मनोविज्ञाने आलोचनं ज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने आलोचनं ज्ञानम् अतीव महत्त्वपूर्णः विषयः वर्तते। आलोचनज्ञानं मनुष्यसमस्यानां समाधानं कर्तुं शक्नोति।

प्रत्यक्षस्वरूपम्[सम्पादयतु]

प्रागुक्तमेवाऽस्माभिर्यच्चैतन्यस्य मूलभूता व्यापारास्त्रिविधा भवन्ति। ते यथा— अनुभवनम्, किं वा चिन्तनम्, संवेदनं प्रयतनञ्चेति । प्रथमं तावदनुभवनं ज्ञानं चिन्तनं वा वयं विवेचयिष्यामः। ज्ञानं चिन्तनं वा विविधविकासस्तरान् बिभर्त्ति । मूलभूतं सरलतमं ज्ञानस्यानुभवस्य वा यद्रूपं वयं लभामहे, तत्तु निर्विकल्पकं प्रत्यक्षमालोचनज्ञानाख्यं भवति। वयं तावत् प्रथममालोचनज्ञानस्य स्वरूपप्रकारादिप्रपञ्चनं करिष्यामः । प्रत्यक्षमपि द्विविधं भवति-निर्विकल्पकं सविकल्पकञ्चेति । अस्मिन्नध्याये वयं निर्विकल्पकं प्रत्यक्ष- मालोचनज्ञानसंज्ञकमेव प्रतिपादयिष्यामः। महर्षिगौतमेन प्रत्यक्षं प्रमाणमेवं व्याख्यातम्। तद्यथा- “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकमिति” । प्रत्यक्षं ज्ञानमिन्द्रियार्थसन्निकर्षजन्यं भवति। इदमव्यपदेश्यमपि भवति, अर्थात् 'डित्थोऽयम्', 'ब्राह्मणोऽयम्' इत्यदिनामधेय- व्यतिरिक्तमव्यपदेश्यं प्रत्यक्षं भवति । स्पष्टीकृतञ्चेदं वात्स्यायनाचार्य्येण - ‘तदेवमर्थमानकाले सन् समाख्याशब्दो व्याप्रियते। तस्मादशाब्दार्थज्ञानामिन्द्रियार्थसन्निकर्षोत्पन्नम्" [१] इति । अव्यभिचारि अभ्रान्तामिति । यदतस्मिंस्तदिति तद्व्यभिचारि, यत्तु तस्मिंस्तदिति तदव्यभिचारि प्रत्यक्षमिति । व्यवसायात्मकं निस्संशयमिति यावत् । इदं त्वस्मान् प्रतिभाति यत्सूत्रकारैर्भाष्यकारैश्च यदभिमतं तन्निर्विकल्पकं प्रत्यक्षमेवेति । “प्रत्यक्षं कल्पनापोढ- मभ्रान्तम्” इति दिङ्नागाचार्यकृतं प्रत्यक्षलक्षणमप्यनेन सार्धं सङ्गच्छते। तात्पर्याचार्य्या वाचस्पतिमिश्रास्तु त्रिलोचनगुरून्नीतमार्गमनुसृत्य सविकल्पकमपि ज्ञानं सौत्रलक्षणेऽन्तर्भावयितुं यतन्ते। तथा हि- "अव्यभिचारिपदेनैव संशयज्ञाने निरस्ते सविकल्पक-प्रत्यक्षावरोधार्थमुपादीयमानं