मनोविज्ञाने अभ्यासशिक्षणादिविवेचनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने अभ्यासशिक्षणादिविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। तस्य सर्वज्ञाने सति साधनायां, सामान्यजीवने चे विघ्नाः न्यूनाः भवन्ति।

अभ्यासस्य व्याख्या[सम्पादयतु]

अथातो वयं शिक्षणमनुव्याख्यास्यामः। अभ्यासो नाम शिक्षणस्यापरो व्यपदेशः। प्रागुक्तमूलप्रवृत्तिसामान्यप्रवृत्त्यादिषु मानवव्यवहारस्य निम्नतमं रूपं प्रारम्भिकं वा सामान्यं रूपं वयं लभामहे। मानवव्यवहारस्योच्चतमा अवस्थाविशेषास्तासां मूलप्रवृत्तीनां परिवर्तनेनाभिनिर्वर्तन्ते। मूलप्रवृत्तिसामान्यप्रवृत्त्यादीनां परिवर्तितं रूपं विविधाभ्यासैच्छिक- प्रयत्नादिषु चोपलभ्यते। पौनःपुन्येन यत् कर्म क्रियते, तदभ्यासरूपं कालान्तरे बिभर्त्ति । अनभ्यासदशायां शिक्षणं नाभिसम्पद्यते, अत एव वारं वारं कर्मसम्पादनेन योऽभ्यासः क्रियारूपो विचाररूपो वा जायते, तच्छिक्षणाय कल्पते, तदेव शिक्षणं वेति वयं वदामः। मूलप्रवृत्त्यादयो नैसर्गिक्यः क्रियास्तु व्याख्यातपूर्वाः। ऐच्छिकप्रयत्नस्वरूपमग्रे वयं विमृशामः। सम्प्रति वयमभ्यासस्वरूपं विमृश्य शिक्षणप्रकाराननुव्याख्यास्यामः ।

मूलप्रवृत्त्यभ्यासयोर्भेदः[सम्पादयतु]

मूलप्रवृत्तिसदृश एवाभ्यासो भवति, यतो ह्यभ्यासरूपा प्रतिक्रिया समानरूपेणा- नायासेन च नियतपरिस्थित्यां समुपस्थितायां प्रवर्तते। एवम्प्रकारेण केषाञ्चन पुरुषाणां प्रातर्ब्राह्ये मुहूर्ते व्युत्थानरूपोऽभ्यासो भवति । चतुर्वादने ते उत्थाय शौचादितो निवृत्ता भूत्वा भगवद्भागीरथीतीरे स्नानार्थं गच्छन्ति। नह्यभ्यासमन्तरा पौनःपुन्येन कर्मसम्पादेन सततविचारेच्छासहकृतेन प्रतिफलितशिक्षणं विना चतुर्वादने पर्यङ्काद् व्युत्थानं सम्भवति । किन्त्वभ्यासे निष्पन्ने सर्वमेतदनायासमेव समानरूपेण प्रत्यहं निष्पद्यते । कालान्तरे विचारेच्छासहकृतमेवाभ्यासरूपं वयं लभामहे। विशिष्टप्रकारकोत्तेजकीभूतायां परिस्थित्यां नियतोऽभ्यासः प्रवर्तते, नियता प्रतिक्रिया प्रसूयते । या प्रतिक्रिया प्रारम्भे विचारेच्छासहकृता, किन्तु कालान्तरे नियतरूपा अनायासा प्रायो विचारेच्छासहकृता भवति, सैव 'अभ्यास’ इति व्यपदिश्यते। तथाप्यभ्यासोनाम मूलप्रवृत्त्यसदृशोऽपि भवति । अभ्यासो नाम अधीता प्रतिक्रिया, मूलप्रवृत्तिस्त्वनधता जन्मजाता वंशानुक्रमागता प्रतिक्रियेति विशेषः । किञ्चाभ्यासाः प्रतिपुरुषं भिद्यन्ते, मूलप्रवृत्तयश्चापरथा जातिगतसामान्यगुणायत्ताः प्रतिक्रियारूपाः। यथा कश्चन पुरुषः प्रातदर्शवादने, कश्चिदन्यो द्वादशवादने, अपर एकः प्रातरेवाष्टवादने प्रातराशार्थं प्रवर्तमानो दृश्यते । एवमेवेको रात्रौ दशवादने स्वपिति, अन्यश्चैको द्वादशवादनं यावच्चलचित्रादीनि सम्पश्यन् जागर्त्ति । अपरश्चैकोऽष्टवादनानन्तरं जागरणं कथमपि सोढुं न प्रभवति । सिद्धं तर्हि प्रतिपुरुषं भिद्यमानानामभ्यासानामानन्त्यम्। अभ्यास- सौष्ठवान्वितप्रकर्षानुसारमेवाचरणज्ञानचिन्तनप्रकारभेदाः सिध्यन्ति। अभ्यासभेदान् वयमग्रे व्याख्यास्यामः। अत्र तु प्रकृतमधिकृत्येदमुक्तं भवति-मूलप्रवृत्तिसामान्यप्रवृत्त्यादयो जन्मजाता अनधीताः क्रिया भवन्ति । अभ्यासश्च अधीतं क्रियारूपम्, यच्च व्यवहारानुभवप्रकर्षेण सह प्रकृष्टमनायासं सफलं स्वतः सिद्धञ्च जायते ।

सहजक्रियाभ्यासयोर्विशेषः[सम्पादयतु]

सहजक्रिया नैसर्गिकी जन्मजाता क्रिया या सुषुम्णायां स्थितेन नाडीसम्बन्धेन सम्पाद्यते। नाडीसम्बन्धेषु खल्वेवंविधा क्षमता जन्मतः प्रागेव विधात्रा प्रदीयते, यया लघूनि नितान्तमावश्यकानि कार्याणि मस्तुलुङ्गायासं विनैव सम्पद्येरन्। अभ्यासोऽपि सहजक्रियासदृश एव भवति, अनायासक्रियारूपत्वात् ; किन्त्वभ्यासो हि खल्वधीता क्रिया, या शनैश्शनैर्विचारेच्छासंवलितकर्मानुष्ठानेनोपार्जिता जायते । समागते धूल्यतिरेके चक्षुषी निमील्येते । एषा चक्षुर्निमीलनाख्या क्रिया जन्मजाता। अतो नेयमनुभवद्वारा अध्ययनविशेषमपेक्षते; किन्तु नवजात शिशुर्यदा रोदिति, तदा माता आगत्य क्रोडीकृत्य तं दोलायति, ततः परं शिशुः स्वपिति। एकवारं द्विवारं वेत्थम्भूतानुभवनेन शिशुः कालान्तरेऽभ्यासं गृह्णाति शिक्षते वा । यावन्न क्रोडे सन्निधाप्य स दोलायितो जायते, तावन्न स निद्रामवाप्नोति, प्रत्युत रोदित्येव । धनिकानां केचन शिशवो लघुपर्य्यङ्केषु दोलायमानेष्वेव निद्रां लभन्ते। एवम्प्रकारकोऽभ्यासः कालक्रमेण तेषां जायते। जलं पीत्वा शौचाय केचन गच्छन्ति । अपरे 'चाय' इति क्वाथं पीत्वैव शौचाय कल्पन्ते । एते सर्वेऽनुभवनानन्तरं समुत्पद्यन्ते ! अत एव तेऽधीता इत्यभिधीयन्ते, अनुभवजन्य-शिक्षणायत्तत्वात्। सहजक्रियाः स्वत एव जायन्ते, स्वायत्तास्ताः । नहि तथाभ्यासाः, ते तु प्रयत्नजन्या भवन्ति । प्रयत्नाश्च विचारेच्छानिश्चयाद्यारूढाः सम्भवन्ति । अभ्यासाः प्रथमं विचारेच्छासहकृतप्रयत्नरूपाः कालान्तरे परिपक्वा जायन्ते । परिपाके सति तेषां निष्पन्नं रूपमनायासं स्वायत्तमिव परिणमते ।

