महात्मा गान्धी अन्तर्राष्ट्रीय हिन्दी विश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महात्मा गान्धी अन्तर्राष्ट्रीय हिन्दी विश्वविद्यालयः

महात्माागांधी-अन्तराष्ट्रीयहिन्दीविश्वविद्यालयः भारतवर्षस्य एकः केन्द्रियविश्वविद्यालयः। विश्वविद्यालयस्य स्थापना भारतसर्वकारस्य 1996 ख्रीष्टाब्दे संसदः अधिनियमेन जाता। एष अधिनियमः भारतसर्वकारस्य राजपत्रे 8 जनवरी 1997 ख्रीष्टाब्दे प्रकाशितः। विश्वविद्यालयः महाराष्ट्रस्य वर्धाप्रदेशे स्थितः।

गान्धीजी हिन्दीभाषायाः तथा भारतीयभाषायाः प्रवलपक्षधरः आसीत्। तस्मादेव विश्वविद्यालयस्य नाम तस्यनामानुसारी जातं यत् सर्वतो रूपेण स्वार्थकतायां पर्यभूषितम्। वर्धा भारतस्य केन्द्रे स्थितत्वात् अस्य विश्वविद्यालयस्य उपयुक्तस्थानरुपेण निर्वाचितम्।

विश्वविद्यालयाधिनयमेषु 4 धारायां उल्लिखितः एवं यत् विश्वविद्यालयस्य उद्देश्यः - दूरस्थशिक्षापद्धत्या हिन्दीभाषा जनप्रिया करणीया। अपि च 5 धारायां अन्तर्गतषु विश्वविद्यालयेषु एवं शक्तिः प्रदत्ता यत् दूरस्थशिक्षामाध्यमेन निर्धारितेभ्यः जनेभ्यः एव सुविधा उपलब्धा भवेत्।

अस्यामं पृष्ठभूमौ 15 जुन 2007 ख्रीष्टाब्दे भारतवर्षस्य राष्ट्रपतिना महामहिम्ना डा.ए.पी.जे अब्दुल कलाम महोदयेन महात्मागांधी-अन्तराष्ट्रीयहिन्दीविश्वविद्यालयस्य दूरस्थशिक्षाकार्यक्रमुद्घाटितम्।

लीलाप्रयोगशाला सर्वा औद्यगिकीशिक्षासम्वन्धितशिक्षानुसंधानं अपि च विश्वविद्यालयस्य आइटी विस्तारसम्बन्धितगतिविधेः समर्थनम् करोति। अत्र छात्राणां तथा शोधकर्तृणां कृते सङ्गणकम्प्रौद्यौगिकसुविधा च समुपलभ्यते। लीलीप्रयोगशालाविश्वविद्यालयः विविधविभागस्तापनावित्तपुस्तकालयविद्यालयनां तथा केन्द्रनां तथा अस्य विश्वविद्यालयस्य अन्यविभागस्य कार्यसञ्चालनोपकरणस्य विकासाय कार्यं करोति। अपि च विश्वविद्यालयस्य जालपुटस्य रक्षणावेक्षणमपि च अद्यतनकार्यसर्वाणि कार्याणि लीलाकार्यशालायाः दायित्वं भवति।

विश्वविद्यालयस्य सर्वाः सूचनाः प्रौद्यिगिकसम्बन्धितगतिविधेः कृते लीलापरिकल्पना केन्द्रियसुविधारूपे प्राप्यते। पाठ्यक्रमे प्रयुक्तितोपादानसूचनापूर्णकरणं लीलाविभागस्य कार्येषु एकं भवति। अपि च संगणकस्य प्राथमिकधारणाकृते प्रमाणपत्रपाठ्यक्रमः अपि च अनुप्रयोगाचार्यपाठ्यक्रमः चाल्येते। अस्मिन् पाठ्यक्रमे आचार्यस्य सर्वे विषयाः अनिवार्यरुपेण पाठ्यते। लीलया विशिष्टाचार्यविद्यावारिधिशोधछात्राणां शोधपाठ्यक्रम इव अनुरूपपाठ्यक्रमं निर्मातुं च संचालयितुं कार्यं प्रचलत् अस्ति। अस्य पाठ्यक्रमस्य नाम सङ्गणकप्रयोगशालायाः अनुप्रयोगः।

सम्बद्धाः लेखाः[सम्पादयतु]