मनोविज्ञाने चैतन्यस्वरूपम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने चैतन्यस्वरूपम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन चैतन्यतायाः विषये गभीरतया ज्ञानं प्राप्यते।

चैतन्यस्वरूपम्[सम्पादयतु]

वयमस्मिन्नध्याये चैतन्यस्वरूपं मनोवृत्तिस्वरूपसहितं सपरिकरमनुव्याख्यास्यामः । मनोविज्ञानस्वरूपविवेचनावसरे प्रथमेऽध्यायेऽस्माभिर्मनोविज्ञानं चैतन्यवृत्तिव्यवहाराध्ययन- परत्वेनानुव्याख्यातम्। मनोविज्ञानस्य लक्ष्ये द्वे एव, चैतन्यं व्यवहारश्चेति । ननु किं नाम चैतन्यम्? जटिलतमोऽयं प्रश्न: दर्शनशास्त्रस्य चिरन्तनी समस्या । नह्यर्वाचीन- मनोविज्ञानान्वेषणजातैश्चैतन्यस्य विलक्षणस्वरूपविषयकजिज्ञासा सर्वथा समाहिता । नहि चैतन्यस्य पारमार्थिकं रूपं गवेष्टुं शक्यते । अस्य पारमार्थिकस्वरूपस्य यथाभूतस्य लक्षणमपि दोषरहितमसम्भवप्रायम्। तथाप्यस्य वर्णनं विश्लेषणञ्चोपक्रमते, तत्कर्तुं शक्यतेऽपि च।

यद्यपि जडमहाभूताख्यं तत्त्वं सुसूक्ष्मतो विश्लिष्टं तथाप्यस्य स्वरूप- मद्यावधि वैज्ञानिकैरज्ञातमेव। भूताख्यप्राकृततत्त्वस्य परमौ विश्लिष्टावयवौ 'इलेक्ट्रनप्रोटोन' संज्ञकौ' सूक्ष्मतमौ लक्षणापेतावेव । अत एव यथा चैतन्यं विलक्षणं तथैव भूततत्त्वमपि । द्वे एव स्वरूपलक्षणतो रहस्यान्विते । तथापि तयोरनुभवविषयीभूतघटकयोः सम्मेलनं नाडीतन्त्रे सम्भवत्येव यथाकथञ्चित् । ये द्विपार्श्वकं मतमनुमन्यन्ते, तेषां मते चैतन्यं नाडीगतक्रिया चैकस्यैव मूलतत्त्वस्य पार्श्वद्वयम्। यदा नाडीगतक्रियार, जाटिल्यमात्राविशेषं बिभर्ति विकासविशेषमवाप्नोति वा, चैतन्यमाविर्भवति । विलक्षणं सदपि चैतन्यं नाडीतन्त्रे आसादितभूततत्त्वसम्पर्कादिष्यतेऽनुभवनं मनोवृत्तिपरिकरोपेतम्।

चैतन्यस्वरूपविषये पौरस्त्यमतानि[सम्पादयतु]

भारतीयैर्ऋषिभिश्चैतन्यस्वरूपमधिकृत्यानेकानि मतान्युद्भावितानि। तत्र चार्वाका मन्यन्ते देहाकारेण परिणतानि चत्वारि भूतान्येव चैतन्यकारणम्। तेष्वपि चक्षुरादीनि प्रत्येकं चैतन्यमिति कश्चित्। मिलितानीत्यन्ये। क्षणिकविज्ञानमिति सौगता नैरात्म्यवादिनः । शून्यमिति माध्यमिका नि:स्वभावतावादिनः। देहेन्द्रियातिरिक्तं देहपरिमाणमिति दिगम्बराः । कर्त्ता भोक्ता जडो विभुरात्मेति वैशेषिकनैयायिकप्राभाकराः, चैतन्यस्यानुषङ्गिकत्वात्। जडो बोधात्मक आत्मा चैतन्याख्यमिति कुमारिलभट्टाचार्यानुयायिनः । भोक्तैव केवल- बोधात्मकनित्यशुद्धबुद्धानासक्तमुक्तस्वभावः पुरुषश्चैतन्यसंज्ञक इति सांख्याः पातञ्जलाश्च। अविद्यया कर्तृत्वादिभाक् परमार्थतो निर्धर्मकः परमानन्दबोध एवेत्यौपनिषदाः, शाङ्कराद्वैतवादिन इति यावत् । भागवतेऽपि चैतन्यमात्माभिधानं हर्षशोकाद्यतीतमेवेति वर्णितम्। तथा हि-

हर्षशोक भयक्रोधलोभमोहस्पृहादयः ।

अहङ्कारस्य चैवैते जन्ममृत्यू च नात्मनः ॥

ब्रह्मपुराणेऽपि चेतनस्यात्मन: कर्तृत्वादिधर्माणां निषेध एवोपलभ्यते । यथा हि-

कुर्वन्त्यचेतनाः कर्म देहेन्द्रियगणाः सदा ।

चेतनस्तदधिष्ठाता शान्तात्मा न करोत्यसौ ॥

केचन चार्वाकैकदेशिन आसन्, येषां मते मन एव चैतन्याधिष्ठानमासीत् । अर्वाचीनं मनोविज्ञानं चैतन्यस्य जडभूततत्त्वविलक्षणं रूपमङ्गीकरोति, तथापि तदसङ्गं कामक्रोधहर्षविमुक्तमकर्तृकं वा नैव मन्यते । चैतन्यतत्त्वं मन इत्यभिधानेनार्वाचीन- मनोविज्ञानेऽस्मिन् ग्रन्थेऽपि च प्रयुज्यते । नूनं आत्मनोऽर्थं मन इति पदस्य प्रयोगः संस्कृतभाषा दर्शनप्रतिकूलदार्शनिकभावाभिव्यक्तिपारिभाषिकशब्दावल्यभावनिदर्शनं इति । तथापि ‘मन:' इति पदमस्माभिराङ्गलमनोविज्ञानाभिमतेऽस्मिन्नेवार्थे प्रयुक्तः। यन्मनोऽर्वाचीन- मनोवैज्ञानिकाभिमतं तच्चेतनतत्त्वं चैतन्यमिति वा। जडभूतविलक्षणं सदपि तेन सहाय्य सम्प्रयोगो जायते नाडीतन्त्रे संपरिकरमस्तुलुङ्गाख्ये । नहि मन:संज्ञकं चैतन्यतत्त्वमसङ्गं कर्तृत्वव्यतिरिक्तं वा प्रत्युत कामक्रोधहर्षवेगादिषु निमग्नं तत्प्रयोजकं तद्रूपमिति वा । विचारेच्छासंवेगप्रयत्नादय मनस एव वृत्तयः । नहि निर्धर्मकं मनसो रूपं किमप्यस्ति विचारास्पदं मनोवैज्ञानिकानाम् । यत्तु व्यवह्रियते बाह्यव्यवहारेषु, यच्चान्तरिकवृत्तिषु व्याप्नुते, तच्चैतन्यं मनःसंज्ञकमद्यतनैः मनोवैज्ञानिकैराद्रियते । तस्यापि पारमार्थिक-स्वरूपलक्षणगवेषणं नहि तेभ्यो रोचते। यत्तु तेभ्यो नितरामभिरोचते तत्तु व्याप्रियमाणानां चैतन्यमनोवृत्तीनां बाह्यव्यवहाराणाञ्च साङ्गोपाङ्गमध्ययनम्। अत एवास्माभिश्चैतन्यक्रियाणां मनोव्यापाराणां विश्लेषणमत्रारम्भ्यते ।

चैतन्यक्रियाविश्लेषणम्[सम्पादयतु]

