सामग्री पर जाएँ

मनोविज्ञाने विचारस्वरूपविवेचनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने विचारस्वरूपविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन विचारप्रक्रियायाः सम्पूर्णं ज्ञानं भवति।

चिन्तनक्रियास्वरूपम्

[सम्पादयतु]

अस्माभिः पूर्वं प्रत्यक्षमनुभवनं तदुपोद्बलितमध्ययनं शिक्षणं वा साङ्गोपाङ्गमनु- व्याख्यातम्। सम्प्रति वयं विचारस्य स्वरूपं विशदं व्याख्यास्यामः । प्रत्यक्षमनुभवनं शिक्षणञ्च चिन्तनरूपक्रियाया मूलतमं रूपम् । ज्ञानसामान्येन चिन्तने तेषामन्तर्भावः । चिन्तनस्योत्कृष्टं स्वरूपं विचाराख्यमनोव्यापारे समुपलभ्यते। तच्चैवंविधम्-“दशवादनेऽहं भोजनं कृत्वा संस्कृतमहाविद्यालयं प्रतिदिनं गच्छामि, किन्त्वद्य महाविद्यालयभवनं पिहितद्वारं वर्तते। ‘किन्नु खल्वद्यावकाशोऽस्ति ? किंस्विदद्य प्रतिपत्तिथि : ? किमुताष्टमी ? अथवा, दौवारिक एव कारणविशेषादन्यत्र गतः ? किंस्वित् राजाज्ञया अवकाशविशेषो घोषित : ? किमुत कोऽपि महान् शिक्षाविशारदो राजकीयनेता वा पञ्चत्वमवाप्तवान्' एवम्प्रकारके चिन्तनेऽहं कियच्चिरं स्थित्वा विचारयामि, 'किं कर्त्तव्यम् ? केन कारणेन महाविद्यालयभवनं पिहितद्वारमद्य वर्तते' ? इति । ततः परमहं दौवारिकस्य गृहं गत्वा पृच्छामि, ‘किमद्यावकाशोऽस्ति ?' इति । 'नूनमद्यावकाशोऽस्ति, डाक्टरेत्युपाह्व-अमरनाथ- झामहोदया दिवङ्गताः। तच्छोकादद्य महाविद्यालयेऽवकाशो भवितव्य इति प्रधानाचार्याणां राजकीयसंस्कृतमहाविद्यालयस्यायमादेशो वर्तते । इति । आदेशं पठित्वा, तत्पत्रके हस्ताक्षराणि च लिखित्वाऽहं प्रत्यागच्छामि " इति । विविधप्रकारकविकल्पात्मकचिन्तनं तदनन्तरं फलरूपमवधारणमिति विचारस्वरूपम्। सहजक्रियामूलप्रवृत्त्यादिक्रियास्तु विचार- विस्तरविशेषमन्तरैवानायासेन प्रवर्तन्ते । यो दण्डेन मां ताडयति, अचिरेणाहमपि तस्य प्रत्युत्तरं ददामि। अथवान्यद्दण्डमानीय तमपि तथैव ताडयितुमिच्छामि । अथवा, स्वापेक्षया प्रतिद्वन्द्विनं बलवत्तरं दृष्ट्वा पलायितुमिच्छामि । प्रत्युत्तरदानं प्रतिशोधात्मिका क्रिया वा मूलप्रवृत्तिजन्या । एवमेव पलायनमपि मूलप्रवृत्तिरूपम्। अचिरेणैवैताः क्रिया अभिनिर्वर्तन्ते, किन्तु विचारश्चिन्तनं वा कालमपेक्षते । विविधविकल्पचिन्तनावसर-स्त्वचिरात्प्रवर्तितक्रियासु न विद्यते। विविधैर्विकल्पैर्विचिन्त्य विशिष्टमेकं विकल्पं निश्चित्य तस्य स्वीकरणं ‘विचारः' इत्यभिधीयते। विविधविकल्पचिन्तनमन्तराले सम्पद्यते । विचारात्मकचिन्तनेन संशयात्मका विकल्पा निराकृता भवन्ति। वस्तुस्वरूपं क्रियास्वरूपं वा कार्यकारणभावेनावधार्यते । तन्मूला या क्रिया प्रादुर्भवति सा 'प्रयत्नः' इति व्यपदिश्यते । अतश्चिन्तनकालेऽर्थाद् विषयप्रत्यक्षे तत्सम्बद्धक्रियाप्रादुर्भावे च यः कालो व्यत्येति, तस्मिन् नहि मानवोऽयं निष्क्रियोऽवतिष्ठते । बाह्यक्रियानिरोधे सत्यपि मानसव्यापार- विशेषश्चिन्तनाख्यास्तु प्रचलत्येव । स एव मानसव्यापारः, यस्मिन् विविधविकल्पाः विचार्यन्ते, ‘विचारः' इति व्यपदेशं भजते ।

कल्पनाप्रतिमास्वरूपम्

[सम्पादयतु]

विचाराः प्रत्ययैर्विनिम्मिता भवन्ति । विचारा हि वाक्यरूपा भवन्ति । प्रत्ययाश्च' कल्पनाप्रतिमापेक्षया जटिलतरा भवन्ति । केयं कल्पनाप्रतिमा नाम ? यदा वयं कमपि वस्तुविशेषं पश्यामः, यथा - गाम्, चत्वरम्, गृहं वा, तत्प्रत्यक्षानन्तरं यन्मानसं चित्रं प्रतिबिम्बं वा संस्कारमयमवशिष्यते, तत्कल्पनाप्रतिमेति संज्ञां बिभर्ति । प्रत्येकं पदार्थो यश्चाक्षुषादिप्रत्यक्षं जनयति, स स्वानुरूपकल्पनाप्रतिमामप्युत्पादयति । प्रत्यक्षोत्थकल्पना- प्रतिमाः प्रतिपुरुषं गाम्भीर्यव्यपेक्षातो भिद्यन्ते । कस्यचित्पुरुषस्य चाक्षुषकल्पनाप्रतिमा वस्तुसविकल्पप्रत्यक्षमिव वर्णाकृतिविशेषयुक्ता भवति,, किन्तु नहीतरस्य पुरुषस्य कल्पनाप्रतिमा चाक्षुषी तथाविधगभीरत्वपारदर्शित्वसमुपेता भवति । किञ्च भवन्ति तत्र कल्पनाप्रतिमाविशेषयुक्ताः पुरुषविशेषाः । केषाञ्चन पुरुषाणां चाक्षुषकल्पनाप्रतिमा विशेषेण जायन्ते। अन्येषाञ्च शाब्दकल्पनाप्रतिमाः प्रकृष्टतमा भवन्ति । सन्ति चान्ये येषां स्पार्शनकल्पनाप्रतिमाः, अथवा घ्राणजकल्पनाप्रतिमा एव सातिशया गभीराश्च भवन्ति । कल्पनाप्रतिमाः प्रत्ययाश्च पूर्वानुभवसंस्कारजन्या भवन्ति । प्रत्ययानामपेक्षया कल्पना- प्रतिमासु पूर्वानुभवसंस्काराणामाधिक्यं विद्यते । पूर्वानुभवसंस्कारोत्थाः कल्पनाप्रतिमाः स्मृत्यात्मककल्पनाप्रतिमा इत्यभिधीयन्ते । भाविविषयाः कल्पनाप्रतिमा आशामय्य इति व्यपदिश्यन्ते। सन्ति हि काश्चन कल्पनाप्रतिमा यासु कालादिभेदजनकं किमपि प्रयोजकं नास्ति। भूतभविष्यदादिभेदविरहिताः कल्पनाप्रतिमा हि खलु स्वच्छन्दा' इति निगद्यन्ते। कल्पनाप्रतिमानां क्रियाकारित्वं स्मृतिकल्पनाविचारादिमानसिकव्यापारेषु प्राचुर्येण समुपलभ्यते।