अभ्यासनिर्माणप्रकारः[सम्पादयतु]

ननु कथमभ्यासा निम्मिता भवन्ति ? अभ्यासनिर्माणं हि खलु मस्तुलुङ्गीयमृदु- पदार्थे नवीननाडीस्रोतसां निर्माणेन जायते । मस्तुलुङ्गीयमृदुद्रव्येऽभिनवकर्षाः कार्यानुरूपाः सम्भवन्ति। कर्षगाम्भीर्यमप्यभ्यस्तक्रियायाः पुनरावृत्तिव्यपेक्षया जायते। मस्तुलुङ्गीयकर्षानु- रूपं तत्तत्कार्यसम्पादनार्थं विशिष्टानि नाडीकन्दाणुकानि समुत्पद्यन्ते, ये चेष्टावहनाडीवेगान् वोढुं समर्था भवन्ति। अत एव अभ्यासो नाम अभिनवनाडीवेगस्रोतोनिर्माणमिति। अभिनवनाडीस्रोतांसि तदैवाविर्भवन्ति, यदा मस्तुलुङ्गीयं द्रव्यं मृदु संस्काराधानक्षमं वा भवति। तच्च निसर्गतो बाल्ये भवति । अन्यच्च, प्राणिनोऽवयवानां विकासस्तथैव जायते, यथाऽयं तस्य तस्यावयवस्योपयोगं कुरुते । एकदा कस्यापि कार्यस्य सम्पादनं तस्यैव कार्यस्यापरेद्युस्तदनन्तरं वा सम्पादनं सुकरं करोति । वारं वारं तदभ्यासेन सा क्रिया नूनं स्वभावाङ्गत्वमवाप्नोति। प्रथमक्षणेऽनभ्यासदशायां प्रयत्नापेक्षा भवति । किन्तु कियद्वारं तत्कर्मसम्पादनानन्तरं प्रयत्नापेक्षा न भवति । तदैव सा क्रियाभ्यस्ता 'अभ्यासः' वेति निगद्यते। पौनःपुन्येन कर्माभ्यासेन अल्पशक्तिक्षयो जायते, कार्येऽल्पतमप्रयत्नापेक्षा भवति, कार्यञ्च सुष्ठुतरमल्पकालेन च सम्पद्यते । कार्यविशेषेऽभ्यस्ते सतिं प्रतिपदं ध्यानस्य सक्रियस्यापेक्षा न भवति । यदा काचन बाधा सामान्यतोऽभ्यस्तक्रियायां जायते, तदैव ध्यानस्य किं वा ध्यानान्वितप्रयत्नस्यावसरः समुपस्थितो भवति । अनेन प्रकारेण अभ्यासनिर्माणेन प्रयत्नकालादिमितव्ययिता जायते, ययान्येषां कर्मणां सम्पादनाया- वसरोऽपि सुलभो भवेत् । शरीरविकासोन्मुखवेलायां नाडीगतद्रव्यं मृदुतमं भवति । आचरणाध्ययनसुकार्य- विषयकाभ्यासास्तदानीन्तनमृदुनाडीगतद्रव्यस्य संस्काराधानक्षमत्वेन चिरप्रभावा जायन्ते । अत एवोक्तं भवति - " बाल्यं हि सद्वृत्तस्य रमणीयमुद्यानम्” इति । मूषास्थानीयं हि मस्तुलुङ्गीयं नाडीद्रव्यम्। कार्यस्वरूपवैचित्र्यानुसारमेव तस्मिन् संस्कारा आधीयन्ते। किन्तु यदा केचन अभ्यासा निम्मिता जायन्ते, तदा तद्विपरीताभ्यासनिर्माणं द्विगुणं कालमपेक्षते, द्विगुणं प्रयत्नम्, द्विगुणञ्चेच्छाशक्तिवेगमपेक्षते । कथम् ? प्रथमं तु पूर्वाभ्यासखचितमस्तुलुङ्गीयद्रव्यगतकर्षाणां पाटनं करणीयम्, तदनन्तरमेवाभि- नवाभ्यासजननाय नवकर्षाधानं क्रियते । पूर्वाभ्यासोपयुक्तचेष्टावाहिनाडीवेगानां नियन्त्रणं परिष्कारश्चानवरतध्यानोपेतप्रयत्नेनैव सिध्यति। प्रथमाभ्यासस्तु सौकर्य्येणोत्पद्येत; किन्तु तदपाकरणानन्तरमेवाभिनवस्तद्विपरीतोऽभ्यासो जायते। अतः सर्वमवदातमेवेदं नाडीगत- द्रव्यस्वरूपावधारणेन। एवमेव कैशोरावस्था यौवनमपि चाभिनवाभ्यासानां ग्रहणाय समुपयुक्ततमा वेला भवति । तस्मिन् काले येऽभ्यासविशेषा आचारविचारव्यवहारादिषु प्रादुभवन्ति, तेषामदम्य: प्रभाव आमरणं दृश्यते, तेषामपाकरणमपि दुर्निवारमेवेति मन्यन्तेऽर्वाचीना मनोवैज्ञानिकाः । कारणञ्चात्र प्राक्तननाडीस्रोतसां प्रतिरोध एवेति । गृहे पाठशालायां हि सर्वेषामभ्यासानां सद्वृत्तात्मकानामसद्वृत्तात्मकानाञ्च शिलान्यासः क्रियत इत्यवधार्य सर्वैः सदाचारोपयोग्यभ्यासनिर्माणाय सर्वदैव प्रयतनीयम्। एतदर्थमभ्यास- स्वरूपविषयकमनोविज्ञानाध्ययनमपि पितृभ्यां गुरवे च बालकेषु सद्वृत्तात्मकाभ्यास- निर्माणायापरिमेयां सहायतां प्रदत्त इति स्फुटमेव प्रेक्षावताम् । दुर्वृत्तात्मकोऽभ्यासः सद्वृत्तात्मकेनाभ्यासेनैवापाकर्तुं शक्यते, नान्यथा एतेनाभ्यासस्य गौरवं सर्वैः सम्यक्तया बोद्धव्यम्।