वयं तावच्चैतन्यस्य पारमार्थिकस्वरूपानुसन्धानं दार्शनिकचिन्तनान्तर्गतमिति मत्वा चैतन्यस्य विविधवृत्तीनां व्यापाराणां वा स्वरूपमेवानुव्याख्यास्यामस्तेषाञ्च बाह्यसामाजिकव्यवहारे का का प्रतिक्रिया भवतीत्यपि विवेचयिष्यामः । उक्तं हि खलु बृहदारण्यकोपनिषदि “काम सङ्कल्पो विचिकित्सा ही श्रद्धाऽश्रद्धा धृतिरधृतिर्धीभिरित्येतत्सर्वं मन एव’” [१] इति। इमाः सर्वाः मनसो वृत्तयः । वर्तत इति वृत्तिर्व्यापार इति यावत् । कामसङ्कल्पादीनां मनोवृत्तित्वं मनोधर्मत्वं मनोव्यापारत्वं प्राचीनभारतीयाचार्याणां प्रतीच्यमनोविज्ञानाचार्याणां समानरूपेणाभ्युपगमः; किन्तु प्राचीनभारतीयाचार्याणां मते चैतन्याधिष्ठानस्यात्मनो चैतन्यस्वरूपस्यात्मनो वेमा वृत्तयो न भवन्ति, तस्य निष्क्रियत्वान्निर्विशेषत्वाच्च । प्रत्युत जडस्य मनस एवैते विकाराः । यच्चैतन्यात्मकं तत्त्वं चैतन्यरूपं वा तत्त्वं तस्यैवैते व्यापारा इति प्रतीच्यानामर्वाचीनानां मनोवैज्ञानिकाना- मभिमतः सिद्धान्तः।

इमे मनसश्चैतन्यस्य वा व्यापाराः त्रिधा वर्गीकर्तुं शक्यन्ते - विचारः, संवेगः प्रयत्नश्चेति। किं वाऽनुभवनम्, संवेदनं प्रयत्नश्चेति । अनुभवनं नाम निर्विकल्पप्रत्यक्ष- सविकल्पप्रत्यक्ष-विचार-तर्कोहापोहादयो व्यापाराः । संवेदनं नाम सुखसंवेदन- दुःखसंवेदन- संवेग-स्थायिभावादयश्चैतन्यव्यापाराः । प्रयत्नो नाम सहजप्रवृत्तिमूलप्रवृत्तिसामान्य- प्रवृत्त्यैच्छिकक्रियाचरणादयो व्यापाराः । स्मृतिकल्पनादिव्यापाराणां विचाराख्ये वर्गेऽन्तर्भावः। अनुभवनसंवेदनेऽत्र विशिष्टार्थयोर्व्यवहृते । अनुभवनं कदाचन साम्रान्यचैतन्यव्यापारं विचारसंवेगप्रयत्नादिष्वन्यतमप्यभिव्यञ्जयति । यथा अपरोक्षानुभूति: (ज्ञानान्तर्गता ) सुखानुभवः, दुःखानुभव, (संवेगान्तर्गतप्रयोगः ) क्रियानुभव: ( प्रयत्नान्तर्गतप्रयोगः) । एवमेव संवेदनमपि कदाचन ज्ञानद्योतनाय प्रयुज्यते, यथा स्वसंवेद्यम्, परसंवेद्य वा । अस्मिन् ग्रन्थॆ वयमनुभवनं संवेदनञ्च विशिष्टार्थयोरेव व्यवहरिष्यामः । अनुभवनं हि ज्ञानाख्यं कर्म विचारोहापोहस्मरणकल्पनादींश्चैतन्यव्यापारान् द्योतयति । संवेदनं हि तच्चैतन्यकर्म, येन सुखदुःखकामबुभुक्षेर्ष्याद्वेषलोभादिसंवेगस्थायिभावादयोऽनुभूयन्ते, संवेद्यन्त इति यावत् ।

महर्षिपतञ्जलिमतम्[सम्पादयतु]

योगदर्शनकारा वृत्तिपञ्चकमङ्गीकुर्वन्ति। तद्यथा- “प्रमाणविपर्ययविकल्पनिद्रा- स्मृतयः[२] । चित्तस्यैताः पञ्चधा वृत्तयो निरोद्धव्या । प्रमाणानुव्याख्यानावसरे “प्रत्यक्षानुमानागमाः प्रमाणानि [३] इत्युक्तम्। विपर्ययोऽपि “मिथ्याज्ञानमतद्रूपप्रतिष्ठम्[४] इत्येवं व्याख्यातम्। “शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः[५] इत्येवम्प्रकारेण विकल्प- संज्ञकचित्तवृत्तेः स्वरूपं निदर्शितम् । निद्रावृत्तिस्वरूपमपि " अभावप्रत्ययालम्बना वृत्तिर्निद्रा" [६] इत्युक्त्वा व्याख्यातम् ।

अस्ति हि प्रत्ययविशेषो निद्रा तन्मते, सा च भाव-प्रत्ययालम्बनस्वरूपा। इमाः पञ्चधा वृत्तयो योगसाधकैर्निरोद्धव्याः । इदं वृत्तिवर्गीकरणं नैव समीचीनमित्यस्माकं मतम् । नहि सर्वा वृत्तयो वृत्तिपञ्चकेषु तथाव्याख्यातेषु समाविष्टा भवन्ति। साधनाप्रत्यवायनिरूपणायैवेदं वृत्तिपञ्चकनिरूपणमवगन्तव्यम्, न तु चित्तस्य सर्ववृत्तिव्याख्यानपरमिदं सूत्रं भवितुमर्हति । सन्ति हि तदधिका बहुविधा चित्तवृत्तयः । नहि विकल्पाख्या चित्तवृत्तिः 'कल्पना' संज्ञका वृत्तिं साङ्गोपाङ्गां विवेच्यमानां निरूपयितु- मर्हति । नापि निद्रामिव स्वप्नवृत्तिं निरूपयति । सन्देहवृत्तिर्मनसो विपर्ययसंज्ञकवृत्तौ प्रवेशं नार्हति। साधकेभ्यो यथाकथञ्चित्सुकरमपीदं वर्गीकरणं नैव मनोवृत्ति- निरूपणायालमित्यस्मान् प्रतिभाति। नापि क्लिष्टाक्लिष्टप्रकारविशेषाभ्युपगमेनैवेयं समस्या समाहिता जायते । क्लिष्टत्वाक्लिष्टत्वलक्षणेन चैतन्यक्रियाकलापस्य संवेदनपक्ष एव स्पृश्यते, न तु विचारपक्षोऽथवा प्रयत्नपक्षः। तत्त्ववैशारद्यां द्वेषमोहादीनां विपर्ययसंज्ञकमिथ्याज्ञानान्तर्गतविवेचनमपि मनोवृत्तिवर्गीकरणदृष्ट्या नोपयुज्यते। रागद्वेषमोहादि-वृत्तयो मनसः संवेदनात्मकव्यापारेषु समाविष्टा भवन्ति प्रागुक्तरीत्या, न तु ज्ञानाख्य-मनोवृत्तिवर्गे।

चैतन्यस्वरूपम्[सम्पादयतु]

वयं तावन्मानसप्रत्यक्षात्मकं मनोविज्ञानमनुसृत्य चैतन्यस्वरूपमनुव्याख्यास्यामः। चैतन्यस्वरूपविवेचनमतीव दुष्करम्। चेतनस्य भावश्चैतन्यमिति विवेचनम्। चैतन्यमिति चेतनाधातुमपि द्योतयति। स एव चेतनाधातुः जानाति, इच्छति, यतते । तस्यैवाऽपरपर्यायो मन इत्याख्यां भजते, यच्चाधिकृत्य मनोविज्ञानं सपरिकरं प्रथते। तदेव चैतन्यमात्मगुणत्वेन नैयायिकाः स्वीकुर्वन्ति। चैतन्यमात्मनः स्वरूपमित्यद्वैतवेदान्तिनः । केचन मनोवैज्ञानिका- श्चैतन्यं मनोविज्ञानप्रतिपाद्यं नैवाभिमन्यन्ते । नहि तेषामयमाग्रह: समीचीन इत्यस्माभिः प्रागेवोक्तम्। तन्मते चैतन्यस्य ज्ञानमवाप्तुं न शक्यते । चैतन्यमिति तत्त्वं नैव विद्यत इत्यपरे; किन्तु यस्य चैतन्यस्य ज्ञानेच्छाप्रयत्नादीनां व्यवहारजातेनाध्ययनमुपक्रमते तैः, तत्सत्त्वनिराकरणमज्ञेयत्वप्रतिपादनं वा कथं सम्भवति ?

