मेथिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मेथिका /Fenugreek

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Trigonella
जातिः T. foenum-graecum
द्विपदनाम
Trigonella foenum-graecum
L.[१]


इयं मेथिका अपि भारते वर्धमानः कश्चन धान्यविशेषः । इयम् अपि सस्यजन्यः आहारपदार्थः । एषा मेथिका आङ्लभाषायां Methi इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Tyrigonella foenum graecum इति । एतस्याः मेथिकायाः दीपनी, उग्रा, कुञ्चिका, बहुपत्रिका, मल्लिका, शितवीर्या, ज्योतिष्का, वल्लरी, शिखी इत्यादीनि अन्यानि नामानि अपि सन्ति । अस्य मेथिकासस्यस्य बीजं पर्णं चापि उपयुज्यते । एषा मेथिका यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्याः मेथिकायाः स्वभावः[सम्पादयतु]

इयं मेथिका कटुरसयुक्ता, तिक्तरुचियुक्ता च । एषा मेथिका पचनार्थं लघु, रूक्षा च । अस्याः मेथिकायाः बीजानि लघ्वाकारकाणि, अत्यन्तं तिक्तानि च भवन्ति ।

“मेथिका कटुरुष्णा च रक्तपित्तप्रकोपिनी ।
अरोचहरा दीप्तिकरी वातप्रणाशिनी ॥“ (धन्वन्तरिकोषः)
१. मेथिका उष्णवीर्या, रक्तपित्तं प्रकोपयति ।
२. इयं मेथिका अग्निम् उद्दीपयति, अरुचिं निवारयति च ।
३. मेथिका कफहारिका, ज्वरनाशिका च ।
४. मेथिका बलवर्धिका, हृदयस्य हितकरी च ।
५. मेथिका मलम् अवरुणद्धि, वमनं शमयति च ।
६. मेथिका वातरक्तं, कफं, कासं, दातार्शं, कृमिं, क्षयं च निवारयति ।
७. मेथिकाबीजस्य चूर्णेन निर्मितं पिण्डं प्रसवानन्तरं दीयते । तेन बभुक्षा वर्धते, क्षीरम् अपि वर्धते, मलशुद्धिः च भवति ।
८. मेथिकाबीजस्य चूर्णेन निर्मितं पिण्डं श्रान्तौ, आमवाते, आतकवे च दातुं शक्यते ।
९. रक्तसहिते अतिसारे मेथिकां भर्जयित्वा उष्णजले योजयित्वा पातव्यम् ।
१०. मेथिकायाः सेवनेन शरीरवेदना न्यूना भवति ।
११. मेथिका तिक्तरुचियुक्ता इति कारणात् मधुमेहे अपि उपयोक्तुं शक्यते ।
१२. मेथिका काड्लिवर्-तैलस्य स्थाने अपि दैर्बल्यादिषु उपयोगम् अर्हति ।
१३. शरीरस्य उपरि वेदना अस्ति चेत् तत्र मेथिकायाः लेह्यं लेपयितुं शक्यते ।
१४. मेथिका रक्तपित्तं वर्धयति । तस्मात् रक्तपित्तरोगिणः अस्याः उपयोगं न कुर्युः ।
१५. अस्याः मेथिकायाः चूर्णं १-५ ग्रां पर्यन्तं दातुं शक्यते ।

अपूर्वसस्यं मेथिका प्रायः सर्वैः अपि ज्ञायते एव । एतस्य लघुनः सस्यस्य पुष्पाणि श्वेतानि भवन्ति । एतस्य बीजकोशे १०-२० लध्वाकाराणि धूसरवर्णेपेतानि उग्रगन्धयुक्तानि बीजानि भवन्ति । एषः उग्रगन्धयुक्तः बीजकोशः तिक्तरुचियुक्तः भवति । एतस्मिन् बिजकोषे जीवसत्त्वानि खनिजांशाः च अधिकप्रमाणेन भवन्ति । प्रोटिन्- अंशः अपि अधिकप्रमाणेन भवति । भारतीयपाके एतस्याः उपयोगः अधिकः। आयुर्वेदः अपि मेथिकायाः महत्त्वं विशेषतः विवृणोति । रक्तशर्करांशस्य न्यूनीकरणे एतस्याः विशेषसामर्थ्यम् अस्ति इत्यतः मधुमेहरोगचिकित्सायाम् एषा उपकारिका । एतस्याः पर्णानि जीर्णाकारकाणि विशेषतः । एत्स्याः नियतसेवनं रक्तहीनतायाः निवरकं भवितुम् अर्हति । एतस्याः पर्णैः निर्मितं लेप्यं व्रणजातां स्पीततां न्यूनीकर्तुम् अर्हति ।


टिप्पणी[सम्पादयतु]

  1. "Trigonella foenum-graecum information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-13. 

चित्रवीथिका[सम्पादयतु]

File:Fenugreek seeds.jpg|मेथिकाबीजानि File:Fenugreek seeds.jpg|मेथिकाबीजानि चित्रम्:Illustration Trigonella foenum-graecum0 clean.jpg|मेथिकासस्यम् File:Trigonellae foenugraeci semen 075308.jpg|मेथिकाबीजानि

"https://sa.wikipedia.org/w/index.php?title=मेथिका&oldid=396067" इत्यस्माद् प्रतिप्राप्तम्