मनोविज्ञाने वाक्यैकवाक्यता
मनोविज्ञाने वाक्यैकवाक्यता अतीव महत्त्वपूर्णः विषयः वर्तते, येन संवादस्य कौशल्यं प्राप्यते।
प्रत्ययेषु परस्परमाकाङ्क्षायोग्यतासत्ति-तात्पर्यविशेषा वाक्यजन्यज्ञानाय कल्पन्ते । तत्र प्रत्ययानां परस्परसन्दर्भगतजिज्ञासा- विषयत्वमाकाङ्क्षा। अथवा प्रत्ययस्य प्रत्ययान्तरव्यतिरेकप्रयुक्तान्वयानुभावकत्वमाकाङ्क्षेति बोद्धव्यम् । अर्थावबोधः प्रत्ययानां योग्यता । 'वह्निना सिञ्चति' इति न प्रमाणम्, योग्यताऽसत्त्वात्। प्रत्ययानामविलम्बेनानुभवनमासत्तिः सन्निधिरित्यवसेयम्। ‘गौरश्वः पुरुषो हस्ती' इति न प्रमाणम्, तत्राकाङ्क्षाविरहात् । पदस्य मानसप्रतिबिम्बभूता कल्पनाप्रतिमा ‘प्रत्ययः' इत्युन्नेयम्।
एवमेवाकाङ्क्षादिसमुत्थितो विचारक्रमो वाक्यैकवाक्यरूपतामाधत्ते, नहि केवलमेकवाक्यता विचारान्तर्गतप्रत्ययेष्वेव भवति, प्रत्युत “प्रत्येकं भिन्नभिन्नसंसर्ग- प्रतिपादकयोर्वाक्ययोराकाङ्क्षावशेन महावाक्यार्थबोधकत्वं वाक्यैकवाक्यत्वम्” इति । आचार्यप्रवरैः कुमारिलभट्टपादैरपि तन्त्रवार्त्तिके व्याख्यातमिदम्-
स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते॥ इति । [१]
वाक्यैकवाक्यत्वमिव विचारैक्यमपि, विचारसामञ्जस्यमपि स्वस्थविचारशृङ्खलाया: परमं लक्षणम्। प्रत्ययेषु यदि ह्याकाङ्क्षासन्निधीत्यादिर्न भवेत्, विचारदुष्टत्वमापद्येत । विचारैक्यं विचारेषु यदि न भवेत्तर्हि सर्वमसमञ्जसमेवोपपादनमापतेत्। असामञ्जस्यं पौर्वापर्यसम्बन्धनिरस्तत्वम्, कारणकार्यक्रमाभावयुक्तत्वम्, विचारैक्यविरहितत्वं वेत्यवसेयम्। अस्वस्थमानसिकावस्थास्वेव विचारो विशृङ्खलः सामञ्जस्यापेतो दृश्यते। सन्दर्भशृङ्खलां विचारतारतम्यमासाद्यैवाकाङ्क्षादिनिर्वचनमुपपद्यते। असमञ्जस उन्मत्तप्रलापे विचारशृङ्खला पदे पदे छिन्ना भिन्ना च जायते ।
हेत्वारोपणम्
[सम्पादयतु]यदा स्वप्रतिक्रियाया वास्तविकं प्रयोजनं तिरोहितमन्तर्हितं वा कृत्वा वयं तत्सदृशप्रयोजनेतरारोपणं करिष्यामहे, तदा हेत्वारोपणमित्युच्यते । नहि केवलमितरपुरुषैः सह व्यवहार एव वयं हेत्वारोपणं व्यवहरामः, अपि तु स्वात्मप्रवञ्चनायापि । हेत्वारोपणामाश्रीयते। विक्रेता आपणे न्यूनमानं वस्तु तोलयित्वा ग्राहकाय प्रदत्ते । यदि स्वगृहं गत्वा ग्राहकस्तद्वस्तुमानं स्वयमाकलय्य प्रत्यागच्छति, प्रतिवदति च -“किम्भोः! न्यूनमानमिदं वस्तु भवता मह्यं प्रदत्तम्" इति। आपणिकस्ततः परं हेत्वारोपणात्मकं प्रत्युत्तरं प्रदत्ते - "नेदं वस्तु भवदभीप्सितम् अपि तु परस्मैग्राहकाय देयमासीत्” इति। हेत्वारोपणमिदं ग्राहकप्रवञ्चनाय प्रयुक्तम्। अन्यश्चास्यात्मानमभिप्रेत्य पक्षः। यदा स न्यूनमानं वस्तु तोलयति, तस्यान्तरात्मा नोत्सहतेऽनीतिमार्गं स्वीकर्तुम् ।
