मनोविज्ञानस्य नाडीतन्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञानस्य नाडीतन्त्रस्य विवेचनेन मानसिकक्रियानुगतमस्तु लुङ्गजनितक्रियाणां स्वरूपमपि स्पष्टतरं भविष्यति। मस्तुलुङ्गं हि खलु मानसिकक्रियाणां शारीरकं यन्त्रम्। तस्य सङ्क्षिप्तविवरणेन मानसिकक्रियाभिः सह घनिष्ठसाहचर्यसम्बन्धोऽपि सुगमो भविष्यतीत्याशास्यते।

मनोविकासनिरूपणावसरे स्मर्तव्यमिदं यदाधुनिकविज्ञानेषु स्वनामधन्य ‘डारविन' महोदयैः प्रतिपादितस्य विकासवादस्य महान् प्रभावः समुपलभ्यते। श्रीस्पेन्सरमहोदयैरपि विकासवादो दर्शनक्षेत्रे सम्यक्तया प्रतिष्ठापितः। अत एवास्माकं विवेचनमपि न केवलमस्मिन्नेवाऽध्यायेऽपि तु समग्रेऽपि ग्रन्थे विकासवादप्रभावान्वितो भविष्यति। उत्पत्तिमूलकं मनोविज्ञानमस्मान् प्रारम्भिकं मूलतमं मानसिकक्रियाणां स्वरूपं निर्देशयति, अथवा मनोविकासस्य प्रथमावस्थामामवगमयति।

बुद्धिमन्यवहारस्य लक्षणम्[सम्पादयतु]

ननु किमस्ति बौद्धिकक्रियाया विनिगमकम्? अथवा केन लक्षणेन बुद्धरस्तित्वबोधो भवितुमर्हति? कथं वा प्राणिनः क्रिया मानसिकक्रियाः सन्ति न वेति निश्चेतव्यम्? प्राध्यापकटॉमशनमहोदयेनाऽस्य प्रश्नस्योत्तरमेवं प्रदत्तम्-“प्राणिनां तत्त्वतो व्यवहारस्तदैव भवति यदा तस्य व्यवहारस्य कर्ता स एव प्राणी, यस्मिंश्च व्यवहारे सुसम्बद्धानां क्रमयुक्तानां कर्मणामन्तर्भाव उपलभ्यते, यश्च निश्चितं कञ्चिद्व्यवहारमुद्दिश्य प्रवर्तितः, यश्च जीवनधारणार्थं सामञ्जस्यस्थापनार्थं नितान्तमपेक्षितो भवति''[१] इति। प्राणिनः क्रिया यदा उद्देश्यपूर्त्यर्थं प्रवर्तिता भवन्ति, यदा च स वातावरणं प्रति स्वकीयां प्रतिक्रियामेवंरूपेण प्रवर्तयति, येनास्य व्यक्तित्वमविच्छिन्नं संरक्षितञ्च भवेत्, येन चास्य प्राणधारणक्षमाणां स्वोद्देश्यानां पूर्तिरपि निर्बाधा भवेत्। एवम्भूताः क्रिया वस्तुतो बौद्धिक्यः क्रिया। यः प्राणी एवम्भूतां प्रतिक्रियां व्यवहर्तुं क्षमः, तस्य मानसिकक्रियान्वितत्वं बुद्धिमत्त्वं वा सुनिष्पन्नमेव।

ननु किं वृक्षाणामुद्भिज्जानामप्यस्ति एवम्भूतो मानसिकव्यवहारः? अथवा किमस्ति तेषामपि एवम्भूता बुद्धिमयी प्रतिक्रिया? लक्षितं हि तेषामौन्द्रिजं कर्म। यथा हि खाद्यग्रहणं रससञ्चारणं रासायनिकान्तःक्रियान्वितत्वं प्रजननञ्चेति। डाक्टरेत्युपाध्य लङ्कृतेन विश्वविश्रुतप्राणिशास्त्रविशारदेन श्रीजगदीशचन्द्रवसुनेदमपि साधितं यद्धि तेषां सुखदुःखानुभूतिमत्त्वमपि विद्यते। स्थावरत्वान्नास्ति तेषां गतिशीलत्वम्। अतस्तेषां बुद्धिसमन्विताः प्रतिक्रिया न भवन्ति, यासां लक्षणमस्माभिरुपरि स्पष्टीकृतम्, यतो हि प्रतिक्रियारूपव्यवहाराय गतिशीलत्वं नितान्तमपेक्षितं भवति। यत्किञ्चिद्धि तेषां सुखदुःखाद्यनु भूतिमत्त्वं वसुमहोदयेन वर्णितम्, तदपि विशिष्टेन्द्रियाभावादनभिव्यक्तस्वरूपत्वादगति शीलत्वाच्च न मनोविज्ञानप्रतिपाद्यान्तर्भावमर्हति। बुद्धिमद्व्यवहाराय व्यक्तेर्विशिष्टव्यक्तित्व प्रदर्शकाय समग्रशरीरप्रतिक्रियारूपाय समन्वितायेदमनिवार्यं निबन्धनं भवति यद् गतिमत्त्वम्, तदनुबन्धिक्रियाशालित्वमपि तस्यैव प्राणिनः सम्भवेत्। प्रतिक्रियोत्तेजको वस्तुतः स्थावरजीवने फल्वेव भवतः। अतो वयं बुद्धिमत्क्रियासम्बन्धि इदं विवेचनं पश्वादिप्राणि प्रतिक्रियापरिसीमितमेव करिष्यामः। पशुषु चेमाः प्रतिक्रिया बुद्धिसमन्विताः केवलशारीरिकरासायनिकप्रतिक्रियाभ्योऽतीवोच्चस्तरीया भवन्ति, यतो हि रासायनिक शारीरिकमात्रक्रिया उद्भिज्जादिप्राणिनामिव तत्तत्स्थानमितास्तदङ्गपरिमिता वा भवन्ति, मानसिकक्रियासमन्वितो व्यवहारश्चापरथा पदार्थेतरेषु प्राणीतरेषु वा स्वकीयं प्रभावमप्यावहति। या काचित् क्रिया उत्तेजकप्रतिक्रिययोर्मध्ये संवेदनप्रतिक्रिययोर्वा मध्ये सङ्घटते, सैव मानसिकक्रियेति नाम्ना सङ्गच्छते।

सुतरां बुद्धिजन्या क्रिया, किं वा मानसिकक्रिया सप्रयोजना भवति। किमप्यद्देश्य मवाप्तुं बुद्धिजन्या क्रिया प्रवर्तते। 'प्राध्यापकविलियमजेम्समहोदयेनाऽप्युक्तम् - “भावि प्रयोजनप्राप्त्यर्थं प्रवर्तितत्वं लक्ष्यसिद्ध्यनुकूलसाधनावचयत्वं चेति कस्यामपि परिस्थिती बुद्धिमत्त्वस्य मनः सत्त्वस्य वा लक्षणद्वयम्”[२] इति। दृश्यते हीदं सर्वत्र यद् वयमेतेन लक्षणद्वयेनैव यान्त्रिकमात्रक्रियाभ्यो बुद्धयन्वितक्रिया व्यावर्तामहे। जडपदार्थेषु दण्डचत्वरादिषु वयं कदापि बुद्ध्यन्वितत्वं न व्यवहरामः। निष्प्राणः पदार्थस्तु जडः, किन्तु प्राणिनामुद्भिज्जव्यतिरिक्तानामिदं खलु वैशिष्ट्यं भवति यत्ते स्वेच्छानुकूल मन्यत्क्रियापेक्षया कामपि प्रतिक्रियां कर्तुमकर्तुमन्यथाकर्तुं वा प्रभवन्ति।

निम्नस्तरीयप्राणिनां व्यवहाराध्ययनम्[सम्पादयतु]

अद्यत्वे निम्नस्तरीयसूक्ष्मतमप्राणिनां जीवनवृत्तमपि मनोवैज्ञानिकदृष्ट्या पर्यालोचितं वर्तते। एतेषु निम्नस्तरीयप्राणिषु केचन कीटाणवः सन्ति, येषां नामान्यङ्गलभाषायाम् अमीबा-पैरेमीशियास्टेण्टरप्रभृतयः प्रथिताः सन्ति। वयमत्र अमीवेति नाम्नः कीटाणुकस्य जीवनवृत्तं किञ्चिदुपस्थापयामः येन तेषां प्रारम्भिकतमे व्यवहारेऽपि मानसिकक्रियाणां सद्भावो बोधगम्यो भवेत्।

अमीबम् - सूक्ष्मतमं हीदं कीटाणुकम्। इदन्तु नाडीकोषाणुकैकनिर्मितं भवति । अस्य परिमाणमपि सूक्ष्मतमवीर्यैकविन्दु समं भवति। अस्य स्वरूपमपि नाडीकोषाणुकवदेव भवति, यथा हि अस्यैका केन्द्रकणिका भवति, सूक्ष्मतमप्रतानयुतं च भवति, कोमलतम कोषसंरक्षितञ्चेदं वर्तत इति। इदं कीटाणुकं जीवनोपयोगीनि खाद्यग्रहणमलत्यागरक्तसञ्चारण प्रजननादिकर्माण्यपि करोति। एतेभ्य सर्वेभ्य उपरितमं वयमस्य गमनशीलत्वं संवेदन ग्राहित्वञ्चापि पश्यामः। इदं कीटाणुकं प्राणिवदुत्तेजकं प्रति प्रतिक्रियां कर्तुं समर्थं भवति, अपि चानेनोत्तेजकस्य संवेदनं यथाकथञ्चित्सम्पाद्यते। महदाश्चर्यमिदं यदनेनैतानि कर्माणि विशिष्टेन्द्रियाङ्गं विनैव मस्तुलुङ्गादिनाड़ी तन्त्रमन्तरैव क्रियन्ते।[३]

अमीबस्य जीवनवृत्तं विशेषतः खाद्यानुसन्धानवेलायां कष्टप्रदोत्तेजकनिवारणक्रियासु च दर्शनीयं भवति। यदीदं कष्टप्रदं किञ्चिदुत्तेजकमवाप्नोति, तदेदं स्वकीयमुत्तेजकसम्पृक्ताङ्गं सङ्कोचयति। यदि चोत्तेजकमुग्रतरं भवति, तदेदं स्वकीयमितरप्रतानं विकाशयति, उत्तेजकसम्पृक्ताङ्गं च सङ्कोचयति। यद्यनेन सह सम्प्रत्यपि उग्रतरस्योत्तेजकस्य सम्पर्को भवत्येव, तदेदमन्यदिशमुपसर्पति। अस्य प्रतिक्रिययेदं स्पष्टतरं ज्ञातुं शक्यते, यदिदं कष्टप्रदोत्तेजकवारणार्थं व्यरहाररूपप्रतिक्रियायां संलग्नं भवति। सुखदप्रतिक्रियायाः प्रभावो विशेषतो नोल्लेखनीयो भवति, किन्तु कष्टप्रदोत्तेजकादात्मानं संरक्षितुमस्य सततप्रयत्न शीलत्वं दृश्यत एव। अमीबस्य क्षुधातत्वमपि यदा कदा द्रष्टुं शक्यते। इदमशान्तं सञ्जायते, क्रियाशीलञ्च भवति, स्वकीयं खाद्यमनुसन्दधातुमपि प्रयतते। यदेदं भोज्य मवाप्नोति, तदेदं तं लिम्पति, तमात्मसाच्च कुरुते। प्राध्यापक-जैनिङ्गसमहोदयेनास्यामीबस्य वृत्तस्याऽध्ययनं कृत्वा तदित्थं वर्णितम्- “अस्यामीबेति नाम्नः प्राणिनश्चिरमध्ययनं कृत्वाऽयं लेखकः सुनिश्चितं मन्यते यद्धि यदि अमीबं किंचिन्मध्यमपरिमाणशाली प्राण्यभूत्, येनाऽस्य साक्षात्कारः दैनिकजीवनेऽपि सर्वसुलभो भवेत्तर्हि अस्य वृत्तं कुक्कुरवदेव सुखदुःखक्षुधाप्रयत्नेच्छादिसमन्वितं सुप्रथितमेव सम्भवेदिति'।[४]'' सङ्खपत इदं वक्तुं शक्यते यदस्यामीबस्य यस्य दर्शनमप्यणुवीक्षयन्त्रसाहाय्येनैव सुलभं भवति, जीवनवृत्तं सुनिश्चितमेव बुद्धिमद्व्यवहारस्य प्रारम्भिकतमस्वरूप-लक्षणान्वितं भवतीति।

एवमेव पैरेमीशियास्टैण्टरेत्याङ्गलभाषीसंज्ञाप्रथितं कीटाणुकद्वयमपि प्रारम्भिकतमं मानसिकक्रियापरिचालितं व्यवहारस्य रूपं दिग्दर्शयति। तयोः कीटाणुकयोः प्रतिक्रिये अपि सप्रयोजके वातावरणस्थोत्तेजकेन साकं सामञ्जस्यस्थापनक्षमे भवतः। प्राध्यापकजैनिङ्गमहोदयेन स्टैण्टरनामककीटाणुकस्याऽपि पर्यवेक्षणं कृतम्। तेषां मते इदं कीटाणुकं न केवलमुत्तेजकानुकूलप्रतिक्रियां कर्तुं क्षमं भवत्यपि तु पूर्वानुभवात् शिक्षणसामर्थ्यमपि धार्यते, यतो ह्यस्योत्तरकालिक्यां प्रतिक्रियायां पूर्वानुभवानां प्रभावः संलक्ष्यत एव। सुतरां मनोविकासस्य प्रारम्भिकतमा सुसूक्ष्मा सम्प्रयोजनव्यवहारक्षमाऽवस्था सिद्धा भवतीति महानाश्चर्यस्य विषयः।

मनोविकासस्य तदुत्तरं विवरणम् - विकासवादरहस्यञ्च[सम्पादयतु]

अतः प्रभृतीदं कीटाणुकानां निम्नस्तरीयपशूनाञ्चावलोकनेन मानसिकक्रियाणां विकासावगमं कर्तुं शक्यते। मनोविकासानुसारमेव तत्सहकृतशरीररचनाविकासोऽपि क्रमशः संवर्धते। एककोषात्मकस्यामीबकीटाणुकस्याऽस्माभिः परीक्षणं कृतमेव। तस्यैककोषात्मकत्वाद्विभिन्नेन्द्रियाणां विशिष्टसंवेदनानुभूतिर्विविधेन्द्रियैर्नैव सम्पद्यते। तस्य तु सर्वं शरीरमेव सर्वेन्द्रियालोचनक्षमतामव्याकृतरूपेण बिभर्ति। विकास शृङ्खलायामेककोषात्मकं कीटाणुकं क्रमशो बहुकोषात्मकं सञ्जायते। दृश्यते हि खलु कोट्यधिककोषात्मकं मानुषं शरीरम्। यावन्ति कोषाणुकानि वर्धन्ते, तावन्त्येव तेषां विशिष्टकार्याण्यप्याविर्भवन्ति। कोषाणुकमेकन्तु एकमेव विशिष्टं कार्य सम्पादयति। कोषाणुकानां वृद्ध्या सहकृत एवेन्द्रियाणां विशिष्टकार्याणां विकासोऽपि सञ्जायते। मानसिकक्रियाणां विकाससमकालमेव शरीररचनायामपि क्रमशो विकासो जाटिल्यञ्च भवत्येव। कोषाणुकानां क्रियावैविध्यं क्रियावैशिष्ट्यमप्यावहति। विकासवादस्य मूलभूतमिदं मतद्वयम्। परिस्थितिवैषम्ये केवलं शक्तिशालिन एव स्वसत्तासंरक्षणे समर्था भवन्ति। निर्बलानां मरणादतिरिक्तं कुत्रापि गतिर्न विद्यते सङ्घर्षमयेऽस्मिन् संसारे। इदन्तु प्रथम मतं विकासवादिनाम्। व्यासेनाप्यस्य व्याख्यानमेवं कृतमासीत् -

अहस्तानि सहस्तानामपदानि चतुष्पदाम्।

फल्गूनि तत्र महतां जीवो जीवस्य जीवनम्।।

इदमेव मात्स्यन्यायमिति नाम्ना प्रथते। डारविनमहोदयैरिदं साम्प्रतं प्रतिपादितम। स्वसत्तायै अनवरतं प्रवर्तमाने सङ्घर्षे केवलं शक्तिमत एव योग्यतमस्य जीवनक्षमत्वं सम्भवति नान्येषामिति। योग्यतमस्य लक्षणं हि खलु विकासवादेऽस्ति शक्तिमत्त्वम्।

