मेजर ध्यानचन्द

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
हॉकी-क्रीडायाः मुख्यकेन्द्रम्

ध्यानचन्द (हिन्दी: ध्यानचन्द, आङ्ग्ल: dyanchand ) इत्यस्य मुख्यं नाम ध्यानसिंह इति आसीत् सः युवभिः सह क्रीडाङ्गणे क्रीडन् आसीत् । तस्य गतिः अश्व इव आसीत् । तत् सर्वं क्रीडाङ्गणात् बहिः स्थित्वा 'पङ्कज गुप्ता' इति नामकः अनुभवी प्रशिक्षकः (कोच्) पश्यति स्म । सः तं युवानम् आहूय "त्वम् एकदा क्रीडाङ्गणस्य राजा भविष्यसि" इति अवदत् । तदनन्तरं ध्यानसिंहः बहुपरिश्रमम् अकरोत् ।[१] यदा तौ पुनः मिलितवन्तौ, तदा पङ्कज गुप्ता त्वं गृहे सिंहः भव, किन्तु कीडाङ्गणे चन्द्र भव इति प्रार्थयत । सः न कश्चन अपरः अपि तु विश्वस्य सुप्रसिद्धः हॉकी-क्रीडकः ध्यानचन्दः आसीत् ।[२]

अन्तर्विषयाः

जन्म, परिवारश्च[सम्पादयतु]

ध्यानचन्द इत्यस्य जन्म १९०५ तमस्य वर्षस्य अगस्त-मासस्य २९ तमे दिनाङ्के उत्तरप्रदेशराज्यस्य इलाहबाद-नगरे अभवत् । तस्य पितुः नाम सोमेश्वरदत्त सिंहः इति आसीत् । तस्य मूलसिंहः, ध्यानसिंहः , रूपसिंहः इति त्रयः पुत्राः आसन् । तेषु ध्यानसिंहः पितुः प्रेरणया हॉकी-क्रीडां प्रति आकर्षितः अभवत् इति [३]। तस्य पिता सैनिकः आसीत् ।

बाल्यं, शिक्षणं च[सम्पादयतु]

"ध्यानचन्द" इत्यस्य बाल्यं लालित्यपूर्णम् आसीत् । सः इलाहाबाद-नगरे पितृभ्यां सह वसति स्म । प्राथमिकं, माध्यमिकं च शिक्षणं तेन इलाहबाद-नगरे प्राप्तम् । ततः परं सः ज़ासि-नगरे गतः । तत्र तस्य आभ्यसस्तु चलति स्म किन्तु पितुः हॉकी-क्रीडायाः प्रीतीं दृष्ट्वा सः हॉकी-क्रीडायै अधिकं ध्यानं ददाति स्म ।[४]

सैनिकः ध्यानचन्दः[सम्पादयतु]

१९२२ तमे वर्षे ध्यानचन्दः भारतीयायां सेनायां सम्मिलितः अभवत् । सः तन्वा, मनसा च सेनायाः कार्यम् अकरोत् ।[५]

सैनिकः क्रीडकः अभवत्[सम्पादयतु]

जेहलम इत्यत्र पञ्जाब भारतीय यूथ पक्षात् सादी-क्रीडा(tournament)याः अन्तिमा स्पर्धा आसीत् । सर्वेऽपि दृष्टारः समुत्सुकाः आसन् । सर्वे ध्यानचन्दम् एव पश्यन्ति स्म । सः ध्यानचन्दस्य परीक्षायाः कालः आसीत् । विजयप्राप्तौ अन्तिमेषु चतुर्षु निमेषेषु स्वस्य यूथेन लक्ष्यद्वयं (goal) कर्तव्यम् आसीत् । ततः परं तेषां स्वामी कमान्डर् उच्चैः अग्रे गच्छन्तु ध्यान ! त्वं किमपि कुरु इति अवदत् । अतः तस्य रवः अपि झर्जरितः अभवत् । तत् श्रुत्वा ध्यानचन्दः ससङ्घर्षं क्रीडारतः अभवत् । तेन प्रथमे निमेषे १ लक्ष्यम् (goal) कृतः । पुनः क्रीडारतः सन् ३ निमेषे २ लक्ष्यम् (goal), चतुर्थे निमिषे ३ लक्ष्यम् (goal) कृतः । इत्थं तेन सादी-क्रीडा (tournament ) इत्यस्मिन् विजयः प्राप्तः ।[६]