व्यवसायात्मकपदं साक्षात् सविकल्पकस्य वाचकम्” [२] इति। नूनं प्रशंसनीयमिदं सूत्रान्तर्गतव्यवसायात्मकमिति पदस्यानुव्याख्यानम् । यद्यपि न भाष्यकारेण, नापि वार्त्तिककारेणोद्द्योतकराचार्येणैव सविकल्पकज्ञानस्य प्रत्यक्षभेदस्य चर्चेव कृता; तथाप्यनुभवसिद्धौ हि खल्विमौ प्रत्यक्षभेदौ निर्विकल्पकसविकल्पकसंज्ञकौ। आचार्य्यकुमारिलभट्टेनापि निर्विकल्पकं प्रत्यक्षज्ञानमालोचनज्ञानरूपं स्वीकृतम् । तन्मते प्रथममालोचनाख्यं ज्ञानं जायते । तच्च शुद्धवस्तुजं बालमूकज्ञानवन्निर्विकल्पकं ज्ञानं भवतीति । अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ इति । [३] भासर्वज्ञोऽपि न्यायसार आलोचनं ज्ञानमेव व्याचष्टे - “आलोचनं ज्ञानं वस्तुस्वरूपमात्रा- वभासकं प्रथमाक्षसन्निपातजञ्च भवति' इति । गङ्गेशोपाध्यायास्तदनुयायिनश्च प्रत्यक्ष- लक्षणमेवं व्याचक्षते - "ज्ञानाऽकरणकं ज्ञानम्" [४] इति । अन्नम्भट्टादय इदमेव व्याख्यान- मङ्गीकुर्वन्ति। अत्र ज्ञानं व्याप्तिज्ञानम्, सादृश्यज्ञानं पदज्ञानञ्च करणं येषां तानि ज्ञान- करणकान्यनुमित्युपमितिशाब्दानि । ज्ञानकरणकं न भवतीति ज्ञानकरणकमिति बोद्धव्यम् । तच्च प्रत्यक्षज्ञानं यदा निष्प्रकारकं भवति तदेदं निर्विकल्पकमित्युच्यते । यदा चेदं सप्रकारकं ज्ञानं भवति तदेदं सविकल्पकमित्यभिधीयते । तथा हि तर्कसङ्ग्रहे अन्नम्भट्टोऽप्येवमाह–“ तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । सप्रकारकं सविकल्पकम् । यथा-डित्थोऽयम्, ब्राह्मणोऽयम्, श्यामोऽयम्” इति । 'डित्थ' इति शब्दस्य व्याख्याया- मेतदुक्तं भवति- श्यामरूपो युवा विद्वान् सुन्दरः प्रियदर्शनः । सर्वशास्त्रार्थवेत्ता च डित्थ इत्यभिधीयते ॥ इति । एवम्प्रकारेण प्रकारताशून्यज्ञानत्वं विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वं वा निर्विकल्पकत्वमिति । मनोवैज्ञानिकवरेण्या आङ्गलदेशीयाः प्राध्यापकस्टाउटमहाशया अपि निर्विकल्पकं ज्ञानं विचारसंवेदनप्रयत्नादिमनोव्यापारपूर्ववर्तित्वेनाङ्गीकुर्वन्ति । तथा