महात्मा पुनितः
महात्मा पुनितः (गुजराती: મહાત્મા પુનિત , आङ्ग्ल: મહાત્મા ) सर्वप्रथमं जनसेवा तदनन्तरं हरिस्मरणं इति मन्यते स्म । अयं पुनित महाराज इति अपर नाम्ना अपि विश्वस्मिन् विख्यातः अस्ति । सः कृष्णस्य भक्तः आसीत् । सः रणछोडराय इत्यस्य परमभक्तः आसीत् ।
जन्म, परिवारश्च
[सम्पादयतु]१९०८ तमस्य वर्षस्य मई-मासस्य १९ तमे दिनाङ्के सौराष्ट्र-प्रान्तस्य धन्धुका-ग्रामे तस्य जन्म अभवत् । तस्य मूल नाम बालकृष्ण आसीत् किन्तु सर्वे तं सीयावर इति नाम्ना एव जानन्ति । तस्य पितुः नाम भाईशङ्कर भाई भट्ट आसीत् । मातुः नाम ललिताबेन आसीत् ।
बाल्यं, शिक्षणञ्च
[सम्पादयतु]सः धन्धुका-ग्रामस्य शालायां पठति स्म । तत्र शालायाम् एकस्य शिक्षकस्य मृत्युः अभवत् । अतः शोकसभायाः आयोजनम् आसीत् । तत्र अनेन काव्यनिर्माणं कृतम् । तत् श्रावयित्वा पुनितमहाराज इत्यनेन नयनानि अश्रुपूर्णानि कृतानि । तत्रत्यः आचार्यः सियावर इत्यनेन प्रसन्नः सन् प्रतिदिनम् एकं काव्यं निर्मातुम् आदिशत् । तथा प्रतिकाव्ये पुरस्कारः दीयते इति उद्घोषितवान् । किन्तु काव्य निर्माणेन उदरपूर्ति न भवति । यस्य जीवने भक्तेः, दारिद्र्यस्य च सन्तुलनं स्यात् स एव साधुः भवितुं शक्नुयात् । अस्य जीवने अपि तथैव अभवत् ।
पितुः अवसानं, मातुः परिश्रमश्च
[सम्पादयतु]पुनितस्य पिता भाईशङ्कर भाई भट्ट श्रीलङ्का-देशम् अगच्छत् । तत्र तस्य मृत्युः अभवत् । यदि गृहस्य ज्येष्ठस्य मृत्युः भवेत्, तर्हि गृहस्य का दशा भवति इति तु अनुभवस्य विषयः । पितुः मृत्योः अनन्तरं माता ललिताबेन आरात्रि अन्येषां सस्य-पेषणं कृत्वा गृहं चालयति स्म ।
पुनितस्य हठः, प्रार्थना च
[सम्पादयतु]एकदा शिरसः केशाधिक्ये सति पुनितः तस्य कर्तनार्थं हठम् अकरोत् । माता गृहस्य घटं विक्रीय तस्य केशस्य कर्तनम् अकारयत् । यदा गृहे अन्नस्य समाप्तिः अभवत्,तदा अहं बुभुक्षिताय भोजनं दातुम् अशक्नोत् तादृक् शक्तिः ददातु इति पुनितः भगवन्तं प्रार्थयत् । भगवता तत् श्रुतम् इति साम्प्रतं प्रतिभाति ।
अहमदाबाद आगमनम्
[सम्पादयतु]बालकृष्णः अहमदावाद-नगरे आगत्य ब्राह्मणस्य पुत्रः अस्मि इत्येतत् सर्वम् अविचार्य रेवडी-बजार इति स्थले भोजनशाला(Hotel)यां कार्यं स्वीकृतवान् । तत्रत्या वृत्तिः न्यूना आसीत् । अतः सः वैद्यस्य गृहेऽपि कार्यं करोति स्म । वैद्यः तस्मै द्वे रोटिके, शयनार्थम् अजिरं च ददाति स्म । यदा बालकृष्णः वृत्तिम् अयाचत, तदा वैद्यः तस्य अपमानम् अकरोत् । तस्मिन्नैव दिवसे सः वृत्तिम् अत्यजत् । तदनन्तरं तार सेवा इति स्थलेऽपि वृत्तिम् अलभत । किन्तु दौर्भाग्येण तदपि अत्यजत् । तदानीं जी.वी माळवङ्कर इत्यस्य सम्बन्धी अहमदाबाद-नगरे गर्जना-नामकं वर्तमानपत्रं चालयति स्म । तत्र बालकृष्णः क्लार्क् इत्यस्य वृत्तिं प्रापत् । बालकृष्णः क्लार्क् इति पदे सत्यपि सर्वाणि कार्याणि करोति स्म । कालान्तरे यदा "असहकारि आन्दोलनम्", "दाण्डि कूच्" अभवत्, तदा बालकृष्णः लोकशक्तिसामयिकस्य वृत्तान्तलेखकत्वेन कार्यं प्रापत् । किन्तु आङ्लजनैः तद् सामयिकमेव पिहितम् । पुनः बालकृष्णः वृत्तिरहितः अभवत् ।