नहि चैतन्यव्यापारव्यतिरिक्ता बाह्यव्यवहाराः सम्भवन्ति । तच्चैतन्यं साक्षादपरोक्षाद् भवति । श्रुतिरपि ममैव भावमनुवदति “साक्षादपरोक्षाद् ब्रह्म” इति । यदि परमं विश्वस्तं ज्ञानं कस्यापि पदार्थस्यास्माकं विद्यते, तत्तु स्वविषये, स्वचैतन्यविषये, स्वमनोविषये निःसन्दिग्धं भवति । नहि किञ्चिदपि स्वमानसिकव्यापारजन्यज्ञानस्य दृढभूमिमवलम्ब्यैवोत्पद्यते। अतो व्यवहार- वादिवाट्सनप्रभृतीनां चैतन्यस्वरूपव्यापाराणामध्ययनम्प्रति विरोधिदुराग्रहो विपश्चिद्भिर्नैवादरणीयः ।

ननु किन्तावज्जाग्रच्चैतन्यमेव चैतन्यमिति केषाञ्चिन्मनोवैज्ञानिकानां मतं नैव समीचीनम्? नूनं चैतन्यविषयेऽस्माकं ज्ञानं जाग्रदवस्थायां ज्ञानेच्छासंवेगप्रयत्नादि- भिरेवोत्पद्यते, नह्यन्यथा तज्ज्ञानमुत्पद्यते । अतः कतिपयैर्मनोवैज्ञानिकैर्जाग्रच्चैतन्यमेव चैतन्यमिति मतमवलम्बितम्। नहि तदुपपद्यते। स्वप्नसुषुप्त्यवस्थयोश्चैतन्यसत्त्वापादितमेवेदं ज्ञानं प्रतिबोधानन्तरमुत्पद्यते 'सुखमहमस्वाप्सम्' इति । पौर्वकालिकानुभवानां स्मरणमपि स्वप्नसुषुप्त्यवस्थयोश्चैतन्यसत्त्वाङ्गीकारेणेवोपयुज्यते । सुतरां जाग्रच्चैतन्यव्यतिरिक्तमपि चैतन्यसत्त्वमस्तीति बोद्धव्यम् । अपि चार्वाचीना मनोवैज्ञानिकाश्चैतन्यस्यापरे द्वे अवस्थे अप्यङ्गीकुर्वन्ति, तद्विवेचनमग्रे करिष्यामः ।

चैतन्यं हि व्यक्तिगतं तत्त्वम्[सम्पादयतु]

चैतन्यं हि व्यक्तिविशिष्टगुणः । यज्ज्ञानादि कर्म तत्पुरुषविशेषप्रयुक्तमेव । यश्च प्रयत्नादिर्मनोव्यापारः सोऽपि कस्याश्चिद् व्यक्तेरेव । सुतरां चैतन्यस्य यद्रूपमनुभवपदमारोहति, तत्तु सर्वदा व्यक्तिविशिष्टपरमेव । किं वा चैतन्यं व्यक्तिगतं भवति, यतो हि कोऽपि व्यक्तिविशेष एव स्वमनोव्यापाराणामपरोक्षं ज्ञानमवाप्तुं प्रभवति, न त्वन्ये । ते तस्य मनोव्यापाराणां परोक्षं ज्ञानं प्राप्तुं शक्नुवन्ति । यः पुरुषः कञ्चिदनुभवं मानसमनुभवति, जानाति, इच्छति, यतते वा स प्रमातेति संज्ञां बिभर्ति । अस्तु तर्हि चैतन्यव्यापारः सर्वदा प्रमातृसम्बद्ध एव ।

एवम्प्रकारेण मनोव्यापारा न केवलं कस्यचित् प्रमातुरेव मनोव्यापारा भवन्ति, प्रत्युत कञ्चिद्विषयमधिकृत्यैव ते प्रादुर्भवन्ति । स विषयो न्यायपारिभाषिकपदावल्यां प्रमेयमिति संज्ञया प्रथते । यतः प्रमेयं ज्ञानाख्यकर्मविषयी- भूतमेव भवति, न तु भावादिसंवेदनस्य, वयं तावत् विषयमेव निखिलमनोव्यापारस्या- धिष्ठानीभूतं मन्यामहे। स हि मनोव्यापाराणामुत्तेजकमालम्बनं क्रियाभूमिर्वा यथावसरं जायते। तृतीयस्तु मनोव्यापार एव । एतावतेदमुन्नेयं यद्धि मनोव्यापारे चैतन्यप्रयुक्ते व्यवहारे च प्रमाता, विषय:, ज्ञानसंवेदनादिव्यापाराश्चेति त्रीण्यङ्गानि सन्निविष्टानि भवन्ति ।

या हि व्यक्तेः काञ्चन परिस्थितिं विषयीभूतां प्रति प्रतिक्रिया जायते, सा प्रमातुश्चरित्रायत्ता, यच्च प्रमातुश्चरित्रं तदपि तत्परिस्थितिजन्यज्ञानाधीनम्, तत्संवेदनायत्तम्। अतः प्रमातेत्य- भिधानेनास्माकमभिप्राये मनोवैज्ञानिकी व्यक्तिः, या हि खलु चेतना सती परिस्थितिगतान् विषयाननुभवति, जानाति इति यावत्; तद्विषयकं सुखदुःखादिसंवेदनमनुभवति, यस्य प्रतिक्रिया प्रयत्नरूपा तद्विषयज्ञानसंवेदनादिकेन सर्वदा सम्बद्धा प्रयुक्ता च भवतीति।

आचार्यप्रभाकरभट्टपादैरपि त्रिपुटीप्रत्यक्षमङ्गीकुर्वद्भिर्ज्ञानाख्ये कर्मणि प्रमाता, प्रमेय:, ज्ञानमिति त्रीण्यङ्गानि सन्निविष्टान्यभिमतानि । किन्त्वर्वाचीनं मनोविज्ञानन्तु सर्वास्वेव मनोवृत्तिषु प्रमातृविषयमनोव्यापारान् सन्निविष्टान् मन्यत इति विशेषः ।

मनसः परिवर्तनशीलत्वम्[सम्पादयतु]

चैतन्यं हि खलु धारावाहिकम्। प्रतिक्षणमिदं परिवर्तनं बिभर्ति। तदुक्तं पार्थेनाऽपि

श्रीमद्भगवद्गीतायाम्–

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।। इति । [७]

मनस्तावदत्यर्थं चञ्चलं भवति । प्रतिक्षणमेकस्मात् पदार्थादन्यमर्थं विषयीकरोति । चैतन्यधाराप्रवाहे नहि व्यवधानं विद्यते, नापि व्यवच्छेद एव । यदि वयं सम्प्रति रूसदेशस्य प्रधानमन्त्रिरमहोदयानां श्रीबुल्गानिनमहाभागानां भारतयात्राविषयं चिन्तयामः, एकघटिकानन्तरञ्च द्वितीयपञ्चवर्षीययोजनाविषये वार्तालापः समाप्तिं गच्छति, सन्ति हि तदन्तराले बहवो मनोव्यापारविशेषा ये परस्परं सन्निहिताः सम्बद्धा:, यद्यपि सम्बन्ध- शृङ्खला दृष्टिपथात्तिरोहिता एव भवति ।

विज्ञानवादिभिरभिमतः क्षणिकविज्ञानवादो विज्ञानाख्यस्य चैतन्यस्य क्षणिकत्वं धारावाहिकत्वं सम्यक्तया स्फुटीकरोति । अमेरिकादेशीय- मनोवैज्ञानिकधुरन्धरेण विलियमजेम्समहोदयेन मानसिकघटनानामनवरतपरिवर्तनशीलमिदं रूपं ‘चैतन्यधारा’ इत्यभिधानेन निर्दिष्टम्। [८] तन्मते नेयं धारा समानरूपेण वहत्यपि तु उत्पतनानामवस्थानानाञ्च तारतम्यं तत्र भवति । कदाचन मनोव्यापारेषु वेगवती क्रिया जायते, दृश्यते च, कदाचन सा शिथिलीभवतीति तेषामभिसन्धिः। इमाश्चैतन्यजन्याः क्रिया मनोवृत्त्याख्या नाडीतन्त्रे नाडीक्रियाभिः समनन्तरमेव सम्बद्धा भवन्तीति शारीरिकमनोविज्ञानविदां मतम् ।