द्वितीयं विकासवादिनां डारविनप्रभृतीनां मतमस्ति, यद्धि ये प्राणिनो वातावरणेन साकं स्वारस्यं भजन्ते, परिस्थित्यनुकूलं स्वजीवनयापनविधौ परिवर्तनं कुर्वन्ति, त एव जीवनरक्षणे समर्था भवन्ति। अन्ये च ये वातावरणेन सह सामञ्जस्यस्थापने योग्य परिवर्तनं कर्तुमसमर्था भवन्ति, त एव नूनं विनश्यन्ति। आवश्यकता आविष्कारस्य जननी भवति। वातावरणेन साकं स्वारस्यस्थापनवेलायामावश्यकतानुसारं यानि परिवर्तनानि प्राणिभिर्गहीतानि भवन्ति, तान्येव उत्तरकालिकानां तेषां सन्ततीनामविभाज्यशरीरलक्षणं भविष्यन्ति। अलमनेनात्र विकासवादव्याख्यानेन। अवशिष्टां तु वयं विकासवादव्याख्यां वातावरण-प्रभाव-पैतृकगुणसङ्क्रमणविचारावसरे विस्तरतोऽनुव्याख्यास्यामः।

प्रकृते तु विकासवादाभिमतां द्वितीयां प्रतिज्ञामवलम्ब्येदं वक्तव्यं भवति यत्सूक्ष्मतमानि कोषाणुकानि परिस्थितिसम्प्राप्तोत्तेजकप्रतिक्रियामनेकविधामनुभूय तदनुसारमेव कोषेतरवर्धनेन स्वकीयां जीवनधारणक्षमतां संरक्षन्ति। यदि च वातावरणामुकूलोत्तेजकजनितप्रतिक्रियानुसारिणी तेषामभिवृद्धिर्न भवेत्, तर्हि तेषां विनाशोऽप्यवश्यम्भाव्येव वातावरणमभिमुखीकृत्यैव प्राणिनां प्रतिक्रियावैविध्यं सञ्जायते। प्रतिक्रियावैविध्यनुसारमेव प्राणिनामिन्द्रियाणां शरीरावयवानाञ्च विकासोऽपि सञ्जायते। शरीरावयवानामिन्द्रियाणां विशिष्टकर्मणां चाभि वृद्धिर्विशिष्टकोषाणुकाभिवृद्धि समाश्रित्यैव जायते। यदि विभिन्नानि कोषाणुकानि स्वकीयानि विशिष्टकर्माणि प्रतिक्रियाङ्गीभूतानि न सम्पादयेयुः, तर्हि जीवनसङ्घर्षे तस्य प्राणिनोऽयोग्यत्वं सिद्धं भविष्यति, वातावरणेन सह सामञ्जस्यस्थापनक्षमत्वात्तस्य नाशोऽप्यचिरादेव नूनं भविष्यति।

अत एव प्रतिक्रियावैविध्यं शरीरावयवविकासाश्रितम्, शरीरावयवविकासोऽपि कोषाणुकाभिवृद्धिमित एव भवति। कोषाणुकेष्वपि सततं सङ्घर्षो भवत्येव। अतः स्वकीयं वैशिष्ट्यमन्तरा किमपि कीटाणुकं स्वसत्तामभिरक्षितुं न शक्नोति। कोषाणुक बाहुल्यमात्रेणैव विकासो न सम्भवति, यदि तेषां सङ्घटनं' सुपरिचालनं वैशिष्ट्यानुकारित्वं न' भवेत्। सङ्घटनं विना, वैशिष्ट्यादृते, जीवनं धारयितुं प्राणी न प्रभवति। केवलं कोषाणुकबाहुल्यं तु जीवनं मरणञ्चापि द्वयमेव सूचयति। नैतेन जीवनधारणक्षमत्वं प्रभवति। अत एवेदमावश्यकं यत्तानि सर्वाणि कोषाणुकान्यसंख्याकानि प्राणिनः समग्रशरीररक्षार्थं स्वकीयकर्त्तव्यं सम्पादयन्तु। एतावतैव सङ्घटनेन सामूहिकी प्रतिक्रिया समग्रशरीरस्य प्रतिक्रिया विभिन्नैः कोषाणुकैः सम्पाद्यते। ननु सङ्घटनस्य कोऽर्थः? यदि बहूनि कोषाणुकानि स्वरक्षार्थ स्वकीयसमग्रसमूहरूपशरीरसंरक्षणार्थञ्च प्रयतन्ते, तदैव तेषां सङ्घटनं भवति। नहि कोषबाहुल्येन प्राणी प्राणी भवत्यपि तु कोषाणुकानां सङ्घटनेन। सर्वेषां पारस्परिककलहेन नैव समग्रशरीरस्य स्थायित्वं धारणं वा सम्भवति।

अतः सङ्घटनार्थे केन्द्रीकरणमप्यावश्यकम्। केन्द्रीकरणेन' यथा राजकीयप्रशासनेऽ राजकताप्रशमनं क्रियते, तथैव विविधानां कोषाणुकानामपि केन्द्रीकरणं शरीररक्षार्थं जीवनधारणार्थमपेक्ष्यम्। केन्द्रीकरणं सञ्चालनार्थमनिवार्यं भवति। यदि सर्वाणि कोषाणुकानि विभिन्नदिशि कार्यं यथेच्छं कुर्वन्ति, तर्हि शरीरयात्राऽवि दुर्वहा भवेत्, तेषामुच्छृङ्खलत्वा न्मरणमपि नूनमापद्येत। प्राणिन एकमप्यङ्गं तत्स्वरूपकमस्ति, केवलं समग्रशरीरकार्य सम्पादने स्वकीयस्वकीययोगदानेन स्वकार्यनिर्वहणेन च। समग्राय शरीरायाङ्गम्, अङ्गाय च समग्रं शरीरमितीदमेव सङ्घटनसञ्चालनकेन्द्रीकरणादिपदैराकूतम्। अत एव यथा यथा प्राणिनां मानसिकक्रियाणां व्यवहाराभिव्यक्तप्रतिक्रियाणाञ्च विकासो जाटिल्यञ्चाभिवर्धेते, उच्चस्तरीयामवस्थामवाप्नुतः, तथा तथा प्राणिनां शरीरावयवानामप्यभिवृद्धिः समकालमेव भवति। शरीरावयवानामन्यतमं समस्तुलुङ्ग नाडीतन्त्रमस्ति। मानसिकक्रियाणां सौकर्यं नाडीतन्त्रमन्तरा, विविधेन्द्रियविकासं विना नैव भवति। आमीबान्मनुष्यपर्यन्तं प्राणिनां वातावरणजनितावश्यकतानुकूलमेवाऽङ्गानां विकास आविर्भावो वा विविधविकासस्तरेषु समजनि।

मनोविकासस्य द्विधा प्रगतिः[सम्पादयतु]

अतः प्रभृति मनोविकासस्य शृङ्खला मार्गद्वयमनुसरति। प्रथमो मार्गस्तु कीटाणुकानां विकासशृङ्घलां नयति। द्वितीयश्च पृष्ठवंशतां प्राणिनां विकासशृङ्खलायां पल्लवितो भवति। अत्र विकासक्रमोऽपि दर्शनीयः। कीटाणुकानां प्राणिनां शरीरयन्त्रं तु प्रकृतिजनितवातावरणानुकूलप्रतिक्रियाप्रदानक्षमं स्वभावत एव भवति। तेषां प्रतिक्रिया साफल्यकारणं चास्ति मूलप्रवृत्तीनां जन्मत एव सम्यग्विकासवत्त्वम्। निम्नस्तरीया हि खलु कीटाणुकादिप्राणिनः प्रायशो नियतप्रतिक्रियावन्तो भवन्ति। प्रकृतिप्रदत्तवातावरणे यदि किञ्चिदकस्मात् परिवर्तनं भवेत्, तर्हि नास्ति तेषां तादृशी क्षमता यादृशी वातावरण परिवर्तनेन मूलप्रवृत्तीनां परिष्कारेण परिवर्तनेन वाऽपेक्ष्यते। वैषम्यसंवलितपरिस्थितौ हि ते त्रस्ता भवन्ति। किन्तु पृष्ठवंशवतां मनुष्यादिप्राणिनां शरीरयन्त्रं न केवलं मूलप्रवृत्तिमात्रनियन्त्रितं भवति, तेषां शारीररचनाऽपि सुकुमारतरा भवति।

बुद्धिविकासमार्ग एवेद्दशो यस्मिन् नियतमूलप्रवृत्तिजन्यप्रौढप्रतिक्रियायाः क्रमशो ह्रासः प्रादुर्भवति, यस्मिंश्च नियतप्रतिक्रियायाः स्थाने परिवर्तनशीलं वातावरणानुकूलं प्राणिवृत्तं सम्भवति। पृष्ठवंश वतां प्राणिनां शरीररचनावैशिष्ट्यमिदमेव भवति यद्धि समुपस्थिते वैषम्ये ते वातावरणेन सह स्वजीवनसामञ्जस्यं प्राप्तुं शक्नुवन्ति। गवेषणशीलत्वमनुभूतविषयोपयोगकारित्वञ्च सामञ्जस्यस्य स्थापने नितरामपेक्ष्यम्। कीदृशमिदं पृष्ठवंशवतां शरीररचनायाः सौकुमार्यम्? केन प्रकारेण चास्यानुभूतविषयोपयोगसामर्थ्य वर्धते, इत्यस्माभिरग्रे विचार्यते। अत्र तु केवलमेतावदेव वक्तव्यं यदनियतप्रतिक्रियामच्छरीरान्तर्गतनाडीतन्त्रं पृष्ठवंशवतां प्राणिनां महदुपकारकं भवति। नखदंशचञ्चुदन्तविषग्रन्थिविरहितोऽपि मानवः प्रकृत्या स्वामी भवति, प्रौढसंवेदनशक्तिमत्त्वात्, केन्द्रितनाडीतन्त्रसहितत्वात्, स्वोद्देश्यप्राप्त्यर्थं चेष्टावाहिसंस्थानविलसितत्वाच्च।

किं तर्हि शरीरपरिमाणविकास एव पृष्ठवंशवतां प्राणिनां बुद्ध्युत्कर्षप्रयोजकम्? अत्रोच्यते, नहि शरीरपरिमाणमात्रविकासेन बुद्ध्युत्कर्षों द्योत्यते। अस्ति खलु गजराजो यः प्राणिनां शरीरविकासस्य चरमां कोटिं भजते। किन्तु तस्य मस्तुलुङ्गपरिणामं नैव शरीरपरिमाणानुपातमनुसरति। अपि चाल्पशरीरवानयं मनुष्यः पीठस्थस्तमनुशास्ति। अपि चाल्पीयसैव शरीरपरिमाणेनायं वानरो मनोविकासशृङ्खलापेक्षया मानवसनिकृष्टतम पूर्वगामिविकासशृङ्खलां विराजते। बुद्ध्युत्कर्षस्य नास्ति मस्तुलुङ्गपरिमाणमेव शरीरपरिमाणं वा विनिगमकम्। अपि तु मस्तुलुङ्गस्थसीतानां प्रौढत्वं नाडीनाञ्चेतरेतराश्लिष्टत्वमिति बुद्ध्युत्कर्षमावहति विकासशृङ्खलायाम्। एतत्सर्वमस्माभिर्नाडीतन्त्रमग्रे विशदीक्रियते।

नाडीतन्त्रम्[सम्पादयतु]

महदिदं खलु सुरभारतेः सौभाग्यं यत्साम्प्रतं प्राणाचार्या महामहोपाध्यायाः श्रीगणनाथसेनशर्मसरस्वतीमहाशयाः प्रत्यक्षशारीरं नाडीखण्डविलसितं प्रणीतवन्तः। तैस्तु स्वकीयनिबन्धेऽर्वाचीनतमा सर्वा नाडीतन्त्रविषयकसामग्री विशदत्वेन तत्र विवेचिता। अस्माभिरत्र तैरभिमता एव शारीरशास्त्रपारिभाषिकपदावल्यङ्गीकृता। अस्माकं विवेचनमपि तान् भिषग्वर्याननुसरति, यत्र तत्राचीनमनोवैज्ञानिकानामनुसन्धानमवलम्ब्याऽपि गुम्फितमस्ति। समग्रं नाडीतन्त्रमस्माभिर्विवेचनसौकर्याय निम्नलिखितवर्गेषु विभज्यते

१- (त्वगाच्छन्नं) परिसरीयं नाडीतन्त्रम्

(अ) संज्ञावाहि-नाडी-समूहः।

(आ) चेष्टावाहिनाडीजालम्।

२- मस्तुलुङ्गम्

(अ) मस्तिष्कम्, बृहन्मस्तिष्कं वा। अथवा, मस्तिष्कसौषुम्निक-नाडीतन्त्रम्

(आ) अणुमस्तिष्कम्) धम्मिल्लकम्।

(इ) सेतुमस्तिष्कम् उष्णीक्कम्।

(ई) सुषुम्णाशीर्षकम्।

(उ) सौषुम्णकतन्त्रम्।

३ - स्वतन्त्रं नाडीतन्त्रम्

(अ) स्वतन्त्रनाडीमण्डलम्।

(आ) परिस्वतन्त्रनाडीमण्डलम्।

(इ) विकीर्णा नाडीग्रन्थयः।

एतानि विविधाङ्गानि विशदतोऽग्रे विवर्ण्यन्ते। तेषां च क्रियाकलापस्य मनोगताऽवस्थासु बाह्यव्यवहारेषु च कः प्रभावः समुत्पद्यत इत्यपि विवेचनास्पदं नूनं प्राप्स्यते।

हृदयमस्तिष्कयोः स्वरूपम्[सम्पादयतु]

प्राचीनशास्त्राणामवलोकनेनेदं प्रतिभाति यन्मस्तिकस्य स्वरूपावधारणे कश्चन महान् बुद्धिविभ्रम आसीत्। चैतन्याधिष्ठानस्य वर्णनावसरे हृदयस्यैव निर्देशो दरीदृश्यते प्रायशो न तु मस्तिष्कस्य। वयमप्यत्र हृदयव्यावर्तकमस्तिष्कस्वरूपविवेचनावसरे मस्तुलुङ्ग पर्यायमेव मस्तिष्कं मन्यामहे। मस्तिष्कं हि खलु मस्तुलुङ्गस्य सर्वोपरि महत्त्वपूर्णमङ्गमस्ति, यथाऽस्माभिरग्रे प्रदर्श्यत एव। अत एवं प्रायशो जनैः मस्तिष्कशब्द एव मस्तुलुङ्गस्थाने प्रयुज्यते सामान्यग्रन्थेषु। परन्तु आयुर्वेदविज्ञानं मनोविज्ञानञ्च मस्तिष्कं मस्तुलुङ्गाङ्गत्वेनैव स्वीकुरुतः। अस्तु। किं हृदयमेव प्राचीनाचार्यैश्चैतन्याश्रयत्वेन विदितमासीत्? अथवा किं हृदयमेव मस्तुलुङ्गस्यापरनामस्ति? आहोस्वित् किमप्यन्यत्तस्य कार्य विद्यते? एतत्सर्वमस्माभिरत्र विचारणीयम्। “चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः" इत्यमरः। अत्र हृदयं मानसपर्यायवाचकत्वेन वर्णितममरसिंहाचार्यैः। भवभूतिरचितमालतीमाधवे कपालकुण्डलाया [५]'इयमुक्तिर्भारतीययोगतन्त्रायुर्वेदाचार्याणां विचारसरणिं स्फुटयति। तथा हि -

षडधिकदशनाडीचक्रमध्यस्थितात्मा

हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः।

अविचलितमनोभिः साधकैर्मृग्यमाणः

स जयति परिणद्धः शक्तिभिः शक्तिनाथः।।[६]

अत्रेदं स्पष्टमेव यद् हृदयं नाडीचक्रमध्यम्, तदेवात्मरूपचैतन्याधिष्ठानम्। व्याख्यातमपि चेत्थं त्रिपुरारिसूरिणा भावप्रदीपिकायाम् -

“षडधिका दश षोडश या नाड्यस्तासां यच्चक्रं मण्डलं पिण्डरूपं तस्य मध्यं हृदयं तत्र स्थित आत्मा स्वरूपं यस्य सः। नाडीनामनन्तत्वेऽपि प्रधाननाडीनामिडादीनां षोडशसंख्यात्वात् षडधिकदशेत्युक्तम्। इडादयो नाड्यश्च -

इडा च पिङ्गला चैव सुषुम्णा चापरा स्मृता।

गान्धारी हस्तिजिह्वा च पूषा वसुवशा तथा।।

अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता।

तालुजिह्वेभजिह्वा च विजया कामदा परा।।

अमृता बहुला नाम नाड्यो वायुसमीरिताः ।।इति।[७]

