मनोविज्ञाने व्यक्तित्वविवेचनम्
मनोविज्ञाने व्यक्तित्वविवेचनम् अतीवमहत्त्वपूर्णं वर्तते। व्यक्तित्वस्य सम्पूर्णं ज्ञानं प्राप्यते।
विषयोपोद्घातः
[सम्पादयतु]पूर्वमस्माभिश्चिन्तनसंवेदनप्रयत्नाख्यत्रिविधमनोव्यापाराणां साङ्गोपाङ्गं विवेचनं सम्पादितम्। अथातो वयं व्यक्तित्वमनुव्याख्यास्यामः । ननु किमिति व्यक्तित्वं नाम ? लोकव्यवहारेऽयं शब्दो विविधेष्वर्थेषु प्रयुज्यते। प्रायो व्यक्तिगतमाकर्षकत्वं मनोहारित्वं व्यक्तित्वमित्युच्यते। मनोहारित्वमित्यपि स्त्रीणां पुरुषानुरागजनकत्वम्, पुरुषाणाञ्च स्त्रीमनोमुग्धकारित्वमिति विशिष्टेऽर्थे प्रयुज्यमानमुपलभ्यते ।
केचन व्यक्तित्वमिति पदेनाव्यक्तरहस्यमयपरपुरुषचित्ताकर्षकशक्तिविशेष इति व्याहरन्ति। अस्य पदस्य प्रयोगः कदाचन बौद्धिकभावात्मकगुणाभिव्यञ्जनायापि दृश्यते । मनोवैज्ञानिकानामपि व्यक्तित्वस्वरूपनिर्वचने मतैक्यं नोपलभ्यते । कैश्चन व्यक्तित्वमिति पदं स्वभावचरित्राद्यनुगत- गुणविशेषार्थे प्रयुज्यते । अपरे ईषद्व्यापकतरेऽर्थे व्यक्तित्वपदं व्याहरन्ति । तन्मते निखिलमानसिकशारीरिकविशिष्टगुणजातं व्यक्तित्वपदार्थान्तर्गतम्। अस्माभिरत्र विविध- दृष्टिसमन्वयेन निष्पन्नं व्यक्तित्वस्वरूपमेव व्याकरिष्यते ।
व्यक्तित्वसङ्घटनम्
[सम्पादयतु]व्यक्तित्वं नाम व्यक्तेर्विविधमानसिकव्यापाराणां मूलप्रकृतिचिन्तनसंवेदनविचार- कल्पनाप्रयतनप्रभृतीनां समन्वयात्मकं सामञ्जस्यपूर्णं रूपम्। व्यक्तित्वं तावद् द्विविधं भवति-सङ्घटितं व्यक्तित्वम्', असङ्घटितं व्यक्तित्वञ्चेति'। यदा व्यक्तेर्ज्ञानानुकूलाः भावाः, भावानुकूलं प्रयतनञ्च भवति, बुद्धिभावेच्छाप्रयतनादिव्यापारेषु विप्रतिकूलत्वं नोपलभ्यते, तदा तस्या व्यक्तेः सङ्घटितं व्यक्तित्वं भवति । यदा तेषु तेषु व्यापारेषु परस्परं प्रतिकूलकारित्वं जायते, तदा तस्या व्यक्तेरसङ्घटितं व्यक्तित्वमिति निगद्यते । भयं प्राणिनां मूलप्रवृत्तिरिति व्याख्यातपूर्वम्। यदि काचन स्त्री कश्चन पुरुषो वा वृकस्योपस्थितौ भयमनुभवति, तत्तु समीचीनम् ।
किं वा यदि कश्चन सशस्त्रचोरेभ्य आतङ्कितो जायते, भयं वाऽन्वेति, तदपि समञ्जसम्; किन्तु यदि कश्चनाकारणमेव भयमन्वेति भयकारणेऽवस्तु-भूतेऽविद्यमानेऽपि त्रासमनुभवति, अनुक्रोशं च कुरुते भयकारणविशेषाभावेऽपि तर्हि तस्य पुरुषस्य व्यक्तित्वमसङ्घटितमिति वक्तुं शक्यते; तस्येन्द्रियजन्यप्रत्यक्षसंवेगानुभूत्योः सामञ्जस्याभावात्।
ईदृशं भयं नूनमसामान्यमानसिकीस्ववस्थासु परिलक्ष्यते। प्रत्यक्षानुकूला संवेगानुभूतिर्नास्ति, अत एव कथं तस्य व्यक्तित्वं सङ्घटितमिति वचनमुपपद्येत ! अन्यच्च अस्ति हि सामाजिकप्रवृत्तिर्नाम मूलप्रवृत्तिः ।
यदि कश्चन युवकः पुत्रकलत्रादिषु रमते, तेषां भरणपोषणादिनिमित्तं धनसञ्चयं प्रकुरुते, ततस्तस्येत्थमाचरणं मूलप्रवृत्त्या सह सङ्गच्छते। यदि कदाचन कार्यालय- सम्बन्ध्युत्तरदायित्ववशात् स तथाविधं पुत्रकलत्रादिषु रन्तुं नार्हति, तर्हि तस्य कार्यविशेषानुरोधान्निवृत्तिरपि सङ्गच्छते। किन्तु यदि हि स युवा यौवन एव पारिवारिकोत्तर- दायित्वादुपरम्य प्रियामपि स्वकीयां भार्यां परित्यज्य भैक्ष्यचर्यामाचरितुमिच्छति, प्रव्रज्यां चाकस्माद् गृह्णाति, कथङ्कारं तस्यैवंविधा निवृत्तिस्तस्य लोकविदितव्यक्तित्वेन सह सङ्गच्छते? ईदृशी निवृत्तिमभिलक्ष्य कविकुलगुरुणा प्रयुक्तेयमुक्तिर्ब्रह्मचारिव्याहृतोपयुज्यते। तथा हि (पार्वतीं प्रति) -
किमित्यपास्याभरणानि यौवने
धृतं त्वया वार्धकशोभि बल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारका
विभावरी यद्यरुणाय कल्पते ॥ इति ।
किञ्च,
अलभ्यशोकाभिभवेयमाकृति-
र्विमानना सुभ्रु ! कुतः पितुर्गृहे ?
पराभिमर्शो न तवास्ति कः करं
प्रसारयेत् पन्नगरत्नसूचये ॥ इति । [१]
अर्थाद् हे पार्वति ! वद, कथं नाम भवत्या वार्धकशोभि वल्कलधारणं विभूषणानां परित्यागश्च यौवन एव युज्यते ? कुमारित्वाद् भर्तृकृतानिष्टस्य तु शङ्कव नास्ति; परं ते पिता त्वयि नितरां स्निह्यति, अंतस्तव जनकस्य गृहेऽपि तेऽपमान: केनापि कर्तुं न शक्यते। भर्तृपित्राद्यतिरिक्तः कश्चिदन्यस्त्वां तिरस्कुर्यादिति शङ्कयाप्यलम्, नहि कश्चिदपि सर्पस्य शिरोमणि ग्रहीतुमुद्यमं करोति । यथा हि सर्पमणेर्ग्रहणं दुष्करम्, एवमेव ते धर्षणमिति तात्पर्यम्। किञ्च, कारणं विना तव वार्धकशोभि वल्कलावधारणं तथैव न सङ्गच्छते, यथा दीप्यमानशशाङ्कतारके प्रदोषे सूर्यसुतस्यारुणस्योदयो नोपयुज्यते । अत एव निवृत्तिरपि यद्यकारणा भवेत्, तर्हि तस्या अप्यसामान्यमानसिकास्ववस्थास्वन्तर्भाव इष्यते।
किञ्च, मदीयेयं कल्पना यद् भारते रामराज्यं प्रवर्तेत तदैव सफलीभविष्यति यदाहं स्वकीयविचारान् जनतायां प्रचारयिष्यामि, तदनुकूलराजनैतिकसमुदायविशेषसङ्घटनं कृत्वा तदर्हं प्रयतनमपि नूनमाचरिष्यामि । श्रूयते हि खलु रामराज्यविषये -
न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ इति । [२]
सुतरां तावद् यद्यहमनुदिनमनर्गलायां कल्पनाधारायां निमग्नो भूत्वा कथमपि तदनुकूलं प्रयतनं न करिष्ये, तर्हि सोन्मुक्तकल्पनैव स्थास्यति, निर्बीजत्वात्। स्वविचारप्रचारार्थमुपयुक्तसाहित्यसर्जनमपि तदनुकूलप्रयतनमिति तात्पर्यम्, किन्तु यदि ह्याकाशे रमणीयस्वर्गस्वरूपकल्पनमेव मदीयं कर्म भवेत्, तेन च साकं कथमपि मदीयमाचरणं नानुगच्छेत्, तर्हि नूनं किमपि व्यक्तित्ववैकल्यं मयि वर्तत इत्याशङ्का निरालम्बा न भविष्यति । व्यक्तित्वनिर्माणोपयोगिघटकानां विचारेच्छाप्रयतनादीनां परस्परमानुकूल्यं सामञ्जस्यं नितान्तमपेक्ष्यमित्यूह्यम्। तदेव व्यक्तित्वं सुघटितं सङ्घटितमिति वक्तुं शक्यते। यदि हि खलु व्यक्तित्वे कस्यचन घटकस्य विशेषेणाधिकं क्रियाकारित्वं भवेत्, अथवा कस्यचन मनोव्यापारविशेषस्य नितान्तमभावो निरोधो वापद्येत, तर्हि तज्जनितासामान्यमनोविकारस्य कारणं कस्मिश्चिद् भावग्रन्थिविशेषे तेन च सूक्ष्मचैतन्या- हितवासनासु कुशलैः परीक्षकैरनुसन्धेयम्।
सूक्ष्मचैतन्ये या या भावग्रन्थयोऽवतिष्ठन्ते, ताभिरेव कलुषितं व्यक्तित्वं व्यक्तेः परिलक्ष्यते। येषां व्यक्तित्वविकासः क्रमशो न सञ्जायते, तेषां व्यक्तित्वे विविधव्यापारस्वारस्यं नोपलभ्यते । येषां व्यक्तित्वविकासः सम्यक्तया सञ्जायते, तेषां ज्ञानेच्छाप्रयतनेषु कस्याप्येकतरस्य क्रियातिशयत्वं व्यापारन्यूनत्वं वा नोपलभ्यते। व्यक्तित्वनिर्माणाङ्गानां परस्परं सङ्ग्रथनं यदा सूत्रे मणिगणानामिव समापद्यते, तदा तेषु परस्परं समन्वय: सहकारित्वञ्चानुभूयते, व्यक्तित्वं प्रौढिमवाप्नुते । एकेनोदाहरणेन वयमिदं व्यक्तित्ववैरस्यं स्पष्टीकरिष्यामः । यदि हि खलु महाविद्यालयेऽ- ध्यक्षपादैराहूयमाने प्रधानलेखके कश्चिदन्यो दौवारिकः समायाति, दौवारिके चाहूयमाने कश्चन पुस्तकालयाध्यक्षः समायाति; प्रधानलेखकोपयोगीनि पत्राणि प्राध्यापकं प्रति प्रेष्यन्ते; प्रधानाध्यापकस्य कक्षे प्राध्यापकोऽवतिष्ठते, प्राध्यापके चाहूयमाने लिपिकः समायाति, तर्हि महाविद्यालयीयकार्येषु सर्वत्राराजकता प्रवर्तेत । एवम्प्रकारेणैवाव्यवस्थितं सर्वमसङ्घटितं व्यक्तित्वं सन्तिष्ठते । वयमग्रे व्यक्तित्वनिर्माणपराणामङ्गानां प्रतिपदमनु- व्याख्यानं करिष्यामः ।
व्यक्तित्वात्मनोः स्वरूपवैलक्षण्यम्
[सम्पादयतु]ननु किं व्यक्तित्वमित्यात्मन एवापरनाम ?