अभ्यासपदार्थः[सम्पादयतु]

अभ्यासशब्दस्य स्पष्टार्थविवेचनमावश्यकम्। नन्वभ्यस्ता क्रिया किं वाभ्यास इति वचनेनेदं प्रतिभाति यदभ्यासो नाम शरीरावयवानां चेष्टानां नियतं रूपमभिव्यञ्जयति, किमेतावानेवाभ्यासपदस्य प्रतिफलितोऽर्थः ? नूनं सन्ति हि केचन मनोवैज्ञानिका येऽस्मिन् सङ्कुचितेऽर्थे एवाभ्यासपदस्य व्यवहारं कुर्वन्ति । अस्मिन्नेवाऽर्थे प्रायो लोकेऽप्यभ्यासशब्दो व्यवहृतो दृश्यते; किन्तु मनोविज्ञानेऽभ्यास किञ्चिद् विस्तृतमेव क्षेत्रमस्तीति वयं मन्यामहे। नहि खल्वभ्यासाश्चेष्टामात्रपरिमिताः, प्रत्युत चिन्तनविषयेऽपि लोकानामभ्यासा उपलभ्यन्ते। उदाहरणस्वरूपं साम्यवादिनां विचारसम्बधिन्यभ्यासे धनिकवर्गपददलित- शोषितवर्गादिप्राचुर्य्यं तेषां विचाराभ्याससरणिं द्योतयति । अन्यच्च, यदि विचारानुगतोऽभ्यासो न भवेत्, कथं तत्प्रवर्तितचेष्टास्तत्तदवयवानां नियतं रूपमभ्यासोपनीतमावहेत् ? प्रागुक्तमेवास्माभिर्यदभ्यासः प्रारम्भे विचारेच्छाप्रवर्तितो जायते । अनेनेदं प्रतिफलितं भवति यद्धि नाडीगतचेष्टावाहिस्रोतसामेव नियतमार्गे वैशारद्यं न केवलं जायते, अपि तु तत्सहकृतमेव विचारचिन्तनसरण्यामप्यभ्यास उत्पद्यते, तत्सम्बन्धिमस्तिष्कावयवेष्वपि नाडीस्रोतसां तदनुरूपमार्गा नियतरूपेण विशदीभवन्ति । अतः सिद्धमभ्यासाः शरीरावयवचेष्टासम्बन्धिनः, विचारचिन्तनादिसम्बन्धिनश्च भवन्तीति। चेष्टामात्र- परिमतोऽभ्यासपदस्य सङ्कीर्णार्थः । चेष्टाविचाराद्यनुगतोऽभ्यासपदस्य प्रयोगो विशदं समीचीनं व्यापकमर्थं निर्दिशति । एतस्मिन्नेवार्थेऽस्मिन् ग्रन्थेऽभ्यासपदं व्यवहृतम् । उपरिवर्णितमर्वाचीनानां मनोवैज्ञानिकानां मतमस्माकं महर्षिभिरप्यनुमोदितमस्ति । तदुक्तं हि यजुर्वेदीयब्राह्मणे- “ यन्मनसा ध्यायति, तद्वाचा वदति ; यद्वाचा वदति, तत्कर्मणा करोति; यत्कर्मणा करोति, तदभिसम्पद्यते" इति । अतो यदि चिन्तनाद्यभ्यासविशेषा न भवेयुः, वाग्हस्तादिकर्मसम्बन्ध्यभ्यासानपि वयं व्याख्यातुं न प्रभवामः । अतोऽभ्यासपदस्य विस्तृतोऽर्थ एव ग्राह्यः ।

अभ्यासभेदाः[सम्पादयतु]

प्रागुक्तमेवास्माभिर्यद्धि प्राणिन एष स्वभावो यथैकदा व्यवहरति चिन्तनं करोति, तदनन्तरं तदनुभवसंस्काराभिप्रेरितः सन् तथैव व्यवहरति, चिन्तयति चेति । अयं साधारणो नियमो यथा चेष्टाक्षेत्रे तथैवान्यमानसिकव्यापारेष्वप्युररीकृत इति बोद्धव्यम्। अतो वयमभ्यासानां त्रेधा वर्गीकरणं स्वीकुर्मः । ते यथा - चेष्टाऽभ्यासाः, चिन्तनाभ्यासाः, सदाचाराभ्यासाश्चेति। वयमेतान् प्रतिपदमनुव्याख्यास्यामः।

(अ) चेष्टाभ्यासाः[सम्पादयतु]

एवंविधेष्वभ्यासेषु वयं निरर्थकानां क्रियाणामन्तर्भावं कुर्मो यथा यदा कदा स्वदन्तैर्नखकर्तनम्, पीठे उपासीनस्य पादकम्पनम्, पाददोलनं वा, वार्तालापं कुर्वतां हानव्यकेशश्मश्वादिसम्प्रसाधनं पुरुषाणाम्, स्त्रीणां च यदा कदा मूर्धजसंप्रसाधनम्। निरर्थकानि खल्वेतान्यभ्यासरूपाणि । यद्यपि कैश्चन मनोवैज्ञानिकै- स्तदन्तर्हितार्थोद्घाटनाय सुमहान् प्रयत्नः संवृत्तः । तन्मते सुप्तस्मृतीनां दमितेच्छानां प्रभावेण हीनभावतिरोधानाय वैतेऽभ्यासा बाह्यतो निरर्थकाः प्रतीयमाना आविर्भवन्ति । कालान्तरे खल्विमाश्चेष्टा आभ्यासरूपेण परिणमन्ते, तासां मौलिकं प्रयोजनञ्च तिरोहितं भवति। उदाहरणतो बालको वक्ता हीनभावमपाकर्तुं स्वस्कन्धावुपरीषत्कर्षति । कालक्रमेण तदेवाभ्यासरूपेण परिणमते । स्मृत्यभावे स्वकेशकर्षणमङ्गुल्या मस्तकघर्षणं वाश्रीयते। स्थाने खल्वेतन्मनोविज्ञानिकाभिमतं व्याख्यानम्। सप्रयोजना अप्येताश्चेष्टाः पश्चान्निरर्थिका इति प्रतीयन्ते; साक्षात्प्रयोजनविशेषानुपकारित्वात् । केचनैवंविधा अभ्यासाः स्वच्छतास्वास्थ्यदृष्ट्यानुपयुक्ता भवन्ति । तेषां निराकरणं शैशवादेव तद्विरोध्यभ्यास- निर्माणद्वारा करणीयम्। नखचर्वणम्, अङ्गुलीनां 'चटचट' इति करणं च स्वाभिमाना- यायशस्करमिति शिक्षणेन किशोरस्यैवैवंविधा अभ्यासा न प्रादुर्भवन्ति, प्रादुर्भूता वाचिरादेव विलीयन्ते । दुष्टाभ्यासस्य विपरीताभ्यासनिर्माणमेव परममौषधम् । तच्च शिक्षणेन विचारप्रदानेन सौकर्येणाभिनिष्पद्यते।