व्यष्टिचैतन्यस्याद्वैतत्वम्[सम्पादयतु]

ननु किं मनोवैज्ञानिकानामप्यद्वैतवादः प्रथते ? नैतद् वक्तुं शक्यते यदद्वैतवादो विश्वविश्रुतः परमहंसश्रीमच्छङ्कराचार्याणां सिद्धान्तो मनोविज्ञानक्षेत्रेऽपि स्वीक्रियते । मनोवैज्ञानिकाभिमतं चैतन्यस्याद्वैतत्वं व्यष्टिचैतन्यमेव लक्ष्यीकरोति । व्यक्तेश्चैतन्य- मेकीभूतमद्वैतं भवति। चैतन्यस्यैकत्वाद्विभिन्नमनोव्यापारेषु सामञ्जस्यं जायते । अपि च स्वात्मैकत्वविषया प्रत्यभिज्ञा 'योऽहं बाल्ये देवदत्त आसं सोऽहमिदानीं वार्धक्ये पुत्रपौत्रा- द्युपेतोऽप्यस्मि' इति चैतन्यैकत्वादेव सम्भवति । मनसो वैशिष्ट्यं खल्विदं यत् सतत- परिवर्तनशीलं सदपीदमेकत्वमक्षुण्णं बिभर्ति । चैतन्यस्य खल्वयं विशेषः सत्त्वोप- पादनायात्यर्थं गौरवान्वितः ।

केचनैकदेशिनो मनोवैज्ञानिका मन्यन्ते स्वात्मप्रत्यभिज्ञानं तावद् विविधचेष्टोपयोगिमांसपेशीक्रियालोचनज्ञानजन्यं परामर्शोत्थञ्च ज्ञानं भवतीति । यान्त्रिकवादाभिभूतमिदं व्याख्यानं मन्ये चैतन्यस्य मनसो वा परमोत्कृष्टं विशेषं नैव लक्ष्यीकरोति, येनेदं प्रतिक्षणमत्यर्थं परिवर्तनमादधानेषु मनोव्यापारेष्वपि स्वारस्यं स्थापयति, विशिष्टां समन्वितां प्रतिक्रियामाचरणरूपा प्रदर्शयति च । विविधमणिगणानामिव चैतन्यक्रियाणां सूत्रमिव मनो नास्ति, प्रत्युत तासु विलक्षणमनुस्यूतमेकीभावमप्य- भिव्यञ्जयति। तच्च मनसः परमं वैशिष्ट्यम्।

प्रकृष्टास्वसामान्यमनोऽवस्थासु यदा व्यक्तित्वं द्वैधीभूतं जायते, तदा चैतन्यमपि द्वैधीभूतमिव प्रतिभाति। तत्तु भवत्यानुषङ्गिकम्। मनोविश्लेषणाद्युपचारैर्यदा व्यक्तिः स्वस्था जायते, तदा तस्या एकत्वमपि पुनरावर्तते।

सम्बन्धस्थापनम्[सम्पादयतु]

सम्बन्धस्थापनं हि खलु चैतन्यस्य किं वा मनसोऽपरो विशेषः । तथैव मस्तुलुङ्गमपि नाडीस्रोतसां परस्परं सम्बन्धान् निर्मिमीते । सम्बन्धनियम एवम्प्रकारेण व्याख्यातुं शक्यते-‘यदि द्वौ तदधिको वानुभवौ युगपदनुभूयमानौ सन्निकृष्टतया वाऽनुभूयमानौ भवेतान्तर्हि तौ परस्परं सम्बद्धौ जायेते । यदि च कालान्तरे तयोरेकतरस्मिन् समुपस्थिते समुद्भूते वाऽपरोऽप्याविर्भवति स्मृतिपथमारोहतीति । प्राचीनयुगे सम्बन्धवादः सम्बन्ध- शब्दस्याऽतीव सङ्कीर्णमर्थमङ्गीकृत्य प्रतिपादितः, यतो हि प्रत्ययानां सम्बन्धा एव तन्मतेऽभिमता आसन् । अस्माभिरत्रास्य प्रयोगोऽधिकव्यापकक्षेत्रद्योतनाय कृतः ।

नहि केवलमेकः प्रत्ययोऽपरेण प्रत्ययेनाऽपरैर्वा प्रत्ययैः सम्बद्धो जायते, प्रत्युत क्रिया भावाः संवेगा अपि प्रत्ययैः साकं सम्बन्धमिच्छन्ति । तथा च क्रिया प्रत्ययेन संवेगेन वाऽन्यतरेण सह सम्बद्धा जायते । एतावता कालान्तरे एकस्मिन् सत्यपरस्याऽपि स्मृतिर्जायते। उदाहरणतः सविकल्पकाख्ये प्रत्यक्षे नहि केवलमालोचनं ज्ञानं विशुद्धं वर्ततेऽपि तु पूर्वानुभवानुकूलां स्मृतिं समाश्रित्यार्थव्याख्यानमपि सविकल्पप्रत्यक्षे सन्निवेशमवाप्नोति। एवमेव क्रोधोऽपि पूर्वानुभवास्पददुःखमयानुभवेन सह सम्बद्ध एव दृश्यते । सम्बन्धस्थापनमध्ययनस्य प्रथमा खलु भूमिः । स्तनन्धयः दुग्धपानेन समाश्लिष्टां मातरं परिचिनोति सर्वप्रथमम् । अग्रेऽपि गामागतां सम्पश्य गोज्ञानं बालकस्योत्पद्यते।

अत्र स्मरणीयं यद् वयं प्राक्तनं सम्बन्धवादीदं मनोविज्ञानं (Associationist Psychology) नाद्रियामहे, यतो हि तस्मिन् विविधा मनोवृत्तयो मनोऽवस्था वा सम्बन्धनियमैरुपनिबद्धा स्रगिवेति मान्यं मतमासीत्। नहि मनोऽवस्था रुद्राक्षेण पुष्पेण वा माल्याङ्गीभूतेन समं भवितुमर्हति, रुद्राक्षपुष्पस्वर्णादिकानां चैतन्यविरहितत्वात्तैः स्वयमेव माल्यग्रथनमसम्भवम्। मनस्तु स्वमनोवृत्तिविषयानवचिनोति, ग्रथते, विविधमनोवृत्तीनां सामञ्जस्यं च स्थापयति । नहि मनोवृत्तय: पृथक् पृथक् मानसरङ्गभूमावतरन्त्यपि तु परस्पराश्लिष्टा एवानुभूयन्ते । तासामनुभवपथारोहणमपि प्रकृष्टतारतम्येनासाद्यते ।

चिन्तनम्[सम्पादयतु]

प्रागुक्तमेवास्माभिर्यद् विविधमनोवृत्तीनां त्रिधा वर्गीकरणं सम्भवति, यथा- अनुभवनम्, संवेदनं प्रयत्नश्चेति। एतानि त्रीण्येव मनोव्यापाराणां प्रारम्भिकतमानि मूलभूतान्यङ्गानि । नहि तानि समनन्तराणीतरेतरव्यावृत्तानि पृथग्भूतानि वा भवन्ति । त्रीणि हि खल्वेतानि समाश्लिष्यैकं मानसिकमनुभवं वस्तुभूतं जनयन्ति । निखिलस्यैकस्यानुभवस्य विश्लेषणेन वयं त्रीणि मौलिकानि परस्परं विविक्तानि चैतन्यव्यापाररूपाणि लभामहे । मनोवृत्तीनां सम्यग्व्याख्यानसौकर्यायैव विवेचनं तासामावश्यकं प्रतिभाति। विविक्ता अप्येतास्तिस्रो मनसोऽवस्था नैव पृथग्भूता भवन्ति । तिस्रोऽपि मनोवृत्तयः समनन्तरमेव कस्याप्यनुभव- विशेषस्याङ्गत्वेनोत्पद्यन्ते।

