM |
देशः | भारतगणराज्यम् |
भाषा | हिन्दी, आङ्ग्लम् |
आकाशवाण्याः नाम | आकाशवाणी |
दूरदर्शनानुकूलता | अधिकतमेषु वार्तादूरदर्शनेषु प्रसारितं भवति ।[१] |
सूत्रधारः | नरेन्द्र मोदी |
आरम्भः | ०३/१०/२०१४ |
श्रोतारः | भारतगणराज्यस्य नागरिकाः |
जालस्थानम् | pmonradio.nic.in |
ध्वन्योदाहरणम् |
मनोवार्ता ( ( शृणु) /ˈmənoʊvɑːrtɑː/) (हिन्दी: मन की बात, गुजराती: મનની વાત, वङ्ग: মনের কথা, तमिळ: ஆன்மாவின் குரல்) उत मन की बात इत्ययं कश्चन आकाशवाणीकार्यक्रमः वर्तते । तस्य कार्यक्रमस्य सूत्रधारः भारतगणराज्यस्य वर्तमानप्रधानमन्त्री नरेन्द्र मोदी अस्ति । तस्मिन् कार्यक्रमे आकाशवाणीमाध्यमेन श्रीनरेन्द्रः भारतीयान् उद्दिश्य मनोवार्ताः करोति [२][३][४] । तस्य कार्यक्रमस्य आरम्भः २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य तृतीये (०३/१०/२०१४) दिनाङ्के अभवत् [५]।
उद्देशः
[सम्पादयतु]भारतगणराज्यस्य प्रधानमन्त्रिणः इच्छा आसीत् यत्, सः जनसामान्यं सम्बोद्ध्य स्वमनसः विचाराणां चर्चां कुर्यात् इति । अतः मासे एकवारं सः आकाशवाण्याः माध्यमेन भारतीयान् सम्बोधयति । अनेन देशसम्बद्धाः अनेके विषयाः प्रधानमन्त्रिणा जनानां सम्मुखं उपस्थापिताः भवन्ति । सर्वकारस्य प्रयत्नविषये जनानां ज्ञानं भवति च [६] ।
किमर्थम् आकाशवाणी
[सम्पादयतु]भारतदेशः विकासशीलदेशः वर्तते । अतः भारतगणराज्ये अनेकानि स्थलानि, ग्रामाः, प्रदेशाः च सन्ति, यत्र दूरदर्शनस्य आधिक्यं नास्ति । तथा च एकस्य संशोधनस्य आधारेण मन्यते यत्, आकाशवाण्याः विस्तारः आभारतं नवतिप्रतिशतं (९०%) वर्तते [७] इति । भारतगणराज्ये विद्यमानाः व्यक्तिगत-आकाशवाण्यः आकाशवाण्या प्रत्यायिताः यत्, ताः स्वाकाशवाण्यां मनोवार्तायाः प्रसारणं कर्तुं प्रभवन्ति इति । एवं प्रधानमन्त्रिणः मनोवार्तायाः लाभम् अधिकाधिकजनाः स्वीकर्तुं शक्नुयुः इति विचिन्त्य आकाशवाणीमाध्यमस्य चयनम् अभवत् । आकाशवाणी वार्तादूरदर्शनाय अपि प्रसारणस्य अधिकारान् अयच्छत् ।
प्रसारणम्
[सम्पादयतु]२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य तृतीये (०३/१०/२०१४) दिनाङ्के "मनोवार्ता" उत 'मन की बात' कार्यक्रमस्य आरम्भः अभवत् [५] । तस्मिन् दिने विजयादशमी पर्व आसीत् [८][९] । ततः क्रमेण २/११/२०१४, १४/१२/२०१४, २७/१/२०१५, २२/०२/२०१५ दिनाङ्केषु मनोवार्ताकार्यक्रमस्य प्रसारणम् अभवत् [१०] ।
आर्थिकलाभः
[सम्पादयतु]आकाशवाण्या मनोवार्ता-कार्यक्रमस्य यत् प्रसारणं भवति, तस्य प्रसारणस्य अधिकाराः आकाशवाण्या अन्येभ्यः वार्ताप्रसारणसंस्थाभ्यः अपि प्रदत्ताः । कार्यक्रमः २४० विभिन्नाभिः वार्ताप्रसारणसंस्थाभिः मनोवार्ता-कार्यक्रमः प्रसिद्धः भवति । मनोवार्ता-कार्यक्रमस्य प्राक् यानि विज्ञापनानि प्रकाश्यन्ते, तैः आकाशवाण्याः आये वृद्धिः अभवत् । प्रतिदशक्षणं द्विलक्षरूप्यकाणि विज्ञापनस्य मूल्यम् अस्ति । सामान्यतः आकाशवाण्यां ५०० तः १५०० रूप्यकाणि प्रतिदशक्षणं मूल्यं भवति । तस्मिन् मूल्ये प्रति कार्यक्रमं वृद्धिः भवति [११][१२] ।
प्रकरणानि
[सम्पादयतु]अङ्कः | दिनाङ्कः | विषयः | चित्रम् |
---|---|---|---|