प्रथमः अवसरः[सम्पादयतु]

१९२६ तमे वर्षे ध्यानचन्द हॉकी-क्रीडायाः माध्यमेन देशाय किमपि कर्तुम् अवसरं प्रापत् । प्रथमवारं 'भारतीय सैन्य-यूथ' इति दलं (team) हॉकी-क्रीडायै न्युज़ीलैण्ड् गच्छद् आसीत् । तस्मिन् ध्यानचन्द इत्यस्यापि गणना अभवत् । देशस्य अयं सैनिकः हॉकी इति आयुधेन कीडाङ्गणं प्राप्स्यति इति निश्चितम् अभवत् ।[७]

स्वामी, बाला तिवारी इत्येतयोः उपदेशः[सम्पादयतु]

स्वामी यात्रायाः गाम्भीर्यं बोधयितुं ध्यानचन्दं स्वगृहे आहूतवान् । तत्र सः त्वयि मे पूर्णः विश्वासः अस्ति इति ध्यानचन्दाय अवदत् । किन्तु न्युज़ीलैण्ड-देशस्य प्रवासे अस्माकं विजयः भवेदिति अहम् ऐच्छम् । तत् श्रुत्वा ध्यानचन्दः सस्मितं गुरो ! तव मयि श्रद्धा अस्ति, मम हॉकी इत्यस्मिन् विश्वासः अस्ति । वयम् अवश्यमेव विजयं प्राप्स्यामः । तदनन्तरं स्वामी तान् अभ्यासं कर्तुम् असूचयत् । तदनन्तरं क्रीडाङ्गणे कन्दुकः अन्येभ्यः दातव्यः, स्वयमेव न रक्षणीयः इति गुरु बाले तिवारी इत्ययं ध्यानचन्दम् अवदत् ।[८]

विवाहः[सम्पादयतु]

प्रगतिपथे ध्यानचन्दः अग्रेसरः आसीत् । गृहक्रीडाङ्गणयोः सः प्रतिदिनं विकसति स्म । १९३६ तमे वर्षे ओलम्पिक् इत्यस्य विज्ञापनम् अभवत् । तस्मिन्नैव वर्षे परिवारजनानाम् आग्रहवशात् जानकीदेवी इति नामिकया कन्यया सह तस्य विवाहः अभवत् । विश्वस्मिन् विझार्ड् ओफ् हॉकी इति नाम्ना विख्यातः सः सांसारिकजीवने सन्नपि क्रीडां प्रति जागरूकः आसीत् ।[९] सः निरन्तरं क्रीडाङ्गणात् गृहं, गृहात् क्रीडाङ्गणं च प्रति धावति स्म । सः उभयत्र स्वस्य कर्तव्यं निर्वहति स्म । जानकीदेवी अपि सरला महिला आसीत् । सा सहधर्मचारिणीत्वेन सदैव तस्य साहाय्यं विदधाति स्म । सांसारिके जीवनेऽपि सः सप्तपुत्राणां पिता अभवत् ।

ध्यानचन्दस्य ओलम्पिक् इत्यस्मिन् क्रीडा[सम्पादयतु]

१९३२ तमे वर्षे भारतेन ३७ स्पर्धाः क्रीडीताः । तेषु ३३८ लक्ष्यानि साधितानि । तेषु पुनः १३३ लक्ष्यानि (goal) ध्यानचन्दस्य आसीत् । ध्यानचन्दस्य कौशलं दृष्ट्वा एकस्य बृहद् ग्रन्थस्यापि निर्माणं भवितुं शक्यम् । तस्य क्रीडाङ्गणस्य कौशलम् अद्भूतम् आसीत् । १९३६ तमे वर्षे भारतेन ओलम्पिक क्रीडामहोत्सवे भागः गृहीतः ।[१०] तस्मिन् ध्यानचन्दस्य प्रदर्शनं दृष्ट्वा एकेन जर्मन-सन्देशपत्रेण साम्प्रतम् ओलम्पिक-क्रीडामहोत्सवे मायाकारस्य कौतुकम् अपि दृश्यते इति लिखितम् । तदनन्तरम् आगच्छन्तु आगच्छन्तु कीडाङ्गणे भारतीयमायाकारं ध्यानचन्दं पश्यन्तु तस्य मायां पश्यन्तु इति लिखित्वा चित्राणि उल्लिखितानि भवन्ति स्म ।