महाकविर्भवभूतिर्योगतन्त्रादीनां प्रगाढपण्डित आसीत्। न केवलं तेनैवेदं मतमित्थं प्रदर्शितम्, भगवता श्रीकृष्णेनाऽप्येवमुक्तम्-“ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति''[८] इति। श्रूयते चापि तैत्तिरीयोपनिषदि-“स य एषोऽन्तर्हदय आकाश तस्मिन्नयं पुरुषो मनोमयः'[९] इति। ऋग्वेदीयनासदीयसूक्तेऽप्येवं हृदयं मनीषायतनत्वेन वर्णितं श्रूयते -

कामस्तदने समवर्तताधि मनसो रेतः प्रथमं यदासीत्।

सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा।। इति।[१०]

सुश्रुतेनाऽपि हृदयं चेतनास्थानमिति मतं स्वीकृतम्। यथा -

“तद् हृदयं विशेषेण चेतनास्थानं हृदयाधिष्ठानं मतम्।” इति। तत्र ढल्हणटीकायाम्-“तद् विशेषेण चेतनास्थानं चैतन्यास्पदम, सामान्येन तु सकलशरीरमेव चेतनास्थानम्। तदुक्तं चरके-“वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः । केशलोमनखाग्रान्नमलद्रवगुणैर्विना''।। इति।[११]

वैद्यकेषु ग्रन्थेषु “बुद्धेर्निर्वासं हृदयं प्रदूष्ये' इत्यादीनि वाक्यानि दरीदृश्यन्ते। यथा -

"तैरल्पसत्त्वस्य यलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य'' इति। [१२]

चरकेणाऽपि भगवतामात्रेयमहर्षीणां मतमेवमुपस्थापितम् -

अर्थे दश महामूलाः सिराः सक्ता महाफलाः।

महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः।।३।।

षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्।

आत्मा च सगुणश्चैताश्चिन्त्यं च हृदि संश्रितम्।।४।।

प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते।

गोपानसीनामागारकर्णिकेवार्थचिन्तकैः।।५।।

तस्योपघातान्मूर्छायं भेदान्मरणमृच्छति।

यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्।।६।।

तत् परस्यौजसः स्थानं तत्र चैतन्यसङ्ग्रहः।

हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ।।७।। इति। [१३]

अत्राऽपि हृदयं चेतनास्थानमिति मतमेव पुष्टीकृतम्। मन्ये चरकवाग्भट्टादय आचार्या अस्मिन् विषये दोलायितमानसा एवासन्। यतो हि तेषां ग्रन्थेषूत्तमाङ्गमपि चैतन्यप्राणेन्द्रियाद्यधिष्ठानरूपत्वेन वर्णितमुपलभ्यते। तथा हि -

प्राणाः प्राणभृतां यत्राश्रिता सर्वेन्द्रियाणि च।

यदुत्तमाङ्गमङ्गानां शिरस्तदभिधीयते ।।[१४]

अपि च वृद्धवाग्भट्टैः -

ऊर्ध्वमूलमधःशाखमृषयः पुरुषं विदुः।

मूलप्रहारिणस्तस्माद्रोगान् शीघ्रतरं जयेत्।।

सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः।

तेन तस्योत्तमाङ्गस्य रक्षायामादृतो भवेत्।।

ननु किम् ‘इन्द्रियाणि' इति पदमिन्द्रियगोलकसूचकं नास्ति? अत्रोच्यते यदि ‘इन्द्रियाणि' इति पदमत्र इन्द्रियगोलकं सूचयति, तर्हि चरकसंहितोद्धृतपूर्वोक्त्या सह सुसङ्गतिर्नूनं भविष्यति। परन्तु अस्माकं त्विदं प्रतिभाति यद्यपि उपर्युपन्यस्तं मतं प्रायेणाङ्गीकृतमासीत् पूर्वाचार्यैः, तथाप्यासन् केचन शौनकादिमहर्षयः येषां मते मस्तुलुङ्गमेव चेतनास्थानमुररीकृतमासीत्। श्रूयते हि खलु ऋग्वेदे -

अर्वाग्विलश्चमस ऊर्ध्वबुध्नः तस्मिन् यशो निहितं विश्वरूपम्।

तस्यासन् ऋषयः सप्ततीरे वागष्टमी ब्रह्मणा संविदाना।।

उपर्युक्ते मन्त्रे वर्णितमर्वाग्विलं चमस इर्वर्बुबुध्नं नूनमुत्तमाङ्गमेव करोटिपटल संरक्षितम्। तस्मिन् यश इव भास्वरं विश्वरूपं नानारूपं सर्वात्मकमिति यावत्, चैतन्यं चैतन्यरूप आत्मा वा निहितः सुरक्षितः सन् विद्यते। तस्य चमसरूपोत्तमाङ्गस्य पार्श्वे सप्त ऋषयः सप्तेन्द्रियाणीति यावत्, यथा द्वौ कर्णी, द्वे नासिके, द्वे चक्षषी, एवं रसनमिति सप्त ज्ञानेन्द्रियाणि सन्तीति।

"ऋषिमन्त्रदर्शनात्' इति यास्काचार्याः। यतो हि सप्तज्ञानेन्द्रियाणि प्रत्यक्षं दर्शनाख्यं व्यापारं कुर्वन्त्येव। अष्टमी वाग्देवताऽपि तस्योत्तमाङ्गस्य तीर एव ब्रह्मणा सह संवेदनं कुर्वन्ती तत्रैव विद्यत इत्यभिसन्धिः। शौनकमहर्षिमतं तु सुश्रुतेनोल्लिखितम्।

तद्यथा- "इत्याह शौनकः, शिरोमूलत्वात् प्रधानेन्द्रियाणामिति ॥[१५] अथर्ववेदेऽपि अयोध्याव्यपदेशेन मस्तुलुङ्गमेव चेतनायतनरूपेण वर्णितमुपलभ्यत इति । यथा -

मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्।

मस्तिष्कादूर्ध्वः रयत् पवमानोऽधिशीर्षतः।।२५।।

तद्वाऽथर्वणः शिरो देवकोशः समुत्थितः।

तत् प्राणोऽभिरक्षति शिरोऽन्नमयो मनः।।२६।।

ऊोनु सृष्टा ३ तिर्यङ् नु सृष्टा ३ ः सर्वा दिशं पुरुष आबभूर्वा ३।।

पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते।।२८।।

यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम्।

तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः।।२९।।

अष्टचक्रा नवद्वारा देवानां पूरयोध्या।

तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः।।३१।।

तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते।

तस्मिन् यद् यक्षमातन्वत् तद्वै ब्रह्मविदो विदुः।।३२।। [१६]

उपर्युक्तं विवेचनमस्माभिरनुसन्धानदृष्ट्यैव प्रस्तुतम्। नायमस्माकमभिनिवेशो यत्प्राचीनं सर्वमुपादेयमर्वाचीनं सर्वं फल्गु इति। वैज्ञानिकसरणिस्तूदारा भवति। तस्या मलमन्त्रस्तु कालिदासेनैव पूर्वमुद्घोषित आसीत्। तथा हि -

पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।

सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः।। [१७]

यन्मतं प्रेक्षावद्भिनिरीक्षण-प्रत्यक्ष-प्रयोगादिभिः सुनिश्चितं जायते, तदेवास्माभिः स्वीकरणीयम्। विज्ञानन्तु निष्पक्षं स्वार्थाभिनिवेशरहितं ज्ञानं भवतीत्यस्माभिः पूर्वमेव परिभाषावर्णनावसरे स्पष्टीकृतम्। अर्वाचीनायुर्वेदशारीरकमनोविज्ञानाऽनुसन्धानैः सम्प्रति त्विदं वज्रलेपायितं तिष्ठति यन्नास्ति हृदयं चेतनाधिष्ठानम्। चेतनाधिष्ठानन्तु मस्तुलुङ्गं नाडीतन्त्रसमन्वितमस्ति। हृदयन्तु केवलं मांसमयं पिण्डम्, रक्तसंस्थानस्य केन्द्रीभूतमवतिष्ठते। तत्त् कथमपि चेतनास्थानं चेतनाधिष्ठानमिति यावन्न भवितुमर्हतीति सिद्धमेव शारीरविज्ञानेन शारीरकमनोविज्ञानेन च निष्प्रत्यूहम्। महामहोपाध्यायपादैः श्रीगणनाथसेन सरस्वतीमहोदयैरपि स्वकीये ग्रन्थे प्रत्यक्षशारीर इदं स्वीकृतम्। तैरुक्तम्[१८] - न च मांसमयमेव हृद्यन्त्रं तदिति (चेतनास्थानमिति) वाच्यम्, तद्धि न कथमपि तादृशलक्षणाभिधेयं भवितुमर्हति, असम्भवात्। चरकेण रसवहानां स्रोतसां हृदयं मूलमिति मतमन्यत्र वर्णितमेव।[१९] अत एव सिद्धं नाडीचक्रस्य मूलं मस्तुलुङ्ग चेतनास्थानम्। नास्ति हृदयं चेतनास्थानमपि तु रक्तसंस्थानकेन्द्रम्, यस्मात् सिरा धमन्यश्च विविधशरीराङ्गानि प्रति प्रसरन्ति, हृदयन्तु वक्षसि स्थितम्। मस्तुलुङ्गस्य मस्तिष्कस्य वा स्थानं मुख्यतः करोटिपरिमितमेवास्ति। अतश्च सिद्धं तयोर्द्धयोः स्थानभेदकार्यभेदोपोद्वलितं महत्पार्थक्यम्।

नाडीस्वरूपम्[सम्पादयतु]

एवमेव नाडीस्नायुप्रयोगोऽपि स्वच्छन्दतः कृतो दृश्यते प्राचीनायुर्वेदग्रन्थेषु। विशेषतः प्रकाशितेषु आर्यभाषायामद्यतनेषु मनोविज्ञान-शिक्षाविज्ञानपुस्तकेषु नाडीशब्दस्य स्थाने स्नायुशब्दो व्यवहृतो दृश्यन्ते। तत्तु न समीचीनम्। स्नायुशब्दव्याख्यानावसरे सुश्रुतेनोक्तम् -

स्नायुश्चतुर्विधा विद्यात्तास्तु सर्वा निबोध मे।

प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा।।

प्रातानवत्यः शाखासु सर्वसन्धिषुि चाप्यथ।

वृत्तास्तु कण्डराः सर्वाः विज्ञेयाः कुशलैरिह।।

आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु।

पार्थोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ।।

नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्वृता।

भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता।।

एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः।

स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः।।[२०]

एवमुक्तप्रकारेण स्नायूनां चत्वारः प्रकाराः सन्ति, यथा प्रतानवत्यः, वृत्ताः, पृथुलाः, शुषिरा इति। स्नायूनामन्यत्प्रकारेणाऽपि द्विधा वर्गीकरणं कर्तुं शक्यते, यथा स्नायु-संहतिः स्नायुव्यक्तिश्चेति । अनेन वर्गीकरणेन स्नायुशब्दार्थद्वयमपि व्यज्यते। स्नायुसंहतिभिः स्नायुभिः सन्धयो दृढीकृता भवन्ति। स्नायुव्यक्तिस्तु स्नायुप्रतानानि द्योतयति, सूक्ष्माणि यानि पक्वाशयामाशयवस्तिभागेषु प्रसरितानि भवन्ति।

नाड्यस्तु स्नायुव्यतिरिक्ता भवन्ति। ताश्च द्विविधा भवन्ति, संज्ञावहा श्चेष्टावहा श्चेति। ता एव सर्वदेहगानि स्रोतांसि भवन्ति। ताः सूक्ष्माणां नाडीकन्दाणुकानामवयवभूताः। संज्ञावहा नाड्यो विविधाङ्गेभ्यः संवेदनं मस्तुलुङ्गमानयन्ति। चेष्टावहाश्च नाड्यो मस्तुलुङ्गदाज्ञां संवेदनजनकोत्तेजकं प्रति प्रतिक्रियां जनयितुं तदङ्गपेशीर्वहन्ति। तद्विवेचनं विस्तरतो वयमग्रे प्रतिपदं प्रतिपादयिष्यामः।

परिसरीयं (त्वगाच्छन्नं) नाडीसंस्थानम्[सम्पादयतु]

आमस्तुलुङ्गाद् आसुषुम्णाया वा त्वक्पर्यन्तं यन्नाडीजालं प्रसृतं भवति, तत्सर्वं परिसरीयं त्वगाच्छन्नं वा नाडीसंस्थानमिति नाम्ना प्रथते। ननु को नाम नाडीशब्दो भवति? नाड्यो हि खलु मृदुसूत्रसङ्घातमय्यो नीरन्ध्रास्तन्त्र्योऽस्मिन् विज्ञाने प्रथन्ते। तासु प्रायेण द्विविधानि नाडीसूत्राणि सम्भूय तिष्ठन्ति-संज्ञवहानि चेष्टावहानि चेति। तत्र संज्ञावहानि नाडीसूत्राणि त्वगादिभ्यो मस्तिष्काघभिमुखं संज्ञावेगान् प्रापयन्ति। तेष्वन्त र्मुखो वेगः। चेष्टावहानि तु मस्तिष्कादिभ्यः चेष्टावेगान् पेश्यादिषु प्रवर्तयन्ति। तेषां बहि र्मुखो वेगः। ता एता द्विविधनाडीसूत्र सङ्घातवत्यो नाड्यो निश्रानाड्य इत्युच्यन्ते विशेषाभिधाने। एकविधनाडीसूत्ररचितास्तु शुद्धा नाड्य इति नाम्नाऽभिधीयन्ते। नाडीसूत्राणाञ्च क्व चिद् 'नाडी' इति लघुसंज्ञामात्रेणाऽपि सामान्यतो व्यपदेशो भवति। या नाड्यो मिश्रा भवन्ति, तासां नाडीसूत्राणि परस्परसन्निहितान्यपि पृथग्विधानि त्वक्पेश्यादिप्रवेशकाले पृथग्भूत्वैव प्रसरन्ति स्पर्शयन्त्रिकादिषु।

ननु कथं हि खलु नाडीसूत्राणां निर्माणं भवति? अत्रोच्यते-नाडीसूत्राणां प्रभवो नाडीकन्दाणुकेभ्यो भवति। नाडीकन्दाणुकानि नामातिसूक्ष्मकोमलानि सूक्ष्मवस्तूनि नाडीमूलभूतानि सावयवानि मस्तिष्क-सुषुम्णादिस्थितानि भवन्ति। तेषां प्रत्यक्षमणुवीक्षण मन्त्रसाहाय्येनैव सम्भवति। नाडीकोषाणुकानि च निरवयवानि भवन्ति। नाडीकन्दा गुकानामेकैका केन्द्रकणिका प्रतिनाडीकन्दाणुकं भवति। इयं नाडीकन्दाणुकस्य केन्द्र कणिका नाडीकोषाणुकमेव भवति। प्रत्येकं नाडीकन्दाणुकस्य एको दीर्घप्रतानो भवति। तस्य अक्षतन्तुरिति संज्ञाऽस्ति। तस्य नाडीसूत्ररूपेण परिणामो जायते, प्रसरश्च दूरात् शाखाप्रशाखानुशाखादिभिः। नाडीकन्दाणुकस्याऽपरः प्रतान ऊर्णातन्तुरिति नाम्ना प्रथते। एकैकस्य नाडीकन्दाणुकस्य ऊर्णातन्तवः प्रायश एकाधिका भवन्ति। परितो विसारिणा मूर्णातन्तुसादृश्यादूर्णातन्तूनां ह्रस्वत्वात् ‘लघुतन्तवः' इत्यपि निर्देशो भवति। ते तादृशैरेवान्यस्य नाडीकन्दाणुकस्य प्रताने परस्पराऽश्लिष्टाः कन्दाणुकानां सन्निहिता नामुद्बोधनकर्माणो भवन्ति। नाडीकन्दाणुकानि च स्थानभेदेनैकबाहुक -द्विबाहुक -बहुबाहुक - गुल्मकादिनानारूपाणि भवन्ति।