प्लेटोमतम्
[सम्पादयतु]पुरातने दर्शनसाहित्ये व्यक्तिविशेषस्य मनस एकत्वं तस्यात्माधिष्ठितत्वात् प्रतिपादितमासीत्। नैयायिकानां मते आत्मनः संयोगे सतीन्द्रियार्थसन्निकर्षेण प्रत्यक्षं जायते, नापरथा। प्लेटोनामधेयो' विश्वविश्रुतो दार्शनिकवरण्यो यवनदेशीयोऽपि मस्तु- लुङ्गायतनस्वरूपमात्मानं प्रतिपादितवान् । तन्मते आत्मनो व्यापारत्रयं भवति । यथा- भरणपोषणात्मको व्यापार : १, अनुभवात्मको व्यापारः, बुद्धिमद्व्यवहारश्चेति । भरणपोषणात्मको व्यापारो वृक्षादिषु विशेषेण सँल्लक्ष्यते ।
अनुभूतिमयो व्यापारः पशूनां दृश्यते। बुद्धिमद्व्यवहारस्तु मनुष्याणां मननक्षमाणामेव वैशिष्ट्यमावहतीति निश्चप्रचम्। अवरजातीयस्तु गुणेषु नूनमल्पीयस्त्वं प्रदर्शयति । उद्भिज्जानां भरणपोषणमेव धर्मः । पशूनां भरणपोषणाद् व्यतिरिक्तमनुभूतिविशेषात्मकत्वमपि दृश्यते, अतः पशूनां खलूच्चजातीयत्वमुन्नेयम् । मनुष्याणां भरणपोषणमनुभूतिमद्व्यवहारान्वितत्वम्:, बौद्धिकव्यापारवत्त्वमपि सँल्लक्ष्यते । अत एव गुणानामतिशयत्वाद् मनुष्यजाति-- रुच्चस्थानीया, तदपेक्षया पशुजातिरवरेत्यवसेयम्। मनुष्ये आत्मनो धर्मत्रयाणामेवा- भिव्यक्तिर्निष्पद्यते, अत एव प्राणिवर्गे स शिरोऽलङ्कारभूतोऽवतिष्ठते।
अरस्तूमतम्
[सम्पादयतु]अरस्तूमहोदयानां मते आत्मनोऽधिष्ठानं मस्तुलुङ्खं नास्ति; किन्तु हृदयमेव। तेनैव सर्वप्रथमं मनोविज्ञानस्य शास्त्रीयं विवेचनं सम्पादितम्। तस्य मूलपुस्तकं “डि एनीमा' २ इति यवनानीभाषायां लिखितं वर्तते । प्लेटोमहोदयानां मनोविज्ञानमधिकृत्य प्रतिपादिता विचाराः “प्लेटोमहाशयानां वार्तालापाः" इति संज्ञके ग्रन्थे इतस्ततो विकार्णाः समुपलभ्यन्ते। अरस्तूमहोदयानां मते रुधिरधमनीशिरासु वायुः प्रचलति । सोऽयं वायुः ‘प्राण:' इति व्यपदिश्यते । रुधिरे वर्तमानः प्राणः 'न्यूमा'" इति संज्ञा बिभर्त्ति। यदा आहतस्य मानवस्य शरीराद् रुधिरक्षयो जायते, तदास्य मृत्युः सञ्जायते; रुधिरानुगतप्राणाश्रितचैतन्यापगमात् ।
रुधिरस्य केन्द्रीभूतमायतनं हृदयम्, अत एव हृदयमेव चैतन्याधिष्ठानम् । एतस्मादेव कारणाद् भगवता पुनर्वस्वात्रेयमहर्षिणा चरकेण चापि हृदयमेव चेतनाधिष्ठानमिति प्रतिपादितमिति वयं मन्यामहे । अरस्तूमते संज्ञावाहिनाडी- कन्दाणुकानां सत्त्वं नास्ति; प्रत्युत पदार्थजनितगतिः " डायफेनस" इत्याख्यमाध्यमविशेषे प्रविश्य चक्षुरिन्द्रियान्तवर्तिन्यूमाख्यं प्राणं स्पृशति, तेनोत्पद्यते संज्ञाविशेषः । न च ज्ञानमिन्द्रियजन्यम्, किन्तु हृदयजन्यम्; हृदयस्यैवेन्द्रियानुगतन्यूमाख्यप्राणस्य केन्द्रीभूतत्वात्। नहि ज्ञानं हृदयस्य, प्रत्युत आत्मन एव। आत्मनो ज्ञानाद् व्यतिरिक्ता अन्येऽपि धर्माः सन्ति, अथवा शक्तयः सन्ति। अरस्तूमते मनोविज्ञानं नाम आत्मनो विविधशक्तीनामेवाध्ययनमिति। एतावता शक्तिवादसंज्ञकं मतं बोद्धव्यम्।
सुतरामात्मनो रहस्यात्मकं स्वरूपमभिमुखीकृत्यार्वाचीनमनोवैज्ञानिकानां वैरस्यं व्याख्यातुं शक्यते। आत्मनोऽव्यपदेश्यमप्रतर्क्यमवाङ्मनसगोचरं रूपं मनोविज्ञानपारङ्गता वैज्ञानिकविवेचनसौकर्य्यानुपयुक्तमभिमन्यन्ते। यदप्रतर्क्यम्, कथं तस्य कार्यकारण- परमनुव्याख्यानं सम्भाव्यते !