प्रत्ययस्वरूपम्

[सम्पादयतु]

उक्तमेवास्माभिर्यत् प्रत्ययाः कल्पनाप्रतिमापेक्षातो जटिलतरा भवन्तीति । सविकल्पकनिर्विकल्पकप्रत्यक्षयोः प्रागुक्तयोर्मध्ये यदन्तरं विद्यते, तदेव प्रत्ययकल्पना- प्रतिमयोर्मध्येऽवतिष्ठते। वस्तुतत्त्वस्य यन्मौलिकं तद्वति तत्प्रकारकं स्वरूपमालोचनज्ञाने समुपलभ्यते, तदधिकमेवानुव्याख्यानपुरस्सरं सविकल्पकप्रत्यक्षे समुपलभ्यत इति तु पूर्वं वयमवोचाम। एवम्प्रकारेणैव प्रत्ययः कल्पनाप्रतिमाया अपेक्षातः सातिशयो भवति । तदुक्तं हि स्टाउटमहोदयैः प्राध्यापकप्रवरैर्मनोविज्ञानविशारदैः- “प्रत्ययो हि कल्पनाप्रतिमाया ऋते तथैव नोत्पत्तुमर्हति, यथा निर्विकल्पकं प्रत्यक्षमन्तरा सविकल्पकं प्रत्यक्षं नैवोत्पत्तुं प्रभवति । किन्तु यथा सविकल्पकं प्रत्यक्षं निर्विकल्पकज्ञानसदृशमेव न भवति, तथैव प्रत्ययोऽपि कल्पनाप्रतिमासदृश एव न भवति । कल्पनाप्रतिमा प्रत्ययनिर्माणाङ्गभूता भवति। तदधिकमहत्त्वपूर्णमङ्गं प्रत्ययनिर्माणस्य अर्थोऽस्ति, यं कल्पना प्रतिमाभिव्यञ्जयति” इति। [] यदा वयं महात्मगान्धिमहोदयानां कल्पनाप्रतिमां स्मरामः, सा हि खलु न तद्विधं गभीरत्वं प्रोज्ज्वलत्वञ्च बिभर्ति, यद्विधं तेषां प्रत्यक्षदर्शनमासीद् वर्णाकृतिप्राकट्यव्यपेक्षया । अपि च, महात्मगान्धिनो राष्ट्रपितुः कल्पनाप्रतिमा अपि प्रकरणानुसारं तात्पर्यानुसारं च प्रतिपुरुषं भिद्यन्ते, एकैकस्य पुरुषस्य वा परिस्थित्याकाङ्क्षादिभेदानुसारं ता भिद्यन्ते । उदाहरणतया राजनीतिज्ञस्तस्य सत्याहिंसानीतिपुरस्सरदेशस्वातन्त्र्यप्रदात्रीं मूर्त्ति कल्पना- प्रतिमारूपतयादधाति काचन महिलोपदेशिका तस्य कल्पनाप्रतिमां स्त्रीजातिसमानाधिकार- सिद्धान्तप्रवर्तकरूपामादधाति; हरिजनैश्च तस्य शूद्राणां सामाजिकराजनीतिकसमानाधिकार- सिद्धान्तप्रवर्तकरूपा कल्पनाप्रतिमा आधीयते । प्रकरणभेदात् तात्पर्यभेदाच्च अर्थभेदेन समुपोढा कल्पनाप्रतिमा जायते । एक एव पुरुषः, अतो विविधसमयेषु विविधकालेषु विशिष्टां कल्पनाप्रतिमामेकस्यैव वस्तुनोऽनुभवति । अर्थविशेषयुक्ता कल्पनाप्रतिमा हि खलु प्रत्ययव्यपदेशेन प्रथते । परस्परं सम्बद्धाः प्रत्ययाः पदान्वयमुखेन वाक्यरूपं विचारं जनयन्तीति विशेष: ।

प्रत्ययभेदाः

[सम्पादयतु]