ननु नाडीकन्दाणुकानां कियती संख्या? असंख्याकानि हि खलु नाडीकन्दाणुकानि भवन्ति। नाडीतन्त्रविशारदैहेरिकमहोदयैर्नाडीकन्दाणुकानां संख्याविषये परस्पराश्लेषवैचित्र्य विषये चेत्थं विवरणं प्रदत्तम्। तथा हि- “यदि कोऽपि शिक्षित एतादृशः पुरुषः प्राप्तुं शक्येत, यो विद्युद्विषये किमपि न जानाति, येन च टेलीफोनस्य तारसूचनाया वा कोऽपि वृत्तान्तो न श्रुतो भवेत्, यदि चैतादृशः पुरुषः कस्याऽपि विशालनगरस्य बाह्यसाहाय्यमनपेक्ष्यैव तारसूचनविभागीयसर्वस्थानानां क्रियोपयोगिसर्वसाधनानाञ्च परिचालनक्रियाविधिपुरस्सरां मानचित्रादिसंवलितां व्याख्यां प्रादातुमादिष्टो भवेत्, तर्हि तस्य समग्रं कार्यं नाडीतन्त्रविशारदस्याऽनुसन्धानविषयत्वापेक्षयाऽल्पीयः सरलतरञ्च भविष्यति। मस्तुलुङ्गं परितो व्याप्तधूसरवस्तुन्येव केवलं ९२,८०० लक्षसंख्याकानि नाडीकोषाणुकानि विद्यन्ते, येषाञ्च बहूनि इतस्ततो दूरात् प्रसृतानि नाडीसूत्राणि शाखाप्रशाखासहितानि भवन्ति। एवंप्रकारेण प्रत्येकं नाडीकोषाणुकमनेकनाडीकोषाणुक केन्द्रकणिकाभ्यः सम्पृक्तं सञ्जायते। नाडीवेगस्रोतसां संख्या वस्तुतः परिच्छेदातीताऽपरिमेया भवतीति।

"If it were possible to find an educated Man, who knew nothing of electricity and had never heard of a telegraph or telephone, and if to this man was assigned the duty of making an investigation of the telegraph or telephone systems of a great city without any outside assistance whatsoever, and of preparing a report upon all the physical equipment with detailed maps of all stations and circuits and with an explanation of the method of operation of every part, his task would be simple as compared with the problem of the neurologist. The human cerebral cortex alone contains some 9280 million nerve cells, most of which are provided with long nerve fibres which stretch away far great distences and branch in different directions thus connecting each cell with many different nerve centres. The total number of nerve pathways is, therefore, inconceivably great."[२१]

ननु कथं हि खलु नाडीकन्दाणुकानि संवेदनं मस्तुलुङ्गं प्रापयन्ति? येन पदार्थेन किमपि इन्द्रियसंवेदनमुत्पद्यते, स उत्तेजक इति नाम्नाऽस्मिन् ग्रन्थे प्रथितो भविष्यति। सुतरामुत्तेजकजनितं किमपि संवेदनं प्रथमत ऊर्णातन्तुभिरेव उत्तेजितस्थानात् प्राप्यते, तदनन्तरमिदं वेगरूपं संवेदनं नाडीकोषाणुकद्वारेणाऽक्षतन्तुनाऽवाप्यते। तत्पश्चा देकस्य नाडीकन्दाणुकस्याऽक्षतन्तुः स्वसन्निहितेभ्योऽन्यनाडीकन्दाणुकस्योर्णातन्तुभ्यस्तत् संवेदनं वेगरूपं प्रदत्ते। एवं सर्वदैव संवेदनं प्रथमत ऊर्णातन्तुभिरेवाऽवाप्यते, न तु अक्षतन्तुना। यस्मिन् स्थले एकस्य नाडीकन्दाणुकस्याऽक्षतन्तुरन्यस्य नाडीकन्दाणु कस्योर्णातन्तुभिः सम्पर्क करोति, तत्स्थानं नाडी-सम्बन्ध' इति नाम्नोच्यते। अत्रेदं स्मरणीयं यदेकस्य नाडीकन्दाणुकस्य अक्षतन्तुरन्यस्य नाडीकन्दाणुकस्योर्णातन्तुभिः सह नहि साक्षादविरलं सम्बन्धमवाप्नुते, अपि तु परम्परया।

अयं नाडीसम्बन्धो द्वयोर्नाडीकन्दाणुकयोर्मध्ये सेतुरिवावतिष्ठते। यद्यपीमानि नाडीकन्दाणुकान्येकनाडीसूत्ररूपे न परिणमन्ते, तथापि सान्निध्यादेव संवेदनवेगमेकस्मान्नाडी कन्दाणुकान्यनाडीकन्दाणुकं प्रति वोढुं समर्थानि भवन्ति। यद्यपि सन्निहिताः, तथाप्येकस्य नाडीकन्दाणुकस्याक्षतन्तुप्रान्तिकयन्त्रिका अन्यस्य नाडीकन्दाणुकस्योर्णातन्तुभिः सह यदा कदा त्वेवं परस्परश्लिष्टा भवन्ति, यदितरस्य केन्द्रकणिकाऽपि प्रथमनाडीकन्दाणुकस्या क्षतन्तुप्रान्तिकयन्त्रिकाभिर्बद्धा इव प्रतिभाति। वयमग्रेऽपि सहजक्रियाविवेचनावसरेऽस्य नाडीसम्बन्धस्य निर्देशं करिष्यामः।

ननु नाडीकन्दाणुकानां को वर्णो भवति? अस्मिन् विषये सम्प्राप्ते एतावदेव वक्तव्यं भवति यन्नाडीकन्दाणुकबहुलानां नाडीतन्त्रवस्तूनां भस्मवद् धूसरप्रायो वर्णो भवति। एतस्मादेव कारणादस्य धूसरवस्तुसंज्ञया' व्यपदेशो भवति। नाडीसूत्रबहुलानान्तु शुभ्रप्रायो वर्ण इति शुभ्रवस्तुसंज्ञया व्यपदिश्यते। प्रसङ्गतोऽत्रेदमपि स्मरणीयं यन्मस्तुलुङ्गं बहिस्तरेषु धूसरवस्तुमयं भवति। अन्तस्तरेषु चेदं शुभ्रवस्तुप्रायम्, अन्यत्र मूलकन्दादि भागेभ्यः। सुषुम्णाकाण्डस्तु बहिः शुभ्रवस्तुप्रायः, अन्तश्च धूसरवस्तुमयः। नाडीग्रन्थि नाडीकन्दाणुकादीनाञ्च धूसर एव वर्णः। नाडीसूत्राणान्तु शुभ्रो वर्णः पीताभो वा मेदोमयवृत्तिबाहुल्याद् भवति।

केन्द्रीयनाडीतन्त्रम्[सम्पादयतु]

अस्य मस्तिष्कसौषमम्णकनाडीतन्त्रम्, किं वा मेरुनाडीतन्त्रमित्यप्यपरनामनी स्तः। इदं नाडीतन्त्रं सर्वत उपरि महत्त्वपूर्णम्। मानवव्यवहारोक्तसर्वाण्युच्चस्तरीयाणि विचारप्रयत्नेच्छादीनि कार्याण्यनेनैव सम्पाद्यन्ते। अस्य चत्वारो भागा विशेषत उल्लेखनीयाः सन्ति। तथा हि -

१. मस्तिष्कम्',

२. अनुमस्तिष्कम्,

३. सुषुम्णाशीर्षकम् ,

४. सुषुम्णाकाण्डश्चेति ।

तत्राद्यत्रयन्तु करोटिसम्पुटान्तःस्थमस्ति। सुषुम्णाकाण्डश्च पृष्ठवंशान्तर्निगूढो भवति। वयमत्र प्रथमं सुषुम्णाकाण्डस्य विवेचनं कृत्वैव मस्तिष्कादीनां मस्तुलुङ्गाङ्गानां सविस्तरं विवेचनमुपस्थापयिष्यामः।

सुषुम्णाकाण्डः[सम्पादयतु]

पृष्ठवंशान्तश्चूडावलयाख्य-प्रथमग्रीवाकशेरुकादारभ्य द्वितीयकटिकशेरुकाशिखरं यावत् सुषुम्णाकाण्डो मेरुदण्डापरनामधेयः पृथुकमलनालाकारो दृश्यते। स दैयेण स्ववितस्तिद्वयप्रमाणो भवति, तस्य परिणाहश्चाङ्गष्ठपरिमितो भवति। गुरुत्वेन तस्य भारोऽपि सार्द्धतोलकद्वयमितो भवति। द्वितीयकटिकशेरुकादारभ्याऽयं मेरुदण्डोऽनुत्रिकं यावत् क्रमशस्तनूभूय शतावरीमूलान्तवत् प्रसरति। तस्य मूलमात्रस्य सुषुम्णामूलिकेति संज्ञा भवति। समग्रेऽस्मिन् मेरुदण्ड एकत्रिंशत् कशेरुका भवन्ति। युवावस्थायां ता एकोनत्रिंशत्संख्याका जायन्ते। सुषुम्णाकाण्डस्य ग्रीवावंशान्तः कटिवंशान्तश्च द्वौ स्थूलतरौ भागौ भवतः। तयोः प्रथमस्य ग्रीवावंशान्तस्याऽनुग्रीविकास्फीतिरित्यपि' व्यपदेशो भवति। द्वितीयस्य चाऽनुकटिका स्फीतिरिति संज्ञा भवति।

अत्र नाड्योऽपि त्रिविधा भवन्ति। मस्तिष्काऽनुमस्तिष्कसुषुम्णाशीर्षकप्रभवा नाड्यस्तु शीर्षण्या नाम, तासां करोटिगुहान्तःसम्भवत्त्वात्। या नाड्यः सुषुम्णाकाण्डप्रभवास्तासां मेरुजेति संज्ञा भवति। स्वतन्त्रनाडीतन्त्रसम्भवाः पुनर्नाड्यः स्वतन्त्रा' इत्यभिधानेन व्यपदिश्यन्ते।

सुषुम्णाकाण्डस्य कशेरुकान्तरालस्थै रन्ध्रगैरेकाधिकत्रिंशन्नाडीयुग्मकान्युभयतो दक्षिणवामपार्श्वयोः प्रसरन्ति। तत्र द्वादश शीर्षण्या नाड्यः सन्ति। तास्तु विभिन्नज्ञानेन्द्रियैः सह सम्पर्क स्थापयन्ति मस्तिष्कानुमस्तिष्कस्य। ग्रीवायां' मेरुजानां नाडीयुग्मकानां संख्याऽष्टौ भवन्ति, पृष्ठे तासां संख्या द्वादश। कटिभागे तासां संख्या पञ्च भवन्ति। त्रिकास्थीनि पञ्च । अनुत्रिकास्थि चैका। एवमेताः साकल्येन एकाधिकास्त्रिंशद् (३१) मेरुजाख्या नाड्यो भवन्ति।

मस्तुलङ्गमिव सुषुम्णाकाण्डस्याऽपि तिस्रो वृत्तयः सन्ति। ताः वृत्तयः कलामय्यो भवन्ति, मेरुनाडीतन्त्रञ्च समन्तात् प्रावृत्त्य तिष्ठन्ति। तासां बाह्या, मध्यमा, आभ्यन्तरीति नामानि सन्ति। बहिर्वृतिस्तु दृढस्नायुसूत्रबहुला कलानिर्मिता करोटिसम्पुटान्तः पृष्ठवंशान्तश्चाऽस्थिमयप्राचीरिकासु कतिचित्स्नायुसूत्रैः सम्बद्धा भवति। तस्या वराशिकेत्यपि व्यपदेशो भवति। वराशिका पृष्ठवंशीयाऽस्थिषु साक्षान्न सम्बध्यतेऽपि तु समन्तात् सिराजाले मेदसा परिवृत्ता भवति। अस्थिवराशिकयोर्मध्ये योऽवकाशो भवति तस्य परिवराशिका नाम। मध्यमा वृत्तिः पनस्तन्तरकलामयी नलिकाकारा नीशारिकापराभिधाना' भवति। वराशिकानीशारिकयोर्मध्येऽन्यः पूर्ववदेवाऽवकाशो वर्तते, सोऽपि लसिकापूर्णः। तस्यान्तर्वराशिकसंज्ञा प्रथते। नीशारिकाऽन्तराले च योऽवकाशः, तस्य ब्रह्मोदकुल्येति व्यपदेशो भवति, महत्तरत्वाद् ब्रह्मवारिधरत्वाच्च। तस्यां हि कुल्यायां सुषुम्णाकाण्डो मध्यतोऽवलम्बते चीनांशुकापरिवृतः। आभ्यन्तरी वृत्तिः चीनांशुकेति व्यपदेशं बिभर्ति। इयं हि खलु तनुतमा। सा मस्तुलुङ्गं सुषुम्णाकाण्डञ्च सर्वथा संवेष्टयति, तद्विभागान्तरालेष्वाप च सुसूक्ष्मशिराधमनीजालकैरनुविद्धा भूता संसक्ता जायते।

सुषुम्णाकाण्डो बहिः शुभ्रवस्तुमयोऽन्तश्च धूसरवस्तुमयो भवतीत्यस्माभिः पूर्वमुक्तमेव।

सुषुम्णाकाण्डस्य कार्यम्[सम्पादयतु]

वयं सम्प्रति सुषुम्णाकाण्डेन किं कार्य सम्पाद्यत इति विचारयामः। सुषुम्णाकाण्डस्तु शरीररूपभवनस्य प्रधानतमः स्तम्भः। तस्मिन् भग्ने सति भुग्ने जाते वा, सर्वमिदं भवनं धराशायि भविष्यतीति नास्त्यत्र कोऽपि सन्देहः। उक्तमेवास्माभिर्यत् पृष्ठवंशवतां निम्नस्तरीयाणां प्राणिनां मस्तुलुङ्गकार्यसम्पादनार्थं प्रथमतः सुषुम्णाकाण्ड एवाविर्भवति। मस्तिष्कादिभागानां विवृद्धिस्तु विकासवादीयामुच्च शृङ्खलां द्योतयतीति सर्वमवदातम्। मस्तिष्कस्य विचारोहापोहादीनि कार्याणि सन्तीत्यग्रे वक्ष्यामः। सुषुम्णाकाण्डस्तु मिश्रनाडीनिर्मितो भवति, तासु नाडीषु संज्ञावाहीनि चेष्टावाहीनि च द्विविधान्येव नाडीसूत्राणि विद्यन्ते। तेषां नाडीसूत्राणां केन्द्रकणिकास्तु धूसरवस्तुनि वर्तन्ते, नाडीसूत्राणि च शुभ्रवस्तुनि तिष्ठन्ति। संज्ञावाहीनि नाडीकन्दाणुकानि विभिन्नाङ्गेभ्यः संवेदनात्मकसूचनामादाय सुषुम्णाकाण्डद्वारेण मस्तिष्कमानयन्ति। चेष्टावहानि चालकानि वा नाडीकन्दाणुकानि मस्तिष्कादादेशं प्राप्य शरीराङ्गपेशीः प्रति तमादेशं मेरुदण्ड द्वारेणैव प्रेषयन्ति। न केवलं एतावतैव सुषुम्णाकार्यजातं स्फुटीभवति, अविकसित मस्तिष्कवतां प्राणिनां सुषुम्णाकाण्ड एव प्रारम्भिकतमं मस्तिष्करूपम्। सहजक्रियारूपाः प्रतिसङ्क्रमिताः प्रतिक्रिया मानवेषु पशुषु च सुषुम्णाकाण्डेनैव नाडीसम्बन्धद्वारा सम्पाद्यन्ते।

यदि कोऽपि मशकः सुप्तस्य मानवस्य जानु दंशति तदा स पुरुषः स्वजानु सङ्कोचयति, अनेन कर्मणा मशकोऽपि पलायते। तीव्रप्रकाशागमने नेत्रतारिकाः स्वभावत एव सङ्कुचिता जायन्ते। इमां सहजक्रियाम्, अन्याश्चेतादृशीः बह्वीः सहजक्रिया अनायासेन सुषुम्णाकाण्ड एव सम्पादयति। अयं नाडीसम्बन्धोऽपि सुषुम्णान्तःस्थसंयोजक नाडीकन्दाणकेन सम्भाव्यते। संवेदनानां चेष्टानाञ्च संयोजनं सामञ्जस्यस्थापनं मस्तूलङ्गस्य सर्वोपरि कर्म, तस्य प्रारम्भिकास्ववस्थासु मेरुदण्डस्थितसंजोजकनाडीकन्दाणुकेभ्यो नाडीसम्बन्धद्वारेण सम्पाद्यते। अपि च, यदि सुषुम्णाकाण्डस्य कोऽपि भागः क्षतः सञ्जायते, तर्हि तदधःस्थिताः शरीरपेश्योऽपि चेष्टादेशनिर्वाहेऽसमर्था भवन्ति चेष्टावहनाडीकन्दाणुकानां क्षतत्वात्। तान्यङ्गानि स्वेच्छानुसारं परिचालयितुं न शक्यन्ते।

मस्तुलुङ्गरचना[सम्पादयतु]

