महाराजा भगवत सिंह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


महाराजा भगवतसिंह (गुजराती: મહારાજા ભગવતસિંહ, आङ्ग्ल: maharaja Bhagvat Singh )गुर्जरसाहित्यस्य सुप्रसिद्धज्ञानकोशस्य सम्पादनकार्यं चालयति स्म । तदानीं १९३६-३७ तमे वर्षे ब.क.ठाकोर इत्ययं गोण्डल-ग्रामं गतः । अष्टवर्षेभ्यः सम्पादनकार्यरतायां कोशसेवायां कार्यं कीदृशं चलति इति द्रष्टुं सः तत्र गतः । तेन कोशात् ‘कविडुं’ इति शब्दम् अन्वेष्टुम् उक्तम् । तथा तच्छब्दः कोशात् निर्गतः । ब.क.ठाकोर इत्ययम् आश्चर्ययुतः अभवत् यत् सप्ताहपूर्वं यं शब्दं सः स्वयं मुम्बई इत्यस्य सभायां भाषणे प्रथमवारं प्रयुक्तवान्, तद् एतादृशे न्यूने काले कोशे कथं दृश्यते । ब.क.ठाकोर इत्यस्य भाषणं समाचारपत्रे प्रकटम् अभूत् यस्य पठनानन्तरं शब्दोऽयं गोण्डल इत्यस्य नरेशेण स्वयं कोश-कार्यालयं प्रेषितः । अहो एकस्मै शब्दाय अपि कीदृशी जागृतता ! अयमेव ज्ञानकोशः भगवद्गोमण्डल इति नाम्ना विख्यातः । गोण्डल इत्यस्य नरेशः न कश्चन अपरः अपि तु भगवद्गोमण्डल इत्यस्य प्रणेता महाराजा भगवतसिंहः । तस्मिन् काले मनस्विरीत्या वर्तमानेषु राजसु अयम् अपवादः आसीत् । केवलं मुम्बई इत्यस्य विद्यालयतः एव न अपि तु एडिन्बरो आक्स्फर्ड् इत्येतयोः नामाङ्कितयोः विदेशिविश्वविद्यालययोः पदवी अपि प्रजावत्सलराज्ञा प्राप्ता आसीत् । इदानीमपि गुर्जरप्रान्तस्य आदर्शराज्ञां गणनाप्रसङ्गे महाराजा भगवतसिंहः अग्रक्रमे स्थाप्यते ।

जन्म[सम्पादयतु]

विक्रमसंवत् १९२१ तमे वर्षे कार्तिकशुक्लपञ्चम्याम् अर्थात् १८६५ तमस्य वर्षस्य अक्तूबर मासस्य २४ तमे दिनाङ्के धोराजी नामनि ग्रामे तस्य जन्म अभवत् । अयं गोण्डल इत्यस्य ठाकुर सङ्ग्रामसिंहः तथा महिषी मोङ्घिबा इत्यनयोः पुत्ररत्नः । स्वामिनारायणधर्मपरायणौ अत्यन्तश्रद्धावन्तौ पितरौ पुत्रस्य नामकरणार्थं स्वामिनं गुणातीतानन्दं प्रार्थितवन्तौ । प्रार्थनया प्रसन्नः स्वामी गुणातीतानन्दः भगवतसिंहः इति नामकरणम् अकरोत् । यदानीं भगवतसिंहः चतुर्थे वर्षे प्रविष्टः, तदा पितुः सङ्ग्रामसिंहस्य मृत्युः अभवत् । चतुर्वषीयो भगवतसिंहः गुर्जरसाहित्यस्य किमपि पुस्तकं धाराप्रवाहेण पठितुं शक्नोति स्म । नववर्षस्य राज्ञा अभ्यासाय राजकोट-नगरस्य राजकुमार-नामिकायां शालायां प्रवेशः प्राप्तः । मात्रा तस्य विकासे विशिष्टं ध्यानं प्रदत्तम् । अत एव जागरूकसन्नारी इत्यपि तस्याः कीर्तिः आसीत् । भगवतसिंहस्य बालवयकारणात् गोण्डलराज्यं राजकोट-नगरस्य शासनान्तर्गतम् अभवत् ।