मनसि च स्वकीये स्वान्त:करणपरितोषाय प्रतिवदति - "राजकर्मचारिणो ह्येते धनिकाः ! तेभ्योऽ- धिकं वस्तुमूल्यं ग्रहणीयमेव; ते उत्कोचधनं हि प्रतिगृह्णन्ति । मया तु दुर्गादेवीपूजायै दैनन्दिनलाभशतांशः प्रदीयते" इति । एका सामान्यलोकनीतिर्धर्मच्छद्मपरायणा, अपरा च स्वकीयवैयक्तिकधनोपार्जनादिव्यवहारानुगा लोकायतिका नीतिः । इदं नीतिद्वैविध्यं हेत्वारोपणेन संरक्षितम् । अतो हेत्वारोपणं न केवलमितरेषां पुरुषाणामेवा- स्मच्छिद्रान्वेषणादस्मान् गोपयति संरक्षति, प्रत्युत स्वात्मप्रत्यालोचनादपि प्रतिरक्षति । कारणारोपणेन स्वकीयव्यवहारं प्रति, नयविरहितं प्रति, स्वात्मजुगुप्सा न वर्धते । धर्मान्धत्वं धार्मिकश्रद्धानामधेयेन कारणारोपणत्वं लभते । सभ्यताविकाससहकृतमेव कारणारोपणमिति वयं मन्यामहे । एतस्मादेव प्राचीनैरस्माकं महर्षिभिः कायिकवाचिक- मानसिकशौचत्रयमेवानुमोदितम् । तथाविधमेव कारणारोपणत्वं निवारयितुं शक्यते ।
खलपुरुषाणामसामान्यमनोविकारग्रस्तानां रोगिणाञ्च कार्यवचनविचारेषु तथाविधं शौचासादितं सामञ्जस्यं नोपलभ्यते। तदुक्तं हि -
"मनस्यन्यद् वचस्यन्यद् कर्मण्यन्यद् दुरात्मनाम्" । इति ।
मनोविज्ञानदृष्ट्या वक्तुमिदं शक्यते यद्धि कारणारोपणमंशतः स्वप्रतिष्ठासंरक्षणाय सामाजिकमर्यादाधारणाय कदाचनाश्रयणीयम्। धार्मिकजीवनयापनसंसक्तचेतसामाडम्बर- विहीनानां कारणारोपणात्मको व्यवहारः कथमपि श्लाघ्यो नास्ति । सततमात्मनिरीक्षणेन पूर्वकृतकर्मप्रत्ययालोचनेन कारणारोपणं वै निवारयितव्यम् । कारणारोपणं विहायैव “आत्मैव ह्यात्मनो बन्धुः” इति श्रीमद्भगवद्गीतावचनं सङ्गच्छते।
तर्कस्वरूपम्
[सम्पादयतु]यदनुमीयते, तत्तर्केणापि साध्यते । प्रमाणानामनुग्राहकस्तर्क.इति वयं ब्रूमः। विपक्षनिराकरणपूर्वकं पक्षस्थापनं तर्कः । व्याप्यारोपेण व्यापकारोपस्तर्क इति वा । सिद्धव्याप्तिकयोर्धर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापकप्रसञ्जनरूपस्तर्कः । यथा- 'यद्यत्र घटोऽभविष्यद् तर्हि भूतलमिवाद्रक्ष्यत् । भूतले तु न दृश्यतेऽत एव घटोऽत्र नास्ति' इति। तथा च ' पर्वतोऽयं साग्निः, उतानग्निः ?” इति सन्देहानन्तरं कश्चिद् यदि मन्येत-
“अयं पर्वतोऽनग्निः इति। यद्ययमनग्निरभविष्यत्, तर्हि अयमधूमोऽप्यभविष्यत्, अनग्निकत्वात्, किन्तु धूमवाँश्चायम्, अतः पर्वतोऽयं वह्निमान्। इति।
