यजन्ते सात्त्विका देवान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ४ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यजन्ते सात्त्विकाः देवान् यक्षरक्षांसि राजसाः प्रेतान् भूतगणान् च अन्ये यजन्ते तामसाः जनाः ॥

अन्वयः[सम्पादयतु]

सात्त्विकाः देवान् यजन्ते, राजसाः यक्षरक्षांसि, अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते ।

शब्दार्थः[सम्पादयतु]

देवान् = अमरान्
यजन्ते = पूजयन्ति
यक्षरक्षांसि = यक्षराक्षसान्
भूतगणान् = भूतसमुदायान् ।

अर्थः[सम्पादयतु]

तत्र येषु सत्त्वं वर्तते ते देवान् पूजयन्ति । येषु रजः ते यक्षान् राक्षसान् च पूजयन्ति । येषु पुनः तमः ते प्रेतान् भूतान् च पूजयन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]