भगवतसिंहस्य विवाहः[सम्पादयतु]

१८८२ तमस्य वर्षस्य अप्रैल मासस्य चतुर्थे दिनाङ्के भगवतसिंहस्य विवाहः चतुर्भिः राजकुमारिभिः सह जातः । ताः धरमपुर-ग्रामस्य नन्दकुवरबा, वाकानेर-ग्रामस्य पैतृव्या नानाबा, चूडा-ग्रामस्य नानाबा तथा झीणापुरवासिनः कल्याणसिंहस्य पुत्री बाइसाहेबबा इत्येताः आसन् । नन्दकुवरबा इत्यस्याः कुक्षिणः भोजराजः, भूपतसिंहः, किरीटसिंहः, नटवरसिंहः, बालकुंवरबा, लीलाबा, ताराबा च अभूवन् ।

भगवतसिंहस्य यूरोपखण्डस्य यात्रा[सम्पादयतु]

राजकोट-नगरस्य राजकुमार-शालायां शिक्षणं समाप्य १८८३ तमे वर्षे भगवतसिंहः यूरोपखण्डस्य यात्रायां गतः । इङ्ग्लेण्ड्-देशे स्कोट्लेण्ड्-देशे चतुर्मासं स्थित्वा यूरोपखण्डस्य यात्रां समापितवान् । १८८५ तमे वर्षे मुद्रितायां पुस्तिकायां तेन पूर्वपश्चिमदेशानां तुलना कृता । यूरोपखण्डस्य यात्रायाम् अष्टादशवर्षस्य वयसि तेन लिखितेन लेखेन ज्ञायते यत् तस्य सूक्ष्मनिरीक्षणशक्तिः, सुधारकशक्तिश्च अकल्पनीया आसीदिति ।

महाराजभगवतसिंहस्य शासनम्[सम्पादयतु]

१८८४ तमे वर्षे भगवतसिंहः राजकोटमण्डलस्य पदभारं स्व्यकरोत् । संस्काराध्ययनाभ्यां राज्ञि बाल्यकालादेव महत्वाकाङ्क्षादिगुणानां बीजनिरूपणम् अभवत् । यूरोपखण्डस्य यात्रायां वैदेशिकानां प्रगतिं दृष्ट्वा अधिकज्ञानस्य इच्छुकः राजा १८८६ तमे वर्षे कार्यभारं मन्त्रिणे दत्त्वा अभ्यासाय इङ्ग्लेण्ड-देशस्य एडिन्बरो नामकं विश्वविद्यालयम् अगच्छत् । तत्र चिकित्साविषयस्य अभ्यासं कृत्वा एम.डी. पदवीं प्रापत् । भारतीयरसायनशास्त्रे तेन संशोधितः निबन्धः विद्वत्सु श्लाघ्यो अभवत् । ततः प्रत्यागतः भगवतसिंहः प्रथमे वर्षे धोराजी नाम्नि ग्रामे चिकित्सालयं निर्मितवान् । ततः परं शालानिर्माणेन, गोण्डल-ग्रामात् पोरबन्दर-नगरं यावत् रेलयानसुविधादिकार्यैः च गोण्डल-ग्रामाय प्रथमवर्गस्य मण्डलेषु स्थानम् अदापयत् । अतः शासकेन भगवतसिंहेन विक्टोरिया महिष्याः सुवर्णमहोत्सवे मानवन्तं पदकं प्राप्तम् ।

महाराजभगवतसिंहस्य समानताभावः[सम्पादयतु]

(१) भगवतसिंहस्य शासने सर्वेऽपि प्रायः समानाः आसन् । एकवारं भारतस्य उपराष्ट्रपतिः गोण्डल-ग्रामं प्रापत् । यस्य कृते अन्यानि मण्डलानि लक्षाधिकं व्ययम् अकुर्वन् तस्य कृते राजा प्रान्तीयं भोजनं निर्मापितवान् । आमन्त्रणेन विना तस्य आगमनम् अभवत् इति पत्रव्यवहारेण सर्वकारं सूचयित्वा व्ययं सर्वकारात् नीतवान् येन सर्वकारः अपि जानीयात् यद् गमनात् प्राक् राजा सूचनीयः इति ।