शिक्षकत्वेन, लेखकत्वेन च जीवनम्
[सम्पादयतु]पीरमशाह रोड् इति स्थलस्य न्यू हाई-स्कूल् नामिकायां शालायां शिक्षकः अभवत् । इतस्ततः भ्रमणं कृत्वा तस्य साहित्यसर्जनस्य शक्तिः नष्टा, किन्तु शिक्षकः अभवत् अतः सा शक्तिः पुनः पल्लविता अभवत् । अतः "अमृत" प्रकाशनात् मातुः नाम्ना "ललित", पत्न्याः नाम्ना "वीणा" इति मासिकं च आरभत । उभयोः मासिकयोः प्रकाशनकाले यदा "सळगतो संसार" इति नवलकथाम् अलिखत्, तदा प्रकाशनस्य कर्मकरः, तन्त्री च सः स्वयमेव आसीत् । सः येन केनाऽपि प्रकारेण प्रकाशनं चालयति स्म ।
भक्तिनाशः, वृत्तिपरिवर्तनं च
[सम्पादयतु]बालकृष्णः बाल्यकालात् ईश्वरं भजति स्म किन्तु ईश्वरेण किमपि चमत्कारः न कृतः । अनेन बालकृष्णस्य ईश्वरं प्रति श्रद्धा, भक्ति च नष्टा अभवत् । सः समाजं प्रति क्रान्तिकारी अभवत् । तेन धूम्रशलाकायाः पानम् आरब्धम् । उभयोः मासिकयोः अपि अन्तः अभवत् । बालकृष्णः खिन्नः अभवत् । सः वैयक्तिक्(private)संस्था(company)यां क्रमेण क्लार्क इत्यस्य , टङ्कणकस्य , विक्रेता(Salesman) इत्यस्य च कार्यम् अकरोत् ।
जीवनपरिवर्तनम्
[सम्पादयतु]सततम् अधोगमनं कुर्वन्तं जीवनं सहसा परिवर्तितं भविष्यति इति केनाऽपि विचारितं नासीत् । एकदा सः चिकित्सकं प्रति अगच्छत् । चिकित्सकः परीक्षणं कृत्वा टी.बी अस्ति । षण्मासान्ते तव मृत्युः भविष्यति इति अवदत् । बालकृष्णः आश्चर्यचकितः अभवत् । रोगः नष्टः भवेत् इति विचिन्त्य तेन धूम्रशलाका अपि त्यक्ता । भळानाथ इति वाचनालयमपि गच्छति स्म । वाचनालयस्य समीपे एकं मन्दिरम् आसीत्, तत्र ईश्वरलाल शास्त्रिणः कथा प्रचलति स्म । बालकृष्णः तस्य कथां श्रुत्वा तं धिक्करोति स्म । कः भगवान् ? कीदृशः सः ? इत्येतत् आत्मगतं वदति स्म । किन्तु पुरा कृतायाः भक्त्याः प्रभावात् एकं प्रयासं कुर्यां चेत् किम् ? इत्यपि आत्मनि अपृच्छत् । सः मालां गृहीत्वा भगवतः नामस्मरणम् आरभत । षण्-मासान्ते रोगः नष्टः अभवत् । चिकित्सकः अपि कस्य औषधं स्वीकृतम् इति अपृच्छत् । रामनाम्नः औषधं स्वीकुतम् इति बालकृष्णः अवदत् ।
संसारस्य त्यागः
[सम्पादयतु]रोगस्य नाशः अभवत् । अतः राम एव मम वैद्यः इति बालकृष्णः अमन्यत । ततः परम् अहं तन्वा, मनसा पुनितः अभवम् इति उक्त्वा संन्यासम् अगृह्णत् । संन्यासान्ते सः "सन्त पुनित" इति नाम्ना प्रसिद्धः अभवत् । तेन स्वस्य जीवनकाले ३५० भजनानि रचितानि । तानि च भजनानि साम्प्रतं जनेषु प्रसिद्धानि अभवत् । तदनन्तरं नवधाभक्तिः इत्यस्य ११ भागाः, पुनित भागवतं च रचितम् । तेन बाल्यकाले दुःखानि सोढ्वा यत् ईश्वराराधनं कृतं, तत् सफलं जातम् । तेन दीन जनेभ्यो वस्त्रदानम्, अन्नदानं च कृतम् । सः दीनजनानां विभूतिरूपः अभवत् ।
मृत्युः
[सम्पादयतु]१९६२ तमस्य वर्षस्य जुलाई-मासस्य २७ तमे दिनाङ्के हृदयरोगस्य अपघातेन तस्य मृत्युः अभवत् । सहस्राधिकानां जनानाम् अक्षीणि क्लीन्दानि अभूवन् ।