तथा हि श्रूयते माण्डूक्योपनिषदि - "नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्। अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्म- प्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः" [३] इति ।
अन्यत्रापि नूनमात्मस्वरूपमित्थमेवानुव्याख्यातम्-
अशब्दमस्पर्शरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ इति । [४]
ननु कथङ्कारमात्मस्वरूपमधिकृत्याऽर्वाचीनमनोवैज्ञानिकानां वैरस्यमुपपद्यते ? आत्मनो रहस्यमयस्वरूपत्वात् तस्य वैज्ञानिकशैल्युपयुक्तत्वं नोपपद्यते। व्यवहारविवेचनपरं हि खल्वार्वाचीनमनोवैज्ञानिकानामभिमतं मनोविज्ञानलक्षणम्। प्रयोगात्मकं हि विज्ञानं भवति। विज्ञानसामान्यलक्षणे सति मनोविज्ञानं कथमप्यव्यपदेश्याव्यवहार्याग्राह्यालक्षण- वस्तुरूपात्मतत्त्वप्रतिपादनेन स्वकीयं लक्ष्यमवाप्तुं नार्हति । अव्यवहार्यं परमार्थरूप- मात्मनोऽध्यात्मविद्यायाः प्रतिपाद्यमित्यवबोध्यम् । मनोविज्ञानं बाह्यव्यवहारानुगततथ्य- जाताध्ययनं कुरुते। प्रयोगनिरीक्षणमनोविश्लेषणादिसाधनैर्यन्मनोविज्ञानप्रतिपाद्यमस्ति, तत्तु कथमप्यव्यवहार्यमग्राह्यं न भवितुमर्हति । अतो मनोवैज्ञानिकानां व्यवहारगति- तुरीयात्मतत्त्वानुशीलने रुच्यभावो दृश्यते, आत्मतत्त्वस्याविश्लेष्यत्वात्, रहस्यमयत्वात्, प्रयोगनिरीक्षणतुलनामनोविश्लेषणादिमनोविज्ञानाध्ययनसाधनांगोचरत्वाच्च ।
आत्मनोऽपेक्षया व्यक्तित्वगवेषणायां मनोवैज्ञानिकानां रुचिर्विशेषेण सँल्लक्ष्यते। आत्मतत्त्वं हि खल्वव्यपदेश्यमवाङ्मनसगोचरमविश्लेष्यं भवति । किन्तु व्यक्तित्वं नाम प्रत्ययो न तद्वत् शून्यमिवाविश्लेष्यमिव वा भवति । विचारेच्छा कल्पनाप्रवृत्तिरूपाणि विविधानि कर्माणि परित्यज्य यदात्मरूपमवशिष्यते, तत्तु पारमार्थिकं तत्त्वमिति; किन्तु विचारेच्छाकल्पनास्मृतिप्रवृत्तिप्रभृत्यन्वितं यज्जीवात्मनो रूपं व्यवहारानुगतं सिद्ध्यति, तदेव ‘व्यक्तित्वम्’ इति व्यपदिश्यते। व्यक्तित्वं नाम व्यवहारोपयोगिसर्वप्रत्ययसारभूतम्; किन्त्वध्यात्मदर्शनप्रतिपाद्यमात्मतत्त्वं त्वेकात्मप्रत्ययसारमित्याहुर्वेदान्तवादिनः । अन्यच्च, व्यक्तित्वं प्रतिपुरुषं भिद्यते । नहि खल्वात्मतत्त्वं प्रतिपुरुषं भिद्यते, नित्यशुद्धबुद्धमुक्तनिर्गुण- निर्विशेषनिराकारात्मतत्त्वस्य को नाम भेदः ? कथङ्कारं वा नानात्वं युज्यते ? किञ्च, आत्मतत्त्वमेकरसमपरिणामितत्त्वं भवति । नह्यात्मतत्त्वं कालेन परिणमते, विकारान् वाऽऽधत्ते; किन्त्वर्वाचीनमनोविज्ञानपारदृश्वनामभिमतं यद् व्यक्तित्वस्वरूपं तत्तु कालेन विकासं लभते। बहुविधशास्त्रसामाजिकव्यवहाराद्यनुशीलनेन व्यक्तित्वं प्रौढिमवाप्नोति ।
व्यक्तित्वं प्रतिपदं वंशानुक्रमवातावरणप्रदत्तस्वभावाचरणनैतिकादर्शधार्मिकविश्वासादिभि- र्विकासं लभते। अनुभवायत्तप्रत्ययबहुलं हि व्यक्तित्वं नाम। एतावता व्यक्तित्वस्वरूप- प्रतिपादनपरस्य व्यक्तिगतमनोविज्ञानस्य समाजोपयोगिव्यवहारानुशीलनपरायणस्य गौरवमुन्नेतुं शक्यते। अत: स्थाने हि खल्वेतद्यदर्वाचीनमनोविज्ञानविशारदेभ्यो व्यक्तित्व- प्रतिपादनं रोचते। बोधगम्यं शास्त्रीयशैल्युपयुक्तविवेचनार्हं व्यक्तित्वं नूनं भवतीति सर्वमवदातम्। अतोऽर्वाचीनानां मनोवैज्ञानिकानां मते व्यक्तित्वाङ्गभूतविशेषाणां विवेचनं करणीयम्। तस्य व्यक्तित्वस्य क्रमशो विकासोऽन्वेष्टव्यः, कथञ्च तत्तद्व्यक्तित्वविशिष्ट- मानव आचरतीति सर्वं विवेचनीयम् ।
ऐक्यमिति परमं व्यक्तित्वलक्षणम्
[सम्पादयतु]ननु व्यक्तित्वं नाम विविधक्रियावेगानां भावविचारप्रयतनानां पुञ्जीभूतं रूपमिति चेत् ? न, ऐक्यं हि व्यक्तित्वस्य सर्वोपरि विशेष इति मन्तव्यम् । ननु का नाम व्यक्ति:? इति सम्प्राप्तायां शङ्कायां वयं ब्रूमः - व्यक्तिर्नाम पुरुषविशेष:, यस्य विविधाचरणेषु केऽपि विश्वासार्हा विशेषा उपलभ्यन्ते यस्य च सर्वे व्यापारा ऐक्यभावापन्नाः परस्परं सामञ्जस्यमविरोधित्वं वाऽन्यपुरुषानन्यपरिस्थितीश्च प्रति प्रदर्शयन्ति । मनोविज्ञानविवेचनीयं चैतन्यं व्यष्टिचैतन्यं भवति, न तु समष्टिचैतन्यमिति तु वयं प्रथमेऽध्याये पूर्वमवोचाम । अतो व्यक्तिर्नाम जीवात्मचैतन्यम्; किन्तु तस्यापि शारीरिकगुणविशिष्टस्यैव विवेचनं मनोविज्ञानविद्भिः समाश्रीयते।
व्यक्तेः सर्वे चिन्तनप्रत्यक्षकल्पनास्मृतिप्रवृत्ति- विकल्पादिव्यापारास्तस्य विशिष्टत्वं सूचयन्ति । सर्वव्यापारानुसन्धातृत्वयुक्ताया एव व्यक्तेरेकीभावापत्तिर्युज्यते। व्यक्तित्वसङ्घटितत्वं च तथैव निष्पद्यते। ननु येषामाचरणानि परस्परं विप्रतिकूलानि दृश्यन्ते, किं तर्हि तेषां व्यक्तित्वाभावोऽवगन्तव्यः ? नूनं तेषां व्यक्तित्वाभावोऽल्पीयस्त्वं वा व्यक्तित्वस्य भवतीत्युच्यते । येषां च 'रामो द्विर्नाभिसन्धत्ते', ‘रामो द्विर्नाभिभाषते’ इतिवद् दृढेच्छाविचारकल्पनासङ्कल्पप्रयतनानि दृश्यन्ते, तेषां व्यक्तित्वं प्रौढं महिमान्वितं वेत्युच्यते। नहि व्यक्तित्वाभावो नाम निष्प्राणत्वं मृत्युर्वेति। सामाजिकव्यवहारोपयोगित्वापेक्षया नूनं व्यक्तित्वहीनानां जीवमानानां मृत्योरविशेषो भवति; किन्तु तेषां व्यक्तित्वं विकासयुक्तं भवति, तेषां यशो दिवङ्गतानामपि सामाजिक- पुरुषाणां स्मृतिपटलेषु नूनममृतमिव चिरं स्थास्यति । तथा हि-
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति येषां यशः काये जरामरणजं भयम् ॥ इति ।
अपि चाहुः
स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ इति ।
अतो व्यक्तित्वविकासे कश्चन क्रमविशेषो विद्यते, केषाञ्चन सिद्धान्तानामनुसारी जीवनयापनव्यवहारविधिर्भवति । तैः सिद्धान्तविशेषैरेव तेषां स्वभाव:, तेषां प्रकृतिः, तेषां व्यक्तित्वमिति यावत्, नितान्तमितरेभ्यः पुरुषेभ्यो भिद्यते । दैनिकविविधव्यापाराणां सङ्घटनमपि तेषां सिद्धान्तानामनुसारं सम्पाद्यते।
अर्वाचीनं मनोविज्ञानं मौलिकविज्ञानमिव वस्तुभूतानुभूयमानविषयमधिकृत्य प्रवर्तते। अध्यात्मगवेषणोपरमात् तस्य विषयसङ्कोचो जायत इति निश्चप्रचम् । किन्त्वर्वाचीनं मनोविज्ञानं विज्ञानमस्ति, न तु दर्शनाङ्गमात्रम्। रहस्यमयलोकातीतविषयाणामनुप्रवेशेन मनोविज्ञानगवेषणा प्रयोगपरीक्षणहीना भविष्यतीति विचिन्त्य तेषां साम्परायिकासन्धानादनभिरुचिः समुत्पद्यते । व्यक्तित्वमहङ्कारविशिष्टचैतन्यस्य सामाजिकव्यापारेष्वा- भ्यन्तरानुभवजाते चाभिव्यञ्जनां लभते। तदेवास्माभिः पल्लवितव्यम्।
व्यक्तित्वोन्मेषः