(२) एकस्मिन् ग्रामे जनाः जातिभेदं कुर्वन्तः आसन् । कूपात् जलं नेतुं शूद्रेभ्यः अनुमतिः न भवति स्म । अतः राज्ञा तेभ्यः अन्यः कूपः खनितः, व्ययश्च अन्येभ्यः जातिभेदकर्तृकेभ्यः नीतः येन सर्वेऽपि प्रबुद्धाः सन्तः जातिभेदं त्यक्तवन्तः ।

(३) एकदा स्वपुत्रलग्नसमये २० सहस्रं व्ययः निर्धारितः आसीत् । वस्त्र्याण्यपि सज्जीकृतानि आसन् । किन्तु पुत्रेण स्वस्य कृते वस्त्राणि क्रेतुं मन्त्री सूचितः । पितरं न सूचितवान् अतः राज्ञा वस्त्राणां व्ययः लग्ननिर्धारितव्ययात् न्यूनीकृतः । एतेन उदाहरणेन राज्ञः समानताभावः दृश्यते ।

राज्ञः दानवीरता, अवगमनशक्तिश्च[सम्पादयतु]

एकदा कविवर्यः रवीन्द्रनाथ ठाकुर शान्तिनिकेतन-संस्थायै धनसञ्चयार्थं गोण्डल-ग्रामं प्रापत् । किन्तु गोण्डल-ग्रामे केनापि किमपि न प्रदत्तम् इति विचिन्त्य ठाकुर आश्चर्ययुतः अभवत् । यतः अधिकदानस्य अपेक्षा आसीत् ततः किमपि न प्राप्तमिति विचिन्त्य खिन्नः सन् राजा अपि न याच्यः इति विचार्य राज्यात् निर्गतः । समयान्तरे राजा शान्तिनिकेतनाय बहुधनम् अददात् । तेन ठाकुर राजानम् अपृच्छत् – “यदा अहं गोण्डल-ग्रामम् आगतः आसं, तदानीं किमर्थं धनं न प्रदत्तम् ?” भगवतसिंहेन उक्तं – “त्वं याचसे अहं दास्यामि इति तव अपमानम्” । इदं श्रुत्वा ठाकुर हर्षं गतः । एकवारं महात्मा गोण्डल-ग्रामं प्राप्तः । मण्डलस्य नियमानुसारं कश्चन अपरिचितः जनः दिनत्रयमेव अतिथिः भवति स्म । महात्मा तत्र चतुर्थे दिवसेऽपि स्थितः । अतः राज्ञा चतुर्थदिनस्य व्ययः तेन एव करणीयः इति सः सूचितः । समयान्तरे दक्षिण-आफ्रिका-देशे हिन्द इति युद्धे गुप्तदानकर्ता अयमेव भगवतसिंहः इति श्रुत्वा महात्मना राज्ञः प्रशंसा कृता । तस्य निर्णयाः सदैव योग्याः भवन्ति इत्यपि सूचितम् ।

भगवतसिंहस्य सरलजीवनपद्धतिः, मानवता च[सम्पादयतु]

भगवतसिंहः अतीव सारल्येन जीवति स्म । बहुवारं विदेशं गत्वापि तस्य वस्त्रपरिधानं, जीवनशैली तु भारतीया एव आसीत् । गोण्डल-ग्रामस्य राजा सन् अपि स्वयं भौतिकाडम्बरैः दूरः आसीत् । सः कार्येण विना निकटस्थं स्थलमपि न गच्छति स्म । सः ब्रिटिश-जनैः निर्मिते पुरातनप्रासादे एव आजीवनं निवासं कृतवान् । यदि कारागारे कोऽपि कारावासी सदैव सारल्येन वर्तते स्म तर्हि राजा तं दण्डाद् प्रागपि मुञ्चति स्म ।

मृत्युः[सम्पादयतु]

केनापि रोगेण अपीडितः राजा १९४५ तमस्य वर्षस्य मार्च-मासस्य नवमे (९) दिनाङ्के होलिकायाः पवित्रदिने यदा दिवं गतः, तदा एकस्य प्रजावत्सलस्य सूर्यस्य अस्तः अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=महाराजा_भगवत_सिंह&oldid=370591" इत्यस्माद् पुनः प्राप्तिः