हि-‘मनसश्चिन्तनवृत्तेः संवेदनवृत्तेः प्रयत्नवृत्तेश्चेयं पूर्ववर्तिनी नियतावश्यकता भवति, यदेताभिः पूर्वं किञ्चिन्मनसः समक्षं वस्तुमात्रावगाहि ज्ञानं भवेद्यदधिकृत्येमाः प्रवर्तन्ते तदेवालोचनं ज्ञानमित्यभिधीयते" [५] । अपि च- “आलोचनज्ञानमिति व्यपदेशेन वयं विषयस्य चैतन्यसमक्षमवस्थानं सम्यक्तयाभिव्यञ्जयितुं शक्नुमस्तदानीं मनो नान्येन संसृज्यते” इति। अयं विशेष्यचैतन्याभिमुखीभाव एव निर्विकल्पकं ज्ञानमुच्यते। बौद्धास्तु निर्विकल्पकमेव ज्ञानं प्रत्यक्षप्रमात्वेनाङ्गीकुर्वन्ति। सविकल्पकं प्रत्यक्षं नहि प्रमात्वेन युक्तमभिमतं तै:, कल्पनोपेतत्वात् सविकल्पकज्ञानस्य। अन्ये नैयायिकाः, मीमांसकाः, सांख्याः, वेदान्तिनश्च प्रत्यक्षं द्विविधं निर्विकल्पकसविकल्पकभेदात्मकत्वेन स्वीकुर्वन्ति । स्मरणीयं यत् प्रत्यक्षम्, यस्य प्रपञ्चनं मनोविज्ञानं करोति, तन्नास्ति प्रमाणम्। प्रमीयतेऽनेनेति प्रमाणम् । प्रमाऽस्तीदं ज्ञानमप्रमा वेति न्यायशास्त्रविवेचनीयम्। कथमिन्द्रियसन्निकर्षजन्यं ज्ञानमुत्पद्यते तच्च भवतु नाम प्रमात्मकमप्रमात्मकं वा, कश्चास्त्यस्य विशेष इति सर्वं वस्तुभूतं मनोविज्ञानप्रतिपाद्यान्तर्गतम्। एकोऽपरो विशेषोऽपि स्मर्तव्यः । सर्वे मनोव्यापारा: चिन्तनसंवेदनप्रयत्नादयो मनोविज्ञानेऽनुभवसामान्यव्यपदेशेनाभिधीयन्ते। विशेषेणानुभवनं चिन्तनं विचारप्रधानं ज्ञानं निर्दिशति। नहि मनोवैज्ञानिकानां मते स्मृतिव्यतिरिक्तोऽनुभवो ज्ञानाख्यः। तथा हि अन्नम्भट्टेनोक्तं तर्कसङ्ग्रहे - " संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः– यथार्थोऽयथार्थश्च" इति । मनोविज्ञानेऽस्मिन् ग्रन्थे च सङ्कीर्णेऽर्थे यथाऽनुभवशब्दः प्रयुज्यते, नहि स स्मृतिव्यतिरिक्तोऽवसेयः । स्मृतिरपि ज्ञानप्रकार एव, चिन्तनभेद एव, अतोऽस्तीयमनुभवनान्तर्गता । अपि च, यदा मनोविज्ञानेन यथार्थत्वायथार्थत्वविचारणा स्वविषयस्य यथावस्तुनिरूपणे समाद्रियते, अयथार्थोऽप्यनुभवो नैयायिकैरभिमतो मनोविज्ञानप्रतिपाद्यकलेवरान्तर्गत एव सिद्ध्यति, वस्तुभूतरूपत्वात्।