(आ) चिन्तनाभ्यासाः ¬[सम्पादयतु]

यथा शरीरावयवचेष्टासम्बन्धिनोऽभ्यासा जायन्ते, तथैव विचारचिन्तनतर्कादिविषयसम्बन्धिनोऽप्यभ्यासाः प्रादुर्भवन्तीति वयं पूर्वमवोचाम । अध्यापको विशिष्टप्रकारेण स्वपाठं कक्षाभिमुखं प्रस्तौति । अयं पाठप्रस्तावविधिः प्रत्येकाध्यापकस्य स्वकीयो विशिष्टो भवति, सोऽप्यभ्यासरूप एव । धामिको जनः प्रत्येकदुःख- सुखदारिद्र्यैश्वर्यादीनां व्याख्यां पूर्वजन्मकृतकर्मविपाकायत्तरूपेण करोति। तथैव भगवती सीता नहि रघुकुलशिरोमणि श्रीमद्रामचन्द्रं दूषयति, तस्य निष्ठुरत्वं वा लक्ष्यीकरोति, अपि तु स्वकीयप्राक्तनकर्मणां दुर्निवारं फलमेव विचिन्त्य भृशं रोदिति । तथा हि- कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः । ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ इति । [१] किञ्च- न चावदद् भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि । आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥ इति । [२] धार्मिकजीवनवृत्तरहितानामभ्यासाश्चिन्तनात्मका नैवंविधा दरीदृश्यन्ते लोके । यदि कुत्रापि न्याय्योऽन्याय्यो वा विवादो भवेत् साम्यवादिनामभ्यासानुगतचिन्तनगर्भिता तद्व्याख्या शोषकशोषितधनपतिश्रमिकसमस्यारूपेणैव प्रस्तूयते । अस्ति हि तेषां चिरसेवितो विशिष्टप्रकारकश्चिन्तनाभ्यासः । तं चिन्तनविधिं विहाय न ते किमपि वक्तुं शक्नुवन्ति, नापि चिन्तितुमेव शक्नुवन्ति । अस्ति हि सर्वमेवंविधं चिन्तनादिकं दृढभूम्यभ्यासायत्तम्। चेष्टाभ्यासचिन्तनाभ्यासयोस्तुलनात्मकमध्ययनमपि सम्प्रति करणीयम् । विशिष्ट- कौशलेनैको मल्लः प्रतिद्वन्द्विनं मल्लं पराजयते । यदा स युद्धक्षेत्रेऽवतरति तदा तस्य ध्यानं सामान्ययोजनामभि समाकृष्टो जायते। सा सामान्ययोजना प्रतिद्वन्द्विनो गतिविमर्शानुकूला भवति, परन्तु मल्लस्याभ्यासेन तत्तदङ्गपेशीद्रढिमा यथापूर्वं सम्पन्नो विद्यते। प्रत्येकविधिरपि युद्धकौशलस्याभ्यस्त एव । मुष्टामुष्टियुद्धे, केशाकेशियुद्धे, दण्डादण्डियुद्धे तु तत्कौशलाभ्यासगौरवं विजयाय कल्पते । किन्तु प्राड्विवाकस्याध्यापकस्य वा विषये प्रत्येकं पाठान्तर्गततथ्यानामभियोगपत्रकान्तर्गतानां तथ्यानां विविधघटनानां ज्ञानं चिरसेविताभ्यासजन्यं नास्ति । यदभ्यासायत्तं तत्तु पाठविषयोपस्थापनपाटवम्, किं वाभियोगपक्षं युक्तिसमुच्चयपूर्वकं समुपस्थापनपाटवम्। तच्च सामान्यायोजनारूपम्, किन्तु प्राध्यापकस्य पाठान्तर्गतप्रत्येकपङ्क्तिग्रथिततथ्यानामुद्घाटनाय चिरं ध्यानमपेक्षते । एवमेव प्राड्विविकोऽपि प्रत्येकं विविक्तां घटनां ध्यायं ध्यायं विवादविपक्षं प्रस्तौति युक्तिजालसमुच्चयपूर्वकम्। नहि विविक्ततथ्यानां ज्ञानं प्राक्तनाभ्यासजन्यम्। एतावानेव भेदश्चेष्टाभ्यासचिन्तनाभ्यासयोरवगन्तव्यः । स्मरणीयं यद्वयं चिन्तनाभ्यासं मर्यादायुक्तमेव स्तुत्यं मन्यामहे । चिन्तनाभ्यासो नाम विचारमयीं सामग्रीं कथं क्रमबद्धां बोधगम्यां वा वयं कर्तुं प्रभविष्याम इति प्रकारको भवति; किन्तु सोऽयं चिन्तनाभ्यासोऽमर्यादितोऽभिनिवेशग्रस्तो वा जायते, तदासामान्यां मानसिकीमवस्थामाशु आनयति । तत्प्रकारकाभिनिवेशान् वयमग्रे विमृशामः । यदि चिन्तनाभ्यासेन बुद्धिर्दुराग्रहनिगडिता जायेत, अलमनेन महतायासेन ! चिन्तनाभ्याससहकृतं बुद्धिस्वातन्त्र्यं निष्पक्षं घटनानां निरूपणञ्च द्वयमेवानिवार्य्यमिति विभाव्यम्।

(इ) आचारणाभ्यासाः[सम्पादयतु]