[सम्पादयतु]ननु व्यक्तित्वं कदा समारभते ? अथवा किं जन्मत एव व्यक्तित्वं समुपलभ्यते? अत्रोच्यते-नहि वयं पशूनाम्, बालानां सद्यो लब्धजन्मनां वा शिशूनां विषये व्यक्तित्वपदं व्यवहरामः। नहि तेषां जीवने व्यक्तित्वोपलब्धिः । यदायं मानवः स्वनिकटवर्तीतरपरिस्थिति- पुरुषादिभिः सह विचारसंवेगप्रवृत्त्यादिप्रदर्शनेन स्थायिप्रतिक्रियां प्रदातुं समर्थो भवति, स्थायिप्रतिक्रियां वा समारभते, तदा हि वयं तस्य व्यक्तित्वसमारम्भो जात इति मन्यामहे, न त्वपरथा। स्थायिमानसिकदृष्टिरेव व्यक्तित्वोन्मेषस्य परमो हेतुः । स्थायि- मानसिकदृष्टिर्बुद्धिविकासमपेक्षते । व्यक्तित्वं तर्हि बुद्धिविकासापेक्षं भवति । यावदस्या व्यक्तेर्जीवनं नैसर्गिकमूलप्रवृत्तिभिः सञ्चाल्यते, यावच्चांस्याः क्रिया यन्त्रवत्परिचालिता भवन्ति, तावन्न व्यक्तित्वोन्मेष इति निःसन्दिग्धम् ।
न चापि परवशवर्तिनः स्वकीय- व्यक्तित्वाभिव्यक्तिः। स्वनामधन्यानां महात्मनां गान्धिमहाभागानां प्राक्स्वातन्त्र्यकालिकेय- मुक्ति:-“नहि परतन्त्राणां कोऽपि धर्मः” इति, उपरि वर्णितेन व्यक्तित्वविवेचनेन सह सङ्गच्छते। यदा हि खलु व्यक्तिः स्वयमेव परिस्थितिविशेषमवधार्य निर्णयं कुरुते, विवेकेन शुभाशुभं मार्गं निश्चिनोति, तदैव तस्यास्तत्कार्यविशेषे उत्तरदायित्वं विद्यत इति वक्तुं साम्प्रतम्; किन्तु यावन्नास्या हिताहितविवेकपुरस्सरं परिस्थित्यवधारणान्वितं स्वकीयं प्रयतनं परिलक्ष्यते, तावन्नास्याः किमपि नीतिशास्त्रानुमोदितमुत्तरदायित्वम्, न चापि मनोविज्ञानाभिमतव्यक्तित्वस्याभिव्यञ्जनमिति।
ननु कस्मिन् वर्षे वयसि सम्प्राप्ते व्यक्तित्वेन्मेषो जायते ? नहि खल्विदं सार्वजनीन- नियमेन प्रतिपादयितुं शक्यते, यतो हि शिक्षाभ्याससामाजिकानुभवप्राचुर्यपैतृकगुणानां गरीयस्त्वं यदा चतुर्दशे षोडशे वा वर्षे जायते तदा व्यक्तित्वोन्मेषः, द्वाविंशतितमे वर्षे च व्यक्तित्वं प्रौढिं लभते; तदा सम्यक्शिक्षासामाजिकानुभवविशेषाभावे केषाञ्चन पुरुषाणां चतुर्विंशतिवर्षं यावदपि विचारभावप्रयत्नेषु स्थैर्याभावो विद्यते। अतो व्यक्तित्वोन्मेषस्य व्यक्तित्वविकासस्य शिक्षानुभववंशायत्तगुणसापेक्षत्वाद् बहवः स्तरा भवन्तीति बोद्धव्यम्। पारिवारिकोदात्तवातावरणं व्यक्तित्वोन्मेषाय कल्पत इति निश्चप्रचम् ।
व्यक्तित्वाङ्गभूतगुणविशेषाः
[सम्पादयतु]व्यक्तित्वविवेचनमधिकृत्य विविधैर्मनोविज्ञानपारङ्गतैरेते विशेषा वर्णिताः समुपलभ्यन्ते। ते यथा-
१. व्यक्तित्वमिति प्रत्यये शारीरिकगुणाः मानसिकगुणाश्च समावेशमर्हन्ति। अतो व्यक्तित्वं
शारीरिकमानसिकगुणान्वितमित्यवगन्तव्यम्।
२. व्यक्तित्वं नाम व्यक्तेः नैसर्गिकाणामर्जितानाञ्च सर्वेषां व्यापाराणां सङ्घटनं समष्टिभावश्चेति। ‘समष्टिभावः’ इत्यनेन पदेन द्योत्यते यन्नहि कश्चन मानसिकः शारीरिकव्यापारविशेषो व्यक्तित्वपदार्थाद् बहिरवतिष्ठते । समेषां व्यापाराणामेकीभावापन्नत्वं सङ्घटनं च व्यक्तित्वपदेन सूचितम्। 'अर्जितम्' इति पदं शिक्षाऽभ्यासानुभवायत्तमिति तात्पर्यम्।
३. व्यक्तित्वे परस्परानुबन्धि चिन्तनसंवेदनप्रयतनसंज्ञकमनोव्यापारत्रयं तदङ्ग-त्वेनानुप्रविशति ।
४. एतेषु त्रिविधमनोव्यापारेषु व्यक्तित्वाङ्गभूतेष्वेकैको व्यापारस्तथाविधं सङ्घटनं विकासं चावाप्नोति। चिन्तनात्मकं सङ्गठनं बुद्धिपदेन व्यपदिश्यते । भावसंवेदनादिसङ्गठनं 'स्वभाव' इति पदेन व्यपदिश्यते । प्रयतनादिसङ्गठनं 'चरित्रम्' इति पदेनाऽभिव्यज्यते।
५. व्यक्तित्वाङ्गभूतानामेतेषां त्रिविधव्यापाराणां नूनं परस्परानुबन्धिविकासो जायते सर्वास्वेव विकासभूमिषु तेषामितरेतरसापेक्षत्वं समुपलभ्यते।
६. व्यक्तित्वाङ्गभूतघटकानां सङ्गठनेन, अनुपातशो विद्यमानतया, मृदुमध्यमातिशयमात्राभेदेन, अभिव्यञ्जनाप्रकारविशेषेण च व्यक्तीनां व्यक्तित्वभेदा अभिनिर्वर्तन्ते।
७. व्यक्तित्वस्यासामान्यावस्था तदा अभिनिर्वर्तते, यदा व्यक्तित्वाङ्गभूतघटकेषु कस्यचिदेकस्य बहूनां वेतरापेक्षया प्रकामं विकासो सञ्जायते । कस्यचिदे-कस्य निरोधो वा ह्रासो वा नितान्तं सञ्जायते । असाधारणविकासेन ह्येकस्य व्यक्तित्वाङ्गस्येतराङ्गानां निरोधो जायते । विकासस्य ह्रासस्य वा असाधारणकोटौ सङ्गठनं श्लथीभवति । व्यापारसङ्गठनाभावः सामान्यविकारान् जनयति ।
८. सर्वे शारीरिकविकारा मानसिकविकारा वा व्यक्तित्वविकृतय एव । तथापि कैश्चन विकारैः खलु तदितरापेक्षातो निखिलं व्यक्तित्वं नितरां दूष्यते ।
अथातो वयं व्यक्तित्वाङ्गभूतगुणविशेषाननुव्याख्यास्यामः । यतो हि मानसिकव्यापारान् सङ्गठनगोचरीभूतान् विहाय कतिपयेतरगुणविशेषा अपि भवन्ति, येषां सद्भावे वा व्यक्तित्वभेदा अभिनिर्वर्तन्ते । वयं ताँस्तान् गुणान् प्रतिपदं क्रमशोऽनुव्याख्यास्यामः। यथा-
(अ) शारीरिकगुणाः
(आ) मानसिकगुणाः
(क) चिन्तनविषयका बुद्धिपदवाच्याः ।
ख) संवेदनविषयकाः स्वभावपदवाच्याः ।
(ग) प्रयतनविषयकाः चरित्रपदवाच्याः ।
(इ) सामाजिकगुणविशेषाः ।
(ई) उपर्युक्तगुणानां प्राचुर्ये दाढञ्चेति ।
शारीरिकगुणः
[सम्पादयतु]ननु किं शारीरिकगुणा अपि व्यक्तित्वपदार्थान्तर्भाक्त्वमर्हन्ति ? नूनं शरीरस्य वर्णाकृतिस्वरपरिमाणादिविशेषा व्यक्तित्वं नितान्तं प्रभावयन्ति । गौरवर्णः, दीर्घाकृतिः, विशाले नेत्रे, मधुरः स्वरः, मनोहारि वक्त्रम्, महोरस्कत्वं च कस्य चेतो न प्रसभं समाकर्षन्ति! जनसेवायोगस्य सर्वासु प्रवेशपरीक्षासु मांसलस्वस्थशरीरं परीक्षकान् नाल्पं प्रभावयति। कमनीयाकृतिं नारीमयान्तीं दृष्ट्वा सर्वेषां चेतांसि तस्या मुखमवलोकयितु- मविचलदृष्टीनि जायन्ते। एवमेव महोरस्कमाजानुबाहुं वृषभस्कन्धं पुरुषमायान्तं सन्दृश्य सर्वे समादरप्रदर्शनार्थं समुत्तिष्ठन्ति ।
एडलरमहोदयाभिमता हीनताग्रन्थिः
[सम्पादयतु]नहि तस्मादिदमायाति यद्धि दुर्बलशरीराः पुरुषा लोकेऽसफला भवन्ति, कुब्जा वा किमपि पुरुषार्थं प्राप्तु न प्रभवन्ति । आङ्गलदेशीयो बायरनमहाकविः' पङ्गुरासीत्; किन्तु सोऽतिपाटवेन तर्तुं जानाति स्म । आङ्गलदेशीयो महाकविः मिल्टनमहाभागोऽन्धोऽपि सन् यशस्वी महाकविर्बभूव । अस्माभिः आगरानगरस्थानाथालये एकः प्रज्ञाचक्षुर्दृष्टः । स हि खलु अनेकान् ऋग्वेदीयमन्त्रान् श्रुत्वैव लिपिविशेषेण लिखितुमशक्नोत्, लिखित्वा च तान् क्रमशो यथातथमुच्चार्यासाधारणं पाटवं प्रदर्शयति स्म । अमेरिकादेशस्य राष्ट्रपतिर्महामतिरूजवेल्टमहोदयः पद्भ्यां स्वतस्तु गन्तुमसमर्थोऽभवत्; तथापि तेन प्रतिभाशालिना द्वितीये विश्वमहायुद्धेऽमेरिकादेशस्य प्रतिष्ठा सर्वोपरि संरक्षिता परिवर्धिता च।