प्रत्यया द्विविधा भवन्ति-मूर्तप्रत्ययाः, अमूर्तप्रत्ययाश्चेति। अमूर्तप्रत्यया' भाव- प्रत्यया इति यावत् । रमेशमहाशयानामश्वस्य प्रत्यक्षज्ञानानन्तरं कश्चन प्रत्ययविशेष- स्तद्विषयको मयाधीयते, सोऽश्वप्रत्ययो मूर्तप्रत्यय इत्यभिधीयते, मूर्तवस्तुसम्बन्धित्वात् । दृश्यवस्तुसम्बन्धी प्रत्ययोऽयं मूर्तप्रत्यय इति व्यपदिश्यते, सत्याहिंसास्तेयादिप्रत्यया हि खल्वमूर्तप्रत्यया इति व्यपदिश्यन्ते, भावगोचरवस्तुविषयत्वात् । नहि सत्यं मूर्तं वस्तु, अपि तु भावमात्रगोचरम् । अत एव तस्य प्रत्ययोऽपि नूनममूर्त एवेति । एवम्प्रकारेण प्रशंसाप्रत्ययोऽमूर्त एव मन्तव्यः । शूकरकुक्कुटवृक्षगृहदृश्यविशेषादिप्रत्यया मूर्तप्रत्यया अवगन्तव्याः। प्रत्ययानामपरो विभागोऽप्यनुमन्यते मनोवैज्ञानिकैः । तथा हि प्रत्यया द्विविधा भवन्ति-सामान्यप्रत्ययाः, विशेषप्रत्ययाश्चेति । रमेशाश्वस्य यः प्रत्ययो मम वर्तते, स विशेषवस्तुसम्बन्धित्वाद् 'विशेषप्रत्यय' इति व्यपदेशेन प्रथते । एवम्प्रकारेण मदीयायाः कृष्णाया गोर्यः प्रत्ययोऽद्य मयि विद्यते स विशेषवस्तुसम्बन्धित्वाद् 'विशेषप्रत्यय' इति संज्ञा बिभर्त्ति । किन्तु शूकरजातिप्रत्ययः 'सामान्यप्रत्यय' इत्युच्यते । वृद्धविषयकप्रत्ययो द्विविध एव भवितुमर्हति, प्रकरणविशेषात् । मम पितामहस्य यः प्रत्ययः पलितकेशवलित- त्वगित्यादिविशेषणयुक्तः, स वृद्धत्वप्रत्ययो विशेषप्रत्ययतां भजते । परन्तु सर्वान् वृद्धानधिकृत्य यः प्रत्ययो मय्युत्पद्यते, स नूनं 'सामान्यप्रत्ययः' इति। एवम्प्रकारेणांङ्गल- देशीयव्यक्तिविशेषस्य हैलेटगवर्नरमहोदयस्य निरङ्कुशशासकस्य मयि यः प्रत्ययो विद्यते, स विशेषप्रत्ययः। तस्यैवोद्बोधनं प्रसङ्गवशात्तात्पर्यवशादाकाङ्क्षावशाद् वा जायते, नहि खल्वाङ्गलदेशीयजनसामान्यप्रत्ययस्य । किन्तु वारं वारमाङ्गलदेशीयव्यक्तिविशेषान् संदृश्य, तैः सह व्यवहारम्, राजनीतिकम्, सामाजिकम्, ज्ञानार्जनात्मकं वा कृत्वा मम मनसि यः प्रत्ययो जायते, स वै ' सामान्यप्रत्यय' इति निगद्यते; यतो हि स आङ्गलदेशीयसमस्तमानवानां संस्कारैर्वासितो भवति । बाल्ये सर्वे प्रत्ययाः मूर्तप्रत्ययाः, विशेषप्रत्ययाश्च भवन्ति। कालक्रमेण बुद्धिप्रकर्षानुसारं सामान्यप्रत्ययानाममूर्तप्रत्ययानां चाविर्भावो दृश्यते। कथमेते सामान्यप्रत्यया जायन्ते ? इतीदानीं वयं विवेचयामः।

सामान्यप्रत्ययप्रादुर्भावः

[सम्पादयतु]

ननु कथं सामान्यप्रत्यया जायन्ते ? एवम्प्राप्तायामाशङ्कायां वयं ब्रूमः - बाल्ये प्रथमतो विशिष्टवंस्तुविषयकाणां प्रत्ययनामेव प्रादुर्भावो जायते। यथा वृद्धादेशम् ‘गामानय’ इति श्रुत्वा गाञ्च तदनन्तरमानीयमानां दृष्ट्वा कश्चिच्छिशुः प्रत्येति - 'अयं गौ:' इति वारं वारं यदा स तं पशुं पश्यति, 'गौरायाति' इति वदति । किन्तु यदैकदा अश्वमपि धावन्तं स ‘गौरायाति’ इति वदति, तदा वृद्धस्तस्य स्खलितं परिमाष्टुं यतते । यथा हि- " नायं गौः, अयं हि खल्वश्व इत्यभिधीयते । अन्यच्च, अयमश्वो धावति, न तु आयाति। स गौर्नूनं आयाति स्म त्वामभि मां प्रति च । किन्त्वयमश्वस्तु द्रुतमागच्छति । तत आगत्य द्रुतमेव दूरं गच्छति । अतो जना ब्रुवन्ति, 'अश्वो धावति' इति। सास्नांशृङ्गद्वययुक्तो हि गौरिति पशुः । गौर्दुग्धं ददाति, किन्तु अयमश्वस्तु शृङ्गादिविहीनः दीर्घग्रीवः । नहि अश्वो दुग्धं ददाति । त्वं तु गोदुग्धं प्रतिदिनं प्रातः पिबसि" इति । शिशुस्तदा अश्वेन सार्धं गोस्तुलनां करोति, पार्थक्यं चाश्वादवगच्छति । तदनन्तरं यदा गामायान्तीं गच्छन्ती वा पश्यति स शिशुस्तदाञ्जसैव वदति - 'गौरायाति, गौर्गच्छति' इति। 'इमे गावो गच्छन्ति' इति च । अतोऽनन्तरं कतिपयानि वर्षाणि यावत् शैशवे विशिष्टप्रत्ययानामेव शिशोरनुभवे प्राचुर्य्यं जायते । किन्तु तदनुभवपरिपाके क्रमशोऽश्वगवादि- सामान्यप्रत्ययानामाविर्भावः समुपलभ्यते । विशिष्टप्रत्ययानामनुभवावसरे तत्तद्वस्तुजन्य- कल्पनाप्रतिमाः प्रत्ययसहकृता भवन्ति, प्राय उज्ज्वलाश्च तास्तदा । अत एव सामान्य-प्रत्ययनिर्माण एते पञ्च सौपाना अनुभवपथमारोहन्ति। ते यथा-निरीक्षणम्, सन्तुलनम्, पृथक्करणम्, जातिनिर्देशनम्, लक्षणनिर्धारणञ्चेति ।

(अ) निरीक्षणम्

[सम्पादयतु]

वारं वारं गोदर्शनं निरीक्षणम् । प्रथमं गोदर्शनेन वस्तुविषयकं शुद्धमालोचनं ज्ञानं जायते। तस्मात् स्फुटं सविकल्पकं प्रत्यक्षमुदेति । सविकल्पकप्रत्यक्षज्ञानं बाह्यस्य वस्तुनो विषयीभूतस्य मानसं प्रतिबिम्बं भवति । अथवा बाह्यवस्तुन: मानसी प्रतिकृतिर्ज्ञानमयी हि तत्। तस्यैव ‘प्रत्यय' इति व्यपदेशो मनोविज्ञाने प्रथते । द्वितीयं वारं यदा गोः सविकल्पकं प्रत्यक्षमुदेति, नहि तच्छुद्धवस्तुजं भवति, अपि तु प्रथमवारोत्पन्नेन गोप्रत्ययेन या कल्पनाप्रतिमा चाक्षुषी जन्यते, तस्याः स्मरणसमवेतानुव्याख्यानसंवलितं द्वितीयं सविकल्पकं प्रत्यक्षं भवति । अतो द्वितीयवारं सविकल्पकप्रत्यक्षज्ञानप्रत्यये नूनमालोचनज्ञानं पूर्वचाक्षुषकल्पनाप्रतिमा च समाश्लिष्टे अनुव्याख्यानाङ्गभूते भवतः । निरीक्षणं नाम नितरामीक्षणम्। अवहितस्य पुंसो वस्तुसविकल्पकप्रत्यक्षज्ञानं कल्पनाप्रतिमादियुक्तं यदुदेति, तस्य सर्वस्य निरीक्षणेऽन्तर्भावः । नहि निरीक्षणं ध्यानापेतं कदापि भवति । ध्यानाख्यमनोव्यापारस्य प्रतिपदं सक्रियत्वमत्र समुपलभ्यते । जिज्ञासुश्च प्रमाता भवति।