आचारविषयकोऽभ्यासस्त्वाबालवृद्धं सर्व एव जानाति। 'प्रातरुत्थाय मातापितृभ्यां नमस्कारः कर्तव्यः इति सद्वृत्तं चिराभ्यासजन्यम् । 'सत्यं ब्रूयात् प्रियं ब्रूयात्', 'प्रियं च नानृतं ब्रूयात्' इति बाल्यादेव सततं यद्गृहेषु शिक्षणं प्रचलति, तत्सर्वमाचरणाभ्यासगौरवं निर्दिशति । यद्यपि मनोविज्ञानदृष्ट्या तु सद्वृत्तात्मकाभ्यासाः, असद्वृत्तात्मकाभ्यासाश्चाविशेषेण प्रतिपाद्या:, तथापि लोके सद्वृत्तस्य महिमा प्रथते। तद्यथा- वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ इति । [३] अपि च, न जन्म ब्राह्मणत्वायोच्चकुलत्वाय वा कल्पतेऽपि तु वृत्तमेव सद्भिरनुमोदितं कुलीनत्वाय कल्पते । तथा हि- न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ इति । [४] श्रूयते हि खलु जानश्रुतो जन्मना शूद्र आसीत्, शूद्रकुलोत्पन्नत्वात्; किन्तु स्वपवित्रधर्माचरणेन ब्राह्मणत्वमवाप्तवान्। “शुचं द्रवतीति शूद्रः”, शूद्रत्वं शीलराहित्यं सद्वृत्ताभावत्वं मनोवच:कर्मपवित्रत्वराहित्यं वाभिव्यनक्ति, न तु जन्मविशेषवत्त्वम्। लोकप्रसिद्धभेदमनुगृह्येदं मनोविज्ञानं यथाभूततथ्यनिरूपणपरं सदाचरणनिर्माणाय प्रयतते, दुर्वृत्तोपशमाय। चिरं यावदभ्याससेवितं वृत्तं समाजे समाहृतं जायते । यच्चोक्तम्- मातृवत् परदारेषु परद्रव्येषु लोष्टवत्। आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥ इति । एवम्भूतः सदाचारोऽभ्यासरूपो भवति । यस्य कोऽप्यभ्यासो नास्ति, तस्याचरणमविश्वसनीयं भवति, तस्य प्रतिक्रियावधारणं ब्रह्मापि कर्तुं न शक्नोति । सत्यमुपलभ्यन्ते ह्यभ्यासविशेषाः प्रत्येकं पुरुषस्य । सदाचारिणां पुरुषाणां व्यवहारे वयं यमनियमासनप्राणायामाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहशौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधाना- दीनामेकस्यान्यतरस्य विशेषेण सर्वेषां वा सामान्यतयोदाहरणं लभामहे। अरिस्टाटल- महोदयैर्यवनदेशीयदार्शनिकप्रवरैरुक्तं यद्धि धार्मिकः पुरुषः स एव यः सद्वृत्तं धर्मभूताभ्यासवन्नियतरूपेणाचरतीति । [५] ननु किं सद्वृत्तात्मका अभ्यासा निष्कामा भवन्ति ? नहि सदाचाररूपाभ्यासाः प्रयत्नेच्छादिव्यतिरिक्ताः प्रादुर्भवन्ति । अभ्यासपरिपाके ते सद्वृत्ताभ्यासाः स्वभावाभिन्ना जायन्ते, तेषामाचरणमपि निष्कामतागर्भितमिव जायते। भगवता मनुनापि मनोवैज्ञानिकमिदं तथ्यमेवम्प्रकारेण स्पष्टीकृतम्- कामात्मता न प्रशस्ता न चैवेहास्त्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ [६] काम्यकर्मणां स्वरूपमग्रे वयं व्याख्यास्यामः इच्छाप्रयत्नादिनिष्पन्नं सद्वृत्तरूपं नियतत्त्वं बिभर्ति । तथा हि- घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् | दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ इति । नूनं यस्य शीलं सद्वृत्तं नियतप्रतिक्रियारूपाभ्यासान्वितं नास्ति, तस्य जीवितेन किं प्रयोजनम्? किं तस्य वित्तेन वा ? तदुक्तं विदुरेण - शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितेनार्थो न धनेन न बन्धुभिः॥ इति। [७] ननु किमिदं सद्वृत्तं सर्वदापरिवर्तनीयं भवति ? वस्तुतोऽयं प्रश्न आचारमीमांसान्त- र्गतवान्नास्माकं प्रतिपाद्यत्वं भजते । मनोविज्ञानदृष्ट्या वयमेतावदेव वक्तुं शक्नुमो यद्धि यैर्यैरभ्यासैः स्थाणुत्वमयं मानवोऽवाप्नोति, नहि ते सर्वथा श्लाघनीयाः । विवेकपुरस्सरमेव धर्माचरणं भवति। तच्च सततं धर्माधर्मविचारणामपेक्षते । अभ्यासाः सदुपयुक्ता अपि निरर्थकत्वमापद्यन्ते यदा तत्प्रकर्षेण बुद्धिः कुण्ठिता रूढ्यन्धविश्वासावरुद्धव्यापारा च जायते। तथापि सिद्धमेवाभ्यासानामुपयोगित्वं सामान्यजनेभ्यः सद्वृत्तपरायणेभ्यो यथा धर्मधुरन्धरेभ्यो महात्मभ्यो लोकनायकेभ्यः। अभ्यासातिरेकवशीभूतोऽयं मानवः स्थाणुरिव नवीनपरिस्थित्यां समुपस्थितायां साम्प्रतिकीं प्रतिक्रियां प्रदातुं न शक्नोति । अभ्यासाभावे किं नाम चरित्रमिति वक्तुं न शक्यते । चरित्रं वृत्तमिति यावत्, सदभ्याससमुच्चयमात्रम्। सद्भ्यासानामभावेऽध्यवसायात्मको निश्चयो नोपलभ्यते । एकदा संवृत्तोऽपि निश्चषोऽकिञ्चित्कर एव भवति, चलायमानत्वात् । चिन्तनाभ्यासैरेव चेष्टाभ्यासानां तन्नियामकनिश्चयानां स्थैर्यमपुचीयते। तदभावे च क्षणे रुष्टाः क्षणे तुष्टाः' इत्येवम्प्रकाराणां पुरुषाणां चलायमानं निश्चयमस्थिरं क्रियाकलापं कोऽपि निश्चेतुं न प्रभवति । यदभिवाञ्छनीयं तत्तु जीवनोपयोगिमहनीयादर्शानुकूलाभ्यासानामुपार्जनं सङ्ग्रहणं वा, तेषाञ्च परिस्थितिपरिवर्तनविशेषे विवेकपुरस्सरं परिवर्तनमपि, यदि तल्लोककल्याणोप- कारित्वादावंश्यकं भवेत्। अतः परं कांस्कान् नियमान् परिपाल्य सद्वृत्ताभ्यासानुष्ठानमुपचीयते, कांस्कान् नियमान् वानुसृत्य दुर्वृत्तात्मकाभ्यासानुष्ठानमपचीयत इति सर्वं वयं गवेषयामः ।

अभ्यासविशेषाः[सम्पादयतु]

