मोरारी बापु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



मोरारीबापू(गुजराती: મોરારી બાપૂ, आङ्ग्ल: morari bapu )रामायणस्य कथाकारः अस्ति । तेन ६०० अधिकाः रामायणस्य कथा कृताः । तस्य कथायां संम्पूर्णं मण्डपं भक्तैः परिपूर्णं भवति । सः एकैकस्यां कथायां नूतनानि उदाहरणानि दत्त्वा जनान् प्रभावयति ।

जन्म परिवारश्च[सम्पादयतु]

१८४६ तमस्य वर्षस्य सितम्बर-मासस्य २५ तमे दिनाङ्के भावनगर-मण्डलस्य तलगाजरडा इति नाम्ने लघुग्रामे तस्य जन्म अभवत् । तस्य पितुः नाम प्रभुदास हरियाणी मातुः नाम सविताबेन हरियाणी आसीत् । मोरारीबापू इत्यस्य द्वे भगिन्यौ, षड्-भ्रातरः च आसन् ।

बाल्यं, शिक्षणं च[सम्पादयतु]

पितामहः त्रिभुवनदासः मोरारी बापू इत्येतं प्रतिदिनं रामचरितमानसस्य पञ्च चोपाई पाठयति स्म तत्वार्थं, गूढार्थं च बोधयति स्म । ताः सः विद्यालयं प्रति गच्छन् कण्ठस्थं करोति स्म । सः तलगाजरडा-ग्रामात् महुवा-ग्रामं प्रति एकाकी एव गच्छति । ततः प्रत्यागमन काले मार्गे रामवाडी इति स्थलस्य समीपे एकस्य कुटिरस्य निर्माणं कृत्वा तत्र रामचन्द्रस्य भावचित्रं स्थापयित्वा रामकथां करोति स्म । तत्र केचन वृद्धाः अपि कथां श्रोतुम् आगच्छन्ति स्म ।

मोरारी बापू इत्यस्य प्रथमा कथा[सम्पादयतु]

१८६० तमे वर्षे तलगाजरडा-ग्रामस्य पुरातने मन्दिरे भगवतः श्रीरामस्य मन्दिरे मोरारी बापू इत्यस्य प्रथमा कथा आसीत् । यदा तेन ग्रामजनेभ्यः प्रथमवारं रामकथा श्राविता, तदा पितामहस्य अक्षिणी भावाश्रुपूर्णा अभवताम् । सः एकस्मै वृक्षाय जलं दत्त्वा वृक्षस्य सिञ्चनम् अकरोत् इति सन्तोषम् अन्वभवत् । साम्प्रतं स्वकथायां मोरारी बापू अपि अस्याः वार्तायाः उल्लेखं करोति ।

मोरारी बापू शिक्षकः[सम्पादयतु]

रामकथाकारस्य मोरारी बापू इत्यस्य उपरि परिवारस्य दायित्वम् आपतितम् अतः तेन अभ्यासः त्यक्तः । किन्तु परिवारस्य दायित्वं वोढुं अशक्नोत् तावदधीतवान् । सः एकस्यां शालायां शिक्षकः अभवत् । प्रशिक्षणं प्राप्तुं सः अहमदाबाद-नगरस्य शाहपुर इत्यत्र गतः । किन्तु कथारसवशात् सः शिक्षकस्य वृत्तिम् अत्यजत् । अन्ते रामस्य शरणं गतः । इत्थं भक्तेः प्रभावस्तु तेन पूर्वजैः प्राप्तः इति अनुमीयते ।

मोरारी बापू निम्बार्कवंशीयः[सम्पादयतु]

निम्बार्क परम्परायाः ध्यानस्वामी बापू इत्याख्यः मारारी बापू इत्यस्य प्रपितामहः अस्ति । सः सौराष्ट्रप्रान्तं विचरन् सेंजल-ग्रामम् आगतः । कालान्तरे सः तत्रैव समाधिस्थः अभवत् । तस्य एकः शिष्यः जीवनदास महेता इति आसीत् । सः ब्राह्मणः आसीत्त, तथापि तेन ध्यानस्वामितः दीक्षा गृहीता । किन्तु एकदा 'त्वं संसारी भव' इति गुरुः आदिशत् । सः जीवनदास महेता इति नाम्नः परिवर्तनं कृत्वा हरिव्यासी अभवत् । तस्य परंपरायाम् एव मारारी बापू इत्यस्य जन्म अभवत् । सः हरिव्यासी अपि सेंजल-ग्रामे समाधिस्थः अभवत् ।

मोरारी बापू इत्यस्य वैशिष्ट्यम्[सम्पादयतु]

मोरारी बापू इत्यनेन अग्निं, तेजः च विहाय भूमौ, जले, आकाशे च कथाः कृताः । सः स्वस्य कथासु शैलीनाम् अपि परिवर्तनं विदधाति । सः धीरं, गम्भीरम् उपदेशं च विहाय शेर-शायरी इत्यादिभिः मनोरञ्जनयुतां कथाम् कृत्वा रामस्य प्रति यूनः जनान् आकृषति । सः कथायाः माध्यमेन युवानः जागरूकाः स्युः इति इच्छति । तदर्थं सः शिबिराण्यपि आयोजयति ।

मोरारी बापू इत्यस्य सारल्यम्[सम्पादयतु]

एकदा मोरारी बापू भावनगरे कथायाम् अहं चौरः अस्मि अहं रामजी मन्दिरात् हनुमतः मूर्तिं चोरितवान् । मया धूम्रशलाकायाः पानम् अपि कृतम् । अहम् एकदा वैयक्तिक-संस्थायाः वित्तस्य गणनायां ४ रुप्यकाणां अधिकता आसीत् तत् कः पश्यति इति विचार्य स्वीकृतवान् । कतिचित् दिनान्ते १२ रुप्यकाणां न्यूनता जाता तत् स्वस्य कोशात् पूरित्वा ईश्वरः पश्यति इति अन्वभवत् । एतद् सर्वम् उक्त्वा यदा बापू अरोदीत्, तदा अयं वास्तविकां कथां विदधाति इति जनैः ज्ञातम् ।

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मोरारी_बापु&oldid=370927" इत्यस्माद् पुनः प्राप्तिः