ध्याचन्दस्य हॉकी[सम्पादयतु]

ध्याचन्दस्य हॉकी क्रीडाप्राविण्यं विश्वस्मिन् प्रख्यातम् अभवत् । तस्य विषये एकः पत्रकारः “ ध्यानचन्दस्य हॉकी लोहचुम्बकेन निर्मिता अस्ति । अतः कन्दूकः तस्मात् दूरं न गच्छति ” इति अवदत् । वैदेशिकक्रीडायाः मान्धाता समानाः जनाः ध्यानचन्दं मानसिकरीत्या पराजेतुम् व्यचारयन् । ते टिप्पणीं कृत्वा जनान् अपि भ्रामयन्ति स्म । ततः परं एकैकस्यां क्रीडायां ध्यानचन्दस्य हॉकी परीक्षणं भवति स्म ।[११] अन्ते टोकीयो-नगरे वैदेशिकैः ध्यानचन्दस्य हॉकी-ध्वंसः कृतः ।

हिटलर् इत्यस्य प्रस्तावाः[सम्पादयतु]

अडोल्फ हिटलर् इत्ययं ध्यानचन्दस्य क्रीडया प्रभावितः सन् तस्य हॉकी अलभ्यासु वस्तुषु स्थापयितुम् इच्छति स्म । १९३६ तमे वर्षे ओलम्पिक् इत्यस्मिन् ध्यानचन्दस्य क्रीडया प्रभावितः अडोल्फ हिटलर् इत्ययं तं प्रति प्रस्तावत्रयम् अस्थापयत् । [१२] १) अडोल्फ हिटलर् इत्ययं ध्यानचन्दः तेन सह भोजनं कुर्यात् । २) ब्रिटिश्- इन्डियन सेनायाः मेजरपदम् आलङ्करोत् । ३) जर्मनदेशस्य नागरिकत्वं च स्व्यकरोत् ।

ध्यानचन्दस्य प्रत्युत्तरम्[सम्पादयतु]

भारतस्य अयं वीरः तान् प्रस्तावान् नम्रतापूर्वकम् अत्यजत् । भारतं मम देशः अस्ति । वयं तस्य पुत्राः स्मः । अस्माकं हृत्सु भारतस्य गौरवम् अस्ति । वयं तं प्रति कृतज्ञाः स्मः । अहं हॉकी-क्रीडां प्रति समर्पितः अस्मि । मम योगदानं केवलं भारतं प्रति एव अस्ति । [१३]तस्य एभिः वचनैः सर्वे स्तब्धाः अभवन् । यथा क्रिकेट्- क्रीडायां सर् डोन् ब्रेडमेन् , बोक्सिङ्ग क्रीडायां महम्मद अली, तथैव भारते हॉकी-क्रीडायां ध्यानचन्दः अभवत् । हॉकी- भारतस्य राष्ट्रिया क्रीडा अभवत्, तस्य श्रेयः ध्यानचन्द इत्यस्मै देयः ।

सर् डोन् ब्रेडमेन् इत्यनेन सह ध्यानचन्दस्य मेलनम्[सम्पादयतु]

१९२६ तमे वर्षे हॉकी-क्रीडायां प्रविष्टः ध्यानचन्दः स्वल्पे एव काले विश्वस्मिन् विख्यातः अभवत् । तदानीं भारतस्य प्रतिनिधित्वेन चिते दले अस्य ध्यानचन्दस्य नाम प्रथमं भवति स्म । [१४]सः एकैकस्यां क्रीडायां स्वस्य प्रतिभाम् अपि दर्शयति स्म ।

भारतस्य हॉकी-दलस्य सिद्धयः[सम्पादयतु]