कस्माद् हेतोरिमे प्रकृत्या दुर्बला अपि खल्वेवंविधं गौरवं लेभिरे ! एका हि अमेरिकनमहिला हेलननामधेया विद्यते सा जन्मान्धा सत्यपि कतिपयविषयेषु 'एम० ए०’ इत्याख्यपदवीं 'डाक्टर' इति च गौरवान्वितां पदवीं विश्वविद्यालयेभ्यः प्राप्तवती। एडलरमहोदयैः प्रतिपादितमिदं यद्वै प्रकृत्या सुदुर्बलेषु मानवेष्वेका हीनताभावग्रन्थिः जायते, तया भावग्रन्थिक्रियया स आत्मशक्तिसञ्चयं कृत्वा तत्प्रदर्शयितुकामोऽन्यानन्ततोगत्वा अतिशेते। अस्ति हि मनुष्याणां पशूनां चैका निसर्गजा आत्मप्रदर्शनसंज्ञिका मूलप्रवृत्तिः, तस्या वृत्तं वर्णितपूर्वम्। सुतरां प्रकृत्या दुर्ग्रस्तो मानवः समाजेऽन्यपुरुषाणामपेक्षया हीनतां दैन्यं वानुभवति। तं दैन्यमपाकर्तुं विजेतुं सोऽपरिमितचित्ताभोगेन कार्ये सँल्लग्नो जायते।
अन्ततोगत्वा सोऽसाधारणकार्याण्यनन्यलभ्यानि कर्तुं प्रभवति। दृष्टं चास्माभिर्यद्धि श्रावयिता छात्रः शाङ्करभाष्यं प्रतिपदं स्मर्तुं व्याख्यातुं वा न प्रभवति, किन्तु अद्वैतवेदान्त- विषयकाचार्य्यपरीक्षायां श्रोताऽन्धश्छात्रः प्रतिपदं शुद्धं कण्ठीकृतं भाष्योदाहरणपूर्वकमुत्तरं दातुमर्हतीति। ये वामना भवन्ति, ते लम्बायमानं शरीरं कृत्वा प्रयान्ति । येषां पीठासनमुच्चं वर्तते, तेषां लम्बायमानकटिप्रदेशेन गत्यामपि किमपि विशेषमाधीयते । कस्मात् सर्वमिदं जायते? एडलरमहोदया अभिमन्यन्ते यत्तेषां निसर्गजदौर्बल्यं हीनभावग्रन्थि जनयति, ते दैन्यविचाराः सूक्ष्मचैतन्ये तिरोहिताः सन्तो द्विगुणतरशक्तिवेगेन शक्तिप्रदर्शनं सन्नि- वेशं कर्तुमिच्छन्ति। यथा हि रोमदेशीयो 'नीरो नामकः सम्राट्, फ्रांसदेशीयो विश्वविश्रुतो विजेता ‘नेपोलियन’संज्ञकः सम्राट् चैवंविधहीनभावग्रन्थिप्रभावेणैव निरङ्कुशप्रभुत्वैषणां" प्राप्तवन्तौ। आत्मदैन्यभावजन्यसंस्काराः सूक्ष्मचैतन्येऽन्तर्मनसि वाधीयन्ते, कालक्रमेण च ते मानसिकविकाररूपेण दुर्धर्षप्रभुत्वैषणामार्गेण प्राकट्यं लभन्ते ।
नहि वयं समग्रत एडलरमहोदयमतं समर्थयितुं प्रभवामः, यतो हि नेदमनि- वार्य्यसम्बन्धपुरस्सरं वक्तुं शक्यते यद्धि तेषामेव सर्वं साफल्यं येषां निसर्गसिद्धं दैन्यं वर्तते, विकलाङ्गत्वं वा वर्तत इति । एडलरमहोदयानां मते आंशिकं महत्त्वपूर्णं सत्यं निहितं वर्तते।
किन्तु प्रायो दृश्यते यद्ध्याकृतिवर्णवस्त्रगतिश्लक्ष्णवाणीकमनीयविशालनेत्र- विपुलांशादिशारीरिकगुणविशेषा अस्मानितरपुरुषसम्बन्धिस्वव्यवहारनिश्चये प्रभावयन्ति, अन्ये जनाश्चास्माकं कृते तथाविधव्यवहारप्रदर्शनकालेऽस्मदीयैस्तादृशैः शारीरिकगुणैरेव प्रभाविता भवन्ति। “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” इति कालिदासोक्तिर्नूनं सत्या, तथापि प्रसाधनसुन्दरवस्त्रादिभिर्नाल्पो व्यक्तित्वावधारणे प्रभावो जायते; सत्यम्, व्यक्तित्वं नाम शारीरिकगुणो नास्ति, तत्तु मानसिकगुणायत्तं विशेषतो भवति ।
तथा हि " गुणहीना न शोभन्ते निर्गन्धा इव किंशुकाः” इति ; तथापि शरीरस्य व्यक्तित्वेन सह नितरां सन्निकटसम्बन्धो वर्तते, प्रभावश्चास्यानुदिनं भूयिष्ठो गभीरश्च प्रकाममनुभूयते । अत एव मानसिकव्यक्तित्वस्य शारीरिकगुणानां च सम्बन्धं वयं राजतरूप्यकस्य पटलद्वयमिव मन्यामहे। वस्तुतो या व्यक्तिर्मनोविज्ञानप्रतिपाद्यत्वं भजते, सा शरीरास्मिता - विशिष्टजीवात्मचैतन्यमिति । अतो व्यक्तित्वेऽपि शरीरगुणानां प्रभाबो भवत्येवेति युज्यते ।
आयुर्वेदशास्त्रानुसारं व्यक्तित्ववर्गीकरणम्
[सम्पादयतु]प्राचीनभारतीयायुर्वेदविशारदानां मते वातपित्तकफाधिकारविशेषेण मनुष्याणां प्रकृतिभेदाः (प्रकृतिदोषा एवायुर्वेददृष्ट्या) अभिनिर्वर्तन्ते, अर्थाद् यदि कस्यचिन्मानवस्य वातप्रकोपाद् वातप्रकृतिस्तदा तस्य चारित्र्ये स्वभावे व्यवहारे च विशिष्टा गुणा: सँल्लक्ष्यन्ते। अन्यच्च, पित्तप्रकृतीनां स्वभावा व्यवहाराश्च वातप्रकृतिभ्यः पुरुषेभ्यो भिद्यन्ते। तेषां चापि कफप्रकृतिभ्यः पुरुषेभ्यः । विविधप्रकृतिभाजां पुरुषाणां गुणा: सुश्रुतसंहितायामेवमुपलभ्यन्ते । तथा हि-
“तत्र यः प्रजागरूक शीतद्वेषी दुर्भगः स्तेनो मात्सर्यनार्यो गन्धर्वचित्तः स्फुटितकर- चरणोऽल्परूक्षमश्रुनखकेशः क्राथी दन्तनखखादी च भवति ।
अधृतिरदृढसौहृदः कृतघ्नः कृशपरुषो धमनीतत: प्रलापी ।
द्रुतगतिरटनोऽनवस्थितात्मा विषति च गच्छति सम्भ्रमेण सुप्तः ॥
अव्यवस्थितमतिश्चलदृष्टिमन्दरत्नघनसञ्चयमित्रः ।
किञ्चिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः ॥ इति ।
अत्र 'क्राथी' इति हिंसाशीलः । 'क्राथी' इति स्थाने 'क्रोधी' इत्यपि पाठान्तरं समुपलभ्यते। ‘अनवस्थितात्मा' इति च चलचित्तः । 'दुर्भगः' इति अमनोरमाकारः ।
“स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलो दुर्भगो वलिपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्रकोपप्रसादो मध्यमबलो मध्यमायुश्च भवति।
मेधावी निपुणमतिर्विगृह्य वक्ता
तेजस्वी समितिषु दुर्निवारवीर्यः ।
सुप्तः सन् कनकपलाशकर्णिकारान्
सम्पश्येदपि च हुताशविद्युदुल्काः ॥ इति ।
अत्र ‘विगृह्यवक्ता' इति परवाक्यमुच्छिद्य वक्तुंशीलः ।
(इ) कफप्रकृतिः
[सम्पादयतु]“दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टशरकाण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरप्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवाँश्चिरग्राही दृढवैरश्च भवति ।
दृढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु ।
परिनिश्चितवाक्यपदः सततं गुरुमानकरश्च भवेत् स सदा ॥ इति ।
क्रेश्मरमहोदयानां वर्गीकरणम्
[सम्पादयतु]लम्बह्रस्वशरीरपरिमाणशरीराकृतिविशेषानधिकृत्य क्रेश्मरमहोदयैर्मनुष्याणां चतुर्विधं वर्गीकरणं सम्पादितम्। तदनुसारं पुरुषाश्चतुर्विधा भवन्ति । क्रेश्मरमहोदयाः हि खलु असामान्यमानसिकव्याधिग्रस्तानां चिकित्सालयागतानां रोगिणां पर्यवेक्षणेन चतुर्विधवर्गीकरणं शारीरिकगुणानुबन्धिस्वभावभेदप्रतिपादनपरं निर्णीतवन्तः । चतुर्विधाः पुरुषास्तावत् प्रांशवः२, सुघटितशरीरा:, ह्रस्वा:, तदितराश्चेति ।
(अ) क्रेश्मरमहोदयमते 'प्रांशवः' ते पुरुषा भवन्ति येषां शरीरतौलमानं शरीरलम्बत्वादिव्यपेक्षया न्यूनं भवति, येषां शरीरमपि रजकस्याश्वतरीभारवदितस्ततो दोलायमानमिवावतिष्ठते ।
(आ) ‘सुघटितशरीरा:’ पुरुषास्ते भवन्ति येषां सुदृढमांसलपेशीस्नायुबन्धनानि शरीराणि भवन्ति, सर्वाङ्गानि च समानरूपेण विकसितानि भवन्ति ।