प्रथमं ज्ञानमुत्पद्यते, ततो भावसंवेगोऽनुभूयते, ततश्च प्रयत्नो जायत इत्यपि न वाच्यम्, यतस्तानि मूलभूतान्यङ्गानि ज्ञानेतच्छाप्रयत्ना युगपन्मिलित्वैव मानसमनुभवं जनयन्ति। कथन्नु तर्हि तेषां मूलभूतत्वमुमपद्यते ? विलक्षणस्वरूपत्वात्। प्रत्येकमितरपरिणाममात्रमिति वक्तुं न शक्यते, अत एव सिद्धं तेषां मूलभूताङ्गत्वम्। अपि च यत्र यत्र जाग्रच्चैतन्यं विद्यते, तेषां प्रादुर्भावोऽपि नियतरूपेण तत्र तत्र विद्यत एव । ज्ञानन्तर्हि चैतन्यस्य स व्यापार उच्यते येन प्रमाता कमपि पदार्थं जानाति । एवम्प्रकारेण ज्ञानकोटौ प्रत्ययानां विचाराणां वाक्यरूपाणाञ्च समावेशो भवति ।

नहि सर्वदा ज्ञानं स्पष्टं व्यवसायात्मकमेव भवति । यदा ज्ञानमव्यवसायात्मकमव्यपदेश्यं भवति तदाऽप्यस्य ज्ञानव्यपदेशो विद्यत एव। निर्विकल्पकं प्रत्यक्षं यदालोचनं ज्ञानमित्यभिधीयते, तदव्यवसायात्मकमेव भवति । अनुभवनाख्यज्ञानक्रियायान्तर्हि सवि- कल्पकालोचनज्ञानयोर्द्वयोरेव समावेशो भवति । वस्तुमात्रावगाह्यालोचनं ज्ञानं भवति । वस्तुविशेषावगाहि सविकल्पकं ज्ञानमुच्यते। प्रत्यक्षानुमानादीनि प्रमाणानि, यानि चाप्रमाणानि वस्तुस्वरूपविषयकाणि, तानि सर्वाणि ज्ञानपरिधौ समाविष्टानि । पदार्थस्य ज्ञानं प्रत्ययात्मकं भवतु नाम, वाक्यात्मकं भवतु वा, ज्ञानसामान्याङ्गम्। यदा चेतनः प्राणी कमपि पदार्थं प्रति प्रतिबुद्धो जायते, तदा ज्ञानमवश्यमेव सन्निविशति समुत्पद्यते वा । एतस्मादेव कारणाच्चैतन्यं ज्ञानपर्यायवाचकमिव प्रयुज्यते ।

संवेदनम्[सम्पादयतु]

अनुकूलवेदनीयं सुखम्, प्रतिकूलवेदनीयं दुःखमिति सुखदुःखादीनामनुभव: संवेदनमित्यभिधीयते। क्रोधलोभमोहादिभावानामन्तर्भावोऽपि संवेदन एव कार्यः । अस्ति हि संवेदनं चैतन्यानुभवस्य मौलिकमङ्गम् । यतो हि किमपि ज्ञानं संवेदनं विना नैवोपलभ्यते। साधारण तमोऽपि ज्ञानविषयः सुखं दुःखं वाऽवश्यमेव जनयति । रागात्मिका वृत्तिर्हि मनसः संवेदनमित्युच्यते । ज्ञानं तद्वति तत्प्रकारकोऽनुभवो भवति । सुखदुःखानुभवस्तु पुरुषस्वभावेच्छाधीनमनियतरूपं भवति। सरलतमत्वादपरिवर्त्यत्वात् प्रारम्भिकक्रियारूपत्वाच्च संवेदनं मौलिकं चैतन्याङ्गमिति मन्यते । क्रोधकामादिस्थायि- भावेष्वपि सुखदुःखादीनां समावेशः क्रियत एव। नहि किञ्चिदपि ज्ञानं पूर्णत औदासीन्यान्वितमुपलभ्यते। यदपि विचार्यते, ज्ञायते, तत्सर्वं सुखजनकमथवा दुःखजनक- मवश्यमेव भवति ।

प्रयत्नः[सम्पादयतु]

सर्वेऽनुभवाः क्रियाजनकाः । यथा सर्वज्ञानं दुःखं वा सुखं वाऽवश्यमेव जनयति, तथैव यत्प्रतिकूलवेदनीयमनुकूलवेदनीयं वा भवति तदवश्यमेव क्रियामुत्पादयति । प्रयत्नोऽपि मानसानुभवस्य मौलिकमङ्गम्। नहि तद्व्यतिरिक्तं किञ्चिदपि ज्ञानमुपलभ्यते। ज्ञानोत्पत्तावपि क्रियालेशो वर्तते। तथा हि वक्ष्यमाणध्यानाख्यक्रियां विना प्रत्यक्षज्ञानमपि न सम्भाव्यते। ध्यानमपि चैतन्यव्यापार एवेति वयं वक्ष्यामः । अपि च सुखदुःखानुभूत्यनन्तरं प्रयत्न उत्पद्यत एव, दुःखजनकोत्तेजकप्रहाणाय सुखोत्तेजकसम्प्राप्त्यै वा । यत्सुखजनकं तद्रोचते, यच्च रोचतेऽस्मभ्यं वयमवाप्तुं तदिच्छामः ।

कदाचन पदार्थज्ञानं मानसक्रियामात्रपर्यवसानं भवति । क्रियाणां जन्मजातानां यद्रूपं तत्तु मूलप्रवृत्तीनां प्रकरणेऽस्माभिर्विस्पष्टम् । प्रयत्नो हि खलु सरलतमक्रियारूपो मानसानुभवस्या - परिहार्यमपरिवर्त्यं मौलिकमङ्गम्। ज्ञानाख्यो व्यापार: संवेदनञ्च सुखदुःखयोर्मानसक्रियां विना न सम्भाव्येते, क्रियायामन्ततो गत्वा परिणमेते । अपि च प्रयत्नेषु सप्रयोजनात्मकोच्च- स्तरीयाचरणैच्छिकचेष्टादीनामप्यन्तर्भावो बोद्धव्यः । सन्ति हि विनिहितरूपाः केचन प्राणिषु जन्मजाता वेगाः शक्त्यभिव्यक्तिस्रोतांस्यपि च । बौद्धिकनिम्नस्तरीयमानसिकक्रियासु इमे वेगा अनिर्दिष्टरूपा अन्धेन नीयमानो यथान्ध इव प्रतीयन्ते । पशूनां मूलप्रवृत्तिषु वेगानामभिव्यक्तिरूपमेवम्प्रकारकमेव दृश्यते। मानवव्यवहारे सप्रयोजनत्वाद् विचारान्वित- त्वादेतेषां वेगानां मूलप्रवृत्त्याख्यानामभिव्यक्तिः परिवर्तिता जायते, प्रयत्नाख्यं रूपमिच्छानु- प्रेररितञ्च प्रपद्यते।

मानसिकसँल्लग्नता[सम्पादयतु]