१९२८ तमे वर्षे एमस्टरडेम ओलम्पिक् क्रीडामहोत्सवे, १९३१ तमे वर्षे लॉस् एन्जलस् ओलम्पिक् क्रीडामहोत्सवे च भारतस्य हॉकी-दलस्य जनैः सुवर्णचन्द्रकः प्राप्तः । तस्मिन् ध्यानचन्दस्य सर्वाधिकं योगदानम् आसीत् [१५]। तथैव १९३५ तमे वर्षेऽपि अभवत् इति । तस्मिन् वर्षे भारतस्य हॉकी-दलम् ऑस्ट्रेलिया-देशस्य, न्युजिलॅण्ड-देशस्य च प्रवासे आसीत् । ध्यानचन्द इति नामकस्य मायाकारस्य सर्वत्र चर्चा आसीत् । अत एव भारतस्य गणं यत्र गच्छति स्म, तत्रत्यं हॉकी-दलं तेन सह क्रीडां क्रीडद् गौरवम् अनुभवति स्म । तेषु अपि भारतस्य मायाकारसमानेन क्रीडकेन सह क्रीडां क्रीडामः इति अत्यधिकं गौरवम् अनुभवन्ति स्म । भारतीयदलस्य क्रीडाप्रवासाय यतः आमन्त्रणं प्राप्यते स्म , अधिकारिणः तत् स्वीकुर्वन्ति स्म । अपि च तेषु क्रीडाप्रवासेषु क्रीडकाः अपि स्वस्य सम्पूर्णां शक्तिं नियोजयन्ति स्म ।

भारतस्य हॉकी-दलस्य प्रदर्शनम्[सम्पादयतु]

भारतस्य हॉकी-दलम् ऑस्ट्रेलिया-देशस्य, न्युजिलॅण्ड-देशस्य च प्रवासे यानि आमन्त्रणानि प्राप्तानि तेषु सर्वेषु भारतस्य क्रीडकाः 'कार्यं साधयामः वा देहं पातयामः' इति विचारेण सह एव क्रीडन्ति स्म ।[१६] यादृशेन उत्साहेन क्रीडाङ्गणे अवतरन्ति स्म, ततः द्वीगुणितेन उत्साहेन विजयमपि प्राप्नुवति स्म । अस्मिन् प्रवासे भारतस्य दलं ४८ स्पर्धाः अक्रीडत्, तासु सर्वासु क्रीडासु विजयः अपि प्राप्तः । तत्र भारतस्य हॉकी-दलेन ५८४ (goal) लक्ष्यानि साधितानि । तेषु २०० (goal) लक्ष्यानि ध्यानचन्दस्य आसन् ।

विश्वस्मिन् हॉकी-क्रीडायाः प्रचारः[सम्पादयतु]

सम्पूर्णे विश्वे हॉकी इत्यस्य प्रचारः अवर्धत । विविधानां क्रीडानाम् उत्तमक्रीडालूनाम् एकः एव प्रश्नः आसीत् । कः अयं ध्यानचन्दः ? तस्य किं वैशिष्ट्यम् ? तस्य हॉकी-क्रीडायाः का माया यया जनाः मन्त्रवमुग्धाः भवन्ति ?

ध्यानचन्दस्य हॉकी-क्रीडायाः प्रेक्षकत्वेन सर् डोन् ब्रेडमेन्[सम्पादयतु]

ध्यानचन्दस्य ख्यातिं दृष्ट्वा क्रीकेट्- क्रीडाया महान् क्रीडकः सर् डोन् ब्रेडमेन् हॉकी-क्रीडां दृष्टुं गतवान् । क्रीडन्तं ध्यानचन्दं दृष्ट्वा सः आश्चर्यं गतः । सम्पूर्णां क्रीडां दृष्ट्वा तस्य मुखात् प्रश्ऩः निर्गतः ।[१७] सः हॉकी क्रीडकः अस्ति वा क्रीकेट् क्रीडकः ? इति सर् डोन् ब्रेडमेन् इत्ययम् व्यचारयत् । तस्य कारणं क्रीकेट् क्रीडकः अङ्कानां सम्पादने एकस्य क्षेपकस्यैव प्रतिकारं करोति किन्तु हॉकी क्रीडायां ध्यानचन्दः सर्वेषां प्रतीकारं कुर्वन्नपि सारल्येन लक्ष्यं विपुलतां साधयति इति ।