(आ) सन्तुलनम्

[सम्पादयतु]

सन्तुलनं नाम सामान्यप्रत्ययनिर्माणे द्वितीयः सोपानः । प्रथमां गां द्वितीयया गवा सह तुलयति, द्वियीयायाः प्रथमायाश्च सन्तुलनं तृतीयया सह शिशुः करोति । सास्नाशृङ्गविहीनादश्वात् पार्थक्यमपि स उन्नयति। व्यावर्तकगुणाश्च वारं वारं प्रत्यक्षेण स्फुटाः स्वयमेव भवन्ति। वृद्धव्यवहाराद् वृद्धवाक्यश्रवणाद् बालोऽचिरेणैव पदार्थमुन्नेतुं समर्थो भवति ।

(इ) पृथक्करणम्

[सम्पादयतु]

विशिष्टगुणान् कृष्णपिङ्गलकर्बुरवर्णदीर्घहस्वाद्याकारविशेषमयान् विहाय सामान्य- गुणानां पृथक्करणं परमावश्यकं सामान्यप्रत्ययनिर्माणाय, वस्तुसामान्यप्रतिपत्तये च । तच्चानुभवपरिपाकेनैवायाति । वृद्धोपदेशाच्च सुकरं जायत इत बोद्धव्यम्।

(ई) जातिनिर्देशनम्

[सम्पादयतु]

सामान्यगुणानां पृथक्करणेन सामान्यप्रत्ययनिर्माणं विशदीक्रियते । किन्तु स्पष्टतरं सामान्यप्रत्ययाधानं तदैव सम्पद्यते, यदा जातिनिर्देशनमभिनिर्वर्तते। 'इमे गाव:’ इति कथनेन ‘इमे सर्वे गावः' इत्युन्नेतुं शिशुः स्वयमेव प्रभवति । तच्च ‘सास्नादिमान् गौः’ इत्येवम्प्रकारकलक्षणविशेषोपकथनेनैव सम्भाव्यते । जातिनिर्देशनञ्च जात्याश्रयगतसामान्यगुणानां प्रतिपत्त्येति । अयं चतुर्थः सोपानोऽवसेयः ।

(उ) लक्षणनिर्धारणम्

[सम्पादयतु]

लक्षणं नाम अनतिप्रसक्तव्यापकसामान्यगुणानामवधारणम्। यद्यपि जातिनिर्देशने सामान्यगुणावबोधो भवत्येव, तथापि लक्षणावधारणं पुनः परीक्षणेन सम्पाद्यते। अत एवोदारवैज्ञानिकशैल्युद्भावितसामान्यगुणसमुच्चये परिष्कारोऽभिनिर्वर्तते कदाचन लक्षणा- वधारणसोपान इति सर्वमवदातमेव ।

अन्विताभिधानवादाभिहितान्वयवादमतसादृश्यम्

[सम्पादयतु]

अत्रान्विताभिधानवादिनां प्राभाकराणां मतं विशेषत उल्लेखनीयमस्ति । प्रागुक्तसोपानानां विवेचनमन्विताभिधानवादिनां शब्दशक्तिविवेचनविषये पदं लभते । आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इति सूत्रं गुरुमतानुयायिभिः शब्दशक्ति- विषयेऽपि समाकृष्यते। वाक्यप्रामाण्यनिश्चयो वेदप्रामाण्यनिश्चयो वा वाक्यार्थबोधपरम्परया सङ्गतिग्रहणायत्तो भवति । सङ्गतिग्रहणं च वृद्धव्यवहारायत्तं भवति । व्यवहारस्य च लोके कार्यैकनियतत्वमुपलभ्यते । नह्यस्ति सम्भवः शब्दानां कार्येऽर्थे सङ्गतिग्रहः सिद्धार्थाभिधायकत्वम्, तत्र वा प्रामाण्यमिति । नहि तुरङ्गत्वे गृहीतसङ्गतिकं तुरङ्गपदं गोत्वमाचष्टे तत्र वा प्रामाण्यं भजते । तस्मात् कार्ये गृहीतसङ्गतिकानां शब्दानां कार्य एवं प्रामाण्यम्’ [] इति। भाट्टास्तु अभिहितान्वयवादमङ्गीकुर्वन्ति । तेषां मते सिद्धार्थपराणां शब्दानां प्रामाण्यमपि सिद्ध्यति । किन्तु विशिष्टप्रत्ययावबोधे बाल्यकाले कार्यैक- नियतव्यवहारजन्यो हि शब्दसङ्गतिग्रहो भवतीति तु द्वयोर्वादिनोरभिमतम् । कालान्तरे सिद्धार्थपरकपदार्थानामपि प्रामाण्यं सिध्यति। अद्वैतवादिभि: भाट्टमतानुसरणमेव शब्द- शक्तिविषये क्रियते। अत्रेदं स्मरणीयं यद्धि मनोवैज्ञानिकानामभिरुचिः प्रत्ययनिर्माणे यथावस्तुभूते वर्तते, किन्त्वन्विताभिधानवादिनामभिहितान्वयवादिनाञ्च विवेचनं वेदप्रामाण्य- मनुगृह्य शब्दशक्तिप्रपञ्चनं करोति । अर्वाचीनमनोवैज्ञानिकानामन्विताभिधानवादिनाञ्च महत्सादृश्यं विशिष्टमूर्तप्रत्ययनिर्माणमधिकृत्य वर्तते । अभिहितान्वयवादिनामर्वाचीन- मनोवैज्ञानिकानाञ्च सादृश्यं प्रौढानां प्रत्ययनिर्माणमभिलक्ष्य विशेषतोऽवगन्तव्यम् । प्रौढानामनुभवे मूर्तप्रत्ययानां स्थानेऽमूर्तप्रत्ययाः सामान्यप्रत्ययाश्च प्राचुर्येण समुपलक्ष्यन्ते। अत एव सिद्धार्थपरकवाक्यानामपि प्रामाण्यमर्वाचीनमनोविज्ञानदृष्ट्योपपद्येत।