आलोचनज्ञानस्वरूपम्[सम्पादयतु]

सिद्धं तर्ह्यलोचनज्ञानस्य निर्विकल्पप्रत्यक्षनामधेयस्य सविकल्पकप्रत्यक्षपूर्ववर्तित्वम् । नहि सामान्यप्रौढव्यवहारे आलोचनज्ञानं प्रथमं ज्ञायते, सविकल्पकञ्च तदनन्तरम्। प्रथमं यज्ज्ञानं जानीमस्तत्तु सविकल्पकं वस्तुज्ञानम्। आलोचनज्ञानन्तु सविकल्पक- प्रत्यक्षानन्तरमेवानुव्यवसायेन किं वा मानसप्रत्यक्षेणावगम्यते। यत्सविकल्पकप्रत्यक्ष- मालोचनज्ञानानां मिश्रीकरणमस्तीत्यपि तदनन्तरमनुव्यवसायेनैवानुमीयते। आलोचंनज्ञानस्य पूर्ववर्तित्वं वस्तुभूतत्वञ्च न्यायशास्त्रसङ्गतम् ; किन्तु व्यक्तिगतानुभवापेक्षयालोचनज्ञान- सत्त्वमौत्तरकालिकमानसप्रत्यक्षेण सिद्ध्यति । सविकल्पके प्रत्यक्षे नामजात्यादियोजना सन्निविशते। निर्विकल्पकसविकल्पप्रत्यक्षयोर्यदीतरेतराश्लिष्टत्वं जायते, तदालोचनज्ञानस्य पृथङ्गिर्देशो दुःशकः । तथाप्यस्ति स दुर्निवारः, वस्तुज्ञानरूपत्वात् । सामान्यतया प्रत्यक्षे पूर्वज्ञानसम्बन्धिसामान्यविशेषप्रत्ययैः सविकल्पात्मकं ग्रहणं जायते, अत एवालोचनज्ञानस्य मौलिकस्वरूपं दृष्टिपथं नायाति । तथाप्यनुमीयतेऽनुव्यवसायेन यत्प्रथमालोचनज्ञाने जायमाने सत्येव जात्यादिगुणविशेषाणामाधानं क्रियत इति । अतो निर्विकल्पकं प्रत्यक्षमपि निर्विशेषं न भवति । तत्तद्विषयानुसारि ह्यालोचनं ज्ञानमाचार्य्य- प्रवरैरीश्वरकृष्णैरप्येवमभिहितं सांख्यकारिकायाम्- "रूपादिषु पञ्चानामालोचनमिष्यते वृत्तिः इति । [६] भगवतां रामानुजाचार्य्याणामप्येवविधं मतं श्रीभाष्य उपलभ्यते। तथा हि- “न च निर्विषया संवित् काचिदस्ति, अनुपलब्धेरिति’ [७] । बालकस्तावत् प्रथमं स्वमातरं पश्यति, पितरं कन्दुकादिकञ्च तदनन्तरं पश्यति । पृथक् पृथगेतेषां पदार्थानां यज्ज्ञानं जायते, वस्तुतस्तु तदेवालोचनं ज्ञानं विशुद्धरूपेण स्फोटयति । अत एव रामानुजाचार्या अपि जातेः प्रथमपदार्थविशेषस्य प्रथमक्षणसम्बन्धिज्ञानमेव निर्विकल्पकप्रत्यक्षतयाङ्गीकुर्वन्ति । सामान्ये प्रौढानुभवे तु विशुद्धालोचनज्ञानं दुर्लभम्। सर्वाण्यालोचनज्ञानानि हि सविकल्पकप्रत्यक्षजन्यप्रत्ययैरुपनिबद्धानि । श्रीमदभिनवगुप्तपादाचार्यैरपि निर्विकल्पक- प्रत्यक्षे सविकल्पकप्रत्यक्षस्य सूक्ष्मस्वरूपावस्थानमीश्वरप्रत्यभिज्ञाविमर्शिन्यामङ्गीकृतम्। [८]

इन्द्रियोत्तेजकालोचनज्ञानस्वरूपम्[सम्पादयतु]