ध्यानचन्दस्य राष्ट्रप्रेमः[सम्पादयतु]

ध्यानचन्दस्य पूर्वतः एव एकस्मिन् क्षेत्रे अग्रण्या भवितव्यं तादृशी काऽपि इच्छा किशोरावस्थां यावत् नासीत् । सः सैनिकः अभवत्, तस्मात् दिनात् तस्य देशं प्रति प्रीतिः अवर्धत । ततः परं सः सैनिकानां हॉकी-दले चितः । तत्रापि सर्वैः तस्य देशप्रेम दृष्टम्। देशे वा विदेशे कुत्रापि क्रीडा स्यात् सः सर्वप्रथमं "वंदेमातरम्" इति गीतमेव गायति स्म । तेन सः भारतमातुः आशिषं गृह्णाति स्म इति किंवदन्त्यपि श्रूयते । कदाचित् एतस्मात् एव कारणात् सः सर्वदा विजयमेव प्राप्नोति स्म । [१८]

ध्यानचन्दस्य एकाग्रता सहनशीलता च[सम्पादयतु]

ध्यानचन्दः क्रीडाङ्गणं प्रविश्य स्वस्य हॉकी इत्यनेन लक्ष्यं (goal) कर्तव्यम् इत्येव तस्य मुख्यं कार्यम् आसीत् । एकदा ध्यानचन्दः एकाग्रचित्तेन क्रीडाङ्गणे क्रीडन्नासीत् । सः केवलं कन्दुकमेव पश्यन्नासीत् । सः एकवारं कन्दुकः प्राप्नोति, ततः परं यावत् लक्ष्यप्राप्तिः न भवेत्, तावत् सः धावति स्म । तस्य हॉकी क्रीडायाम् इमाम् एकाग्रतां दृष्ट्वा जनाः तस्मै असूयन्ति स्म । एतस्मादेव कारणात् एकेन लक्ष्यरक्षकः गोल् किपर् इत्यनेन तस्योपरि आक्रमणं कृतम् । तस्मिन् आक्रमणे ध्यानचन्द भग्नदन्तः अभवत् । मुखात् सततम् रुधिरं प्रावहत् च । [१९]तथापि सः क्रीडां समाप्य एव क्रीडाङ्गणात् बहिः निर्गतः ।

ध्यानचन्दस्य चयनाय विचारस्य प्रसंङ्गः[सम्पादयतु]

१९३५ तमस्य वर्षस्य दिसम्बर-मासे इन्डियन् हॉकी फेडरेशन् इति स्पर्धा बर्निल्-नगरे आसीत् । ओलम्पिक् क्रीडामहोत्सवे सुवर्णचन्द्रकद्वयं प्राप्तवान् तादृशं भारतीय हॉकी-दलं विदेशस्य भूमौ क्रीडां क्रीडेत् तत् सामान्यम् अभवत् । किन्तु अस्मिन् वर्षे ध्यानचन्दस्य चयनं न भविष्यति इति भयम् आसीत् ।[२०] यतः ध्यानचन्दस्य हृदयरोगः आसीत् । तेन शस्त्रक्रिया अपि कारिता, एतस्मादेव कारणात् सः स्वयमपि तस्य चयनं न भविष्यति इति अमन्यत । किन्तु "इन्डियन हॉकी फेडरेशन्" इत्यस्मिन् ध्यानचन्दस्य चयनं न भवेत् तत् अशक्यम् । ध्यानचन्दस्य भारतदेशं प्रति या श्रद्धा वा या भावना आसीत्, सा चयनकर्तृभिः दृष्टा आसीत् । [२१]अतः रुग्णे सत्यपि चयनकर्तारः तं गणनायकरूपेण निरचिनोत् ।

गणस्य विजयाय तत्परः[सम्पादयतु]