प्रत्ययसम्बन्धनियमाः

[सम्पादयतु]

धारावाहिकप्रत्ययप्रवाहरूपा हि खलु विचारक्रिया । तस्यां प्रत्ययेषु परस्परं केचन सम्बन्धा जायन्ते। तैर्विना वाक्यान्तर्गतप्रत्ययानां सङ्गतिर्नोपपद्यते। अरस्तूमहोदयेन यवनदेशीयदार्शनिकप्रवरेण सान्निध्यनियम एव व्याख्यातः । तदनन्तरं विविधैर्दार्शनिकै- र्मनोवैज्ञानिकैश्च प्रत्ययसम्बन्धनियमानां विशदतो व्याख्यानं स्वकीयग्रन्थेषूपनिबद्धम् । वयमत्र तान् नियमान् सङ्क्षेपतोऽनुव्याख्यास्यामः । तत्रैते नियमा भवन्ति - (अ) सान्निध्यनियमः । (आ) सादृश्यनियमः । (इ) वैषम्यनियमः। (ई) तारतम्यनियमः । इति ॥ वयमेतान् प्रतिपदमनुव्याख्यास्यामः ।

(अ) सान्निध्यनियमः

[सम्पादयतु]

सान्निध्यनियमेनेदं प्रतिपाद्यते यद्धि देशकालसान्निध्येन तत्रानुभूतप्रत्ययेष्वपि सम्बन्धा अभिनिर्वर्तन्ते । यथा काशीहिन्दूविश्वविद्यालीयपुस्तकालयेऽ- स्माभिराचार्य्यबलदेवोपाध्यायमहोदयानां सर्वप्रथमं कृतम्। ततश्चासाद्यते गायकवाड- पुस्तकालयप्रत्यक्षोत्थप्रत्ययविशेषस्याचार्य्यबलदेवोपाध्यानां गुरुवर्य्याणां प्रथमदर्शनो- द्भूतप्रत्ययविशेषेण सह विषयसान्निध्यजः सम्बन्धविशेषः । यदा वयं काशीहिन्दू- विश्वविद्यालयपुस्तकालयविशालभवनस्याद्यं दर्शनं स्मरामः, पुस्तकालयभवनप्रत्ययेन सह वयं गुरुवर्याणां दर्शनोत्थप्रत्ययमपि स्मरामः । एकदेशे समवधानाद् एकानुभवप्रत्ययोऽपरानुभवप्रत्ययेन सह सम्बन्धं बिभर्त्ति । एवम्प्रकारेणैकम्मिन् काले घटितानुभवप्रत्यया अपि परस्परं सम्बद्धा जायन्ते । अस्तु तर्हि देशसान्निध्यसम्बन्धः कालसान्निध्यसम्बन्धश्चानुभवप्रत्ययानाम्। किन्त्विदं स्मरणीयं यदेकघटनासम्बद्धप्रत्ययेषु बहुषु सत्स्वपि कश्चनैक एव स्मृतिपटले जागर्ति, यथाचार्य्यबलदेवोपाध्याय- दर्शनानुभवप्रत्यय:, न त्वन्ये । कथं तदासाद्यत इति तु वयमग्रे विचारयामः ।

(आ) सादृश्यनियमः

[सम्पादयतु]

सामानवस्तुप्रत्ययाः सादृश्यसम्बन्धोपनिबद्धा जायन्ते। ‘अनेन सदृशी मदीया गौः' इत्यस्मिन्ननुभवे द्वयोरेव गोप्रत्यययोः सादृश्यमासादितप्रत्यय- सम्बन्धविशेषं विद्यते । प्रायः कश्चन आगन्तुक आगत्यैवं कथयति - 'अमुकवस्तु मद्वस्तुसदृशम्' इति। पानीपते सञ्जातं तृतीययुद्धं द्वितीयं प्रथमञ्च युद्धं भृशं स्मारयति । केन कारणेन ? सादृश्यप्रत्ययसम्बन्धगोचरत्वात्।

(इ) वैषम्यनियमः

[सम्पादयतु]

सादृश्याभावे हि वैषम्यं भवति । स्वरूपवैषम्येणापि प्रत्यय- सम्बन्धो जायते। बालकप्रयत्ययेन बालिकाप्रत्ययोऽपि स्मर्यते, विरुद्धलिङ्गत्वात्। कृष्ण-वर्णा गौः पिङ्गलां स्मारयति। कस्मात् ? प्रत्ययस्वरूपवैषम्यासादितसम्बन्धत्वात्। अनृतं कस्यचिद् व्यापारिणोऽन्यस्य व्यापारिणः सत्यनिष्ठत्वप्रत्ययं जनयति । अस्तु तर्हि वैषम्यप्रयुक्ताः प्रत्ययसम्बन्धाः सिद्धा इति।

(ई) तारतम्यनियमः

[सम्पादयतु]

प्रागुक्तमेवास्माभिर्यद् धारावाहिकतारतम्ययुक्तं रूपं ह्यस्माकं विचारक्रिया बिभर्त्ति । नहि केवलं देशकालसान्निध्यसादृश्यवैषम्यप्रत्ययसम्बन्धा एव जायन्ते, अपि तु कालक्रमापादितोऽप्यपरः प्रत्ययसम्बन्धः समुपलभ्यते । कश्चन घटनाप्रत्ययस्तदनन्तरकालिकां घटनां घटनाहेतुं वा स्मारयति, स चान्यम्। एवम्प्रकारेण पौर्वापर्यसम्बन्धोपनिबद्धाः प्रत्ययाः नैरन्तर्येण जायमानां विचारशृङ्खलां जनयन्ति । पौर्वापर्य्यसम्बन्धस्य केचन मनोवैज्ञानिकाः सान्निध्यसम्बन्ध एवान्तर्भावमिच्छन्ति। अन्ये च केचन मिलप्रभृतयश्चतुर्णामेव [] प्रत्ययसम्बन्धानां सान्निध्यसम्बन्ध एवान्तर्भावत्वं प्रतिपादयन्ति। [] तन्मते सादृश्येन वैषम्यप्रत्ययोऽपि जायते । सान्निध्ये च सादृश्यवैषम्यतारतम्यादिजन्यप्रत्ययानां प्रादुर्भावः स्वत एवोपलभ्यते। अत एव सान्निध्य- नियम एव समादरणीय इति तेषामभिसन्धिः। नहि वयमेतादृशं कल्पनालाघवमाद्रियामहे। परमरणीयं कल्पनालाघवं वैयाकरणानां सुरभारतीसेवासक्तमानसानां सुप्रथितमेव सर्वेषां प्रेक्षावताम्। तदुक्तं हि महाभाष्ये - " अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः” इति। किन्तु तेऽपि शब्दादर्थबलीयस्त्वमङ्गीकुर्वन्ति । परन्तु यथा भूतमानसव्यापाराध्ययनपरं हि मनोविज्ञानतन्त्रम्। अनुभवसिद्धं हि खल्विदं यदुपर्युक्ताश्चत्वार एव प्रत्ययसम्बन्धाः प्रत्ययेषु पारस्परिकसम्बन्धवैशारद्याय कल्पन्ते । स्मरणेऽप्येतेषां समुपयोगो यथा क्रियते तथा वयं व्याख्यास्यामः। संस्कारसमुद्बोधने तारतम्ये ज्ञातेऽपि देशसान्निध्यज्ञानं विना, कालसान्निध्यप्रत्ययं विना, अथवा सादृश्यवैषम्यप्रत्ययस्मरणं विना तारतम्यसम्बन्धोऽपि प्रकृतप्रत्ययसम्बन्धनिर्देशनायाकिञ्चित्करः। नहि तारतम्यप्रत्ययसम्बन्धोऽपि तान् प्रत्यय- सम्बन्धानन्तरा स्वयं स्फुटीभवति । अतश्चत्वार एव प्रत्ययसम्बन्धा अनुभवोपात्ता इति युज्यते ।