वयमत्रेन्द्रियोत्तेजकालोचनज्ञानस्वरूपमनुव्याख्यास्यामः। ननु किमिदमिन्द्रियं नाम? इन्द्रियमिति नाडीकन्दाणुकानां समूहविशेषो भवति यो विशिष्टप्रकारकोत्तेजक- जन्यामुत्तेजनां ग्रहीतुमेव समर्थो भवति । उत्तेजको विषय इति यावत् । निर्विकल्पकं ज्ञानमिन्द्रियार्थसन्निकर्षजन्यमित्यस्यायमभिप्रायो यदुत्तेजकेन या उत्तेजना विशिष्टप्रकारनाडी- कन्दाणुकेषु जायते, तया जन्यं ज्ञानमालोचनं ज्ञानमित्याचक्षते । यथा चक्षुरिन्द्रियं प्रकाशोमिजन्यामुत्तेजनां ग्रहीतुमेव समर्थं भवति, न त्वाकाशोम्मिजन्यामुत्तेजनाम् । श्रोत्रञ्चाकाशोमिजन्यामुत्तेजनामेव गृह्णाति, न तु प्रकाशोम्मिजन्यामुत्तेजनाम्। त्वगिन्द्रियञ्च स्पर्शैष्ण्यशीतादिजन्यामुत्तेजनां ग्रहीतुं शक्नोति । आदिपदेनावपीडनमिति योजनीयम्। एकं विशिष्टमिन्द्रियं येनोत्तेजकेन जन्यामुत्तेजनां ग्रहीतुं क्षमतां बिभर्ति, तेनोत्पादितामुत्तेजना- मेव ग्रहीतुं प्रभवति, नेतराम् । अत एव तदुत्तेजकम्, यज्जनितामुत्तेजनां ग्रहणक्षमतैक- स्मिन्निन्द्रिये विद्यते, योग्यमुत्तेजकमित्यभिधीयते। अतो नहि यः कोऽपि विषय: प्रत्यक्षविषयो भवितुमर्हति, अपि तु योग्य एव विषयो योग्यमेवोत्तेजकं वा प्रत्यक्षगोचरीभूतं जायते । अतो विषयस्योत्तेजकस्य वा योग्यतापि प्रत्यक्षजनने विचारणीया । तदुक्तं धर्मराजाध्वरीन्द्रेणापि वेदान्तपरिभाषायाम्- “योग्यत्वस्यापि विषयविशेषणत्वात्” [९] इति। एकैकस्य प्राणिनः कानिचिदिन्द्रियाणि भवन्ति, यैः स प्राणी वातावरणघटित- तथ्यान्यवगच्छति, तदनन्तरञ्च बाह्यपरिवर्तनानुकूलमाचरति। प्राणिविकासशृङ्खलानुसारमेव कस्यापि प्राणिविशेषस्येन्द्रियाणां संख्या, सौक्ष्म्यम्, प्राखर्यं वा भवति, मानवस्तु मानवविकासशृङ्खलाशिखरं शोभते । तस्यैव प्रकृष्टतमेन्द्रियाणां विशिष्टः समूहो विद्यते । अर्थादिन्द्रियसंख्यामुद्दिश्य किमुतेन्द्रियप्राखर्यमुद्दिश्य मनुष्याणामिन्द्रियसमूहस्तत्तत्सम्बन्धि- कार्यसम्पादने विकासविशेषमादधाति, यद्यपि सन्ति हि केचन प्राणिनो येषामेक इन्द्रिय- विशेषो मनुष्येन्द्रियापेक्षया