सामान्यतया कोऽपि जनः स्वयं सर्वश्रेष्ठं प्रदर्शनं कुर्यात् इत्येव इच्छति स्म । किन्तु ध्यानचन्दः हॉकी क्रीडायां सर्वश्रेष्ठं प्रदर्शनं भवेत् इति ध्यानचन्दः न चिन्तयति स्म । सः सर्वानपि लक्ष्यं साधयितुम् अवसरं ददाति स्म । किन्तु सः क्रीडकः तद् अवसरं सफलतां प्रति न नयति तर्हि तस्मै क्रुध्यति स्म ।[२२] तथापि जनाः तं लक्ष्यस्य मायाकाररूपेण जानन्ति स्म । तथापि सः मनसा गणस्य विजयः भवेत् इत्येव इच्छति स्म । अत एव सः सर्वेभ्यः गोल् कर्तुम् अवसरः यच्छति स्म । १९४७ तमे वर्षे भारतस्य हॉकी-क्रीडागणम् अन्यदेशस्य प्रवासे आसीत् । गणः यस्मिन् देशे गच्छति 'इन्डियन् हॉकी अशोसिएशन्' तत्र तेषां क्रीडायाः आयोजनं करोति स्म । क्रीडाङ्गणे मुखरेण बहवः निर्णयाः कर्तव्याः भवन्ति स्म । तथा कन्दुकः कस्मै देयः कः गोल् करिष्यति इत्यादयः निर्णयाः भवन्ति स्म । गणस्य मुखरेण ध्यानचन्देन कृतान् निर्णयान् अन्ये क्रीडकाः अनुसरन्ति स्म । एतादृशैः निर्णयैः भारतीय गणस्य विजयः भवति स्म ।

ध्यानचन्दः अन्यस्मै प्रदत्तस्य अवसरस्य प्रसङ्गः[सम्पादयतु]

यदा क्रीडायां भारतीयगणस्य, विरोधिगणस्य च क्रीडकाः लक्ष्यं साधयितुं धावन्ति स्म, तदा ध्यानचन्देन कन्दुकः विरोधीगस्य क्रीडकात् कन्दुकः सङ्गृहीतः ।[२३] सः धावन् लक्ष्यं साधयितुं गच्छन्नासीत्, तदैव स्वस्य गणस्य के.डी. सिंहः अपि तस्य समीपे धावति स्म । ध्यानचन्दः तं प्रति कन्दुकं प्रैषयत् किन्तु कारणवशात् के.डी.सिंहः लक्ष्यं साधयितुं न अशक्नोत्, तत् दृष्ट्वा ध्यानचन्दः तस्मै कटिं दर्शयित्वा ततः निर्गतः । यदा क्रीडान्ते सर्वे आरामप्रकोष्टं प्राप्ताः, तदा के.डी.सिंहः कटिं दर्शयित्वा ततः निर्गमनस्य कारणं ज्ञातुं शक्नोमि इति अपृच्छत् । ध्यानचन्दः अहं साक्षात् लक्ष्यं साधयितुं समर्थः आसीत् किन्तु भवान् अवसरं प्राप्नोत् इति विचार्य मया कन्दुकः तुभ्यं प्रेषितः, किन्तु भवता तद् अवसरः न सफलीकृतः । अपि च लक्ष्यसाधनाय अक्षमानां कृते मम गणे स्थानं नास्ति इति अवदत् । [२४]

प्रशंसकानां मध्ये ध्यानचन्दः[सम्पादयतु]

भारतीयगणस्य अयं सैनिकः अहर्निशं प्रसिद्धिं प्राप्नोति स्म । देशस्य, विदेशस्य च जनाः ध्यानचन्दं मेलितुं भारतीय हॉकी-गणम् आह्वयन्ति स्म । किन्तु ततः प्राक् भारतीयगणः विदेशं गन्तुं जनेभ्यः याचनां करोति स्म । [२५] ध्यानचन्दस्य काले विदेशगमनं सामान्यम् अभवत् । विविधाः देशाः भारतीयगणं स्वयमेव आह्वयन्ति स्म । अतः भारतीय-गणस्य क्रीडकानां कृते विदेशस्य प्रवासः सामान्यः अभवत् । भारतीयगणं विदेशे आह्वयन्ति, ते ध्यानचन्देन विना हॉकीगणस्य स्वीकारमपि न कुर्वन्ति स्म । "पूर्व आफ्रीका-देशस्य फेडरेशन्" भारतीयगणम् आफ्रीका-देशस्य प्रवासार्थम् आहूतवान् किन्तु यदि तस्मिन् गणे ध्यानचन्दः न स्यात् तर्हि आमन्त्रणमपि न इति तैः स्पष्टता कृता ।