१ | ०३/१०/२०१४ | प्रधानमन्त्री श्रीनरेन्द्रः भारतीयान् आग्रहेण अकथयत्, "दीनानां समृद्ध्यै खादी-वस्त्रस्य क्रयणं कुर्वन्तु" इति । सः स्वच्छभारताभियानस्य विषये अपि चर्चाम् अकरोत् । तेन सह मङ्गलयानस्य सफलप्रक्षेपणस्य, कौशलविकासस्य, विकलाङ्गबालकानां, mygov.in-आख्यस्य जालस्थानस्य च चर्चाम् अकरोत् [१३] । | |
२ | ०२/११/२०१४ | प्रधानमन्त्री श्रीनरेन्द्रः भारतसर्वकारस्य विभिन्नानाम् उपक्रमाणां (initiatives) विषये चर्चाम् अकरोत् । तेषु विकलाङ्गबालकेभ्यः छात्रवृत्तेः (scholarship) चर्चाम् अकरोत् । विकलाङ्गबालकेभ्यः आधारभूतसुविधाः (Infrastructure) प्रदातुं विभिन्नाभ्यः संस्थाभ्यः अनुदानस्य विषये चर्चाम् अकरोत् । स्वच्छभारताभियानस्य सकारात्मकप्रयत्नानां विषये स्वास्थ्यसम्बद्धां चर्चाम् अपि अकरोत् । दीपावल्याः पर्वदिनेषु सियाचिन-प्रदेशस्य तस्य यात्रायाः विषये, नियुक्तैः भारतीयसैनिकैः सह सम्भाषणस्य विषये च चर्चां कुर्वन् सः भारतीयसैनिकेभ्यः नमस्कारं व्याहरत् [१४] । | |
३ | १४/१२/२०१४ | प्रधानमन्त्री श्रीनरेन्द्रः माद्यपदार्थेषु आसक्तानां यूनां विषये चर्चाम् अकरोत् । तेन सह युवभ्यः 'to say no to drugs' इति घोषवाक्यम् अयच्छत् । सः अकथयत्, "यत् धनं माद्यपदार्थानां क्रयणे व्ययीतं भवति, तस्य धनस्य उपयोगः आतङ्कवादिगतिविधिषु भवतुं शक्नोति" इति । सः अकथयच्च, "निश्शुल्कतया (toll-free) सहायकरेखायाः (helpline) आरम्भः भविष्यति । तया सहायकरेखया माद्यपदार्थव्यसनिनां, तेषां परिवारसदस्यानां च साहाय्यं भविष्यति" [१५] इति । | |
४ | २७/०१/२०१५ | प्रधानमन्त्रिणः श्रीनरेन्द्रेण सह सूत्रधारत्वेन बराक ओबामा मनोवार्तायां भागम् अवहत् । उभौ अतिसंवेदनशीलप्रश्नानाम् उत्तराणि भारतीयेभ्यः अयच्छताम् । संयुक्तराष्ट्र-अमेरिका-देशे येभ्यः राजनेतृभ्यः ओबामा प्रभावितः अस्ति, तेषाम् उल्लेखम् अपि सः अकरोत् [१६] । | |
५ | २२/०२/२०१५ | प्रधानमन्त्री श्रीनरेन्द्रः विद्यार्थिनः सम्बोद्ध्य परीक्षासम्बद्धाः अनेकाः चर्चाः अकरोत् । तासु चर्चासु परीक्षाभयमुक्तिः, आत्मविश्वासः इत्यादयः अन्तर्भवन्ति [१७] । | |
६ | २२/०३/२०१५ | प्रधानमन्त्री श्रीनरेन्द्रः भारतीयकृषकान् सम्बोद्ध्य भूम्यधिकरणविधेयकविषये चर्चाम् अकरोत् । विधेयके ये दोषाः सन्ति, तेषां निराकणम् आवश्यकम् । भूम्यधिकरणसम्बद्धानां विधेयकानां भूम्यधिकरणविधयके अन्तर्भवनम् अभवत् इति सः अवदत् । विधेयके क्षतिपूर्तेः (Compensation) नियमेषु न किमपि परिवर्तनम् अभवत् । भूम्यधिकरणविधेयके क्षतिपूर्तेः धने (Compensation amount) न्यूनता कृता इति भ्रमसन्देशः विरोधिभिः प्रसारितः वर्तते । [१८] | |
७ | २६/०४/२०१५ | प्रधानमन्त्री श्रीनरेन्द्रः अवदत्, अद्य मनोवर्तां कर्तुं मनः एव नास्ति । यतः मनः भारम् अनुभवति, व्यथां च अनुभवति । पूर्वमासे यदा अहं मनोवार्तां कुर्वन् आसम्, तदा अकालवर्षायाः समाचारान् श्रुतवान्, कृषकाणाञ्च सस्यघ्ना (पाक का नाश से) हानिः अभवत् । केभ्यश्चन दिनेभ्यः पूर्वं बिहारराज्ये वातप्रकोपेन अनेके मृताः । शनिवासरे भयङ्करः भूकम्पः विश्वम् अकम्पयत् । एवं भाति यत्, प्राकृतिकापदां श्रृङ्खलायाः सर्जनम् अभवत् । नेपालदेशे भूकम्पेन अधिका हानिः अभवत् । भारतेऽपि अनेकेषु राज्येषु अपि भूकम्पेन अनेके मृताः, आहताश्च । परन्तु नेपालदेशस्य हानिः अतिभयङ्करा अस्ति [१८] । ततः नेपालदेशे द्विवर्षीयायाः बालिकायाः जीवितनिष्कासनस्य, स्वफ्रांसदेशस्य यात्रायाः, भारतीयसैनिकानां पराक्रमस्य, बाबा साहेब आम्बेडकर-महोदयस्य जन्मजयन्त्याः, बालिकाशिक्षायाः च विषये चर्चाम् अकरोत् [१९] । |