तीव्रतरः प्रखरतरो वा भवति । उदाहरणतः शूकराणां घ्राणेन्द्रियं मनुष्याणां घ्राणेन्द्रियापेक्षया प्रखरतरं भवति । शुनामपि घ्राणेन्द्रियं मनुष्यापेक्षया प्रकृष्टतरमेव भवति। सर्वेषामेवेन्द्रियाणां विकासमधिकृत्य मनुष्य प्राणिविकासमूर्धन्यत्वं सिध्यति। इन्द्रियाणि हि खलु सर्वोपरि ज्ञानसाधनानि । इन्द्रियं हि यन्त्रवदुत्तेजकजनितोत्तेजना- मनुलिखतीव, तदभावे चेदमुदासीनमिवावतिष्ठते । आद्यमुत्तेजनाज्ञानमालोचनं ज्ञानमिति नाम्नाभिधीयते । उत्तेजकं नाम किमपि वस्तु विषयो वा पदार्थरूपो यदुत्तेजनां जनयति। तच्चेन्द्रियाद् बाह्यं विद्यते। प्राय उत्तेजकानि बाह्यस्थानानि भवन्ति, किन्तु कदाचनाभ्यन्तराण्यपि भवन्ति; यथा क्षुद्रगोचरमालोचनं ज्ञानमाभ्यन्तरेणैवोत्तेजकेन जन्यते । यथा क्षुद्रगोचरं ज्ञानमप्यालोचनं भवति तद्वयमग्रे वक्ष्यामः । उत्तेजकेन किल किञ्चिद् भौतिकं रासायनिकं परिवर्तनं संज्ञावाहिनाडीकन्दाणुकेर ग्राहके कोषाणुकेर वा जन्यते तच्च संज्ञावाहिनाडी- कन्दाणुकशृङ्खलाद्वारेण मस्तुलुङ्गीयसंज्ञास्थानानि प्रत्यानीयते। ततश्च चेष्टवाहिनाडी- कन्दाणुकद्वारेण तदेव भौतिकं रासायनिकं परिवर्तनं' चेष्टामयीं पेशीमभिगच्छति । नाडीतन्त्रान्तर्गतरासायनिकं परिवर्तनमेवालोचनं ज्ञानमस्तीति न वाच्यम्। नाडीतन्त्रान्तर्गतपरिणामस्यैव मानसिकपक्षोऽस्त्यालोचनज्ञानाख्यः । आलोचनं ज्ञानं वै साक्षादपरोक्षानुभवो यो मनसि घटते, यश्च वैयक्तिको भवति । कथन्नु खलु निर्विकल्पक- ज्ञानस्य वैयक्तिकत्वमुपपद्यते ? एकैव दीपशिखा पुरुषयोर्द्वयोर्मनसोर्नैवैकविधमालेचनं ज्ञानं जनयति। अस्माकमालोचनज्ञानं नहि तद्रूपकं यद्रूपकं युष्माकमालोचनज्ञानम्, यद्यप्युत्तेजकन्तु एकैवाभिन्ना दीपशिखा । 'मिलिन्दपञ्ह' नामके ग्रन्थे भदन्तनागसेनोक्त- हस्तिविषयककथालोचनज्ञानस्य वैयक्तिकत्वं नितरां स्फोटयति। दीपशिखाविषयके आवयोरालोचनज्ञाने द्वे भवतः, विशिष्टे पृथग्भूते मानसिकघटनारूपे भवतः, तयोश्च प्रत्येकमनुभवितारमनुधावति । अतः सिद्धं मानसिकव्यापाररूपालोचनज्ञानस्य वैयक्तिकत्वम् ।