वयमिदानी मस्तुलुङ्गस्योपरि स्थितानामङ्गानां मस्तिष्कानुमस्तिष्कसुषुम्णा शीर्षकादीनां क्रमशो विवेचनमुपस्थापयामः। तत्र प्रथमतः मस्तिष्कं विवेच्यते। किन्तु मस्तिष्क-विवेचनतः पूर्वं मस्तुलुङ्गरचनाया वर्णनमत्यावश्यकं प्रतिभाति। मस्तुलुङ्गं हि खलु शिरोगुहायां करोटिपीठमधिष्ठाय वर्तते। मस्तुलुङ्गं करोटिपटलेन करोटिपक्षाभ्याञ्च सुरक्षितं भवति।

यथोक्तमस्माभिर्यत् सुषुम्णाकाण्डस्त्रिभिर्वृतिभिः परिवेष्टितो वर्तते, एवमेव मस्तुलुङ्गमपि त्रिभिर्वृत्तिभिः सुरक्षितं तिष्ठति। ता वृत्तयः-वराशिका नाम बहिर्वृत्तिः, नीशारिका नाम मध्यमा वृत्तिः, चीनांशुका नामाभ्यन्तरी वृत्तिश्चेति। वराशिका नाम या वृत्तिः सा सकलकरोटिगुहान्तरावरणं करोति, कृत्स्नञ्च मस्तुलुङ्ग परिरक्षति। सा शिरःकपालान्तस्तले दृढस्नायुसूत्रजालैः सम्बध्यते। नीशारिका नाम या मध्यमा वृत्तिः साऽपि सिराजालवती सकलं मस्तुलुङ्गपिण्डमावृणोति, मस्तिष्कगोलार्द्धद्वयान्तराल मस्तिष्कधम्मिल्लकमध्ये च प्रविशति। वराशिकानीशारिकयोर्मध्ये योऽवकाशस्तस्य 'अन्तर्वराशिका' इति संज्ञाऽस्ति। आभ्यन्तरी या चीनांशुकाभिधाना वृत्तिः सा मस्तुलुङ्गस्यातिसूक्ष्ममावरणरूपा। सा विशेषेण मस्तुलुङ्गीयशिराधमनीजालं धारयति, मस्तुलुङ्गञ्च सम्यक् प्रविशति। नीशारिकाचीनांशुकयोर्मध्ये योऽवकाशस्तस्य ‘ब्रह्मोदकुल्या इति नाम। तस्मिंश्चान्तराले ब्रह्मोदकं नाम स्वच्छस्तरलः पदार्थो विद्यते। अन्तर्वराशिक संज्ञोऽवकाशस्तु लसीकापूर्ण एव भवति। मस्तुलुङ्गस्यैकम्' अपरमप्यावरणं वल्कसंज्ञ भवति। वल्कस्तु संयोजकानां नाडीकन्दाणुकानां जालशतै2र्निर्मितो भवति। 3

मस्तिष्कम्[सम्पादयतु]

सकलमस्तुलुङ्गस्य प्रतिशतं सार्धपञ्चाशीति (८५.५%) भागपरिणाहि मस्तिष्क भवति। अनुमस्तिष्काऽपेक्षया कदाचिदिदं बृहन्मस्तिष्कमप्युच्यते। मस्तिष्कं हि खलु गोलार्द्धद्वयनिम्मितं मस्तुलुङ्गस्य महत्तममङ्गम्। मस्तिष्कं हि नाम अग्रिममस्तुलुङ्गपिण्डमव मृणालकसहितमिति, न तु मस्तुलुङ्गापरनामधेयम्। सर्वस्मिन् मस्तुलुङ्गे बढ्यः सीताः सन्ति। यथा हि हालिको हलकर्षणेन क्षेत्रभूमौ सीता उत्पादयति, एवमेव मस्तुलुङ्गे, विशेषतो मस्तिष्केऽनेकाः सीताः सन्ति। अस्ति हि तासामलौकिकं माहात्म्यम्। नहि मस्तुलङ्गस्य बृहदाकारवत्त्वं बुद्ध्युत्कर्षस्य प्रयोजकम्, नाप्युत्थितभागामुत्तमाङ्गस्योपरि स्थितानामेवात्र विनिगमकत्वम्। बुद्ध्युत्कर्षाय तु एतासां सीतानां दैर्घ्यगाम्भीर्य्यवक्रिमादिमत्त्वं कल्पते। मस्तुलुङ्गे सन्ति हि सप्तदशाधिका मुख्याः, सीताः, किन्तु मनोविज्ञानविवेचन दृष्ट्या तिस्रः सीता विशेषत उल्लेखनीया। ता हि--अनुदीर्घा नाम महासीता, मध्यान्तरा सीता 'रौलन्दिकी सीता' इत्यपरनामधेया', शङ्घपान्तिरा सीता चेति। सकलमिदं मस्तिष्कं सीतासमन्वितमक्षरोटकफलमिव प्रतिभाति। अक्षरोटकाधू यथा गोलार्द्वद्वयेन विभक्तं दृश्यते, तथैव मस्तिष्कं वामगोलार्द्ध दक्षिणगोलार्द्धमिति गोलार्द्धद्वयेऽनदीर्घया महासीतया विभक्तं समुपलभ्यते। प्रथमं तावद् वयमेतासां सीतानां सक्षेपतो विवेचनं कृत्वा मस्तिष्कस्य महत्वपूर्णकार्याणां सविस्तरं वर्णनमुपस्थापयिष्यामः।

अनुदीर्घा महासीता - इयं सुगभीरा सीता विशालविहङ्गमाण्डवत् प्रविभान्तं मस्तिष्कं गोलार्द्धद्वये विभाजयति। सेयं सीता मध्यरेखायां पुरः पश्चाच्च गम्भीरानुप्रविष्टाऽपि मध्ये गोलार्द्धद्वय संयोजकेन मस्तिष्कसेतुना विहतगतिर्दृश्यते।

मध्यान्तरा सीता - इयं सीता महासीताया मध्यदेशादारभ्य कुटिलमधोमुखञ्च प्रसृत्य प्रत्येकं गोलार्द्धमग्रिम-पार्श्विक-पिण्डयोविभाजयति। इयं सीता 'रौलन्दिकी सीता' इति नाम्नाङ्गलभाषीयग्रन्थेष प्रसिद्धा जाता, यतो हि सर्वप्रथमं 'रोलन्दो'नामकेन यवनाचार्येणाऽस्याः सम्यग् विवेचनं कृतमासीत्।

शङ्खपार्थान्तरा सीता - इयं सीता मस्तिष्कतलेऽग्रिमं पिण्डं शङ्घिकापिण्डाद विभजते। इयमतिगभीरा तिरश्चीना च भवति। एकैकस्य मस्तिष्कगोलार्द्धस्य पार्श्वभागे तलदेशादारभ्य पार्श्वतः प्रसरन्ती इयं सीता द्रष्टुं शक्यते।

अस्माभिः पूर्वमुक्तमासीद् यन्मस्तिष्के द्वादश शीर्षण्या नाड्योऽपि प्रविशन्ति। कास्ताः? तासां सङ्क्षिप्तं वर्णनं मस्तिष्ककार्यनिर्देशनात् पूर्वं सुसङ्गतमेव प्रतिभाति। तास्तु प्रत्येकं शिरसः पार्श्वे द्वादश सन्ति। शरीरस्य वामाङ्गसम्बन्धिसंज्ञाचेष्टावाहिन्यो नाड्यो दक्षिणपार्श्व समागच्छन्ति मस्तिष्कस्य। दक्षिणशरीराङ्गसम्बन्धिन्यश्च संज्ञाचेष्टावाहिन्यो नाड्यो मस्तिष्कस्य वामपार्श्व समागच्छन्ति। तास्तु सुषुम्णादिवदितरमाध्यममन्तरेणैव साक्षान्मस्तिष्कमागच्छन्ति।

१ - प्रथमा तावत् प्राणनाडी नाम गन्धसंज्ञावहा' भवति।

२ - द्वितीया दृष्टिनाडी नाम', या रूपसंज्ञावहा नेत्रगोलकमूलात् पश्चिमपिण्डं यावन्मस्तिष्कान्तः प्रसरति।

३- तृतीया

४ - चतुर्थी - इमा नाड्यो नेत्रपेशीप्रचेष्टिन्यः सन्ति।

५ - षष्ठी

६ - पञ्चमी' नाडी त्रिधारासंज्ञकाऽस्ति। सा मुखोपेतशिरोमण्डलस्य स्पर्शसंज्ञामानयति, चेष्टाञ्च हानव्यपेशीनां प्रेषयति।

७ - सप्तमी वक्त्रनाडी नामाऽस्ति। सा मुखमण्डलस्थपेशीनां चेष्टां वहति, रसनापूर्वार्धस्य संज्ञां चानयति।

८ - अष्टमी श्रुतिनाडी नामाऽस्ति। सा श्रोत्राभ्यन्तरात् शब्दसंज्ञामानयति मस्तिष्कसंज्ञाक्षेत्रं प्रति।

९ - नवमी कण्ठरासनी नामाऽस्ति। सा विशेषतः स्वादसंज्ञामानयति, अपि च तालुगलरसनापश्चिमार्द्धभागेभ्यः संज्ञामानयति।

१० - दशमी प्राणदाख्याऽस्ति। सा गलक्लोमफुफ्फुसहृदयादिप्राणनयन्त्रसम्बन्धिनी यकृदामाशयसम्बन्धिनीञ्च संज्ञां वहति, चेष्टाञ्च प्रेषयति।

११ - एकादशी ग्रीवापृष्ठगा नाम। सा मन्याख्यां पेशी पृष्ठच्छदाञ्च पेशी चेष्टां नयति।

१२ - द्वादशी जिह्वातालिकाभिधेयाऽस्ति। सा प्रधानतो जिह्वापेशीश्चेष्टादेशं मस्तिष्कान्नयति।

उक्तमेवास्माभिर्यन्मस्तिष्के धूसरवस्तु बहिस्तिष्ठति, अन्तःस्थञ्च शुभ्रवस्तु आवृणोति। यथा बिल्वफले धूसरवस्तुगर्भितानि बीजानि तिष्ठन्ति, तथैव चेदं मस्तिष्क शुभ्रवस्तु, विशेषोक्तत्वात्। घूसरवस्तुनिर्मित एव वल्को भवति, तस्य स्थूलत्वमाधिक्यं वा बुद्धरुत्कर्ष सूचयति, यथा सीतानां दैर्घ्यगाम्भीर्यवक्रिमाधिक्यसमन्वितत्वञ्च। यतो हि मूर्खाणां शिरःशल्यच्छेदेन मूर्खाणां मस्तिष्कवल्कस्य ह्रस्वपरिणाहो दृश्यते बुद्धिमतामपेक्षया।

सन्तु तावन्मस्तिष्कस्य कर्माणि। अस्माभिरुक्तमेव यन्मानसिकक्रियासु सरलतमासु सुषुम्णास्थितनाडीसम्बन्धस्थानान्येवोपयुक्तप्रतिक्रियोत्पादने समर्थानि भवन्ति, नाडीसम्बन्धस्तु गौणं चेष्टायतनम्। निम्नस्तरीयेषु मूलप्रवृत्तिसहजप्रवृत्तिप्रधानेषु प्राणिषु सुषुम्णास्थितं नाडीतन्त्रमेव प्रौढिङ्गतं भवति, बुद्धिमनपेक्ष्य प्रतिसङ्क्रमितान् क्रियावेगान् पेशीषूत्पादयितुं प्रभवति। परन्तु मनुष्याणामनेकविधानां संवेदनविचारस्मृतिप्रयत्नाध्यव सायेच्छादीनां कार्याणां सम्पादनार्थन्तु मस्तिष्कमेव समर्थं भवति। प्राणिविकासशृङ्खलायामत एव मस्तिष्कविकासः सन्निकृष्टतम इति विकासवादिनो मनोवैज्ञानिकाश्च मन्यन्ते। मस्तिष्कमेव बुद्धिविवेकोहापोहनिर्णयप्रत्यभिज्ञानादीनां कार्यक्षमं मुख्यतमं नाडीयन्त्रम। बुद्धिमत्सु मस्तिष्कस्य भारोऽपि सामान्यजनाऽपेक्षया गुरुतर एव भवति, यद्यपि भाराऽपेक्षातः सीतानां बाहल्यगाम्भीर्यादिकं संयोजकस्रोतसां नाडीकन्दाणुकविशेषकाणाञ्च महत्त्वं बुद्धिवैभवोत्कर्षाय गुरुतरमपेक्ष्यते। अर्वाचीनशारीरकमनोविज्ञानानुसन्धानादिभिर्मस्तिष्कस्य केचन स्थलविशेषास्तत्कार्यसम्पादनक्षमतानुसारं निर्दिष्टाः।

मस्तुलुङ्गस्य चैतन्याधिष्ठानत्वसाधकाः केचन प्रयोगाः[सम्पादयतु]

'हृदयं चेतनास्थानम्' इति मतं त्वस्माभिनिराकृतम्। साम्प्रतं प्रतिपक्षिणामिदं चोद्यमस्ति ननु किमस्ति मस्तुलुङ्गस्य चैतन्याधिष्ठानत्वसाधकमिति? शारीरक मनोविज्ञानवेतृभिरायुर्वेदविज्ञानविशारदैश्च पाश्चात्त्यैरिदं प्रत्यक्षप्रयोगेभ्यः साधितं यन्मस्तुलुङ्गमस्ति चैतन्याधिष्ठानम्। त्रिविधाः प्रयोगास्तैराश्रिताः -

(अ) प्रयोगकर्तृभिरुत्तेजिताः कृत्रिमोपायैर्विद्युदादिभिर्मस्तिष्कवल्कस्थलविशेषास्तत्तदनु बन्धिनोऽपरशरीराधो या अङ्गप्रत्यङ्गाणां क्रियाः प्रवर्तन्ते।

(आ) यदि मस्तिष्कान्तःस्थचेष्टास्थानमभिघातादिभिरभिहतं स्यात्, तर्हि तत्सम्बन्धिनोऽङ्गस्य क्रियालोपो वेपर्वा जायते।

(इ) यदि मस्तिष्काऽभ्यन्तरे कस्याश्चिद् धमन्यास्त्रुटनं भवेत्तर्हि रक्तस्रावादिना नाडीस्रोतसामवरोधेन तदनुबन्धिशरीरभागे पक्षाघातादयो रोगाः समुत्पद्यन्ते।

यद्यपि मनुष्येषु मस्तिष्कप्रयोगा दुष्करा भवन्ति, तथापि रुग्णपुरुषाणां मस्तिष्कस्य शल्यचिकित्साऽवसरे बहवः प्रयोगा उपर्युक्तानि संज्ञाचेष्टाधिष्ठानानि मस्तिष्कवल्कस्थितानि निश्चिनुवन्ति। प्रथमतः पशुष्वेव मस्तिष्कप्रयोगाः सम्पादिता आसन्। साम्प्रतमपि मस्तिष्करचनाया रहस्यं पशूनां करोटिपटलमुद्धाट्य मस्तिष्कस्थलानां विधुद्रश्मि भिरुत्तेजनेनैव प्रायः समुपलभ्यते। अस्माभिरत्र अष्टौ प्रयोगा विवर्ण्यन्ते।

(१) नाडीतन्त्रविषये सर्वप्रथममाङ्गलदेशीयशारीरकविज्ञानविशारदाः श्रीबैलमहोदया' एकोनविंशतितमवैक्रमशतकस्योत्तरार्धे प्रतिपादितवन्तो यत् क्रियामभिलक्ष्य नाडीनां वर्गीकरणं कर्तुं शक्यते, यतो हि सन्ति काश्चन संज्ञावहा नाड्यो यास्त्वगादि ज्ञानेन्द्रियेभ्यः सुषुम्णां पश्चिमभागे प्रविश्य संज्ञामानयन्ति। अन्याश्च सन्ति काश्चन नाड्यो यासां कार्यं विभिन्नशरीराङ्गपेशीः प्रति चेष्टादेशप्रापणमस्ति, याश्च सुषुम्णाया अग्रिमभागेभ्यः प्रसरन्ति। इदं मतं 'बैल-मेगेण्डी-नियम' इति नाम्नामनोविज्ञाने प्रसिद्धमस्ति। यतो टेकेन फ्रांसदेशीय-मेगेण्डी-महाशयेनाऽपि बेलान्वेषणात् कतिपयवर्षानन्तरं स्वतन्त्रेणेदमेव मतमुररीकृतमभूत्।