केचन मनोवैज्ञानिकाः, यथा प्राध्यापकवुडवर्थमहोदयाः [९], प्रयत्नाख्यप्रत्यय- निरसनाय मानसिकसँल्लग्नतेति पदस्य प्रयोगं कुर्वन्ति । तेषां मते मानसिकसँल्लग्नता द्विविधा भवति’– परिस्थिर्ततसँल्लग्नता, प्रयोजनसँल्लग्नता चेति। परिस्थितिसँल्लग्नता तदा जायते यदा वयं प्रयुज्यमानान् पदार्थान् प्रति सचेष्टा भवामः, यथा - प्रस्तुतग्रन्थ- लेखनाय लेखनीपत्रतद्विषयकविचारशृङ्खलाविशेषादयः । यद्यपि कक्षकुड्ये विलिखितानि चित्राण्यपि परिस्थितावेव सन्निविष्टानि, सन्निकृष्टत्वात् तथापि प्रस्तुतलेखनकार्यो- पयोगिपरिस्थित्यां तेषामन्तर्भावो नैव भवति । अत एव चित्रादिषु परिस्थितिसँल्लग्नताया अभाव एव विद्यते। लक्ष्यसँल्लग्नता किं वा प्रयोजनसँल्लग्नता तु प्रयोजनं लक्ष्यं वा प्रति जागरूकता भवति, यदधिकृत्य मानवस्य सर्वे प्रयत्ना ज्ञानेच्छासंवेदनकर्मादयः प्रवर्तिता भवन्ति। प्रस्तुतस्थलेऽस्याध्यायस्य समापनमेवास्मल्लक्ष्यम्, तदभिमुखीकृत्य सर्वाण्यस्माकं कार्याणि प्रेरितानि भवन्ति ।

नेदं प्राध्यापकवुडवर्थमहोदयानां विवेचनेन स्फुटीभवति यद्धि कथन्नु परिस्थिति- सँल्लग्नतालक्ष्यसँल्लग्नतयोः स्वीकारेणान्तर्निहितप्रकृतिजन्यवेगानां प्रवृत्तीनां प्रयत्नाख्य- चैतन्यव्यापाराङ्गस्य मौलिकस्य निराकरणमासादितुं शक्यते । मूलप्रवृत्तीनां स्वरूपाधारण- वेलायामपि यान्त्रिकवादाभिभूतस्य तन्मतस्यालोचनं कृतमेवास्माभिः। अत्रापि पर्याप्तमेवेदं वक्तुं यत्परिस्थितिसँल्लग्नता लक्ष्यसँल्लग्नता च निरर्थके निष्फले, यदि प्रयत्नो मौलिकश्चैतन्यव्यापाररूपो न स्वीक्रियेत । नहि प्रयत्नमन्तर्निहितप्रकृतिजन्यशक्तिवेगरूपं विहाय परिस्थितिसँल्लग्नता लक्ष्यसँल्लग्नता वापादयितुं शक्यते । सँल्लग्नतायामपि मानसो व्यापारः प्रयत्नरूपः सन्निविष्ट एव ।

प्राध्यापकवुडवर्थमहाभागा 'विकसन्ती क्रिया’ ‘शिरस्युत्पद्यमाना क्रिया' 'मानसिकसँल्लग्नता' इत्यादिकैः शब्दसमूहैर्ये भावं प्रकटयितुमिच्छन्ति, स तु व्यवहितोऽस्पष्ट एव जायते । समयघटिकायन्त्रेण सह सँल्लग्नस्य पुरुषस्य सादृश्यमुद्धाट्य तैराकूतं भ्रान्त्यवलीढमिव प्रतिभाति । नहि मानवव्यापाराणां यान्त्रिकक्रियाभिः सह तुलना करणीया । यान्त्रिकक्रिया मानवा आरभन्ते । स्वतस्तु ताः प्रयोजनविरहिताः, प्रयोक्तुः प्रयोजनमपेक्षन्ते। मानसव्यापारस्तु प्रयोजनेच्छादिभि: प्रवर्तित आभ्यन्तरप्रकृतिनिहितवेगैः प्रचोदितः साकूतो भवति । नहि यन्त्रं स्वयं क्रियारूढं जायते। अपेक्षते हि तच्चैतन्यं प्रेरकम् । अतो वयं यान्त्रिकवादातिशयातिरञ्जितं मौलिकतमप्रयत्नाख्यचैतन्यव्यापारानुस्यूतं वुडवर्थमतं नाद्रियामहे । नहि जडपदार्थजन्य- क्रियाव्याख्यानमात्रं विलक्षणस्वरूपच्चैतन्यव्यापाराणां स्वरूपावबोधायालमित्यस्माकं मतम्।

ज्ञानसंवेदनप्रयत्नानां परस्परं सम्बन्धः[सम्पादयतु]

ज्ञानसंवेदनप्रयत्नाः सन्ति हि खलु मानसव्यापारस्य मूलभूताङ्गरूपेण विविक्ता इति वयमवोचाम। स्मरणीयमस्मिन् विषये यदेतानि चेतनानुभवाङ्गानि रसायनविज्ञानाभिमत- मूलतत्त्वैः सदृशानि नैव भवन्ति । न ह्यस्ति तेषां साम्यम्, यतो हि रासायनिकमूलतत्त्वानां पृथक्करणं विश्लेषणं मेलनं सर्वथैव प्रयोगशालायां कर्तुं शक्यते, नहि तथा मानसानुभव- मूलभूतज्ञानसंवेदनप्रयत्नाख्यतत्त्वानि । एते तु मिलित्वैव परस्परमाश्लिष्यैव मानसानुभवं जनयन्ति। नहि तेषां पृथक्करणं सम्भवति । नाप्येकमेव तत्त्वं विविक्तं कदाचन पृथक्तोऽनुभूयते। अतो मिलित्वैव तेषामनुभवाङ्गत्वमुपपद्यते ।

अपि च सामान्यतयेदं वक्तुं शक्यते यद् वयं प्रथमं जानीमस्तदनन्तरं संवेदन- मनुभवामः, तदनन्तरमिच्छामः प्रयतामहे । नहि सर्वदाऽयं क्रमः परिरक्षितुं शक्यते । नह्यालोचनमपि ज्ञानं ध्यानाख्यां क्रियां विहायापादयितुं शक्यते । प्रत्यक्षमपि तावत् क्रियापूर्ववृत्तितायुक्तमिति सूक्ष्ममानसप्रत्यक्षोपोद्बलितम् । अपि च नहि सर्वे पदार्था ध्यानाकर्षणायालम्। ये ये सुखप्रदास्ते तेऽभिरुचिमुत्पाद्य ध्यानायोपयुक्ततमा भवन्ति। अर्थाद् ध्यानाख्या क्रियाऽपि संवेदनमूलैव भवति । अतो विवेचनसौकर्याय मानसानु- भवेषु परस्परमाश्लिष्टा अपि ज्ञानसंवेदनप्रयत्ना विविक्ता विचार्यन्ते, विशेषतो विलक्षणरूपत्वात्तेषाम्।

चैतन्यस्य प्रकारविशेषा:[सम्पादयतु]

यदायं पुरुषः पश्यति, स्मरति, कल्पते, अनुमिनोति, उपमिनोति, विश्वसिति तदा चैतन्यं मनो वा सर्वानेतान् व्यापारान् करोति । इयं हि खलु चैतन्यस्य स्थूलावस्था या जाग्रदवस्थाऽपि निगद्यते । जाग्रद्दशायामेव ज्ञानसंवेदनप्रयत्नादीनि चैतन्यकर्माणि क्रियमाणानि दृश्यन्ते। केचन मनोवैज्ञानिका एकदेशिनश्चैतन्यं नाम जाग्रदवस्थाविशेषात्मके चैतन्य एव व्यवहरन्ति। अपरे केचन चैतन्यसन्तानव्यवच्छेदं किमुतान्तरालं चैतन्य- सत्त्वेऽङ्गीकुर्वन्ति यदाऽयं पुरुषः स्वपिति मूर्च्छितो वा जायते । नेदं व्याख्यानं चैतन्य - स्वरूपस्य समीचीनमस्मान् प्रतिभाति । नास्ति सुषुप्तौ चैतन्यसत्त्वव्यवच्छेदः, नाप्यस्ति चैतन्येऽन्तरालविशेष एव । चैतन्यन्त्ववच्छिन्नस्वरूपमेकमेव। अस्ति हि खल्वस्य महद् वैलक्षण्यं यच्चैतन्यमेकं सदपि तत्तद्व्यापारेषु व्याप्रियमाणम् । सर्वा मनोवृत्तीर्जानाति, तासां संस्कारानादधाति, कालान्तरे च स्मरति । जाग्रदवस्थाभिमानि चैतन्यं विश्वाख्यं भवति। उक्तं हि माण्डूक्योपनिषदि आत्मनश्चतुष्पादस्य प्रथमपादरूपस्य विश्वाख्यचैतन्यस्य व्याख्यानावसरे ‘“जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः””। [१०] अत्रेदं स्पष्टीकृतं यज्जाग्रच्चैतन्यं स्थूलविषयानेव विषयीकरोतीति । अपि च जाग्रच्चैतन्यं बहिष्प्रज्ञो बाह्यपदार्थानेव विजानाति । स्मरणीयमत्र यच्चैतन्यस्य स्थूलावस्थायां जाग्रच्चैतन्ये वाऽस्माभिः मानसप्रत्यक्षस्मृतिकल्पनादीनां व्यापाराणां कार्य- क्षमताऽपि स्वीकृता, न तु बाह्यपदार्थज्ञानमात्रमेव। अपि च चैतन्यमिति शब्दोऽस्माभिर्नहि सङ्कीर्णेऽर्थे जाग्रच्चैतन्यपर्यायवाचके प्रयुक्तोऽपि तु चैतन्यस्य सर्वास्वेवास्था- स्वनुगतस्वरूपद्योतनाय ।