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- http://www.narendramodi.in/mannkibaat/
- http://www.narendramodi.in/wp-content/plugins/html5-mp3-player-with-playlist/html5plus/html5full.php?id=4&iframe=1&rand=2
- http://www.ndtv.com/india-news/pm-modi-to-talk-exams-in-mann-ki-baat-invites-thoughts-from-students-teachers-738039
- http://pmindia.gov.in/en/tag/mann-ki-baat/
- http://pmindia.gov.in/en/news_updates/text-of-prime-ministers-mann-ki-baat-on-all-india-radio-2/
- http://pmindia.gov.in/en/news_updates/pm-announces-he-will-address-farmers-in-the-next-mann-ki-baat/
- http://newsonair.com/Mann-Ki-Baat-Part-IV.pdf Archived २०१५-०२-१६ at the Wayback Machine
- http://pmonradio.nic.in/
- http://www.narendramodi.in/mannkibaat/
- http://www.ndtv.com/india-news/pm-narendra-modi-on-mann-ki-baat-trust-your-pradhan-sevak-every-penny-of-black-money-will-be-brought-687855
- http://articles.economictimes.indiatimes.com/2015-02-21/news/59363215_1_mann-ki-baat-india-radio-big-advertisers Archived २०१५-०३-२४ at archive.today
- http://articles.economictimes.indiatimes.com/2014-12-13/news/57012133_1_drug-menace-prime-minister-narendra-modi-mann-ki-baat Archived २०१५-०१-२६ at the Wayback Machine
उद्धरणम्
[सम्पादयतु]- ↑ https://www.youtube.com/watch?v=EtNpQc3ONtU
- ↑ PM's first radio address 'Mann ki baat': Top 10 quotes
- ↑ Narendra Modi touches people through his Mann Ki Baat, leaves opposition squirming
- ↑ Modi goes on AIR
- ↑ ५.० ५.१ http://pib.nic.in/newsite/hindirelease.aspx?relid=30693
- ↑ http://www.ndtv.com/india-news/pm-narendra-modi-on-mann-ki-baat-trust-your-pradhan-sevak-every-penny-of-black-money-will-be-brought-687855
- ↑ http://www.livemint.com/Politics/hdhhF1FzazRPQCrZegyr8I/Narendra-Modis-All-India-Radio-chat-show-starts-Friday.html
- ↑ Gladdening to read wonderful response to 'Mann Ki Baat' radio address: Modi
- ↑ Mann Ki Baat from the PM
- ↑ http://www.narendramodi.in/mannkibaat/
- ↑ http://newsonair.nic.in/e-book-draft.pdf
- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2015-03-24. आह्रियत 2015-03-20.
- ↑ 10 highlights from Prime Minister Narendra Modi's 'Mann Ki Baat'
- ↑ Modi talks of govt schemes on ‘Mann ki Baat’ address
- ↑ Say NO to drugs, it's not cool: PM Modi on Mann ki Baat
- ↑ http://www.narendramodi.in/wp-content/plugins/html5-mp3-player-with-playlist/html5plus/html5full.php?id=4&iframe=1&rand=2
- ↑ 'Compete with yourself, not others': PM Narendra Modi tells students
- ↑ १८.० १८.१ [१]
- ↑ http://www.narendramodi.in/text-of-prime-ministers-mann-ki-baat-on-all-india-radio-5/