प्रत्ययसम्बन्धनियमविमर्शः

[सम्पादयतु]

एवं सिद्धाः प्रत्ययसम्बन्धाः । सुतरामेकः प्रत्ययोऽपरेण प्रत्ययेन बहुभिश्चापि प्रत्ययैः सह सम्बद्धो भवति । एकदा प्रत्ययविशेषः कं प्रत्ययमुद्बोधयितुं प्रभवतीति कथं निश्चेतुं शक्यते? प्रत्ययसम्बन्धवादाभ्युपगमेन नूनं विचाराख्यमानसव्यापारस्य रासायनिकविश्लेषणकल्पं विश्लेषणमभिनिर्वर्तते; किन्तु तस्य गतिशीलत्वं नैव व्याख्यातुं शक्यते। उदाहरणतो गोदर्शनानन्तरं गोप्रत्ययेन गोपालकस्य स्मरणं भविष्यति, अथवा गोवत्सस्य, किं वा गोसदृशमदीयगोप्रत्ययोद्बोधनं भविष्यति, अथवा गोखाद्यस्य भहार्घत्वस्येति कथं निश्चेतव्यमिति तु प्रत्ययसम्बन्धाभ्युपगममात्रेण प्रतिपाद्यते । कस्येतरप्रत्ययस्यावयुत्योद्बोधनं भविष्यतीति तु प्रत्ययाभ्यासकालसान्निध्योज्ज्वलत्व- भावानुकूलत्वाकाङ्क्षातात्पर्यादिकारणजातायत्तं भवति। आदिपदेन सन्दर्भः सङ्ग्राह्यः । गोप्रत्ययेन सह वारं वारं दुग्धप्रत्ययस्यानुभूतत्वात् पौनःपुन्येन सम्पादितं दुग्धप्रत्ययोद्बोधनं सम्पद्यते। किन्तु यदि गोदर्शनात् प्रागेव तद्वत्सदर्शनं भवेत्तर्हि गोप्रत्ययो वत्सप्रत्ययमेव स्मारयति, यथा-‘अयं गोवत्सोऽस्या एव गोरस्ति' इति । गोप्रत्ययेन दुग्धप्रत्ययोद्बोधनं पौनःपुन्येन दर्शनोत्थम्। गोवत्सस्य स्मरणं सादृश्यसद्भावे कालसान्निध्यापादितप्रत्ययाति- रिक्तम्। अन्यच्च, वृद्धां महिलां संदृश्य यदा वयं स्वकीयां मातरं स्मरामस्तदा मातृमूर्ति: परमोज्ज्वलरूपेण दृष्टिपथं कल्पनापथं वा कल्पनाप्रतिमारूपतया समायाति । दृष्टिगोचरायाः पलितकेश्याः सौम्यमूर्त्तित्वं समुज्ज्वलं विस्पष्टं वा स्वमातृमूर्तिमत्यर्थमचिरेणैव स्मारयति, समानन्दयति चास्मान्। पूर्वं प्रत्ययोज्ज्वलत्वसम्पादितमेवेदमितरप्रत्ययावचयनम्। अपि च, सम्बन्धिप्रत्ययोद्बोधनाय वर्तमानभावानुकूलत्वमप्यपेक्ष्यते । यदा वयं मुदितास्तदा दीनेभ्योऽर्थिभ्यो यथाकामं भोजनवस्त्रद्रव्यादीनि वितरामः, मनागपि सङ्कोचविचारं न कुर्मः । किन्तु यदा वयं क्रुद्धास्तदा सत्पात्रायापि लघुद्रव्यमपि न दद्मः । तद्याञ्चा मोघैवावतिष्ठते। अस्माकं प्रमोदभावानुकूला हि प्रार्थितयाञ्चा तदा भवति । किन्तु क्रोधभावेऽर्थिकृता लघुप्रार्थना खलु मानगपि नास्माकं सहानुभूतिं भजते । अनवसरे रुदन्तं प्रियमपि सुतं माता ताडयत्येव । किं कारणम् ? तदानीन्तनभावप्रतिकूलत्वात् सुतक्रन्दनस्य। आकाङ्क्षाऽपि प्रत्ययावचयनाय कल्पते । पूर्वानुभवप्रत्ययेन काचन सन्दर्भानुकूलाकाङ्क्षा जायते तत्पूर्त्त्यर्थमितरप्रत्ययोद्बोधनं सम्पाद्यते विचाराख्यमानस- व्यापारेण। यथा गोपालकेन सार्धं दुग्धमूल्यं वर्धयितुं या वार्त्ता प्रचलति स्म, तया गोखाद्यमहार्घत्वविषयकः प्रत्ययः स्वत एव स्मर्यते । प्रत्येकं वारं परिस्थितसमुद्भूतं सन्दर्भगतं वा प्रयोजनं यदस्माकं सम्मुखं प्रस्तुतं भवति, तदेव