सूक्ष्मावस्था, संस्कारावस्था, तेजःसंज्ञं चैतन्यम्[सम्पादयतु]

अस्ति हि खल्वपरा चैतन्यस्य सूक्ष्मावस्था । अर्वाचीनैर्मनोवैज्ञानिकैः साऽवरं चैतन्यमिति नाम्ना प्रथते । संस्कारमयी हि साऽवस्था । तदभिमानि चैतन्यं तैजसमिति निगदन्ति वैदान्तविदः। माण्डूक्योपनिषदेनमेवम्प्रकारेण विशिनष्टि-“म्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः " [११] । नहि सूक्ष्मचैतन्यस्य विषयाः स्थूलपदार्था भवन्त्यपि तु मानससंस्कारा अथवा मानसप्रत्ययसंवेदनप्रवृत्त्यादयः स्मृत्युद्वेजिता एवंविषयीभूता भवन्ति । इन्द्रियापेक्षयाऽन्तःकरणत्वान्मनसस्तद्वासनारूपा च स्वप्ने प्रज्ञा यस्येत्यन्तः प्रज्ञः । विषयशून्यायां प्रज्ञायां केवलप्रकाशरूपायां विषयित्वेन भवतीति तैजस इति श्रीमच्छङ्कराचार्याः । इह वासनामात्रं केवला भोज्येति प्रविविक्तो भोग इति । स्वप्ने हि तैजसचैतन्यस्य क्रियाकलापस्यानुभवो जायते । स्मृत्यां कथं पूर्वानुभूतविषयाणां स्वरूपं सुरक्षितं धारणागतं वा तिष्ठति? नूनं तत्तु सूक्ष्मचैतन्यक्रिया- द्वारैवासाद्यते। प्रतीच्यैर्मनोवैज्ञानिकैस्तैजसाख्यं सूक्ष्मं चैतन्यमवरं चैतन्यमितिः नाम्नाऽ- भिधीयते। आङ्गलभाषायामस्य पर्यायवाचकः "सब - कांन्सस' इति शब्दो व्यवह्रियते ।

चैतन्यतृतीयाऽवस्था, कारणावस्था[सम्पादयतु]

सुप्तवासनामयी हि खलु साऽवस्था । औपनिषदास्तु तां प्रज्ञाख्यं चैतन्यमित्यभिधानेन व्यवहरन्ति। माण्डूक्योपनिषदि व्याख्यातञ्चेदमित्थम् - "सुषुप्तिस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः " । स्मृतिस्वप्नादौ सूक्ष्मचैतन्यस्याभि- व्यक्तिस्तु दरीदृश्यते, किन्तु कारणावस्थागतं चैतन्यं किं वा कारणचैतन्यं सुप्तमिवाऽवतिष्ठते । यथा सुषुप्तौ तथाऽन्यथा । नहि तदभिव्यक्ति: साधारणतया जायते । कुशलैर्मनोवैज्ञानिकैर्मनोविश्लेषणादिविधिविशेषैस्तद्रूपमुद्घाट्यते। अर्वाचीनैर्मनो- वैज्ञानिकैः कारणचैतन्यमचेतनं चैतन्यमिति नाम्नाभिधीयते । आङ्गलभाषायामस्य पर्यायवाचकः शब्दः 'अनकान्सस' इति व्यवह्रियते ।

चैतन्यस्य त्रैविध्यम्[सम्पादयतु]

स्मरणीयमस्मिन् विषये यद्धि सर्वेषामेव मनोवैज्ञानिकानां मतैक्यं सूक्ष्म- चैतन्यास्तित्वविषये नास्ति । तथापि सामान्यत इदं स्वीक्रियते यद्धि जाग्रच्चैतन्यं सूक्ष्मचैतन्याद्भिद्यते, सूक्ष्मचैतन्यञ्च कारणचैतन्याद्भिद्यत इति। विश्वविश्रुताः स्वनामधन्याः फ्रायडमहोदयाश्चैतन्यस्य त्रीणि रूपाणि स्वीकुर्वन्ति, तानि यथा - चैतन्यम्, पूर्वचैतन्यम्, अचैतन्यमितिः। [१२] चैतन्यं हि मनसस्तद्भागो भवति, यत् साक्षात् प्रत्यक्षं संवेदनं विचारादीनंनु- भवति। पूर्वचैतन्यम् (उपर्युक्तमवरचैतन्यमेवेदम्) यद्यपि साक्षाच्चैतन्यात्तात्कालिकात्तु बहिरेवावतिष्ठते, तथापि स्मृत्यादिसाधनैस्तदुद्बोधनं कर्तुं शक्यमेव, जाग्रच्चैतन्यभूमौ तदवतारणमपि तथा सम्पद्यते । अचैतन्यं हि मनसः प्रायस्तिरोहितं रूपं भवति, यच्चाभियुक्तैर्मनोविश्लेषणादिसाधनैरभिव्यज्यते।

अचैतन्यं नास्ति चैतन्याभावोऽपि तु चैतन्यस्य सुप्तावस्था। अचैतन्यं नाम मनसस्तृतीयो भाग इति कथनेन मनसो जाग्रदवस्थातिरिक्तमपि सत्त्वं वज्रलेपायितम्। केचन सूक्ष्मावस्थां कारणावस्थाञ्च चैतन्यस्याभिन्नामेव मन्यन्ते । तेषां मते पूर्वचैतन्यमेवा- चैतन्यमिति। नेदं मतं समीचीनं प्रतिभाति। फ्रायडमहोदयाभिमतं पूर्वचैतन्याचैतन्ययो- रङ्गीकरणन्त्वनुभवप्रतिष्ठमित्यवसेयम्। नहि ‘अचैतन्यं किमुताचेतनं चैतन्यं किमुताचेतनं मन:' इत्यस्मभ्यं रोचते। नहि चेतनं मनोऽचेतनमिति वक्तुं शक्यते। अतो वयमचैतन्य- मित्यस्य स्थाने कारणचैतन्यमिति प्रयोगं व्यवहरिष्यामो ऽग्रिमेषु विवेचनावसरेषु ।

केचन पूर्वचैतन्यमपि नास्ति साम्प्रतमिति मन्यन्ते । जाग्रच्चैतन्यानुभवस्तु सर्वेषामेवानुभवानां प्रथमा भूमिः । तदनन्तरमेव सूक्ष्मचैतन्ये तत्संस्काराः समाधीयन्ते। अतः सूक्ष्मं चैतन्यमवरं चैतन्यं भवतीत्यपि वक्तुं शक्यते। केचन मन्यन्ते यद्धि सूक्ष्मं चैतन्यमवरं चैतन्यं भवति। यतो हि जाग्रच्चैतन्यापेक्षया तस्य प्रभावो विस्तरश्चात्यधिको दृश्यते। पश्चाद्भावित्वादेवास्माभिरवरं चैतन्यमित्युक्तम्, न तु प्रभावापेक्षया । अतः सूक्ष्मं चैतन्यं पूर्वचैतन्यमवरचैतन्यमिति वा भवतीति न वाच्यम्।