(२) परन्तु बैलमहोदयेन नेदं मतं साधितमासीद् यदेकेन नाडीस्रोतसा एकस्येन्द्रियविशेषस्यैव कार्य सम्पाद्यते, न तु बहूनामेकाधिकानां वा, तेनेदं मतमुद्भावितं जातम्। बर्लिनस्थजर्मनदेशीयशारीरशास्त्रविशारदेन म्यूलर महोदयेनेदं मतं सर्वथा साधितं यद्धि प्रत्येकं नाडी विशिष्टकार्यसम्पादनक्षमा, कार्यञ्चेदं चेष्टासम्बन्धि भवतु नाम किमुत संज्ञासम्बन्धि; किन्तु तेनापीदं न निर्णीतं यद् दर्शनश्रवणादिसंवेदनकर्माणि तत्तदिन्द्रियविषयसम्बन्धिचाक्षुषश्रावणादिनाडीविशेषमात्रोत्तेजनयाऽविर्भवन्ति, किमुत मस्तुलुङ्गस्थविशिष्टसंज्ञाधिष्ठानानामुत्तेजनेनेति। तदनन्तरं तेन तु पूर्वोऽयमेव विकल्प आश्रितः यतो हि तदानीं द्वितीयो विकल्पो वैज्ञानिकश्रेत्रेषु मुद्रासामुद्रिकाङ्गीभूतो न प्रतीयते। स्मरणीयमत्र यन्मुद्रासामुद्रिकं सामिविज्ञानं तदा सन्देहास्पदं जातं वैज्ञानिकक्षेत्रेषु। मुद्रासामुद्रद्रिकस्येयं मान्यता आसीद्यदुत्थितभागा एव शिरस्युपरि स्थिता बुद्ध्युत्कर्ष सूचयन्तीति। तन्मतसादृश्यभयाद् म्यूलरमहोदयेनाऽपि मस्तुलुङ्गीयसंज्ञा-चेष्टाधिष्ठान निर्णयसम्बन्धिप्रयत्नः परित्यक्तः।

(३) वस्तुतः शिरोमुद्रासामुद्रिकस्य प्रगत्यैव तदेतरवैज्ञानिकानां हृदय इदमौत्सुक्यं वर्धितं यन्मस्तुलुङ्गाधिष्ठानान्वेषणं करणीयमेव। फ्रांसदेशीयशारीरविज्ञानपारङ्गतेन फ्लोरेंसमहोदयेन तदानीं पारावतमस्तुलुङ्गकार्याधिष्ठानाऽन्वेषणार्थं केचन प्रयोगाः प्रारब्धाः। तेनेदं प्रमाणीकृतं यन्मस्तुलुङ्गस्योपरिभागानां मस्तिष्कस्य गोलार्द्धद्वयात्मकानामपसारणेन पारावतानां श्रवणदर्शनस्मरणैच्छिककर्मणां विलोपो जायते। मस्तुलुङ्गस्याऽधस्तरीय भागानामनुमस्तिष्काभिधेयानामपसारणेन च विविधसंज्ञाचेष्टाक्रियाणां नियन्त्रणस्य संयोजनस्य च विलोपो भवति। मस्तुलुङ्गस्य द्वौ अपरावपि भागविशेषौ विशिष्टकार्यसम्पादनपरौ लक्षितौ। फ्लोरेंसमहोदयेन मस्तुलुङ्गनाडीतन्त्रयोः क्रियाऽनन्यत्वं तारतम्यञ्चापि निर्दिष्टम। तेनेदमपि मतमुद्भावितं यदेकस्य मस्तुलुङ्गीयाधिष्ठानक्षेत्रस्याऽपसारणेन विलुप्तं कार्य पुनरर्जयितुं प्राप्तुं वा शक्यत इति मतं प्रायशो वर्षशतानन्तरं लैशलीमहोदयेन प्रमाणीकृतम।

(४) १९१८ वैक्रमाब्दे पेरिसनगरे मानवीयमस्तुलुङ्गस्याऽध्ययने ब्रोकामहोदयेन सुमहदनुसन्धानं कृतम्। तेषामौत्सुक्यं मस्तुलुङ्गस्याऽधिष्ठानान्वेषणार्थमेकेन रुग्णेन पुरुषेण वर्द्धितम्। तस्य हि खलु रोगिणो वाक्क्रियाविलोपोऽभवत्, यद्यपि तस्याऽपरथा कोऽपि पक्षाघातो नाविर्भूतः। स तु मानसिकेतरक्रियासु वार्तालापक्रियां विहाय सर्वथा स्वस्थ इवाऽचरति स्म। तस्य पुरुषस्य निधनाऽनन्तरं ब्रोकामहोदयस्तस्य मस्तुलुङ्गे वामभागीयमस्तिष्काग्रिमस्थतृतीयसीतायां किमपि निर्गलितमङ्गं दृष्टवान्। ब्रोकामहोदयेन तदाप्रभृति प्रमाणीकृतमिदं यद्धि तद्वागधिष्ठानमेवास्तीति। तदधिष्ठानमद्यावधि ब्रोकाक्षेत्रमिति नाम्ना प्रथते।

(५) प्रथमयूरोपीयमहायुद्धे जर्मनदेशीयचिकित्सकद्वयेन आहतानां' शूरवीराणां मस्तिष्कानामध्ययनानन्तरं पशुषु मस्तिष्कप्रयोगाः समारब्धाः। फलतस्ताभ्यां मुखग्रीवापिण्डिकापेशीनियामकानि मस्तिष्कस्थचेष्टाधिष्ठानानि निर्णीतानि। एवमेवान्यैश्चापि बहुभिरनुसन्धानपरैर्वैज्ञानिकैर्वानरादिपशुषु प्रयोगाः समारब्धाः। तेषां प्रयत्नैर्मस्तिष्कस्य मस्तुलुङ्गीयेतरवल्कादिभागानां पूर्वनिर्दिष्टविशिष्टसंज्ञाचेष्टाधिष्ठानानि परिमापितानि। द्रष्टव्यमत्र यद्धि मुद्रासामुद्रिकापेक्षया वैज्ञानिकप्रणाल्यनुप्राणितमिदं मस्तलुङ्गीय संज्ञाचेष्टाधिष्ठाननिरूपणं महत्पार्थक्यं वैशिष्ट्यञ्चावहति।

(६) मस्तुलुङ्गीयक्रियाक्षेत्राणामन्यद्रूपं श्रीफ्राञ्ज-लैशलीमहोदयाभ्याम् अमेरिकन मनोवैज्ञानिकाभ्यां प्रकाशमानीतम्। कैलिफोर्नियाविश्वविद्यालयीयप्राध्यापकेन फ्राञ्जमहोदयेन मार्जारवनराः शिक्षिता यत्कथं द्वारमुद्धाट्य ते जटिलकाष्ठपिटिकाभ्यो बहिरागच्छेयुरिति। तदनन्तरं मस्तिष्कस्याग्रिमपिण्डद्वयाऽपसारणेन तैरिदमपि लक्षितं यत्तेषामधीतक्रियायाः पिटिकोद्धाटनात्मिकाया विलोपः समजायत। यद्यपि भक्षणनखकर्षणादिप्राक्तनक्रियाः पूर्ववदेव ते कृतवन्तः। स्वप्रयोगनिर्णयान् पुनः संशोध्य फ्राञ्जमहोदयेन प्रतिपादितं यद्धि मस्तिष्कस्याऽग्रिमपिण्डद्वयं नवीनक्रियाणां शिक्षणोपयोगि भवति, यद्यपि नवशिक्षितक्रियाः कालान्तरे मस्तुलुङ्गीयेतरभागानपि परिवर्तयितुं शक्नुवन्तीति।

(७) लैशलीमहोदयेन हारवर्डविश्वविद्यालयीयशारीरकमनोविज्ञानवेत्रा मूषकेषु स्वप्रयोगाः समारब्धा उपर्युक्तप्रकारेणैव। यदा तैर्मूषकैः शिक्षितमिदं यत्कथं जटिलपिटिकाभ्यः पलायितव्यमिति, तदा लैशलीमहोदयेन तेषां मस्तुलुङ्गस्य अतिसंवेदनशीलवल्कसंज्ञक बहिःस्थितभागस्य विभिन्नमात्रासु विभिन्नांशा अपसारिताः। उपलब्धं हि खल्वाश्चर्यजनकं तथ्यम्। नहि विशिष्टं क्षेत्रमपि तु वल्कमात्रयेदमनुमेयं भवति यत् कियती हि साऽभ्यस्ता क्रिया विलुप्ता जायत इति। अथवा नवीनाऽभ्यस्तक्रियाया अविनष्टांशस्तु अनपसारितमस्तुलुङ्गीयवल्कमात्रया परिमेयः। अपि च कस्यचिद् भागस्याऽपसारणानन्तरमपि तैर्वैज्ञानिकप्रवरैरिदं लक्षितं यत् चिकित्सानन्तरमपि ते मूषका अवशिष्टमस्तु लुङ्गीयवल्कपरिमाणाऽपेक्षया विलुप्तामभ्यस्तक्रियां पुनः शिक्षितुं प्रभवन्ति। मस्तुलुङ्गीयवल्कमात्राऽनुपातेनैव तेषां विलुप्ताभ्याससम्बन्धिन्यां पुनःशिक्षणक्रियायां साफल्यं भविष्यतीत्यभिसन्धिः।

किं तर्हि फ्रान्ज-लैशलीमहोदययोरनुसन्धानेभ्य इतः पूर्वनिर्दिष्टसंज्ञाचेष्टाधिष्ठानानां मस्तिष्कस्थानां वर्णितं मतं निराकृतम्? एवं सम्प्राप्तायां शङ्कायामस्माभिरुच्यते-नहि तयोः प्रयोगजातैः पूर्वोक्तमस्तुलुङ्गीयसंज्ञाचेष्टाधिष्ठाननिरूपणं प्रत्युक्तं जायते। तैः प्रयोगैस्त्विदं निर्णीतं यद्धि जटिलतरक्रियाशिक्षणे मस्तुलुङ्गीयः कोऽपि भागो विशेषतोऽनिवार्यो नास्तीति। यदि केनापि शल्यच्छेदादिकर्मणा कोऽपि मस्तुलुङ्गभागो विलुप्तो जायते, तत्सम्पादितक्रियासम्पादनार्थमन्ये मस्तुलुङ्गभागा व्यापृता भवन्ति तदभ्यासश्च पुनः शिक्षितुं शक्यत इति तेषां तात्पर्यम्।

मानवशारीरविज्ञाने फ्राञ्जमहोदयेनोपर्युक्तनिर्णयानां प्रयोगोऽप्यारब्धः। तेन निर्गलितमस्तुलुङ्गीयभागवतां रोगिणां विलुप्ताभ्यासानां पुनः शिक्षणेनाऽपीदं साधितं यद् वल्कस्थेतरभागास्तदभ्यासशिक्षणे संलग्ना जायन्त इति।

(८) न्यूयार्कस्थचिकित्सप्रवरेण ब्रिकनेरमहोदयेन' मस्तुलुङ्गीयविस्फोटचिकित्सार्थ मेकस्य रोगिणोऽग्रिममस्तिष्कपिण्डयोः शल्यच्छेदक्रिययाऽपसारितोऽधिकतमांशः। यद्यपि संज्ञाचेष्टाक्रियासु काऽपि दृश्या क्षतिर्न सञ्जाता, तथाऽपि तस्य रोगिणो व्यवहारोऽतीव परिवर्तितोऽभूत्। स हि रोगी अशान्तः वित्रस्त इव चुक्रोश, असंयतभाषी चाऽभवत् । स उच्चैरब्रवीत्, उच्चैरगायत् इतस्ततोऽनृत्यत्, स्वप्रशंसाञ्चानियन्त्रितो भूत्वाऽरब्धवान्। ब्रिकनेरमहोदयोऽतीवाश्चर्यमयेनानेन व्यवहारपरिवर्तनेनेदं निर्णीतवान् यद्धि अग्रिममस्तु लुङ्गपिण्डद्वयाधिकतमांशापसारणेन तस्य पुरुषस्य समन्वयस्थापनशक्ति: संयोजनयोग्यता वा विलुप्ता जाता, यतो हि तस्या विलोपेन स जटिलतरसमस्याविचारणं भाविकार्य क्रमनियोजनं स्वक्रियावेगादिनियमनञ्च सर्वथैव कर्तुमसमर्थः सञ्जातः।

अनुमस्तिष्कम्[सम्पादयतु]

अयं मस्तुलुङ्गभागो मस्तिष्कात् पश्चिमस्थो भवति। अनुमस्तिष्कस्यापरं नाम धम्मिल्लकमित्यपि प्रथते। "धम्मिल्लः संयताः कचाः' इत्यमरः। योषितां धम्मिल्लकाकारत्वादनुमस्तिष्कस्य धम्मिल्लकमिति व्यपदेशः। इदं लघुमस्तिष्कमित्यपि संज्ञा बिभर्ति। यतो हीदमपि मस्तिष्कमिव स्वाधीनक्रियातनमस्ति। धम्मिल्लकं मस्तिष्क भारस्याष्टमांशमितमस्ति। यूनो धम्मिल्लकं प्रायेण द्वादशतोलकमानम्। शिशोश्च प्रायेणानुमस्तिष्कं पञ्चतोलकमितं भवति, शैशवे मस्तिष्कस्य विंशतितमांशमानत्वात्। अनुमस्तिष्कं बहिषूसरवस्तुनिर्मितं भवति, अन्तश्च शुभ्रवस्तुना किञ्चिद्धूसरवस्तुगर्भितेन। अनुमस्तिष्कं मस्तिष्काज्जवनिकाख्य मस्तिकबाह्यवृतिभागेन पृथक्कृतमाच्छादितञ्च भवति। शुभ्रसूत्रमय्यो वृन्तिका धम्मिल्लकं मस्तिष्कोष्णीषकसुषुम्णाशीर्षकैर्बध्नन्ति। उत्तरवृन्तिकया मस्तिष्केन साकं मध्यवृन्तिकयोष्णीषकेण सार्धमधोवृन्तिकया सुषुम्णाशीर्षकेण सह सम्बद्धो भवति। धम्मिल्लके बढ्य: सीता गभीरा: सन्ति।

किन्तर्हि सिम्मल्लकस्य कार्यम्? धम्मिल्लकं हि खलु महत्त्वपूर्ण कार्य सम्पादयति। शरीरस्य विभिन्नक्रियासु संवेदनेषु च समन्वयात्मकं सम्बन्ध स्थापयति, शरीरसन्तुलनञ्च विविधास्वस्थास्वावहति। यदि धम्मिल्लकस्यापसारणं शल्यच्छेदेन कस्यचिज्जन्तोर्भवेत्, तर्हि स स्वशरीरसन्तुलनं धारयितुं न प्रभवति। इदं त्वक्-पेशी-सन्धिभ्य: सुषुम्णामार्गेण प्रत्यक्षं ज्ञानं गृह्णाति, अर्द्धवृत्ताकारनलिकाभ्य: श्रावणालोचनं चाक्षुषालोचनञ्च प्राप्नोति, मस्तिष्कवल्काच्च क्रियावेगानवाप्नोति। एतेभ्य: कारणेभ्य: क्रियारूपेभ्य इदं शरीरसन्तुलन धारणक्षमं जायते। यदा कोऽप्यैच्छिकक्रियावेग: शरीरपेशी: प्रति मस्तिष्कान्निर्गच्छति, स तूष्णीषकादिनाडीसूत्रद्वारेणैव सुषुम्णाकाण्डं नीयते। तत्कालमेव मस्तिष्कादनु मस्तिष्कमप्येक: क्रियावेगो निर्गच्छति। तस्मिंश्च क्रियावेगे सम्प्राप्ते धम्मिल्लकं शरीरसन्तुलनं धारयितुं कृतपरिकरो भवत्याशु।

१६. उष्णीषकम् उष्णीषकं नाम पश्चिममस्तुलुङ्गपिण्डस्य पौरस्त्यो भागो भवति। अस्येदमुपलक्षण मुष्णीषपट्टिकावदनुप्रस्थप्रसृताभिर्नाडीसूत्रपट्टिकाभिरवगम्यते। इदं मस्तिष्कधम्मिल्लक सुषुम्णाशीर्षकान् परस्परं संयोजयति। अस्योर्ध्वसीम्नि मध्यरेखामुभयतो मस्तिष्कमृणालके बहिर्निर्गते द्रष्टुं शक्यते। अस्य पृष्ठतः पार्श्वयोश्च स्तोकेनानुमस्तिष्कपिण्डद्वयं तिष्ठति। उष्णीषकस्याधस्तात् सुषुम्णाशीर्षकं भवति। इदं व्यङ्गलायतं सार्धाङ्गलदीर्घञ्च भवति। उष्णीषकं परितः शीर्षण्याः पञ्च नाड्यः प्रविशन्ति।

