मातृगया (सिद्धपुरम्)
Siddhpur | |
— city — | |
निर्देशाङ्काः | |
देशः | भारतम् |
राज्यम् | Gujarat |
मण्डलम् | Patan |
जनसङ्ख्या | ५३,५८१ (2001[update]) |
समयवलयः | IST (UTC+05:30) |
कपिलमहर्षेः जन्मस्थानमिति इदं सिद्धपुरमिति ख्यातम् अस्ति । स्त्रीस्थलमिति अभिदाङ्कितः अयं प्रदेशः मातृगया इत्यपि ख्यातः, सरस्वतीनद्याः तीरे अस्ति । महाभारतस्य वनपर्वणि एतस्य वर्णनमस्ति । पौराणिकतया अपि मुनेः कर्दमस्य तपोभूमिः । कर्दम-ऋषिः विष्णुम् उद्दिश्य तपः आचरितवान् । कृपालुः सः अश्रूणि स्रावितवानिति । तानि अश्रूणि एव सरोवररूपेण परिणमितानि । नारायणस्य नेत्राभ्याम् आगतम् आनन्दबाष्पं तत् । अन्ये केचन वदन्ति – कस्यचित् ब्राह्मणस्य अलका पुत्री कर्दममहर्षेः पत्न्याः देवहूत्याः सेवां कुर्वती सती ज्ञानप्राप्तिं कृत्वा जलरुपिणी अभूदिति कथा श्रूयते । तत् एव अलकासरोवरं अथवा बिन्दुसरोवरम् । साङ्ख्यशास्त्रस्य प्रवर्तकः कपिलमहर्षिः, तथा कर्दमर्षेः पत्नी देवहूती अत्र मोक्षं प्राप्तवन्तौ । कपिलमहर्षिः अत्रत्याः सरस्वतीनद्याः तीरे पुत्राय साङ्ख्यशास्त्रं बोधितवान् । देवहूत्याः मोक्षप्राप्तेः अनन्तरम् अत्रत्यं बिन्दुसरोवरं मातृश्राद्धार्थं प्रसिद्धम् अभवत् । सिद्धपुरस्थं बिन्दुसरोवरं तादृशम् एकैकं स्थानम् अस्ति भारते यत्र मातृश्राद्धं क्रियते । अतः सहस्रशः जनाः मातुः अपरकर्माणि श्राद्धकर्माणि च निर्वतयितुं कार्त्तिकमासे अत्र आगच्छन्ति। ऐतिह्यानुसारं परशुरामः अत्र स्वस्य पापनिवारणार्थं पूजां कृत्वा मातृश्राद्धं निर्वर्तितवान् । ऋग्वेदे सरस्वत्याः तीरे विद्यमानं विष्णुस्थानम्(श्रीस्थलम्) इति अस्य उल्लेखः अस्ति । अतः अत्र ब्राह्मणैः अत्रत्य-अश्वत्थवृक्षस्य अधः मोक्षसम्बद्धानि कर्मकाण्डानि क्रियन्ते । मध्यकालीनानि सुन्दराणि चित्ताकर्षकानि बोह्रा वणिजां भवनानि अत्र सन्ति । एतानि गृहाणि अतिसूक्ष्मतक्षणार्थं आन्तरिकसज्जतार्थं च प्रसिद्धानि सन्ति