सन्ति हि केचन मनोवैज्ञानिका ये सूक्ष्मचैतन्यं कारणचैतन्यञ्च कल्पनामात्रमिति वदन्ति। अपरे तु वस्तुभूतं तच्चैतन्यमिति निगदन्ति । केचन मनोवैज्ञानिका: सूक्ष्मं चैतन्यं जाग्रदवस्थानुभवमात्रनिर्मितमिति वदन्ति । तथाप्यन्ये ज्यूरिचनागरिककार्लयुङ्ग- महोदया इव जातिवंशपारम्पर्यायत्तं हि कारणं चैतन्यमिति कथयन्ति । [१३] सूक्ष्मं चैतन्यं कारणं चैतन्यञ्च व्यष्टिरूपे द्वे एव वस्तुभूते इति प्राञ्चः, यथा हि खलु जाग्रच्चैतन्यं भवति ।

औपनिषदानां मते चैतन्यस्य चतुर्थं रूपं तुरीयाख्यामपि भवति । नहि तस्य प्रपञ्चावसरोऽत्र विद्यते। प्रपञ्चितं हि तदस्माभिः समासतोऽन्यत्र । [१४] तुरीयं हि चैतन्यस्य चतुर्थः पाद इत्याकूतम् ।

विशिष्टमनोवृत्तीनां स्वरूपम्[सम्पादयतु]

वयमत्र सम्प्रति संस्कृतवाङ्मये प्रयुक्ता मुख्यतमा मनोवृत्तीरनुव्याख्यास्यामः, येनाऽर्वाचीनमनोविज्ञाने प्रयुक्तानां मनोवृत्तीनां तत्तद्विषयपार्थक्यं स्फुटतरं भवेत् । प्रथमं तावन्मन एव। तस्य स्वरूपन्त्वस्माभिः प्रथमाध्याये किञ्चिद्विवृतम् - कस्तावन्मनोविषयः ? किञ्चास्य स्वरूपम्? तद्यथा भगवतां पुनर्वस्वात्रेयमहर्षीणां मते -

लक्षणं मनसो ज्ञानस्याभावो भाव एव च ।

सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते ॥

वैवृत्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते ।

अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ ॥

चिन्त्यं विचार्यमूह्यं च ध्येयं सङ्कल्प्यमेव च।

यत्किञ्चिन्मनसो ज्ञेयं तत्सर्वं ह्यर्थसंज्ञकम् ।।

इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः । [१५]

अर्वाचीने यथोक्तं मनसो व्यापारेषु विचारसङ्कल्पातिरिक्तं विविधभावसंवेदनेच्छा- प्रयत्नादीनां समावेशः क्रियते । मनस्तु प्रायश्चैतन्यपर्यायवाचकमात्मार्थे प्रयुक्तमर्वाचीन- मनोविज्ञानग्रन्थेषु दरीदृश्यते । नहि मनश्चैतन्यस्य शक्तिः, किमुतैकं करणमात्मनः साधन- मिति यावदथवा ज्ञानस्यासाधारणो हेतुरपि त्विदमनुभवितृ, यस्य सङ्कल्पसंवेदनेच्छा- प्रयत्नादयो व्यापारा भवन्ति। बैलेण्टाइनमहोदयै राजकीयसंस्कृतमहाविद्यालयस्य प्राक्तन- प्रधानाचार्यपदमलङ्कुर्वाणैः स्वकीयन्यायकौमुद्यामेवम्प्रकारेण मनसः स्वरूपं विवृतम् । तथा हि-

“युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति ।

(१) युगपदेककाले। एकात्मनीति पूरणीयम् । ज्ञानांनामनुत्पत्तिर्यतः स एव धर्मो मनसो लिङ्गम्, लक्षणमित्यर्थः।

(२) अत्र मनोनामकं परमाणुपरिमाणम्, क्रियावत्, आभ्यन्तरमिन्द्रियम्, तच्चात्मना संयुक्तं सद् येन येनेन्द्रियेण यदा यदा संयुज्यते, तदा तदा तदिन्द्रियेण ज्ञानं जायते, तस्य च परमाणुत्वाद् युगपदनेकेन्द्रियसंयोगाभावेन न युगपन्नानाज्ञानोत्पत्तिरिति गौतम- मतम्। अस्मन्मते तु जीवात्मनो युगपन्नानाज्ञानधारणे स्वाभाविकी काचिच्छक्तिर्विद्यते तद्विशिष्ट आत्मा मन: पदेन व्यवह्रियत इति ।

बुद्धिः[सम्पादयतु]

अध्यवसायात्मिका बुद्धिर्भवति । अध्यवसायो हि बुद्धिधर्मः। तदुक्तं हि चरक-संहितायाम्-

कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ।।

जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।

व्यवस्यति तथा वक्तुं कर्तुं वा बुद्धिपूर्वकम् ' ।। (चरकसंहिता, शारीरस्थानम् ।)

‘घटोऽयम्’ ‘पटोऽयम्’ इत्येवं याऽध्यवस्यति सा बुद्धिरिति सांख्याचार्येश्वरकृष्णेनाऽप्यभिहितम्। तथा हि-

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।

सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥

सा च बुद्धिरष्टाङ्गिका, सात्त्विकतामसरूपभेदात् । स्मरणीयमेतद्यत् सांख्यमते बुद्धिरपि जडा एव । नेदमपि स्पष्टं यद् बुद्धिरियं प्रकृतिविकाररूपा समष्टिबुद्धिर्भवति किमुत व्यष्टिबुद्धिरिति । अपि च, क्रियते बुद्धिशब्दस्य व्यापकेऽर्थे प्रयोगो नैयायिकैः ।

यथा-

"सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विधा - स्मृतिरनुभवश्च' ' ।

अर्वाचीनानां मनोवैज्ञानिकानां मते बुद्धिर्मनसश्शक्तिविशेषा नास्ति। एकमेव मनोऽन्तःकरणसंज्ञकं मन इति बुद्धिरिति अहङ्कार इति चित्तमिति चाख्यायते वृत्तिभेदेन व्यापारभेदेन वा । तदुक्तं वेदान्तपरिभाषायाम्–

मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम् ।

संशयो निश्चयो गर्वः स्मरणं विषया इमे ।। इति ।

मनसो विषयः संशयो भवति । बुद्धेश्च निश्चयः । अहङ्कारस्य विषयः गर्वोऽभिमान इति यावत् । चित्तस्य विषयः स्मरणम् । नहि व्यापारभेदेन इतरेतरव्यावृत्ता मनोशक्ति- विशेषा भवन्तीति वाच्यम् । एकस्यैव चित्तस्य वृत्तिभेदादेतानि नामानि भवन्तीति बोद्धव्यम्।


सन्दर्भाः[सम्पादयतु]

  1. बृहदारण्यकोपनिषद् १।५ । ३
  2. योगसूत्रम् १।६
  3. योगसूत्रम् १।७।
  4. योगसूत्रम् १।८ ।
  5. योगसूत्रम् १।९।
  6. योगसूत्रम् १।१०
  7. श्रीमद्भगवद्गीता ६/३४
  8. William James, Principles of Psychology, Vol. I. Chep. IX. "Stream or Consciousness."
  9. Woodworth R. S. Psychology, 'The science of mental life'. Page 9-18.
  10. माण्डूक्योपनिषद् ३
  11. माण्डूक्योपनिषद् ४
  12. Sigmund Fraud, A General Introduction to psychoanalysis (Boni & liveright) 1920. cf. consciousness, forconsciousness and Unconscionsness.
  13. C.G. Jung. 'Psychology of the unconsious," translated by Beatrice Hinkle (moffatt, yard, 1916)
  14. तत्त्वज्ञानमन्दिरस्य वार्षिकाङ्के १९४६ ई. "तुरीय"-लेखः
  15. चरकसंहिता, शारीरस्थानम् १८-२०/१-२


सम्बद्धाः लेखाः[सम्पादयतु]