उष्णीषकं हि खलु महासंयोजकं मस्तिष्कानुमस्तिष्कसुषुम्णाशीर्षकादीना मित्युक्तमेव। अत्र दक्षिणमस्तिष्कगोलार्द्धमभिगच्छन्त: संज्ञावेगा वामशरीरभागत आगच्छन्तो दक्षिणपथं स्वीकुर्वन्ति। दक्षिणशरीरभागत आगच्छन्तश्च संवेदनवेगा मस्तिष्कवाम गोलार्द्धमभिगच्छन्तो वामपथं परस्परमुल्लङ्घय गृह्णन्ति। उष्णीषकमार्गेणैव च मस्तिष्कवामगोलार्द्धमनुमस्तिष्कस्य दक्षिणभागेन सहसम्बद्धं जायते, मस्तिष्कस्य दक्षिणगोलार्द्धमनुमस्तिष्कस्य वामभागेन साकं सम्बद्ध सञ्जायते। संज्ञावेगानामिव चेष्टावेगानामप्यत्रैव परस्परोल्लङ्घनं भवतीति सर्वमेतावतैवाऽध्यवसेयम्।

सुषुम्णाशीर्षकम्[सम्पादयतु]

सुषुम्णाशीर्षकं हि खलु सुषुम्णाकाण्डस्य शिखरे पश्चिमकपालमूलभागमधि तिष्ठति। इदं व्यङ्गुलमात्रेण दीर्घम्, अधस्तादस्य कनिष्ठिकापरिमितो परिणाहः। इदं सार्धाङ्गुलप्रस्थमस्ति। सुषुम्णाशीर्षकस्योर्ध्वभाग: स्थूलतरपरिणाहयुक्त उष्णीषकाध:सीम्नि तिष्ठति। अस्याधोभागः सुषुम्णाकाण्डेन सह सम्बद्धो भवति। सुषुम्णाशीर्षकं षष्ठ्यादिद्वादशान्तानां शीर्षण्यनाडीनां बहूनां केन्द्राणुकानाञ्चास्ति प्रभवनिर्गमस्थानम्। अत्रैव पश्चिमतो धम्मिल्लकाच्छादितं प्राणगुहाया निम्नार्धं वर्तते।

सुषुम्णाकाण्डस्य रचनायां त्रिविधं वैशिष्ट्यं भवति। प्रथमं तावत् सुषुम्णाशीर्षके धूसरवस्तु नहि सर्वत्र मध्यस्थं सुषुम्णाकाण्ड इव। इदं प्रायेण 'कन्दिका'१ संज्ञकं धूसरवस्तु पृथक्तो नाडीसूत्रजालेषु द्रष्टुं शक्यते। शुभ्रवस्तु बहिरेव वर्तते। द्वितीयञ्चास्य वैशिष्ट्यं यदत्र मुकुलिकाख्य मार्गगतचेष्टावहसूत्राणि वेणीबन्धक्रमेण तिर्यग् प्रसृतानि जायन्ते, दक्षिणसूत्राणि वामतः, वामसूत्राणि च दक्षिणतः प्रसरन्ति। एवमेव संज्ञासूत्राणामपरो वेणीबन्धश्चेष्टावहवेणीबन्धस्थानात्किञ्चिदूर्ध्वतरमधितिष्ठति। एष चास्य तृतीयो विशेषः। सुषुम्णाकाण्डान्तरीयो ब्रह्ममार्ग: शीर्षकस्योपरि भागे स्फारीभवति, तदधस्तात् प्राणगुहा च वर्तते। प्राणगुहा नाम चतुरस्रखातमिति प्रसिद्धमायुर्वेदविज्ञाने।

किं तर्हि सुषुम्णाशीर्षकस्य कार्यम् ? सुषुम्णाशीर्षकं हि समग्रसौषुम्णिकतन्त्रस्य नाडीसूत्राणां सङ्ग्राहकं संयोजकञ्चास्ति। इदं मस्तिष्कानुमस्तिष्काभ्यामागतानां नाडी सूत्राणामपि संयोजकमस्ति। मद्यपानां सुषुम्णाशीर्षकं धम्मिल्लकञ्च प्रौढव्यसनावस्थासु निर्गलितं जायते। एतस्मादेव कारणान्माध्वी पानकाले शरीराङ्गानां सन्तुलनं धारयितुं मद्यपो न प्रभवति। सुषुम्णाशीर्षके हि स्थितानि प्राणगुहायां प्राणरक्तसञ्चाराद्यतीवानिवार्य क्रियाणां प्रभवस्थानानि। सुषुम्णाशीर्षकञ्चेदाहतं भवेत्तर्हि तत्क्षणं पञ्चत्वमाप्नुयात् कोऽपि प्राणी। एतावतैवास्य महत्त्वमनुमेयम्।

मस्तिष्कसेतुः[सम्पादयतु]

मस्तिष्कसेतोवर्णनं प्रायेणार्यभाषायां लिखितेषु पुस्तकेषु विपर्यस्तमुपलभ्यते। तत्र मस्तिष्कसेतुस्तूष्णीषकपर्यायवाचकरूपेणोपन्यस्तः। अयं मस्तिष्कस्य गोलार्द्धद्वयं परस्परं संयोजयति। अयमनुदीर्घायां महासीतायामधस्तात् शुभ्रवस्तुभूयिष्ठोऽवतिष्ठते। अर्वाग्बुध्नकटाहवदयं ब्रह्मगुहामाच्छादयति। अयं मस्तिष्कसेतुः षडङ्गुलदी? भवति। अयं पूर्वापरप्रान्तयोः स्थूलतरो मध्ये च क्षीणः सार्धाङ्गुलप्रस्थो भवति। मस्तिष्क सेतोरुपरिष्टादनुदीर्घा महासीता वर्तते। मस्तिष्कसेतुरपि महासंयोजकोऽस्ति, महासंवेदन शीलनाडीसूत्रेभ्यो निर्मितोऽयं शुभ्रवस्तुमय: प्रतिभाति।

स्वतन्त्रं नाडीतन्त्रम्[सम्पादयतु]

इतः पूर्वमस्माभिर्मस्तिष्कसौषुम्णिकं तन्त्रं व्याख्यातम्। वयमिदानी स्वतन्त्रं नाडीतन्त्रं व्याख्यास्यामः। 'स्वतन्त्रम्' इति विशेषणमस्य नाडीतन्त्रस्य केन्द्रीयनाडीतन्त्रा नधीनत्वं सूचयति। बुद्धिविवेकेच्छादयो मानसिकविकाससम्पन्नमानवस्य नूनं महोत्कर्षाय भवन्ति। किन्तु पुरुषेच्छाधीनत्वात्तेषां सम्पादनं पुरुष: कर्तुमकर्तुमन्यथाकर्तुं वा शक्नोति। दृश्यते ह्यनियतं सम्पादनं वैविध्यसमन्वितत्वञ्च तेषाम्। किन्तु क्रियाणां शरीरयात्राधार भूतानामनियतत्वं सम्पाद्यते चेत्, तर्हि नूनमचिरादेव प्राणव्यसनमापतेत्। जगदीश्वरस्य महत्कौशलं खल्विदं यत् प्राणिनां शरीरधारणार्थमनिवार्यभूतानां क्रियाणां सम्पादनाय काश्चन क्रियाः स्वतन्त्रनाडीसंस्थानाधीना नियोजिताः, यतो हि तासां सम्पादनं नियतरूपेणाहर्निशमव्यवधानेन चालयितुं प्रभवेत्। रक्तसञ्जालनं श्वासप्रश्वासादिक्रिया भोजनपचनं मलमूत्रस्वेदाधुत्सर्ग इत्यादय: शारीरक्रिया अतीवापरिहार्यत्वान्नियतं कार्यक्षमत्वं नाडीतन्त्रस्याऽपेक्षन्ते। अत एवास्ति स्वतन्त्रं नाडीतन्त्रं तेषां सुसम्पादनाय। इदं नाडीतन्त्रं त्रिधा विभक्तुं शक्यते। यथा हि -

(अ) स्वतन्त्रनाडीमण्डलम् ।

(आ) परिस्वतन्त्रनाडीमण्डलम् ।

(इ) काश्चन विकीर्णा नाडीग्रन्थयश्चर। विकीर्णानां नाडीग्रन्थीनां वर्णनावसरे वयं योगतन्त्राभिमतानां चक्रादीनामपि विवेचनं करिष्यामः सङ्क्षेपत इति विशेषः।

स्वतन्त्रनाडीमण्डलं नाम पृष्ठवंशमुभयतः पुरस्ताद् नाडीसूत्रनिर्मितग्रन्थिमाला रूपमस्ति। प्राचां योगतन्त्राचार्याणां मते तयोर्वामदक्षिणयोर्ग्रन्थिमालयो मनी क्रमश इडा पिङ्गला चेति स्तः। वामपार्श्व इडा वर्तते, सव्येतरपार्श्वे च पिङ्गला।

इदं मालारूपं स्वतन्त्रग्रन्थिजालं मस्तिष्कदारभ्याऽनुत्रिकं यावत् त्रेधा विभक्तुं शक्यते वर्णनसौकर्याय-शीर्षण्यभाग: अनुपृष्ठिकानुग्रीविको भागः, अनुत्रिको भागश्चेति। शीर्षण्यानुत्रिकभागद्वयेन तु परिस्वतन्त्रं नाडीमण्डलं निर्मितं भवति। अनुपृष्ठिकानुग्रीविको भागस्तु' मध्यमभागापरनामधेयो वस्तुतः स्वतन्त्रनाडीमण्डलमिति संज्ञा बिभर्ति।

किन्नु खलु स्वतन्त्रनाडीमण्डलस्य कार्यम् ?[सम्पादयतु]

अस्मिन् इदं स्पष्टीकृतं यत् शीर्षण्यभाग: परिस्वतन्त्रनामण्डलस्य नेत्रस्थतारिकायाः सङ्कोचनविकासने करोति प्रकाशाधिक्यागमनिर्गमे। एवमेव चक्षुर्निमीलनमुन्मीलनमपि स्वभावत एव क्रियते। लालाप्रवाहोऽपि शीर्षण्यग्रन्थिसव्यपेक्षः। एवमेव हृदयश्वाप्रश्वास यकृदामाशयक्लोमान्त्रिकोपवृक्कवृक्कादीनां क्रिया अपि शीर्षण्यग्रन्थिप्रभवा:, किन्तु अंशत एताः क्रिया अनुग्रीविकानुपृष्ठिकभागीयग्रन्थिजालेनाऽपि सम्बद्धा जायन्ते।

स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलयो: कार्येष्वस्त्येको विशेषः। परिस्वतन्त्रनाडीमण्डलं शरीरधारणार्थं स्वतन्त्रनाडीमण्डलीयक्रियाभ्यः प्रतिकूलं क्रियाणां सञ्चारं करोति। अपि च स्वतन्त्रनाडीमण्डलं परिस्वतन्त्रनाडीमण्डलस्य क्रियाभ्यः प्रतिकूलं स्वकीयक्रियावेगान् प्रक्षिपति। उदाहरणत: स्वतन्त्रं नाडीमण्डलं हृद्गति वर्धयति, परिस्वतन्त्रञ्च नाडीमण्डल गपरथा हृद्गतिं सङ्कोचयति, ह्रासोन्मुखीकरोति, शिथिलीकरोति वा। एतासां प्रतिकूलक्रियाणां सम्यग्व्याख्यानायाधस्तादेका तालिका प्रदर्श्यते।

स्वतन्त्रनाडीमण्डलकार्यप्रदर्शिका तालिका
शरीराङ्गम् स्वतन्त्रनाडीमण्डलीयाः क्रियाः परिस्वतन्त्रनाडीमण्डलीयाः क्रियाः
हृदयम् संवर्धयति शिथिलीकरोति
परिसरीयधमन्यः रक्तातिशयेन विकासयति रक्ताल्पतया सङ्कोचयति
आन्त्रिकधमन्यः रक्ताल्पतया सङ्कोचयति रक्तातिशयेन विकासयति
नेत्रतारिका विकासयति, प्रकाशातिरेकः सङ्कोचयति, प्रकाशन्यूनता
स्वेदग्रन्थय: स्वेदप्रसेकः
रोमावलिः रोमाञ्चं करोति
उपवृक्कग्रन्थय: रसप्रस्रवणम्
यकृत् रक्ते शर्कराविक्षेपः क्लोमरसस्य प्रक्षेपः, रक्ताच्छर्कराह्रास:
लालाग्रन्थय: लालारसं समापयति लालारसं वर्धयति
आमाशयः सङ्कोचनं रसप्रस्रवणं प्रतिबध्नाति सङ्कोचनं रसप्रस्रवणं वर्धितं भवति
आन्त्रिकाणि सङ्कोचनं रसप्रस्रवणञ्च समाप्तं करोति सङ्कोचनं रसप्रस्रवणञ्च वर्धयति
मलाशयः मूत्रोत्सर्गवेगशान्तिः मलोत्सर्गो वेगान्वितः
मूत्राशयः मूत्रोत्सर्गवेगशान्तिः मूत्रोत्सर्गों वेगयुक्तः
जननेन्द्रियाणि वीर्यप्रवाहिनलिकाः सङ्कोचिताः उत्तेजनमुत्थितत्वं वर्धितम् [२२]

एष तावन्निर्गलितोऽर्थः स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलकार्यविषयक:- परिस्वतन्त्र नाडीमण्डलं हि खलु शरीरपोषणविकासप्राणधारणधातुपरिपाकादीनि सर्वदैवापरिहार्याणि कार्याणि सम्पादयति। स्वतन्त्रनाडीमण्डलञ्चानुग्रीविकानुपृष्ठिकग्रन्थिजालरूपमपरथा केवलं विशेषावश्यकतावसर एव कार्यमुपक्रमते। इदं स्वतन्त्रनाडीमण्डलानुबन्धिविशेषावश्यकता मतं श्रीकैननमहोदय: अमेरिकादेशीय: १९७३ वै० संवत्सरे प्रतिपादितवान्। तन्मते विशेषावश्यकतानुसारं शरीरं बद्धपरिकरं सत् कार्यकारणार्थमतिशयशक्तिप्रदानार्थञ्च स्वतन्त्रं नाडीमण्डलं विशेषेण कार्यभूमाववतारयति। भोजनपरिपाकक्रिया रुद्धा जायते. रक्तातिरेकश्चैच्छिकपेशी: प्रति प्रसरति, येन प्रहाररूपं कर्म पलायनरूपं वा कर्म सकरं भवेत्। हृदयमपि द्रुतगतिना रक्तातिशयं ता: पेशीरनुप्रेषयति।

यकृन्नलिकयाऽपि शर्करातिशयम् अर्वाचीनं मनोविज्ञानम् रक्तस्रोतसि प्रक्षिप्तं जायते, येन दुर्वहपेशीजन्या: क्रियाः सम्पाद्येरन्। श्वासनलिकाऽपि या फुफ्फुसे अभिगच्छति, स्थूलतरा विकसिता वा सञ्जायते, येनोषीजनाधिक्यसम्प्राप्तिः सुवहा भवेत्, शीघ्रतरञ्च श्वसनप्रश्वसने सम्भवेताम्। उपवृक्कग्रन्थी च रक्तप्रवाहे विशिष्टमेकं रसं प्रस्रवतः, येनान्त्रिकक्रियासु स्वतन्त्रनाडीमण्डलीयप्रभावोऽपि संवर्धते। तद्रसश्च महासङ्ग्राहकः । स्वतन्त्रनाडीमण्डलकार्यजन्यः प्रभावो हि खल्वनेन द्विगुणीभवति। अपि च, परिस्वतन्त्रनाडीमण्डलं पृथक्तः स्वायत्ताङ्गविशेषमप्युत्तेजयितुं प्रभवति। नहि तथा स्वतन्त्रं नाडीमण्डलम्। अपरन्तु निखिलशरीरस्य स्वायत्तविविधाङ्गानां क्रिया युगपदेव जनयति, येन विशेषापत्तिप्रतीकारवेलायां सामूहिकी शरीरप्रतिक्रिया सुदृढा सफला च सम्भवेत्।

विकीर्णा ग्रन्थयः[सम्पादयतु]