अभ्यासजन्याः क्रिया यान्त्रिकक्रिया इव भवन्ति । तासु न केवलं प्रयत्नस्य कालस्य च मितव्ययिता सम्पाद्यते, अपि तु कार्यं सौकर्येण योजनाक्रमानुसारं ध्यानविशेषासहकृतमेव जायते । पूर्वाभ्यासाद् मानवस्तत्तत्कार्येषु स्वेच्छया रुचि प्रदर्श्याभिप्रवृत्तो जायते। अभ्यासा नियतरूपा अपरिवर्त्याः प्रायो भवन्ति । अस्माकं चारित्रमभ्यासानां पुञ्जीकृतं रूपमेव । सामाजिकजीवनं सर्वमभ्यासैः प्रतिपदमोतं प्रोतञ्च भवति। यः कोऽपि भेदश्चरित्रगत एकस्य पुरुषस्यान्यस्माद् विद्यते, स द्विविधो जायते । प्रथमत उत्कृष्टाभ्यासोपार्जनापेक्षया प्रतिपुरुषं चरित्रभेदविशेषाः समुत्पद्यन्ते । एकस्य सदभ्यासशेवधिरन्यस्यापेक्षया विपुलतरो भवति, अत एव स शीलसदाचारशालित्वात् पूज्य इत्युच्यते । तथा हि- न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्भं योऽनूचानः स नो महान् ॥ इति । [८] द्वितीयं भेदजनकं कारणं भेदान्वितमनोविज्ञानेन साधितं खल्विदं यद्धि कस्यचित् पुरुषस्य दुष्टाभ्यासमूलप्रवृत्त्यादिनियन्त्रणमधिकतरं गरीयो वान्यस्माद् भवति । सामाजिक- कल्याणविरोध्यभ्यासमूलप्रवृत्तिनियन्त्रणमपि पुरुषेषूपलभ्यमानभेदस्य प्रयोजकमिति सिद्धम् । अतः परं वयं कथं तदभ्यासान् शीघ्रतरं जनयितुं शक्नुमः, कथं वा दुष्टाभ्यासान् परित्यक्तुं प्रभवाम इति विवेचयामः । विलियमजेम्समहोदयेन हरवर्डविश्वविद्यालयीयप्राध्यापकप्रवरेण मनोवैज्ञानिकसत्तमेन दार्शनिकशिरोमणिना १९४७ वैक्रमाब्दे स्वकीयं ग्रन्थरत्नं “ मनोविज्ञानसिद्धान्ताः’ [९] इति संज्ञकं खण्डद्वये प्रकाशतामानीतम् । तदा प्रभूति खल्वयं ग्रन्थो मनोवैज्ञानिकानां समादरास्पदीभूतः । तस्य ग्रन्थस्य दशमोऽध्यायोऽभ्यासविवेचनपरायणोऽधिकतम- मवान्तरकालिकमनोवैज्ञानिकप्रवरैल्लिखितः । तदुल्लिखितनियमान् वयमिदानीं पुरस्कुर्मः ।

अभ्यासनिर्माणार्थं नियमविशेषाः[सम्पादयतु]

तत्रैते नियमा भवन्ति-

(१) सङ्कल्पद्रढिमा[सम्पादयतु]

अभ्यासोत्पादानाय सङ्कल्पस्य द्रढिमात्यर्थं कल्पते। दोलायितमानसाः किमपि साधयितुं न समर्था भवन्ति । 'संशयात्मा विनश्यति' इति भगवद्गीतायां श्रीकृष्णोक्तिः सर्वाशेन सत्या । संशयारूढचित्त: पुरुष 'किं शुभम्, किमशुभम्, किमेष्टव्यम्, किं हातव्यम्' इत्यादिविकल्पेषु समुपस्थितेषु कस्याप्येकतरस्य पक्षे निश्चेतुं न प्रभवति। दृढनिश्चयाभावे प्रवृत्तिर्न जायते । अतः शुभाभ्यासोपार्जनाय सङ्कल्पस्य द्रढिमा परमावश्यक इति मन्तव्यम्, सर्वैर्दृढसङ्कल्पाधानं प्रति स्वमनसि स्वशिष्यपुत्रादीनां मनःसु च सर्वदा प्रयतितव्यम् ।

(२) शुभस्य शीघ्रम्[सम्पादयतु]

त्वरितमेव शुभसङ्कल्पानां समारम्भः कर्त्तव्यः । कालाति- क्रमेण सुनिर्णीतसङ्कल्पविषयेऽपीच्छाशक्तिह्रासो जायते। इच्छाह्रासान्नहि तथाविधो द्रढिमा सङ्कल्पस्य कालान्तरे विद्यते, यादृशः पूर्वमेवासीत् । यदि कश्चन चतुर्वादने प्रातरुत्थानायाद्य निश्चयं करोति, किन्तु यदा श्वश्चतुर्वादनकालो जायते, शीतभयमभिनीय स पर्य्यङ्कान्नो- त्तिष्ठति । स्मरणीयम्, नह्येतद् व्यवधानमेकदिनपरिमितमेव । एकदिनव्यवधानेन य इच्छाह्रासो जायते, सोऽपरिमेयः । सम्भाव्यं खल्विदं यदग्रिमेऽपि दिने चतुर्वादन उत्थानं शीतजन्यव्याजव्यवधानेन न भवेत् । अतो यदा कोऽपि शुभनिश्चयः क्रियते, तस्य कार्यरूपेण परिणत्यर्थं शीघ्रमेव प्रयतितव्यम् । आरम्भश्च साग्रहः करणीयः ।

(३) अभ्यासपरिपाकं यावन्नियमेन शुभकार्य सम्पादनीयम्[सम्पादयतु]

यावन्न कोऽप्यभ्यासविशेषः स्थिरीभवेत्तावदेकस्याप्यपवादस्यावसरो न देयः । एकेनाप्यपवादेन महतीच्छाशक्तिविनष्टिरापद्यते । अतो द्रढिम्ना निरपवादं कार्यं सम्पादनीयम्। नियमेन निरालस्यं यदि कार्यसम्पादनं भवेत्तर्हि शुभाभ्यास्योपार्जनं दुष्टाभ्यासस्य परित्यागो वाचिरेण साधितो भवेत्।

(४) अध्यवसायोऽपि समाश्रयणीयः[सम्पादयतु]