प्रत्ययावचयनाय कल्पते। कः प्रत्ययसम्बन्धो बलवत्तरः, केन कारणेन बहुषु सम्बन्धिप्रत्ययेषु सत्स्वप्येक एव प्रत्ययः समायातीति तु सर्वमस्माकं प्रस्तुतप्रयोजनायत्तम् । प्रयोजनाभिप्रेरितं हि ध्यानं प्रबलानपि सन्दर्भविशेषानतिक्रम्य स्वेच्छानुसारं स्वाभिरुच्यनुकूलं ध्यानं नयति । ध्याने हि मानसव्यापारस्य चरमं सक्रियत्वमुपलभ्यत इति तु वयं पूर्वमवोचाम । देशकालसान्निध्यादिप्रत्ययसम्बन्धाद्यपेक्षया ध्यानस्य तारतम्यं विशेषेण प्रत्ययोद्बोधनाय कल्पते। केचन शारीरिकमनोविज्ञानवेत्तारो मस्तुलुङ्गीयसंस्कारविशेषैः कर्षरूपैः प्रत्ययसम्बन्धान् व्याख्यातुं यतन्ते; तत्तु नेष्टम्। तन्मते सन्निकृष्टानुभवोद्भूतप्रत्ययानां मस्तुलुङ्गीयसूक्ष्मद्रव्येऽपि कर्षरूपसंस्काराणां जायमानानां परस्परं सम्बन्धा अभिनिर्वर्तन्ते। सदृशसन्निकृष्टप्रत्ययोद्बोधने तत्तत्कर्षाणां तत्सम्बन्धिकर्षाणां क्रियाकारित्वं सदैव विद्यते । अत एव नाडीद्रव्यसंस्कारमयं खल्विदं प्रत्ययचयनमिति तेषां तात्पर्यम्। यथास्माभिः प्रागुक्तं सम्बन्धवादाभिमतं नास्मभ्यं रोचते, तथैव प्रत्ययोद्बोधनस्य नाडीद्रव्यानुगत- संस्कारमयत्वमपि नास्मभ्यं रोचते । सन्ति हि प्रत्ययसम्बन्धा नूनम्; किन्तु तैरेव केवलं प्रत्ययचयनात्मकविचाराख्यमानसव्यापारस्य क्रियाशीलत्वं नोपपद्यते। एवमेव सन्ति हि खलु मस्तुलुङ्गीयकोमलनाडीद्रव्यानुगतकर्षाख्यसंस्कारविशेषाः; किन्तु तैरपि मानसव्यापारस्य प्रत्ययावचयपरस्य क्रियाशीलत्वं यथातथं व्याख्यातुं नैव शक्यते । नहि मानसव्यापारो नाम शारीरिकरासायनिक भौतिकपरिणाममात्रम् । मस्तुलुङ्गीयनाडी- द्रव्यानुगतकर्षाणामभ्युपगमस्त्वस्माभिरपि क्रियते, किन्तु नाडीद्रव्यकर्षवादाख्यमैकान्तिकं मतं नाद्रियामहे। कर्षवादानुसारं प्रत्ययचयनं शारीरिकभौतिकरासायनिकपरिणामाभिन्नमिति निश्चीयते। विचाराख्यव्यापारेऽभीष्टप्रत्ययचयनपरे चरमं चैतन्यक्रियाशीलत्वमुपलभ्यते । ध्याने हि प्रयोजनं तदापादिताभिरुचिश्च परमं प्रयोजकम्। लक्ष्यमवाप्तुं सर्वो विचारसन्तानः प्रत्ययसम्बन्धमयः प्रवर्तते। प्रत्ययचयनरूपता प्रयोजनायात्ता । या प्रत्ययसम्बन्धमयी विचारशृङ्खला प्रयोजनविशेषाऽभिप्रेरिता भवति, तस्यां यः प्रत्ययसम्बन्धो वर्तते, स नियन्त्रितः परिचालितो वा प्रत्ययसम्बन्ध इति निगद्यते । एतस्माद्व्यावृत्तः पृथग्भूतो यः प्रत्ययसम्बन्धः सोऽनियन्त्रतः स्वच्छन्दः प्रत्ययसम्बन्धो वा इत्यभिधीयते, यतो हि तस्मिन् किमपि दृश्यं चेतोऽभिमुखं प्रयोजनं नोपलभ्यते । तस्य प्रयोजनमस्त्येव, किन्तु तन्न दृश्यम्। जाग्रच्चैतन्यव्यापारेभ्यस्तत्प्रयोजनमुन्नेतुं न वयं शक्नुमः । तत्प्रयोजनं मनोविश्लेषणाख्यासामान्यमनोविज्ञानविधिनैव सूक्ष्मचैतन्यस्य तैजसाख्यस्य कारणचैतन्यस्य प्राज्ञाभिधस्य च रहस्योद्घाटनेनैव कथञ्चिद् दृष्टिपथमारोहति ।