(इ) 'ह्रस्वा:' पुरुषाः शरीरतौलमानापेक्षया ह्रस्वा भवन्ति, तेषां बलिष्ठं शरीरं पर्वतीयपुरुषाणामिव सुघटितं भवति ।
(ई) चतुर्थप्रकारकास्तदितरे जना भवन्ति । क्रेश्मरमहोदयः प्रांशुसुघटितशरीराणां बाहुल्यमकालोन्मादग्रस्तेषु रोगिषु प्राप्तवान्। ह्रस्वाश्च पुरुषाः प्रायोऽवसादोन्मादरोगपीडिता आसन्। स्वस्थपुरुषाणामपि तथैव चतुर्विधं वर्गीकरणं कर्तुं शक्यते, तेषु च तत्तद्गुणानामुन्मादग्रस्तरोगिणामपेक्षया न्यूनाभिव्यक्तिर्भविष्यतीति तेषां मतम् ।
प्राध्यापकप्रवराभ्यां शैल्डन-स्टीवेन्समहोदयाभ्यामपि क्रेश्मरमतं संशोधितम् । तन्मते पुरुषाणां शरीराकृतिविशेषानुसारं त्रिधा वर्गीकरणं कर्तुं शक्यते । शरीराकृति- भेदानुसारं स्वभावभेदा निष्पन्ना भवन्ति ।
नैदं मतं सर्वांशतः समीचीनम् । शरीराकृतिगुणैः सह स्वभावभेदानां केनापि प्रतिपादिनमद्यावधि निर्विवादं न सम्पादितम् । मन्ये भारतीयायुर्वेदाचार्य्याणां मतं किञ्चित् साधु, तथापि अनन्यथासिद्धसाहचर्य्ययुक्तं नाद्यावधि साधितम्। स्वभावभेदाः शिक्षाभ्यास- सामाजिकपरम्परया कालक्रमेण विकासमर्हन्ति । खलमैत्री कस्याकल्याणं नावहति ! शरीरभेदा निसर्गजाः । नहि तथाविधा स्वभावभेदाः । यद्यपि वयमन्तःस्रावग्रन्थीनां क्रियातिशयह्रासजन्यं प्रभावं स्वभावप्रतिक्रियोत्पादनेऽप्यङ्गीकुर्मः, तथापि शरीराकृतेरपि स्वभावभेदेन सह कश्चित् साहचर्य्यसम्बन्धो वर्तत इति न बुद्धिपथमारोहति; सुदृढहेत्वभावात्।
यवनदेशीया अरस्तूमहाभागा अपि चतुर्धा मानवानां वर्गीकरणं कृतवन्तः । तस्य चायुर्वेदमतेन सार्धं भूयिष्ठं साम्यं वर्तते । यवानानां मते चत्वारो रसा नृणां शरीरेषु भवन्ति । यकृज्जन्यकृष्णपित्तातिशयान्मानवः कुण्ठितबुद्धिर्नैराश्ययुक्तो भवति । पीतपित्तातिरेकान्मानवः क्रोधनो जायते । रुधिराधिक्यान्मानव आशावादी जायते । कफातिशयान्मानवः पीनो जायते । अरबदेशीययवनदार्शनिका नामानुवादमात्रजीविन आसन्। तेषां विवेचनेऽपि 'सौदा' इति वायुः, 'सफ्ररा' इति पित्तम्, 'वलगम' इति कफः, 'खून' इति रक्तम् । एवंप्रकारेण चतुर्धा मानवानां प्रकृतिभेदायत्तवर्गीकरणं तेषामभिमतम्।
मानसिकगुणाः
[सम्पादयतु]मानसिकगुणाः शारीरिकगुणानामपेक्षयाऽत्यर्थं महत्त्वपूर्णानि व्यक्तित्वाङ्गानि । बुद्धिभावकृतिप्राधान्यानुसारं व्यक्तित्वभेदा अभिनिर्वर्तन्ते । दार्शनिका वैज्ञानिकाश्च बुद्धिप्रधानाः पुरुषा भवन्ति, यतो हि तेषां व्यक्तित्वं विचारचिन्तनबहुलं दृश्यते । महाकविकालिदासभवभूतिप्रभृतयो भावप्रधाना पुरुषा, यतो हि तेषां व्यक्तित्वं रागात्मिकानां वृत्तीनां चरमं विकासं द्योतयति । तथैव गायकाश्चित्रकाराश्चापि भावप्रधाना व्यक्तयो भवन्ति, तेषां जीवने ललितकलानां मानवभावजगतः सूक्ष्मानुभूतीनामुदात्तं रूपमुपलभ्यते । तृतीयो वर्गः कृतिप्रधानानां पुरुषाणां भवति । तेषां जीवने प्रयत्नस्य प्राचुर्यमुपलभ्यते। राजनीतिज्ञानां किं वा राजनीतिकदलनेतृणां च जीवनं कृतिप्रधानमेव दृश्यते ।
सैनिकस्य, सेनापतेः, नाविकस्य च कर्मप्रधानं व्यक्तित्वं भवति । यत्र यत्र कर्मसु कौशलं वर्तते, तत्र तत्र कृतिप्रधानमेव व्यक्तित्वमन्वेष्टव्यम्, किन्तु नृत्ये सुरुचिपूर्णा भावाभिव्यक्तिर्नर्तन- कर्मणि कौशलमपि च विद्यते । अत एव तस्य व्यक्तित्वं भावकृतिसंयोगाद् मिश्रीभावापन्नं बोद्धव्यम्। अथवा भावात्मकमेवेति भावप्राचुर्यात् । सुतरां तावद् बुद्धिप्रकर्षात्, भावप्रकर्षात्, कृतिप्राधान्याच्च व्यक्तित्वस्य मानसिकगुणविशेषभेदात् त्रयो भेदा भवन्ति।
स्मरणीयमेतदस्मिन् विषये यद्धि परस्परानुबन्धीनि खलु बुद्धिस्वभावचरित्राणि व्यक्तित्वाङ्गानि भवन्ति। नह्येकस्य प्रकर्षेऽन्यतरस्याभाव इष्यते । चिन्तनसंवेदनप्रयत्नाख्य- मानसिकव्यापारत्रयाणामन्योऽन्याश्रयत्वं सङ्घटनं सहकारित्वं च पदे पदे व्यक्तित्वविकासस्य प्रत्येकभूमौ विद्यत एव। नहि तस्मादृते स्वस्थं व्यक्तित्वं भवितुमर्हति।
ननु कथं बुद्धिप्रकर्षभेदानुसारं व्यक्तित्वभेदा अभिनिर्वर्तन्ते ? व्यक्तित्वविवेचनं हि सर्वं व्यक्तिगतमनोविज्ञानस्य भेदान्वितमनोविज्ञानस्य च प्रतिपाद्यम्; किन्तु व्यक्तित्व- विकासमभिमुखीकृत्य शिक्षामनोविज्ञानविशारदैर्मुहुर्मुहुर्यच्छ्लाघ्यं प्रयतितम्, तन्नूनं लोके महीयते। वयमत्र व्यक्तिनिर्णयार्थं बिने-साइमन - टरमैनप्रभृतीनां शिक्षामनोविज्ञानपारङ्गतानां बुद्धिपरीक्षणानां सङ्क्षेपतो व्याख्यानं करिष्यामः ।
बिने साइमनबुद्धिपरीक्षणप्रणाली
[सम्पादयतु]बुद्धेः परीक्षणाय कैश्चन शिक्षामनोविज्ञानविशारदैर्बहूनि परीक्षणानि समारब्धानि । तेषामग्रगण्यो हि खलु फ्रांसदेशीयमनोविज्ञानपारङ्गतो बिनेमहोदय: । फ्रांसदेशीयमनोवैज्ञानिकेषु स सर्वोत्तमां विश्वख्यातिं लब्धवान्। फ्रांसदेशीयानां पाठशालानां प्रबन्धकर्तारस्तं १९६१ वैक्रमाब्दे मन्दबुद्धिबालकानां गवेषणाय नियुक्तवन्तः, येन तेषां कृतेऽध्ययनस्य विशिष्टपाठशालासु प्रबन्ध: कर्तुं शक्येत । साइमननामाऽपरः फ्रांसदेशीयो मनोवैज्ञानिक आसीत्। तेनापि विंनेमहोदयानां बुद्धिपरीक्षणकार्ये साहाय्यं प्रदत्तम् । अत एव बुद्धिपरीक्षणस्य या प्रणाली ताभ्यामाविष्कृता, सा 'बिने-साइमन-बुद्धिपरीक्षणप्रणाली' इत्याख्यां भजते।
१९६३ वैक्रमाब्दे आभ्यां मनोविज्ञानविचक्षणाभ्यां स्वकीया बुद्धि- परीक्षाप्रणाली चतुःपञ्चाशत्प्रश्नगर्भिता सुनिष्पादिता । तृतीयवर्षादारभ्य यौवनारम्भपर्यन्तं विविधैः प्रश्नैस्तौ महानुभावौ बालकानां शारीरिकायुषोऽपेक्षया मानसिकायुर्विषयनिर्धारणं कृतवन्तौ। यदि त्रिवर्षीयो बालकस्त्रिवर्षीयबुद्धिपरीक्षणस्य सर्वेषां प्रश्नानां प्रत्युत्तराणि प्रदातुं प्रभवेत्, तर्हि तस्य मानसिकायुरपि वर्षत्रयमेवानुमीयते । प्रत्येकवर्षीयो बालकः पञ्चभिः प्रश्नैः परीक्षितः। यदि स तेषु प्रश्नेषु द्वयोरेकस्य वा प्रत्युत्तरं दातुं नार्हति, तर्हि तस्य मानसिकायुर्वर्षत्रयान्न्यूनमेवावधार्यते । एकैकः प्रश्नः तद्वर्षस्य तावन्मात्रं खण्डं निर्दिशति। मानसिकायुर्यदि शारीरिकवर्षायुषा विभज्यते, शतगुणीक्रियते च, तर्हि बुद्धिलब्ध्यङ्कोऽवेष्टुं शक्यते। यथा-
बुद्धिलब्ध्यङ्कः= मानसिकायुः/ शारीरिकवर्षायुः - १००
यदि अष्टवर्षीयो बालकः पञ्चवर्षीयबुद्धिपरीक्षणोपयुक्तप्रश्नानामेवोत्तराणि प्रदातुं शक्नोति, तर्हि तस्य बुद्धिलब्ध्यङ्को निम्नलिखितानुसारं भविष्यति -
बुद्धिलब्ध्यङ्कः= ५ /८ X १०० = ६२.५
यदि चायमष्टवर्षीयो बालको दशवर्षीयबुद्धिपरीक्षणोपयुक्तप्रश्नानामुत्तराणि प्रदातुमर्हति, तर्ह्यस्य मानसिकायुर्दशवर्षाण्येवेति । बुद्धिलब्ध्यङ्कश्चापि-