सततं नियमेनानवरतं कार्यं करणीयम्। प्रतिदिनं कियच्चिरं सङ्कल्पप्रभवशुभकर्मानुष्ठानं नूनमभ्यासोपार्जनं सुकरं करोति । एवंविधेन प्रत्यहमनुष्ठानेन चिन्तनाभ्यासाः, चेष्टाभ्यासाश्च दृढीभवन्ति । यदि वर्षं वर्षं मासं मासं वा किमपि कार्यं भवेत्तर्हि तस्याभ्यासो नैवार्जितो भवति, रुच्यभावे व्यवधानं कालोपात्तं क्लेशवहं भवति। अतः शुभकर्मणां समारम्भः साग्रहं दृढसङ्कल्पेनैव न केवलं कर्तव्यः, अपि तु तस्य वारं वारमभ्यासपरिपाकं यावद् नियतरूपेण प्रतिदिनमनुष्ठानमपि सम्पादनीयम्। दीर्घसूत्रित्वमालस्यं वा सुनिश्चितस्यापि शुभकर्मणः समारम्भे बाधा - मुपस्थापयति। तच्च त्याज्यमेव सर्वदा। बाल्यादेव बालकेष्वनुशासनाय प्रवृत्तिरुत्पादनीया। गृहे यस्य मातापितरावाहारविहारे शौचस्नानाध्ययनादिदैनिकचर्यासु नियमानुसारं कर्मसम्पादनमुपदिशतः, स्वयञ्च तथैवाचरतः, तस्यैवाचरणमनुशासनसंवलितसदभ्यासप्रचुरं जायते। यदा गृहे पित्रोर्जीवनं स्वच्छन्दमनुशासनविरहितं युक्ताहारविहारस्वप्नाबबोधनिरस्तं भवेत्, नूनमेवंविधवातावरणपोषितबालकोऽपि तथैव प्रतिक्षणं परिवर्तमानक्रिय उच्छृङ्खलाऽ- नुशासननिरस्तश्च भविष्यति । तस्योपचारं गुरुरपि कर्तुं न प्रभवति । सदभ्यासान्वितमनु- शासनमनुशासनोपात्तसदभ्यासजातं गुरुमातापितृणां सहकारित्वं सहयोगं च कामयते। तेषां सहयोगे सत्यपि यदि मित्रमण्डली दुष्टाभ्यासग्राहग्रस्ता भवेत्, समुद्धारस्त्वसम्भाव्य एव। अत एतादृश्यः परिस्थितय एतादृशो विषया अपि निवारयितव्या यैस्तेषामभ्यासानां परिपाके बाधोत्पादनं जायेत । इच्छाशक्त्युत्कर्ष एव साग्रहसमारम्भाय कल्पते । इच्छाशक्तिश्चाभिरुच्यायत्ता। अभिरुचिश्च वस्तुस्वरूपोपयोगित्वाज्ञानं विशदमपेक्षते । एतत्सर्वं विज्ञायैव गुरुजनैर्माता- पितृभ्याञ्च बालकानां सद्वृत्ताभ्यासनिर्माणाय समीचीनं यथाकालं पथप्रदर्शनं कर्त्तव्यम् ।

दुष्टाभ्यासोपशमनम्[सम्पादयतु]

ननु कथं दुष्टाभ्यासानां धूम्रपानमद्यपानस्तेयासत्यभाषणादीनामुपशमनं करणीयम् ? अत्रोच्यते-प्रागुक्तरीत्यैव। अन्यच्च, यदि परिस्थितिविशेषः, येन तदभ्यासविरोध्युत्तेजकं प्रदीयते, निवारयितुं शक्यते, तर्हि स निवारयितव्यः । धूम्रपानाभ्यासी धूम्रपेयापणमभि न गच्छेत्। यदि कश्चनोद्धतो बालकोऽन्यान् शिशूनू ताडयति तर्हि तैर्बालकैः सह स यथा एकान्तें ताडयितुं न शक्येत, तथा वृद्धैर्गुरुजनैः प्रयतितव्यम् । यदि बालकानां सम्मिलनावसरोऽपरिहार्यो भवेत्तर्हि गुरुभिरनुशासनपूर्वकं तथा वर्तितव्यं यथौद्धत्य- प्रदर्शनमसम्भाव्यं सर्वथा भवेत्। अभिनवाभ्यासनिर्माणार्थं दमनविधिर्यथाशक्यं परिहर्तव्यः । दुष्टाभ्यासविरोधिस्थायिभावोत्पादनाय यदि सुदृढः प्रयत्नो भवेत्तर्हि शुभाभ्यासाङ्कुरोत्पादनाय स्थायिभावासादितेच्छाशक्ती रुचिश्च बलवत्तमे भविष्यतः । यदि बालकस्य रुचिर्दुष्टाभ्यास- दुर्गुणज्ञानात् प्रकृष्टा भवेत्तर्हि दुष्टाभ्यासमपाकर्तुं स साग्रहमभिप्रवृत्तो भविष्यति, अचिरेणैव शुभाभ्यासस्य बीजारोपणं सफलं च भविष्यतीति वयमाशास्महे । उपर्यस्माभिर्यो नियमो व्याख्यातः, स एषोऽस्ति - दुष्टाभ्यासोऽप्रयोगेण समापनीय इति। यदि कस्यचिदङ्गविशेषस्योपयोगो न भवेत्तर्हि तस्य क्रियाशक्तिर्ह्रासं नयते । एवम्प्रकारेण यदि कथञ्चित् कियच्चिरं धूम्रपानादिकं न भवेत्, तदभ्यासनिराकरणमपि तेन सुकरं जायते। अस्ति हि केषाञ्चिन्मनोवैज्ञानिकानां मते एष नियम: समीचीनो यद्धि निर्वृत्त्यति- शयनेनापि दुष्टाभ्यासोपशमनं जायते । काश्मीरपाठशालासु प्रयोगैः साधितमिदं तथ्यं यद्धि वावदूको बालकः 'शुक - शाखा' संज्ञकस्थानविशेषे कियच्चिरमवस्थाना- दनवरतमुच्चरन्नुच्चरन्नेकस्मिन्नेवैवंविधे प्रयोगेऽतिवादात्मकाभ्यासं परित्यजति। दुष्टाभ्यासस्य प्रयोगातिशयासादितवैराग्येण शुभाभ्यासस्याधानं क्रियत इति तेषामभिसन्धिः । नहि वयमेतन्मतमाद्रियामहे। बाढमासुरये परमकारुणिको भगवान् कपिल: सांख्यतत्त्वोपदेशं सहस्रवारं गार्हस्थ्यसुखभोगानन्तरमेवोपदिष्टवान्। अन्यच्च श्रूयते भर्तृहरिरपि सप्तवारं गार्हस्थ्यं प्रविश्य गृहस्थोचितान् भोगान् भुक्त्वा च निर्वेदमवाप्तवान्। परन्तु द्वित्रदृष्टान्तै- रपवादभूतैः सार्वभौमं तथ्यमिदमालोडितुं न शक्यते । सुष्ठुक्तं भगवता मनुना- न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ इति । विषयसम्प्रयोगेणातिशयेन चिरेणैकैकस्याभ्यासस्य निर्माणं यदि सम्पाद्येत तर्हि मानवोचितजीवनयात्रायै सदाचरणजातं साधनीभूतं कदा सुलभं भविष्यतीति वक्तुं न शक्यते। सद्भ्यासनिर्माणे मनोविज्ञानप्रस्तुतप्रतिपाद्ये समुपस्थितपरिस्थितेः पलायनं पराङ्मुखीभवनं नहि वयं समीचीनं मन्यामहे । दुष्टाभ्यासविरोधिस्थायिभावोत्पादनेन या रुचिर्जन्यते सैवंविधामिच्छाशक्तिं प्रसूते, यया विकारहेतावपि मानवः प्रलोभनैर्विविधैरप्याबद्धो न जायते। सदभ्यासा धीरत्वाय कल्पन्ते। धीरश्च "विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः" इति । स्मरणीयमत्र यद्धि 'शुक- शाखा’दृष्टान्ते आत्महीनभावेन प्रेरितः सन् बालको वावदूकत्वं परित्यजति, न त्वतिवादातिशयेन। अतो बालकस्य विचारोन्नयनं दुष्टाभ्यासपरिशोधस्य चरममुत्कृष्टं साधनमिति वयं मन्यामहे ।