ध्यानचन्दस्य व्यक्तित्वम्[सम्पादयतु]

ध्यानचन्दः अतीव नम्रः सामान्यश्च आसीत् । [२६]स्वस्य एतावती प्रतिष्ठा आसीत्तथापि सः लेशमात्रमपि अहङ्कारं न करोति स्म । सः सामान्यव्यक्तिरूपेण जन्म प्रापत्, सामान्यव्यक्तिरूपेण च जीवनम् अकरोत् इति । अतः एव तस्य प्रशंसकेषु आधिक्यम् अभवत् इति । एकदा सः प्राग् इति नामकं नगरम् अटितुं गतवान् । तत्र स्त्रीणां हॉकी-क्रीडकस्य गणात् सः क्रीडति स्म । तत्र एका महिला समागता, सा ध्यानचन्दस्य प्रशंसिका आसीत् । अहं त्वां चुम्बितुम् इच्छामि इति तस्मै अवदत् । किन्तु ध्यानचन्दः नम्रतापूर्वकं तस्यै क्षम्यताम् अहं विवाहितः अस्मि इति अवदत् ।

पेशावरगमनस्य प्रशङ्गः[सम्पादयतु]

यदा भारतस्य विभाजनम् अभवत्, तदा ध्यानचन्दः स्वस्य विशालप्रशंसकवर्गेण परिचितः आसीत् । यदा सः सम्पूर्णेन गणेन सह लाहोर-नगरात् पेशावर-नगरं प्रति गच्छन्नासीत् ।[२७], तदा लाहोर-नगरे तस्य समर्थकाः रेलस्थाने कोलाहलम् अकुर्वन् । अतः यानं चतुः घण्टा विलम्बेन पेशावरम् आप ।

सर्वश्रेष्ठः पुरस्कारः[सम्पादयतु]

निखिलं जगत् तस्य क्रीडाकौशलेन तं परिचिनोति स्म । ततः किमधिकमिच्छेत् सः। ध्यानचन्दः यदा हॉकी क्रीडायां प्रविष्टः तदा एव तस्य बहुमानप्राप्तेः अवसरस्यापि आरम्भः अभवत् इति ।[२८] सः न केवलं भारते अपि तु लण्डन्, एमस्टरडें बर्लिन्, प्राग्, लोस् एनजलस्, नेधर् लेण्ड, जापान, पाकिस्तान, आदिषु सर्वेष्वपि देशेषु, नगरेषु च सः "मायाकार" इति नाम्ना प्रासिद्धः सन् जनमनस्सु स्थानं लेभे् । तस्य कृते सर्वश्रेष्ठः पुरस्कारः जनानां प्रेम आसीत् ।

पुरस्काराः[सम्पादयतु]

अगस्त मासस्य २९ दिनाङ्के क्रीडोत्सवदिनस्य (sport day) आयोजनं भवति । तत् आयोजनं ध्यानचन्दस्य बहुमाने भवति । तस्मिन्नेव दिवसे राष्ट्रप्रमुखभवने राजीवगान्धी खेलरत्नपुरस्कारः, अर्जुनपुरस्कारः, द्रोणाचार्यपुरस्कारश्च दीयते । १९५६ तमे वर्षे ४३ वर्षणां वयसि ध्यानचन्दः पद्मभूषण इति पुरस्कारं प्रापत् ।[२९] सैनिकपदात् निवृत्तः सन् अपि सः हॉकी-क्रीडायां स्वस्य योगदानं दत्तवान् । तदनन्तरं तस्य निवृत्यन्ते सः "लाईफ टाईम अचिवमेन्ट" पुरस्कारः अपि प्रापत् । अनेन १९२८, १९३२, १९३६ वर्षस्य च ओलम्पिक् स्पर्धाः भारतस्य कृते विजीताः । सः भारतं क्रीडाक्षेत्रे अग्रगण्यम् अकरोत् । तस्य योगदानार्पणं शब्दैः भवितुम् अशक्यम् । भारते, विदेशे च तस्य स्मरणे प्रतिमाः स्थापिताः । विदेशस्य वियेना-नगरे चतुर्भिः हस्तैः, चतुर्भिः हॉकी इत्येताभिः च तस्य प्रतिमा स्थापिता इति । [३०]हॉकी- क्रीडाजगतः पितुः ध्यानचन्दस्य मरणान्ते सर्वकारः तस्य स्मरणे पोस्ट टिकिट् इत्यस्य मुद्रणम् अकरोत् । कस्या अपि व्यक्तेः स्मरणे देशस्य सर्वकारः पोस्ट टिकिट् इत्यस्य मुद्रणं कुर्यात् तस्मात् तं सम्भावयितुं किमधिकम् ।