बुद्धिलब्ध्यङ्कः= १० / ८ X १०० = १२५
प्रथमो बालको मन्दबुद्धिः, द्वितीयश्च प्रतिभाशाली भवतीति बोद्धव्यम्। आरम्भ- काले बिने-साइमनमहोदयाभ्यां सप्तवर्षादारभ्य दशवर्षपर्यन्तं परीक्षणोपयोगिनस्त्रिंशत् प्रश्नाः सम्पादिताः। किन्तु १९६५ वैक्रमाब्दे तस्याः प्रश्नावल्याः संशोधनमभिनिर्वृतम्। १९६८ वैक्रमाब्देऽन्तिमवारं विनेमहोदय एनां प्रणाली संशोधितवान्। तस्या: संशोधितरूपे चतुःपञ्चाशत्प्रश्ना आसन् ।
प्रश्नप्रकारनिदर्शनम्
आयुः | प्रश्ना: |
३ वर्षाणि | नासाचक्षुर्मुखादीनि सूचय ? इति । |
५ वर्षाणि | वर्गाकृतिमनुकुरु? चतुर्विधमुद्रागणनां कुरु? इति। |
७ वर्षाणि | अपूर्णचित्रे किन्नु खल्ववशिष्यते ? इति । |
१० वर्षाणि | संवत्सरस्य मासान् गणय ? पुनरावृत्ति च तेषां कुरु ? इति । |
१३ वर्षाणि | भाववाचकसंज्ञानां युग्मकेषु किमन्तरं विद्यते ? इति कथनम्। |
टरमेनमहोदयाभिमतं बुद्धिपरीक्षणम्
[सम्पादयतु]विनेमहोदयो बुद्धिपरीक्षणप्रणाल्याः प्रवर्तक आसीत्, किन्तु तदनन्तरं बहुभिर्विद्वद्भिः बिने-साइमनप्रणाल्याः स्वस्वदेशानुसारं संशोधनानि समावृत्तानि । बर्टमहाभागैः' आङ्गल-देशीयैर्विनेमहोदयानां सहयोगिनः साइमनमहोदयस्य सहयोगमवाप्य बिनेबुद्धिपरीक्षणप्रणाली प्रतिसंस्कृता । तस्य प्रश्नसूच्यां पञ्चषष्टि (६५) प्रश्ना आसन्। सा प्रणाली त्रिवर्षीयबालकेभ्य आरभ्य षोडशवर्षीयबालकानां कृतेऽपि प्रयुक्ता । नहि प्रत्येकवर्षोपयोगिप्रश्नाः समसंख्याकाः ।
अमेरिकादेशे स्टैनफोर्डविश्वविद्यालयस्य मनोविज्ञानवेत्तृभिः टरमैनमहोदयैरियं विने-साइमनपरीक्षणप्रणाली १९७३ वैक्रमाब्दे प्रतिसंस्कृता । बहूनि वर्षाणि यावत् टरमैनमहोदयो द्विसहस्रबालकान् परीक्ष्य सामान्यतः स्वस्थो बालकः किं किं जानातीति निर्णीतवान् । एतावता तेन बुद्धिपरीक्षणार्थं स्वकीया प्रश्नावलिर्निर्मिता । बिनेमहोदयानां काश्चन समस्या अपि यथास्थानं सन्निवेशिताः । अस्यां प्रश्नावल्यां तेन प्रतिवर्षं षट् प्रश्ना विनिर्मिताः। निखिलाः- प्रश्ना नवतिसङ्ख्यका आसन्। त्रिवर्षादारभ्य दशवर्षपर्यन्तम्, तदनन्तरं च १२, १४, १६, १८ वर्षाणि यावत् टरमैनप्रयुक्तप्रश्नावलिः बुद्धिपरीक्षणार्थं प्रयुज्यते। एवम्प्रकारेण प्रतिमासद्वयार्थमेकः प्रश्नो बुद्धेः परीक्षणायालं भवति। शतेन गुणनं दशमलवमपाकर्तुमिष्यते ।
१९९४ वैक्रमाब्दे टरमैनमहोदयो मैरिलमहोदयानां साहाय्येन स्टैनफोर्ड - बिनेबुद्धिपरीक्षणप्रणालीं पुनः संशोधितवान्। तेन द्विवर्षं यावदस्याः परीक्षणोपयोगित्वं साधितम्।
टरमैनमहोदयैः स्वकीयैः परीक्षणैर्बुद्धिप्रकर्षानुसारमेते व्यक्तित्वभेदा अङ्गीक्रियन्ते। ते यथा-
बुद्धिलब्ध्यङ्कः
१५० तः | ऊर्ध्वम् | प्रतिभाशाली |
१४० तः | १५० यावत् | उपप्रतिभाशाली |
१२० तः | १४० यावत् | अत्युत्कृष्टः |
११० तः | १२० यावत् | उत्कृष्टबुद्धिः |
९० तः | ११० यावत् | सामान्यबुद्धिः |
८० तः | ९० यावत् | मन्दबुद्धिः |
७० तः | ८० यावत् | मूर्खः, हीनबुद्धिः |
७० तः | न्यूनम् | मूढः |
५५ तः | न्यूनम् | जडबुद्धिः |
उपर्युक्ततालिकायां १०० बुद्धिलब्ध्यङ्कः स्वस्थविकासयुक्तबालकस्य भवतीत्युन्नेयम्। एते व्यक्तित्वभेदा न केवलं बालकेष्वेवोपलभ्यन्ते, प्रत्युत वयस्कव्यक्तिष्वपि। अलमतिविस्तरेण ।
तथैव
केचन समालोचका बुद्धिपरीक्षणानि भृशं समालोचयन्तस्तेषां दुष्टत्वं प्रतिपादयन्ति। यथा-अध्ययनसुविधानां प्रवर्धनेन बुद्धिलब्ध्यङ्कोऽपि वर्धते। अतः कथङ्कारमिदं प्रतिपाद- यितुं शक्यते यद्धि यो बुद्धिलब्ध्यङ्को दशवर्षीयबालकस्योपलभ्यते, स एव अष्टादश- वर्षीयस्य बालकस्याप्युपलभ्येतेति । अन्यच्च, ये बालकाः परीक्षणकाले पटवस्तेषां परीक्षणफलं प्रशस्यं भवति । ये प्रतिभाशालिनोऽपि छात्रा : परीक्षणवेलायामुदासीना इवावतिष्ठन्ते, परीक्षायां कथं प्रत्युत्तरं प्रदातव्यमिति वा ये न जनन्ति तेषामपि बुद्धिलब्ध्यङ्को न्यून एव भवति । अतस्तेषां मते टरमैनपरीक्षणानि सामान्यबुद्धिं निसर्गजां परीक्षितुं नाऽलमिति तेषां तात्पर्यम्।
नहि विद्योपार्जनमात्रं बुद्धिप्रकर्षः । तदुक्तं विष्णुशर्मणा-
वरं बुद्धिर्न सा विद्यया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते मूर्खपण्डिताः ॥ इति ।
बुद्धिर्हि विद्याभ्याससञ्चयस्यापरनाम नास्ति । अनुभवोपात्तविषयाणां संव्यूहनं सङ्घटनं तथानया करणीयम्, यथा तेषामन्यनवनवपरिस्थिषु समुपस्थितासु कर्तुमावश्यकं भवेत्। स च बुद्धिप्रकर्षः कदाचन विद्याविशेषविरहितेष्वपि अकबर-नैपोलियन-क्लाइब- प्रभृतिषु साधूपलभ्यते, अन्ये च विद्यावैभवयुक्ता अपि विश्वविद्यालयीयबहूपाधिधारिणोऽपि व्यवहाराकुशलाः स्वजीवने शान्तिपूर्णसामञ्जस्यमलभमाना दृश्यन्ते। भाषणे लेखने च सुसङ्गतविचाराभिव्यञ्जनम्, विचारेषु परम्परमविरोधित्वञ्च बुद्धेर्विकासस्य चरमं लक्षणम्। सर्वेषु बुद्धिप्रयोगेषु तदवधारणमेवोपेयम्।
स्वभावस्य व्यक्तित्वाङ्गत्वम्
[सम्पादयतु]स्वभावोऽपि व्यक्तित्ववैशिष्ट्यमावहति स्वभावे हि खलु भावा:, सुखदुःखाद्यनु- भूति:, स्थायिभावा:, विचाराश्च विशेषेणाऽन्तर्भावमर्हन्ति । प्रायः स्वभावस्य वर्गीकरणं यवनदेशीयैर्दार्शनिकैः, अरबदेशीयैश्च लेखकैश्च भारतीयायुर्वेदाचार्याणां सदृशं वातपित्तकफ- प्रकृत्यनुसारं स्वीक्रियते । यवनानां मते रक्तमयस्तुरीयः पुरुषस्वभावेऽपि स्वीक्रियते । अस्माभिरिदं मतं प्राग्वर्णितम् । सर्वतोऽधिकां ख्यातिमिदं मतं लब्धवान् ।
नैतन्मतं रमणीयं प्रतिभाति। वातपित्तकफादिकं शारीरिकरासायनिकपरिवर्तनमात्रा- धीनम्। शांरीरिकपरिवर्तनस्वभावयोस्तादात्म्यं नैतावता सिध्यति। मनोवैज्ञानिकवरेण्या रोसस्टेगनर' किम्बलयङ्गमहोदयौ' व्यक्तित्वस्य अन्तर्वर्तिग्रन्थिस्रावायत्तत्वं नाङ्गीकुरुतः दुष्टत्वात्। अन्यच्च, वातपित्तकफासाम्यजन्या विकारा भवन्ति । तेषां साम्यावस्था ‘स्वास्थ्यम्' इति निगद्यते । सा च प्राणिनां प्रकृतिश्चरकमते । कथं शारीरिकरासायनिक- विकारैः स्वस्थपुरुषाणां संवेगविचारस्थायिभावायत्ता प्रकृतिः स्वभावो निर्मातुं शक्यत इति नास्माकं बुद्धिपथमारोहति । नूनं कफपित्तादिविकारातिशयेन स्वभावविक्रिया अपि कदाचन दृश्यन्ते। स्वभावे शिक्षाभ्यासस्य सामाजिकवातावरणस्य च भूयिष्ठः प्रभावो भवति । स चोपरिलिखितमतेन निराक्रियते।