आलोचनज्ञानभेदाः[सम्पादयतु]

विविधानि ह्यस्माकमिन्द्रियाणि तत्तदिन्द्रयजन्यान्यालोचनज्ञानान्यपि विविधान्येव भवन्ति। प्रत्येकमिन्द्रियं ज्ञानद्वारमिव भवति । इन्द्रियाणां संख्याप्रकर्षगुणायत्तमेवातो ज्ञानक्षेत्रं भवति। चक्षुर्हीनस्य मूकस्य बधिरस्य वेन्द्रियजन्यानुभवाभावः क्लेशावह एव। सामान्यतया पञ्चैव बुद्धीन्द्रियाणि विद्वज्जनैर्मन्यन्ते । एवं स्म आह मनुः - "श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी' इति । श्रोत्रेन्द्रियस्य ग्राह्यो विषयः शब्दो भवति । किं वा शब्दात्मकमालोचनं ज्ञानं श्रोत्रेन्द्रियेण जायते। स्पर्शात्मकमालोचनज्ञानं त्वगिन्द्रियेण गृह्यते। रूपात्मकमालोचनं ज्ञानं॰ चक्षुरिन्द्रियग्राह्यम्। गन्धविषयकमालोचनं ज्ञानं' घ्राणेन्द्रियेण गृह्यते । रसात्मकं रसविषयकं वा निर्विकल्पकं ज्ञानं रसनेन्द्रियेण गृह्यते । यद्विषयकं निर्विकल्पकं ज्ञानं येनेन्द्रियेण गृह्यते, तेनैवेन्द्रियेण तद्विषयकं सविकल्पकं प्रत्यक्षमपि गृह्यते। विषय एवास्मिन् तन्त्रे ‘उत्तेजकम्' इत्यभिधीयते, यतो हि स प्रत्यक्षोत्पादिकामुत्तेजनां जनयति प्रदत्ते वा। न इन्द्रियमिति शब्देनेन्द्रियगोलकमात्रं ग्रहणीयम्, यथा-चक्षुर्गोलकं. जिह्वा वा। इन्द्रियमित्यनेनास्माकं तात्पर्यं निखिलसंज्ञावाहिनाडीकोषाणुकनाडीकन्दाणुक- मस्तुलुङ्गीयायतनविशेषाणां समूह इति । बाह्येन्द्रियन्तु तत्प्रतीकमात्रम्। तथाप्यस्ति हि तस्याप्युपयोगित्वं करणत्वञ्च सिद्धम् । एतेषां पञ्चज्ञानेद्रियाणां पञ्च विषया: शब्दस्पर्शरूपरसगन्धा भवन्ति, तज्जन्यानि च पञ्चविधानि शब्दस्पर्शरूपरसगन्धाख्या- न्यालोचनाज्ञानानि भवन्तीति । सन्ति हि केचन अन्ये ज्ञानप्रकारा येषामन्तर्भाव उपर्युक्तपञ्चेन्द्रियजन्यालोचनज्ञानेषु न कर्तुं शक्यते। उदाहरणस्वरूपं केवलं त्वच्येव चतुर्विधालोचनज्ञानोत्पादनक्षमाण्यायतनानि स्थलविशेषा वा भवन्ति । तानि यथा - स्पार्शनालोचनज्ञानस्थानानि', औष्ण्या- लोचनज्ञानस्थानानि’, शैत्यालोचनज्ञानक्षमाणि स्थानानि, अवपीडननिर्विकल्पकप्रत्यक्ष- क्षमाणि ̈ स्थानानि च। प्रयोगशालासु प्रयोगैः साधितमिदं यद्धि सर्वा त्वक् समानरूपेण स्पार्शनालोचनात्मकज्ञानजनिका नास्ति । स्पर्शसंज्ञाग्राहीणि नाडीकोषाणुकानि त्वचि विशिष्टस्थलेषु प्रधानत इतस्ततो विकीर्णानि सन्ति । एवम्प्रकारेणावपीडनसंज्ञाग्राहिनाडी- कोषाणुकान्यपि नैव सर्वत्र समानरूपेणोपलभ्यन्ते। तानि शैत्यसंज्ञावाहीनि न भवन्ति, नापि स्पर्शसंज्ञावाहीनि वा। अतो मनोवैज्ञानिकैर्निर्णीतं यत्त्वगिन्द्रियेणैव चतुर्विधसंज्ञा- स्थलेभ्यश्चतुर्विधान्यालोचनज्ञानानि जन्यन्त इति । त्वगिन्द्रियरचनाध्ययनेनैवेदं ज्ञातुं शक्यते यत् कियज्जटिलमिन्द्रियं भवति, कियदपर्याप्तञ्च सामान्यजनैरभिमतं तन्निरूपणं भवतीति । अर्वाचीना मनोवैज्ञानिका आलोचनज्ञानजनकेन्द्रियाणां त्रिधा वर्गीकरणमङ्गीकुर्वन्ति । तद्यथा—(क) विशिष्टानीन्द्रियाणि, (ख) शरीरावयवभूतानीन्द्रियाणि, (ग) पेशीस्नायु- जन्यानीन्द्रियाणि चेति । वयमेतानि प्रतिपदं विचारयामः ।

विशिष्टानि ज्ञानेन्द्रियाणि[सम्पादयतु]

विशिष्टानीन्द्रियाणि हि खलु पञ्च भवन्ति, यथा-श्रोत्रम्, त्वक्, चक्षुषी, जिह्वा, नासिका च। एतेषां विवरणं प्रागुक्तरीत्यावसेयम् । शरीरस्य परिसरीयभागस्थितानि ह्येतानि भवन्ति, बाह्यजगद्विषयकोत्तेजनासम्बन्धि ज्ञानं जनयन्ति च ।

शरीरावयवभूतानीन्द्रियाणि[सम्पादयतु]