स्वच्छन्दप्रत्ययसम्बन्धप्रयोगः

[सम्पादयतु]

प्रत्ययसम्बन्धमधिकृत्य परमोपयोगी हि खलु स्वच्छन्दप्रत्ययसम्बन्धप्रयोगः। अनेन न केवलं प्रत्ययसम्बन्धस्वरूपमेव स्फुटीक्रियते, अपि त्वनेकास्तिरोहितस्थायिभाव- ग्रन्थयोऽप्याविर्भवन्ति, याः प्रमाता प्रकटयितुं नेच्छति, सामाजिकनैतिकमर्यादाति- क्रमणभयात् । तेन तस्य स्वभावस्य चरित्रस्यावबोधोऽपि जायते । अस्य प्रयोगस्य विशेषतोऽसामान्यमनोविज्ञानविशारदा असामान्यमानसिकदशोद्घाटनायोपयोगं कुर्वन्ति । अस्य प्रयोगस्य विधिरेवम्प्रकारेण भवति- प्रयोक्ता एकां बृहच्छब्दसूचीं निर्माय प्रतिशब्दं पठति । प्रयुक्तश्च पुरुषस्तं तं शब्दं श्रुत्वा तत्तसम्बन्धिशब्दोच्चारणपूर्वकमचिरेणैव प्रत्युत्तरं ददाति । एकं घटिकायन्त्रं स्वनियन्त्रितं प्रयोक्तुः पार्श्वे विद्यते । यं शब्दं प्रयोगकर्त्ता उच्चारयति स 'उत्तेजक : शब्दः' इत्याख्यायते। यञ्च शब्दं प्रत्युत्तररूपेण स प्रयोगविषयीभूतमानव उच्चारयति स ‘प्रतिक्रियाशब्दः' इति निगद्यते । यदा प्रतिक्रियाशब्द उच्चार्यते, तदा घटिकायन्त्रस्तम्भनं क्रियते। प्रतिक्रियाशब्दोच्चारणकालाकलनं च तथा सुकरं निष्पद्यते । अत्र स्मर्तव्यं यदा प्रतिक्रियाशब्दोच्चारणं कियत्क्षणानन्तरं जायते, तदा तत्र कस्याश्चिद् भावग्रन्थेर्बलात्तिरोहितायाः क्रियाकारित्वं वर्तते, येन स्वतः प्राप्तमपि जिह्वाग्रे तिष्ठन्तमपि, प्रत्ययसम्बंन्धं तिरोहितं कर्तुमिष्यते; यदा चायं प्रतिक्रियाशब्दः प्रकटीभवति, तदेषदधिकः कालोऽपेक्ष्यते। चिरादागतेन प्रतिक्रियाशब्देन सहकृतमुखमुद्रावर्णभेदादिनिरीक्षणेन प्रयोक्ता मनोवैज्ञानिको भावग्रन्थिरूपविशेषस्य क्रियाकलापमनुमिनोति, निश्चिनोति च कथं स हि खलु परिहर्त्तव्य इति । अस्य स्वच्छन्दप्रत्ययसम्बन्धप्रयोगस्य जुङ्गमहाशयैर्भाव-ग्रन्थ्यभिव्यक्तये परमोपयोगोऽनुव्याख्यातः । [] अस्य प्रत्ययसम्बन्धप्रयोगस्यैकमुदाहरणं वयमुपस्थापयामः। कस्यचिद् हत्यापराधगवेषणपरमिदमुदाहरणम् । अपराधिनं प्रत्यनेके प्रश्नाः पृच्छ्यन्ते, किन्तु स तेषामुत्तरं समीचीनं न प्रदत्ते। प्रत्ययसम्बन्धप्रयोगेण पृच्छ्यमानायां शब्दसूच्यां केचनैतादृशाः शब्दाः सन्निविष्टा क्रियन्ते, येषां सम्बन्धिप्रत्ययोत्तरदाने प्रतिक्रिया किञ्चिच्चिरेण समायाति। एतादृशाः शब्दाः ‘खङ्गः', 'उत्तरीयकम्', 'वातायनम्', 'निशीथ:' इत्यादयः सन्ति । निशीथे समागत्य स चौरो वातायनद्वारेण धनिकविशेषस्य कक्षे प्रविष्टवान्। खङ्गेन तं निहत्य, धनमादाय च बहिर्गतवान् । तेन साहसिकेन गच्छतोत्तरीयकं स्वकीयं तत्रैव विस्मृतिवशात् परित्यक्तम्। कालान्तरे राजपुरुषैर्निगडितः स पृच्छ्यते प्रश्नशतानि। स्वच्छन्दप्रत्ययसम्बन्धप्रयोगविधिना निश्चीयते यद्धि खङ्गनिशीथवातायनादिशब्दानां सम्बन्धिशब्दानामचिरेण प्रत्युत्तरं न समायाति । मुखविवर्णताभयानुभूत्यादीनि शारीरिक- मानसिकलक्षणानि जायन्ते । तैश्चानुमीयतेऽपराधी सोऽस्तीति । स्मरणीयं यद्धि स्वच्छन्दप्रत्ययसम्बन्धप्रयोगेण निष्पन्नमनुमानमेव किल्विषा- वधारणाय नालम्। तथाप्यस्त्येवेदमपराधस्य महत्त्वपूर्णं संसूचकम्। एवमस्य प्रयोगस्योप- योगित्वं कैश्चन मनोविज्ञानविशारदैः सामान्यमनोविज्ञानानामसामान्यमनोविज्ञानानां पुरुषाणामितरेतरव्यावर्तकत्वेनाप्यासादितम्। तत्त्वग्रतो वक्ष्यामः ।

स्वशासितप्रत्ययसम्बन्धः

[सम्पादयतु]

अस्माकं स्वस्थमानसिकदशायां दैनन्दिनमुपलभ्यमानो विचारप्रवाहो वै स्वशासित- प्रत्ययसम्बन्धरूपः। एवंविधोऽयं विचारप्रवाहो निश्चितप्रयोजनसमारूढो भवति । नहि विचारव्यतिरिक्तानां केषाञ्चनाप्यैकच्छिकप्रयत्नानां रूपं व्यवहार उपलभ्यते। अत एवोक्तं भवति हि लोके-‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते” इति । अत्र त्विदं विवेचनार्हं यद्धि प्रत्यक्षं सर्वं वर्तमानवस्तुस्वरूपोद्घाटनपरम्, स्मृतिश्चातीतानुभवसंस्कारासम्प्रमोषनिरता, विचारो नाम प्रौढतमोऽयं मानसो व्यापारश्च भाविवस्तुस्वरूपावधारणे तद्योगक्षेमसाधनी- भूतप्रयत्नसौकर्यादिनिश्चयाय प्रसरति । विचारे हि खलु कल्पनारूपेण प्रयोजनानामुद्देश्यानां वा फलावधारणमिष्यते-अयं प्रयत्नोऽमुकफलान्वित एतत्फलविवर्जितश्च भविष्यतीति । नहि केवलं विचाराख्यमानसव्यापारेण साध्य एव निश्चीयते, अपि तु तदुपयोगिसाधनान्यपि मृग्यन्ते। यमर्थं मानसं भौतिकं वाधिकृत्य प्रवर्तते तत्प्रयोजनम् । लक्ष्यावधारणमिव साधननिश्चयोऽपि महज्जाटिल्यं बिभर्त्ति । कथम् ? साधनोपयोगिदेशकालादिपरिस्थित्या निखिलाया एवाकलनं क्रियते, अपि तु स्वक्रियाया इतरपुरुषेषु कः प्रभावो जनिष्यते ? का च तेषां प्रतिक्रिया भविष्यति ? इति सर्वं विचारेणैवाकलय्यते । तद्यथा नीतिवचनं विचारस्य सर्वेक्षणत्वं प्रतिपादियति- कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कः शत्रुः का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ इति । विचारश्चायं धाराप्रवाहेण नैरन्तर्येण प्रचलति तस्मिंश्चोम्मिरूपविविधमनोरथाना- मितरेतरान्वितानां बहुशाखः क्रियाकलापोऽहर्निशमुपलभ्यते । असामान्यमानसिकदशासु विचारशृङ्खलायां केषाञ्चन प्रत्ययानामनन्वितं रूपं जायत इति विशेषः ।

सन्दर्भाः

[सम्पादयतु]
  1. G. F. Stout, "A manual of Psychology," page 529 (University Tutorial press, edn. 1913, "An idea can no more exist without an image than perception can exist without sensation. But the image is no more identical with the idea than sensation is identical with perception. The image is only one constituent or the idea, the other more important constituent is the meaning which image conveys."
  2. सर्वदर्शनसङ्ग्रहः, पृ. १५१
  3. James mill, "Analysis of the Phenomena of the Human mind" (edn 1829)
  4. An out-line of Educational Psychology (Revised) Barnes & Noble, page 79.
  5. C. G. Jung. "The Association mathod" American Journal of psychology. 1910, PP. 219-269.

सम्बद्धाः लेखाः

[सम्पादयतु]