भारतीय हॉकी-क्रीडायाः अवसानम्[सम्पादयतु]

भारतीय हॉकी-क्रीडां शून्यात् सर्जनं प्रति अनयत् तादृशः ध्यानचन्दः मेजर ध्यानचन्द इति नाम्ना प्रख्यातः आसीत् । किन्तु साम्प्रतं तु जनाः तं क्रीडायाः माध्यमेनेव जानन्ति इति । [३१]जनानां मनसि प्राप्तस्थानः अयमपि जीवनस्य चक्रे बद्धः अभवत् । अन्ते हॉकी-क्रीडां प्रति मोहं, मायां च त्यक्त्वा अयं रोगग्रस्तः अभवत् । निवृत्तः भूत्वापि अनेन स्वस्य शरीरात् वयाधिकं कार्यं कृतम् आसीत् । जीवनस्य अन्तिमेषु दिनेषु सः रोगग्रस्तः अभवत् जनाः ध्यानचन्दः अर्थात् प्रख्यातः हॉकी-क्रीडकः, ध्यानचन्दः अर्थात् हॉकी-क्रीडायाः हृदयम् इत्येतत् सर्वं जनाः विस्मृतवन्तः । अत एव जीवनस्य अन्तिमे काले तं चिकित्सालयस्य सामान्ये विभागे स्थानं दत्तवन्तः । यदा एकस्य पत्रकारस्य लेखः समाचारपत्रे प्रकटः अभवत्, तदा तस्मै विशिष्टः प्रकोष्टः प्रदत्तः ।

मृत्युः[सम्पादयतु]

ध्यानचन्दस्य चिकित्सालयस्य सामान्ये विभागात् विशिष्टे प्रकोष्टे स्थानं प्राप्तवान् किन्तु तस्य मनसि १९७६ तमे वर्षे सप्तम्याम् ओलम्पिक क्रीडायां भारतस्य किं भविष्यति इति चिन्ता आसीत् । [३२] ४० वर्षस्य जीवनपर्यन्तं सूर्य इव तेजस्वीतायां जीवीतवान् तादृशः ध्यानचन्दस्य मृत्योः प्राक् चिकित्सकः भारतस्य हॉकी-क्रीडां मृत्युं प्रति गच्छती अस्ति । तां रक्षतु वा त्यजतु इति अवदत् । ततः परं ध्यानचन्दः मूर्छितायाम् अवस्थायां जीवनं यापितवान् । अन्ते १९७९ तमस्य दिसम्बर-मासस्य तृतीये दिनाङ्के तस्य मृत्युः अभवत् इति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 6. 
  2. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 8. 
  3. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 10. 
  4. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 11. 
  5. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 11. 
  6. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 12. 
  7. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 13. 
  8. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 14. 
  9. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 15. 
  10. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 16. 
  11. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 17. 
  12. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 18. 
  13. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 19. 
  14. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 22. 
  15. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 23. 
  16. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 24. 
  17. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 25. 
  18. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 26. 
  19. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 27. 
  20. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 27. 
  21. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 29. 
  22. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 30. 
  23. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 30. 
  24. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 32. 
  25. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 33. 
  26. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 33. 
  27. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 35. 
  28. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 36. 
  29. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 36. 
  30. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 37. 
  31. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. p. 39. 
  32. ख्याति पुरोहित (2013). ध्यानचन्द. बालभारती प्रकाशन अहमदाबाद. 
"https://sa.wikipedia.org/w/index.php?title=मेजर_ध्यानचन्द&oldid=391312" इत्यस्माद् पुनः प्राप्तिः