सोऽयं तर्कः प्रतीच्यन्यायशास्त्रे प्रसञ्जितमृषात्वसाधनमित्यभिधीयते'। २४. निर्णयस्वरूपम्
निर्णयो नामाध्यवसायात्मकं ज्ञानम्, तच्च प्रमाणानां फलम् । नहि सर्वेषां मनुष्याणां निर्णयशक्तिः समानरूपेण समुपलभ्यते । निर्णयशक्तिरिच्छाशक्तिमपेक्षते । यस्य मानवस्य प्रत्ययसञ्चयानां स्फुटत्वं नोपलभ्यते, तस्य निर्णया अपि नूनं दोलायिता एव । नहि पक्षपातिनां जनानां निष्पक्षा निर्णया जायन्ते । अपि च, निर्णयः कालमपेक्षते ।
पक्षप्रतिपक्षविचारणानन्तरमेव निर्णयः समुत्पद्यते । तदुक्तं गौतममहर्षिणा - “विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः” इति' । परमतसहिष्णुत्वमन्धविश्वासरूढिविरहितत्व- मुदारदृष्टित्वञ्चेति गुणाः सम्यंनिर्णयाय कल्पन्ते। तद्व्यतिरिक्तो मानवः सङ्कीर्णविचारत्वा- दैकान्तिकमेव मतमनुगृणति । बुद्धिपारतन्त्र्यं वै निर्णयस्य परमः शत्रुः । सत्यैकपक्षपातिनां बुभुत्सूनां निर्णयो नीरक्षीरविवेक इवाचिरेण तमसस्पारं नयति, श्रोतृणाञ्च मनस्तु परमं विश्वासं जनयति ।
विश्वासस्वरूपम्
[सम्पादयतु]विश्वसनं नाम मनोव्यापारविशेषो विचारात्मकः, यस्मिन् वस्तुस्वरूपं सत्यत्वेना- वधार्यते तथाभूतं विश्वस्यते च । विश्वासाः सत्यीभूतानि तथा च स्वीकृतानि मतानि भवन्ति। यथायं मे विश्वास: - 'पृथ्वी वर्तुलाकारा' इति । विश्वासास्पदीभूतस्तर्हि विचारविशेषो भवति। यथाबुद्धि यथाज्ञानं निर्णयं कृत्वैवायं पुरुषो विश्वसिति । नहि विश्वासमन्तरा लोके क्रियायोगसाफल्यं दृश्यते । विश्वासो हि विचारस्थैर्यं प्रयत्नवेगं चावहति ।
संशयः
[सम्पादयतु]विश्वासाभावो नाम संशयः । नहि विश्वासाभावोऽविश्वास इति भवितुमर्हतीति । संशयस्वरूपन्तु व्याख्यातचरम् । तदुक्तं वै अन्नम्भट्टेन- “एकस्मिन् धर्मिणि विरुद्धनाना- धर्मवैशिष्ट्यावगाहिज्ञानं संशयः इति; यथा स्थाणुर्वा पुरुषो वा" इति । यथा विश्वासो निर्णयात्मको भवति, तथैवाविश्वासोऽपि निर्णयात्मको भवति । यथाहं न विश्वसिमि 'प्रेताविष्टाः पुरुषा भवन्ति' इति, किमुत 'भूतप्रेतादयो न विद्यन्ते' इति; किन्तु यदा विश्वासाभावो भवति, तदा संशय एव वर्तते, मानवश्च अस्तिनास्तीतिकोटिद्वये दोलायते- किं तावदहमिदं करिष्यामि ? किमुतान्यद् ?” इति। विश्वासोऽविश्वासश्चावधारणात्मके ज्ञाने। संशयेऽनिश्चयो भवति । विश्वासेन क्रिया प्रवर्तते, तथैवाविश्वासेन; किन्तु संशये समुत्पन्ने क्रियासङ्कोचो जायते । संशयासादितविचारव्यापारस्य विश्वास एव फलम्। नहि संशयं विना वैदुष्यप्रकर्षः सम्भाव्यते । तदुक्तं हि-