उपर्युक्तपञ्चज्ञानेन्द्रियव्यतिरिक्तान्यपि सन्ति हि खलु कानिचिच्छरीरावयव- भूतानीन्द्रियाणि, यान्यस्माकं शरीरान्तर्वर्तिघटनानामालोचनं ज्ञानं जनयन्ति । यान्यालोचनज्ञानानि तैः शरीरावयवभूतेन्द्रियैर्जन्यन्ते तानि ह्येवंविधानि सन्ति, यथा- क्षुधालोचनज्ञानम्, पिपासानिर्विकल्पकज्ञानम्, वमनालोचनज्ञानम्, कण्ठावरोध- निर्विकल्पकज्ञानञ्च। एवंविधानि कानिचिदन्यान्यपि भवन्ति, किन्तु तेषामस्पष्टं भानमेव भवति। एवंविधालोचनज्ञानानि स्वतन्त्रनाडीमण्डलेन सार्धमपि सम्बद्धानि भवन्ति, तेषाञ्च भयघृणाक्रोधादिसंवेगेषु समुपस्थितेषु महत्त्वपूर्णः प्रभाव उपलभ्यते।

पेशीजन्यालोचनज्ञानानि[सम्पादयतु]

एतैरालोचनज्ञानैर्वयं शरीरावयवगतिविषयकं प्रत्यक्षं ज्ञानं प्राप्नुमः । एतेषा - मालोचनज्ञानानां स्वरूपचिरादेवानुसन्धानपथमायातम्। प्राक्तुं जनानामियं धारणासीद् यच्चाक्षुषालोचनज्ञानेन स्पर्शनिर्विकल्पकज्ञानेन चास्माकं शरीरगतिविषयकं ज्ञानं जायते। स्पष्टमेवेदं यन्निमीलितचक्षुषापि शरीरावयवहस्तादिगतिविशेषज्ञानमवाप्तुं शक्यते । हस्तादीनां गतिमात्रा गतिदिक् च ज्ञातुं शक्यते । मनोवैज्ञानिकैः प्रयोगैरभीक्ष्णं साधितं खल्विदं यद्धि शरीरपेशीषु स्नायुषु सन्धिषु चेन्द्रियाणि भवन्ति, यैः शरीरावयवानां गतीनां सक्रियं ज्ञानं सम्पादयितुं शक्यते । एतैरिन्द्रियैरिदं ज्ञातुं शक्यते का हि शरीरस्यावस्थिति: ? काश्च शरीरावयवगतयः? गत्यवरोधे च शरीराङ्गानां बाह्योत्तेजकप्रभावोऽपि कियान् ? इति ।

सन्दर्भाः[सम्पादयतु]

  1. वात्स्यायनभाष्यम् १।१।४
  2. न्यायसूत्रभाष्यवार्त्तिकतात्पर्यटीका १ । १ । ४
  3. श्लोकवार्तिकम् – ४/११२
  4. तत्त्वचिन्तामणिः
  5. Manual of Psychology, by Stout, Page 103. "It is a precondition of the congnitive attitude, the feeling attitude, and the congntive attetude, that there should be some thing before the mind with which they are concerned." "Simple apprehension is the term which seems most suitable for naming this bare presence of an object to consciousness without indicating anymore special relation in which the mind may stand to this object."
  6. साङ्ख्यकारिका २८
  7. श्रीभाष्यम्
  8. ईश्वरप्रत्यभिज्ञाविमर्शिनी, ज्ञानाधिकरणम् १६ । of K. C. Pandey, Bhsskari, vol. III. Page 81, "At the time of indeterminate experience also there is determinate conciousness (the essence of which is the application of the indicatory sign). for how otherwise will there be the possibility of ruming, etc. if there be no determinate consciousness (though in the subtter form)."
  9. वेदान्तपरिभाषा, पृ० १६

सम्बद्धाः लेखाः[सम्पादयतु]