वयमधुना विकीर्णानामितस्तत: शरीरे ग्रन्थीनां सङ्क्षिप्तं विवेचनमुपस्थापयामः। केचन मनोवैज्ञानिका मन्यन्ते यद्धि मानवचस्त्रिरूपावधारणे दृश्यते हि तासां सुमहान् प्रभावः। ग्रन्थीनां द्वेधा वर्गीकरणं कर्तुं शक्यते-सप्रणालिका ग्रन्थय:, प्रणालिकारहिताश्च ग्रन्थयः। सप्रणालिका ग्रन्थयो यथा- लालारसाश्रुस्वेदादिग्रन्थय: प्रणालिकाभिः स्वकीयं रसं परिसरीयशरीरभागे तत्सविधे वा शरीरे प्रमुञ्चन्ति। निष्प्रणालिका ग्रन्थयस्त्वपरथा प्रणालिकां विनैव स्वकीयं रसं साक्षाद्रक्तप्रवाहे सन्निकृष्टासु पेशीषु वा प्रस्रवन्ति प्रच्यावयन्ति वा। तासाममितप्रभावो मनोवैज्ञानिकानां दृष्टिपथं पञ्चाशद्वर्षमात्रपूर्वमायातः। वयमत्र चुल्लिका, उपचुल्लिका", उरस्यग्रन्थि:६, उपवृक्कग्रन्थिः', त्रिधाराग्रन्थि , पौषणिका ग्रन्थिः', इत्यादिग्रन्थीनामुपयोगपुरस्सरं विवेचनमारभामहे।

चुल्लिका - इयं ग्रन्थि: कण्ठमणिरिति नाम्नाऽपि प्रथते। अस्याभिधानमाङ्गलभाषायां 'थाइराइड' इत्यस्ति। एतस्या एक: रस: साक्षाद्रक्तप्रवाहे निक्षिप्यते, सशरीरस्य पुष्टि वर्धयति। भयक्रोधादिसंवेगेषु चुल्लिकाकार्यं शिथिलीभवति। फलतो मानवो रुग्णो दुर्बलश्च सञ्जायते। हर्षे चुल्लिकाकार्यं वर्धते। तेन मानवस्य स्वास्थ्यमपि प्रगति करोति। प्रयोगादिभि: साधितं यत् चुल्लिकारसवर्धनेन शिक्षणस्मरणादिषु मानसिककार्येषु प्रगतिः सम्भाव्या। श्वासनलिकायाः पार्श्वस्थितायाश्चुल्लिकायाः कार्यह्रासान्मानसिक शारीरिकवृद्धिरवरुध्यते। मानवोऽशान्तो जायते, कचह्रासोऽपि जायते, शरीरतौलमपि वर्धते। चुल्लिकाया रसाधिक्येन च मानवोऽशान्त:, नाडीविकारग्रस्त:, क्रियाशक्तिसमन्वितश्च सञ्जायते।

प्रयोगविशेषोऽपि वर्णनीयोऽस्याः कार्यविषये। ‘फ्लोरेंसमैटियर' इति संज्ञको बालको चुल्लिकारसह्रासयुक्त आसीत्। यदा वर्षचतुष्क एवासीत् तदानीं तस्य बुद्धिलब्धाङ्क: पञ्चाशत्त ऊर्ध्व: षष्टितो न्यूनश्चासीत्। तस्य शरीरतौलमप्यत्यधिकमेवासीत्, शुष्कत्वक्लेशयुक्तश्चासीत्। चुल्लिकारसप्रदानेन बालकस्य मानसिकप्रगति: संलक्षिता। पञ्चवर्षानन्तरं स एव नवतिमितं बुद्धिलब्धाङ्क प्राप्तवान्। पारिवारिकोपेक्षातश्चल्लिकारसमयी चिकित्सा परित्यक्ता सञ्जाता, अतोऽनन्तरं कक्षाकार्यमपि ह्रासोन्मुखं गतम्, बुद्धिलब्धाङ्कोऽ प्यपगतोऽभवत्। अचिरादेव स जटिलव्यवहारान्वितोऽभवत्। अनेनानुमातुं शक्यतेऽ सामान्याभ्यन्तरग्रन्थिस्रावस्यापरिमित: प्रभावः।

पौषणिका ग्रन्थिः - अस्या ग्रन्थे: स्रावातिरेकेण दैर्घ्य शरीरस्य वर्धते। सुषुम्णाशीर्षकस्य पार्श्वस्थिताया अस्या प्रभाव: प्रजननेन्द्रियक्रियास्वपि संलक्ष्यते, यथा च ग्रन्थिद्वयस्यापि। ते ग्रन्थी-उरस्यग्रन्थि: 'थाइमस'संज्ञिका, ‘त्रिधाराग्रन्थिः' इति संज्ञिका च स्तः। प्रथमा वक्षस्यूज़भागे तिष्ठति, अपरा च मस्तुलुङ्गमध्ये वर्तते। अस्तु तावत्, 'रोबर्टवालो' इत्यभिधानीयोऽमेरिकनबालको द्वाविंशतितमे वर्षे द्वादशवितस्तिमितो दीर्घ आसीत् पोषणिकाकार्याधिक्यात्। रसाल्पत्वाच्च वामनत्वमापद्यते।

उपचुल्लिका: - संख्यया ताश्चतस्रः सन्ति। चुल्लिकाया दक्षिणपार्श्वे द्वे, वामपार्श्व च द्वे चणकाकारास्तिष्ठन्ति। तेषां क्रियाह्रासादस्थिदौर्बल्यं जायते।

सन्ति हि खलु क्लोम-यकृत-प्रजननेन्द्रियादीनि शरीराङ्गाणि सप्रणालिक निष्प्रणालिकग्रन्थिरूपाणि। क्लोमग्रन्थिस्तु' एकं रसं निष्प्रणालिकरूपेण रक्तप्रवाहे स्रावयति, यस्याऽभावे मधुमेहः सञ्जायते। सप्रणालिकग्रन्थिरूपेण यकृताऽपि निष्प्रणालिक ग्रन्थिवदेव रक्तप्रवाहे शर्कराऽतिरेको प्रदीयते, तेन क्रियाशक्तिहर्षश्च वर्धेते। प्रणालिकया च यकृत् पित्तमामाशये भोजनागमे भोजनकाले वा प्रक्षिपति, येन भोजनपाचनकार्यं सुकरं जायते। प्रजननेन्द्रियानुबन्धिग्रन्थयो निष्प्रणालिकरूपेण साक्षाद्रक्तप्रवाहे विशिष्टं रसं प्रक्षिपन्ति, येन वयःसन्धिकाले क्रोधकामादिसंवेगानां वृद्धिः सञ्जायते, कुमारेषु स्वरभेदशष्पहानव्यरोमादिवर्धनं कुमारीषु च पुष्पदर्शनोरोजवृद्धिस्वरभेदलज्जादिवर्धनञ्चा विर्भवति। मानसिकक्रियासु परिवर्तनमपि सञ्जायते संवेगानुकूलमेव।

वस्तुत आभ्यन्तरग्रन्थिजालं परस्परसम्बद्धतयैव शरीरे प्रभावमुत्पादयतीति प्रतिभाति। पृथक्तो ग्रन्थिविशेषस्य प्रभावं निर्देष्टुमतीव दुःसाध्यम्, तथापि क्रियाशक्त्यतिरेके, मानसिकशारीरिकविकासे संवेगात्मकव्यवहारे चातीव महत्त्वपूर्णप्रभावोत्पादकत्वात्तासां विशेषाऽध्ययनं साम्प्रतमपि मनोविज्ञानानुरक्तैः करणीयमेव।

षट्चक्रम्[सम्पादयतु]

भारतीययोगतन्त्रसाहित्ये षट्चक्राणां स्वतन्त्रग्रन्थिरूपाणां वर्णनमप्युलभ्यते। नहि तेषां बाह्यव्यवहारे प्रभाव: क्वचिदपि वर्णितः। तानि मूलाधार-स्वाधिष्ठान-मणिपूर अनाहत-विशुद्ध-आज्ञासंज्ञानि षट्पद्मानि, षट्चक्राणि इति यावत्। तेषामध्ययनं पाश्चात्यनाड़ीमण्डलविषयकानुसन्धाने नैवोपलभ्यते। तेषां वर्णनं योगशास्त्र एवमुपलभ्यते -

चतुर्दलं स्यादाधारे स्वाधिष्ठाने च षड्दलम्।

नाभौ दशदलोपेतं सूर्यसंख्यदलं हृदि।।

कण्ठे स्यात् षोडशदलं भ्रूमध्येऽशीतिसम्मितम्।

सहस्रदलमाख्यातं ब्रह्मरन्ध्रे तु पङ्कजम्।। इति।

महामहोपाध्यायगणनाथसेनसरस्वतीनां मते तु सर्वाणि चक्राणि सुषुम्णास्थितानि। परन्तु योगशास्त्रे तन्त्रे चैतेषां चक्राणां स्थानविशेषाणि भिन्नप्रकारेण वर्णितानि। तथा हि -

१. मूलाधारे गुदास्थाने मूलाधारचक्रम् - इदं रक्तिमवर्णपङ्कजरूपं चतुर्दलं भवति। श्रीगणेशस्याऽस्त्यत्र स्थानम्। एतत्पर्यन्तमेव सुरतपवनस्य गतिर्विद्यते। चतुर्दलेषु क्रमश: व, श, स, ष-इत्यक्षराणि लिखितानि।

२. स्वाधिष्ठानचक्रम् - अस्य चक्रस्यायतनं लिङ्गमूलमिति प्राञ्चः। पीताभं षड्दलमिदं भवति। तेषु दलेषु कमलपत्रेषु षडक्षराणि ब, भ, म, य, र, ल- इति लिखितानि। अस्य देवता सावित्र्युपेतो ब्रह्मा, शक्रादयः सर्वे देवाश्चेति।

३. मणिपूरं चक्रम् - अस्य स्थानं नाभिदेशः। नीलाभमिदं चक्रं दशदलोपेतम्। तेषु दलेषु क्रमाद् ड, ढ, ण, त, थ, द, ध, न, प, फ-इति वर्णानि लिखितानि। देवता चाऽस्य विष्णुर्महालक्ष्म्यभ्युपेतः।

४. अनाहतं चक्रम् - अस्य स्थानं हृदयदेश:। अस्मिन् द्वादशकमलपत्राणि श्वेतवर्णकानि सन्ति। अस्याधिष्ठातृदेवता साक्षाद्भगवान् शिव उमायुक्तः। द्वादशाक्षराणि क्रमात् क, ख, ग, घ, ङ, च, छ, ज, झ, ञ, ट, ठ-इति लिखितानि।

५. विशुद्धं चक्रम् - अस्य स्थानं कण्ठप्रदेशः। षोडशदलमिदं कमलचक्रम्। षोडशाक्षराणि च क्रमाद् अ, आ, इ, ई, उ, ऊ, ऋ, ऋ, लु, लु, ए, ऐ, ओ, औ, अं, अ:- इति एकैकस्मिन् दले लिखितानि। अस्याधिष्ठातृदेवता वागस्ति।

६. आज्ञाचक्रम् - अस्य स्थानं ध्रुवोर्मध्यम्। द्विदलं चेदम्। अस्य देवता ज्योतिः। द्वे अक्षरे च, हं, स-इति प्रतिदलक्रमाल्लिखिते स्तः। केषाञ्चिदाचार्याणां मतेऽशीतिदलोपेतमाज्ञाचक्रं भवतीति।

७. सहस्रारं चक्रम् - उत्तमाङ्गस्य मध्येऽस्य स्थानम्। हंसो नामेदं दलम्। अस्य सहस्रपत्राणि दलानीति यावत् सन्ति। किंस्वित् सहस्रारमेव मस्तुलुङ्गम्? श्रीगणनाथसेनसरस्वतीमहोदयैः सहस्रारं सहस्रदलं कमलचक्रमेव मस्तुलुङ्गमित्यभिमतम्। तैस्तु-“तत्र च साङ्गोपाङ्गं मस्तिष्कं सहस्रदलसादृश्यात् सहस्रारमिति सर्वज्ञानप्रलयकरं मन्यन्ते योगिनः' इत्युक्तम्।

किं तद्येतानि चक्राणि सुषुम्णास्थितानि? यद्येवञ्चेत् तर्हि कुण्डलिन्या: सुषुम्णामार्गेणो र्ध्वगमनवर्णनेन सहास्य सङ्गतिर्नू भविष्यति। उक्तं हि पूर्णचन्द्राचार्येण षट्चक्रनिरूपणे -

मेरोर्बाह्यप्रदेशे शशिमिहिरशिरे सव्यदक्षिणे निषण्णे मध्ये नाडी सुषुम्णा.... .......

.......................सकलसरसिजान् मेरुमध्यस्थान् भित्वा देदीप्यते सा................

परन्तूपर्युक्तविशिष्ट स्थानविवरणेनैवेदं प्रतिभाति समीचीनम्। अपरञ्च कुण्डलिनी सर्पिण्याकारा नाभिप्रदेशेऽवलम्बिता भवति। केषाञ्चिद् योगिनां मते लिङ्गमूलं परिवेष्ट्य सर्पाकारा कुण्डलिनी वृषणाद् द्व्यङ्गुलमधस्ताद् गुदस्थानाच्चतुरङ्गुलमन्तर्यावत् स्वपिति। उक्तं चेदमपानवायुप्रभावादधोमुखानि सर्वाणि कमलरूपचक्राणि जन्मन आरभ्य सन्ति। जन्मन: प्राक्तु गर्भे सर्व ऊर्ध्वमुखान्यासन्निति। प्राणायामद्वारेणाऽपानवायोर्नियमनात् कुण्डलिन्या जागरणेनोर्ध्वरेतस्त्वमवाप्तुं सप्त कमलानि चोर्ध्वमुखीकर्तुं शक्यन्ते। तानि निर्भिद्य कुण्डलिनी सहस्रारमभिगच्छति।

सन्दर्भाः[सम्पादयतु]

  1. Prof. J.A. Thompson-'Only in or ganisms. is thre true behaviour in which the creature is an agent and exhpits a correlated and concatenated serice of acts, effective towards some definite results, favourable to the continuance and harmony of vital processes."
  2. Willam James. "The pursuance of future ends and choice of means for their attain ment are thies the mark and criterion of the presence of mentality in a phenomenon."
  3. नाडीकन्दाणुकम्-Neuron केन्द्रकणिका-Nucleus द्रष्टव्यम्-म०म० गणनाथसेनविरचितं प्रत्यक्षशारीरम्, नाडीखण्डम्, पृ० १०-११।
  4. Prof. Jennings-'The writer is thoroughly convinced after long study of the behaviour of this organism. that if amoeba were a lerge amimal, so as to come wittin the every day experience of human berings, its behaviour would at once call forth the attribution to it of states of pleasure and pain, of hunger, desire and the like, on preasely the same basis as we attribute things to the dog.
  5. द्रष्टव्यम् - मालतीमाधवम्, ५।१, पृष्ठ १०९, नि० सा० प्रे० संस्करणम्।
  6. “समाधिकदशनाडी'' इत्यपि पाठः कुत्रचिदुपलभ्यते।
  7. द्रष्टव्या-टिप्पणी १, पृष्ठं ३६, पूर्ववत्।
  8. द्रष्टव्या-श्रीमद्भगवद्गीता, १८।६१
  9. द्रष्टव्या-तैत्तिरीयोपनिषद्, वल्ली १, अनु० ६, मन्त्रः १।
  10. द्रष्टव्य:- ऋग्वेदः १०।१२९।४
  11. द्रष्टव्या-सुश्रुतसंहिता, शारीरस्थानम्, ४।३१, पृ० ३०३,
  12. द्रष्टव्यम्-माधवनिदानम्, पृ० १८०, श्लोक: ५।
  13. द्रष्टव्या-चरकसंहिता, सूत्रस्थानम्, अध्यायः ३०, पृ० २०८, (नि० सा० प्रे० संस्करणम्)
  14. द्रष्टव्या-चरकसंहिता, सूत्र०, अ-१७, पृ० ९७।
  15. द्रष्टव्यम्-सुश्रुत० शारीरस्थानम् ३।३२, पृष्ठं २९८, नि० सा० प्रे०।
  16. द्रष्टव्यः- अथर्ववेदः १०।२।२५-२६, २८, २९, ३०, ३१, ३२ मन्त्राः।
  17. द्रष्टव्यम्- मालविकाग्निमित्रम्, २।
  18. द्रष्टव्यम्-प्रत्यक्षशरीरम्, नाडीखण्डम्, पृ० ३, पादटिप्पणी।
  19. द्रष्टव्या-चरकसंहिता, सूत्रस्थानम्, अ० ५, पृ० २८२, नि० सा० प्रे० सं०।
  20. द्रष्टव्या सुश्रुत० शा० ६ अ०।
  21. द्रष्टव्यम्-C. Judson Herrick, 'Introduction to Neurology', (W. B.Saunders company, Philadelphia, 5th edn. 1931).
  22. Walter canon, Bodily changes in Pain Hunger, fear and Rage (Appleton 2nd eden. 1929)

सम्बद्धाः लेखाः[सम्पादयतु]