दुष्टाभ्यासपरित्यागाय दण्डोपयोगित्वम्[सम्पादयतु]

दुर्वृत्तोपशमाय किं दण्डविधानं समीचीनम् ? उदाहरणस्वरूपं स्तेयाभ्यासोपशमनाय दण्डस्योपयोगित्वमस्ति न वेति विचारणीयम् । प्रायो लोके शासने च दण्डोपयोग आश्रीयते। मनोवैज्ञानिकं यत्तथ्यं दण्डशासनान्तर्निहितं तद्वयमित्थं व्याख्यातुं शक्नुमः- या याः क्रियाः सुखप्रदास्तास्ताः पुनरावर्त्यन्ते प्राणिभिः । तद्विपरीतं या याः क्रियाः क्लेशवहास्तास्ताः पुनरावृत्तिं न लभन्ते, परित्यक्ताश्च कालक्रमाज्जायन्त इति । प्राणिविज्ञानमनोविज्ञानाभिमतोऽयं सिद्धान्तो वस्तुस्थितिपरिचायको महाप्रभावं बिभर्त्ति । प्रकृत्त्या समाश्रितेनानेन नियमेनेदं साध्यते यद्धि प्राणी स्वरक्षोपकारिण्यः क्रियाः सम्पादयेदिति। पशवः प्रायो विषाक्तमौषधं वानस्पत्यं वा घ्राणजादिप्रत्यक्षेण विज्ञाय निसर्गत एव न खादितुमुपक्रमन्ते । नहि शूकरः खरो वा धूम्रपेयपत्राणि क्षेत्रस्थितानि गृह्णाति। एवमेव विषाक्तपत्राणि गावोऽपि न भक्षयन्ति । किन्तु विवेकसम्पन्ने मनुष्येऽस्य नियमस्यावितथ्यं सर्वांशेन नोपपद्यते । तथाप्ययं नियमः सामान्यतः सर्वत्रोबलभ्यत इति वक्तुं शक्यते। ये केचनापवादा अस्य भवन्ति ते त्वापत्कालोपात्ताः किमुतेच्छा- शक्तिनिरङ्कुशप्रभावासादिता नैतिकविवेकापादिता वा विशेषेण भवन्ति । अन्यच्च, कदाचनैवंविधा क्रिया भवन्ति या विप्रकृष्टदुःखप्रदाः, किन्तु सम्प्रति तासां को पि दुःखप्रदः परिणामो नोपलभ्यते; किमुत तासां दुःखदपरिणामस्य मात्रा सूक्ष्मत्वान्नोपलभ्यते । तस्माच्च दुष्टाभ्यासोपरमोऽपि न जायते । बाधाविशेषाभावाद् विशेषेणापवादानामवसरो नैतिकमर्यादापेक्षातो जायते । दण्डं नाम अवाञ्छनीयव्यवहारेण सह दुःखप्रदपरिणामस्य कृत्रिमसम्बन्धस्थापनरूपं साधनमिति । दुर्वृत्ताचरणस्य दुःखपरिणतिरेव भविष्यतीति विज्ञापनाय सामाजिकानुशासनोपकारकं दण्डं नाम साधनं समाश्रीयते । आचारमीमांसायां नीतिशास्त्रारनामधेयायां दण्डस्य किं स्वरूपं मानञ्च भवितव्य- मिति नास्त्यस्माकं मनोविज्ञानविवेचनीये ग्रन्थेऽस्मिन् प्रतिपाद्यम्। वयन्तु दुर्वृत्तोपशमनाय दण्डोपयोगित्वं दण्डस्य वा मनोवैज्ञानिकदृष्ट्या बाधकत्वेन साफल्यमत्र विचारयामः । सम्प्रस्तुतायां विचारणायामिदं वक्तुं शक्यते यद्यावद् दण्डं समानरूपेण प्रचलति तावदस्य मनोवैज्ञानिकबाधकत्वेन साफल्यं निरस्तसमस्तशङ्कं सुनिश्चितम्। ‘समानरूपेण' इति पदेनास्माकमभिप्रायोऽयमेव यन्निष्पक्षं दण्डानुशासनं पालनीयम् । एको दुर्वृत्तो दण्ड्यतेऽन्यश्च न दण्ड्यते; किं वैक एकस्मादपराधाद् दण्डमात्राविशेषमवाप्नोत्यन्यश्च तदनुरूपापराधेऽपि लघ्वी दण्डमात्रामेवाप्नोति । दण्डमतो निष्पक्षं विधेयम्। अन्यच्च, यदा यदा कश्चनापराधो भवेत्, तदा तदा दण्डशासनमवश्यमेवानुसरणीयम् । एकेनाप्यपवादेन दण्डगौरवं क्षीयते तच्छासननिष्पक्षत्वमपि लुप्यति । किञ्च, न्याय्यमेव दण्डशासनं विधेयम्। अन्याय्यं दण्डशासनं क्रान्तिबीजमेव वपति । अपि च, यदा दण्डगुरुत्वं दुर्वृत्तात्मकक्रियाजन्यसुखानुभूतिरूपपरिणाममतिशेते, तदैव दण्डस्य मनोवैज्ञानिकबाधकत्वेन साफल्यं सुनिश्चितमवगन्तव्यम्; नेतरथा । यद्येतेषां परिस्थितिगतकारणानामवधारणं विनैव दण्डशासनं जायते, तर्हि नूनं हानिप्रदं फलमेव जन्यते। स्मरणीयं यद्धि दण्डं नाम साधनं बालकरूपेणैव प्रतिफलति । दमनमेव दुष्प्रवृत्तीनां दुष्टाभ्यासानां तस्याभावात्मकं फलम् । तच्च सदभ्यासानामारादुप- कारकम्। अन्यच्च, दमनोत्था: सामान्यमनोविज्ञानावस्थाविशेषाः केचनाविर्भवन्ति, येषां विवेचनमग्रतः पुरस्करिष्यामहे । दमनं विक्षिप्ताद्यवस्थाविशेषान् नेष्यति। सर्वमेतद् विचार्य्य विवेकिभिः सदभ्यासोपार्जनायानुकूलस्थायिभावोत्पादनं करणीयम्, येन दुर्वृत्तात्मकाभ्यासानामुपशमः स्वत एवासादितो भवेत् । शुभाभ्यासारम्भश्च प्रागुक्तनियमानुसारमेव विधेयः ।

सन्दर्भाः[सम्पादयतु]

  1. रघुवंशम्, १४।६२
  2. रघुवंशम्, १४।५७
  3. विदुरप्रजागरः, २।३०
  4. विदुरप्रजागरः, २।४१
  5. Nichomachean Ethics, "A good man is one who habitually wills the right act.
  6. मनुस्मृतिः २/२८
  7. विदुरप्रजागारः २/४८
  8. मनुस्मृतिः, २।१५४
  9. William James, 'Principles of psychology' (1890) chapter X

सम्बद्धाः लेखाः[सम्पादयतु]