"न संशयमनारुह्य नरो भद्राणि पश्यति' ॥ इति ।
अतः संशयो जिज्ञासाया भाविबुद्धिप्रकर्षस्य च मूलम् ।
स्मरणीयं यद्धि विश्वासाख्ये विचारव्यापारे केवलं वस्तुस्वरूपावधारणमेव न वर्तते; प्रत्युत तद्व्यतिरिक्तं भावनाप्रचयोऽपि तत्र सन्निविशते । अन्यच्च, इच्छासम्पृक्तो हि विश्वास:; अत एव चेष्टान्वितत्वमपि तस्य सुकरमायाति। भावनातिशयत्वं विश्वासेन द्योत्यते। अपि च, विश्वासो समुत्पन्ने क्रियाप्रसरोऽपि सम्भाव्यते । विश्वासः श्रद्धामयो भवति ।
अभ्युपगमः
[सम्पादयतु]यत्र किञ्चिदर्थजातमपरीक्षितमेवाभ्युपगम्यते, ततश्च विशेषपरीक्षणमारभ्यते, स: ‘अभ्युपगमः’ इत्यभिधीयते। तदुक्तं महर्षिगौतमेन-“अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षण- मभ्युपगमसिद्धान्तः” इति। अभ्युपगमाभिधे विचारे न विश्वासो नाप्यविश्वासो भवति । वस्तुपरीक्षणार्थमेवाभ्युपगमाङ्गीकरणं समर्थ्यते वादिभिः । परीक्षणानन्तरमेवाभ्युपगमस्य प्रमात्वमप्रमात्वं वा साधयितुं शक्यते ! अभ्युपगमस्तावत् संशयानुविद्धो विचारविशेषः, यस्य साधनं निराकरणं वा तर्केणानुमानेन वा सम्पाद्यते ।
विश्वासावहकारणानि
[सम्पादयतु]प्रागुक्तमेवाऽस्माभिर्यद्धि विश्वासे भावनेच्छादयः सन्निविष्टा भवन्ति। अस्माकमनु- मानप्रक्रिया वस्तुतोऽस्माकमिच्छामनिच्छां वानुसरति । यन्नेष्टं तत्कथमपि न समर्थितं भवत्यनुमानशतेनापि। अनुमानेनानुमिते सत्यपि विश्वासो नोत्पद्यते । विश्वासास्तर्हि प्रत्यक्षानुमितिशब्दजन्या भवन्ति । तथापि सर्वेष्वेतेषु ज्ञानप्रकारेषु भावनाक्रियायोगादिभिः विकृतयो जायन्ते। दुष्टप्रत्यक्षेण दुष्टानुमानप्रक्रियया हेत्वाभासैर्वा अप्रत्यक्षगोचरसङ्केत- प्रभावेण वा स्खलितानि जातु सम्भाव्यानि । सङ्केतस्वरूपन्तु व्याख्यातपूर्वम्। युक्त्यनुमानं विना परपुरुषजन्यो यो विश्वासो गृह्यते स सङ्केताख्यपरामर्शरूपः । यथा - आप्तपुरुषजन्यः श्रद्धासङ्केतो भवति।
अन्यच्च, सर्वेषामेव सङ्केतो नैवास्माकं विश्वासमावहति । प्रकृष्टतरगुणप्रतिष्ठा- बलैश्वर्यशालिनामेव पुरुषाणामसँल्लक्षितप्रभावे आस्माकीनं विश्वासमुत्पादयति। किञ्च यद्विषये मज्ज्ञानं नास्ति तद्विषये परेषां मतं मयि प्रत्ययं विश्वासमावहति; किन्तु यद्विषयेऽस्मज्ज्ञानं प्रौढिङ्गतम्, नहि तस्मिन् विषये यस्य कस्यचिदुपदेशोऽस्मासु विश्वासमुत्पादयति।
सन्दर्भाः
[सम्पादयतु]- ↑ तन्त्रवार्तिकम् पृ. ३२९-३३०