स्वभावस्य त्रेधा वर्गीकरणं सुरभारतीसेवकानामुपलभ्यते। यथा सात्त्विकः स्वभाव:, राजसः स्वभाव:, तामसः स्वभावश्चेति । सात्त्विकराजसतामसप्रकृतीनां व्यक्तीनां बहवः स्वभावानुगतभेदा भवन्ति। केषाञ्चन वर्णनमत्र क्रियते। तथा हि-
सात्त्विकव्यक्तित्वलक्षणम्
[सम्पादयतु]आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥ [७]
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद् दानं सात्त्विकप्रियम् ॥ इति। [८]
राजसव्यक्तित्वलक्षणम्
[सम्पादयतु]कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ [९]
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् ॥ [१०]
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥ इति । [११]
तामसव्यक्तित्वलक्षणम्
[सम्पादयतु]यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ [१२]
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ [१३]
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम्' ॥ इति। [१४]
सात्त्विकव्यक्तित्वे सारल्यमार्जवम्, कर्त्तव्यनिष्ठा, ज्ञानम्, तप:, श्रद्धा, सत्यम्, निःस्पृहा, सर्वप्राणिनामुपकारकत्वं चेत्यन्तर्भाव्यते।
राजसव्यक्तित्वे हि खल्वात्मप्रदर्शनम्, दम्भः, सामाजिकराजनीतिकयशोलिप्सा, क्रियानुरागः, वित्तैषणाप्राचुर्यम्, उत्तेजकपदार्थानां विषयाणाञ्च सेवनम्, स्वार्थे सर्वसमारम्भोपक्रम इत्यादयो विशेषा अनुप्रविशन्ति ।
तामसव्यक्तित्वे हि दीर्घसूत्रत्वम्, आलस्यम्, वर्जितद्रव्यसेवनम्, शुद्धाशुद्ध- धर्माधर्मविवेक शून्यमाचरणम्, पैशुन्यम्, अशौचमित्यादिदुर्गुणानामन्तर्भाव इष्यते ।
स्वभावस्यायं सात्त्विकराजसतामसभेदेन वर्गीकरणं सर्वथा मनोविज्ञानशैल्या सह सङ्गच्छते। श्रीमद्भगवद्गीताकारेणान्य: स्वभावभेदः पर्युद्भावितः। तदनुसारं स्वभावः, प्रकृतिर्वा द्वेधा विभक्तुं शक्यते, यथा- दैवी प्रकृति:, आसुरी प्रकृतिश्चेति। दैवीप्रकृतिर्येषां वर्तते तेषां सर्वे स्तुत्या विहिता समारम्भाः, शुभगुणसम्पत्तयश्च भवन्ति । किन्तु येषामासुरी प्रकृतिर्भवति, तेषां विहितकर्माण्यशुभानि, सद्भिर्विगर्हिता गुणाश्च भवन्ति । तथा हि-
दैवीप्रकृतिगुणाः
[सम्पादयतु]अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दयाभूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥
तेजः क्षमाः धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ इति । [१५]
“अलोलुप्त्वम्” इतीन्द्रियाणां विषयसन्निधावविक्रिया । 'दम:' इति बाह्यकरणा- नामुपशयः। अवदमनादयं भिद्यते, यतो ह्यवदमनेऽसाधुः तिरस्कृतो विधि: प्रयुज्यते । परवशाद् विप्रतिकूलसामाजिकपरिस्थितिभयवशादवदमनमभिनिर्वर्तते । दमश्च स्वेच्छया शुभाचरणाङ्गत्वेनाऽत्मनियन्त्रणम्, अतश्चायं परिशोधाङ्गत्वं भजते । दमावदमनयोस्यं भेदोऽस्मिन् ग्रन्थे सर्वत्र प्रयुज्यते । 'शान्तिः' इति अन्तःकरणस्थ उपशमः । ‘तेजः' प्रागल्भ्यम्, न त्वग्नितापदीप्ति: । 'अचापलम्' इत्यसति प्रयोजने वाक्पाणिपादादीना- मव्यापारयितृत्वम्” इति शङ्कराचार्याः ।
आसुरीप्रकृतिगुणाः
[सम्पादयतु]दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ ! सम्पदमासुरीम् ॥ [१६]
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
अशौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ [१७]
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद् गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥ इति । [१८]
“असत्यम्” इति यथा वयम् अनृतप्रायास्तथेदं जगत् सर्वमसत्यम्। 'अपरस्पर- सम्भूतम्' इति कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योऽन्यसंयोगाद् जगत् सर्वं सम्भूतम्। ‘किमन्यत् कामहैतुकम्’ इति कामहेतुकम् एव कामहैतुकम्। किमन्यद् जगतः कारणम् ? न किञ्चिददृष्टं धर्माधर्मादिकारणान्तरं विद्यते, 'जगत: काम एव प्राणिनां कारणम्' इति लोकायतिकदृष्टिरियम्” इति भगवत्पादश्रीमच्छङ्कराचार्य्याः ।
पाश्चात्त्यदार्शनिकेषु नीट्शेमहोदयो' द्विविधं जीवनदर्शनं प्रतिपादितवान्। एकम् “ एपोलोनियन'३ इति संज्ञकम्, अपरञ्च “डायोनिसियन ४ इति संज्ञकं भवति । प्रथमो दर्शनाभिमन्ता शान्तः, विवेकशीलः, आत्मसंयमी, मितसेवी च भवति। ‘मितसेवी’ इति विशेषणपदे मिताहारी, मितभाषी, मितव्ययीत्यादिविशेषणान्यूह्यानि । अपरश्चोच्छृङ्खलो दम्भी विकत्थनो यशोलिप्सान्वितो भवति ।
युङ्गमहोदयाभिमतं व्यक्तित्ववर्गीकरणम्
[सम्पादयतु]स्विट्जरलैण्डदेशीय-ज्युरिखविश्वविद्यालस्य प्राध्यापकप्रवरो युङ्गमहोदय: ' ‘विश्लेषणात्मकमनोविज्ञान' नाम्नो मनोविज्ञानसम्प्रदायस्य संस्थापकः प्रतिपादितवान् यद्व्यक्तीनां द्विविधा प्रकृतिर्दृश्यते - अन्तर्मुखी प्रकृतिः, पराङ्मुखी प्रकृतिश्चेति । तेनेदं प्रकृतिद्वयं सर्वप्रथममसामान्यमानसिकविकारग्रस्तरोगिणां लक्षितम्। तदनन्तरं तेन स्वस्थ- पुरुषाणामपि प्रकृतिद्वयमुपकल्पितम् । अन्तर्मुखी प्रकृतिर्यस्या व्यक्तेर्भवति सा स्वकीयान्त:- करणवृत्तिचिन्तने निमग्नावतिष्ठते । तस्याः स्वकीयमानसिकव्यापारानुचिन्तनं प्रियतमो विषयः। पराङ्मुखी च यस्याः प्रकृतिः, सा व्यक्तिर्बाह्यजगतो व्यापारेषु बाह्यपदार्थेषु च प्रवर्तमाना दृश्यते। तस्यै बाह्यसामाजिकसम्बन्धाः, न तु आध्यात्मिकविचारचर्चा रोचन्ते। अन्तर्मुखप्रवृत्तिदार्शनिकः, कविः, चिन्तकः, तत्त्ववेत्ता वा भवति । पराङ्मुखप्रवृत्तिः क्रियाशीलो भवति, पदलोलुपो विकत्थनश्च स दृश्यते । नहि युङ्गमहोदयो विशेषेणोल्लिखितवान् यत् पुरुषाणामन्तर्मुखप्रकृतित्वेन पराङ्मुखप्रकृतित्त्वेन वा वर्गीकरणं भवितव्यमिति । तेनोक्तं यत् प्रत्येकपुरुषस्यैवान्तर्मुखी प्रकृतिः पराङ्मुखी प्रकृतिश्च । भवति चेदं यत् काचिदेका अपरामतिशेते । वस्तुत एक एव पुरुषो द्वयोः स्वभावयोः कदाचन दोलायते इव । कस्यचिदेका प्रकृति: कदाचन विशेषोन्मुखी जायते ।
सन्दर्भाः
[सम्पादयतु]- ↑ कुमारसम्भवम् ५।४३-४४
- ↑ वाल्मीकिरामायणम् आ० स०, श्लो० ९१
- ↑ माण्डूक्योपनिषद्, ७
- ↑ कठोपनिषद् ३ । १५
- ↑ सुश्रुतसंहिता, शारीरस्थानम्, अ० ४, पृ० ३०६ (निर्णय ० सं० )
- ↑ सुश्रुतसंहिता, शारीरकस्थानम्, अ० ४, पृ० ३०६ ( निर्णय ० सं० )
- ↑ गीता १७/८
- ↑ गीता १७/२०
- ↑ श्रीमद्भगवद्गीता १७।९।
- ↑ श्रीमद्भगवद्गीता १७।१२
- ↑ श्रीमद्भगवद्गीता १७।२१
- ↑ श्रीमद्भगवद्गीता १७।१०
- ↑ श्रीमद्भगवद्गीता १७।१३
- ↑ श्रीमद्भगवद्गीता १७।२२
- ↑ श्रीमद्भगवद्गीता १६ । १ – २
- ↑ श्रीमद्भगवद्गीता १६ । ४
- ↑ श्रीमद्भगवद्गीता १६ । ७-८
- ↑ श्रीमद्भगवद्गीता १६ । ९-१०