रङ्गस्वामी कश्यपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

समग्रवेदस्य आङ्ग्लभाषायाम् अनुवादं कृतवान् विद्वान् श्री रङ्गस्वामी लक्ष्मीनारायण कश्यपः । भारतसर्वकारेण २०२१ तमे वर्षे पद्मश्रीप्रशस्त्या पुरस्कृतः ।

अध्ययनम्[सम्पादयतु]

कश्यपवर्यः भारतीयविज्ञानमन्दिरे पदवीं प्राप्य अमेरिकादेशस्थस्य हार्वर्ड् विश्वविद्यालये स्नातकोत्तरपदवीं प्राप्तवान् । १९६६ तमे वर्षे हार्वर्ड् विश्वविद्यालयतः विद्यावारिधिपदवीमपि प्रापत् ।[१]

अध्यापनम्[सम्पादयतु]

पर्ड्यूविश्वविद्यालये पञ्चत्रिंशत् वर्षाणि यावत् एलेक्ट्रिकल् एवं कम्प्यूटर् इञ्जिनियरिङग् विभागे प्राध्यापकरूपेण कार्यम् अकरोत् । प्याटर्न् रेग्निषन् एवं मेशिन् इण्टलिजेन्स् विभागे गभीरं संशोधनमपि अकरोत् । अन्ताराष्ट्रीयविज्ञानशोधपत्रिकासु सार्धद्विशताधिकानि शोधपत्राणि च कश्यपवर्येण लिखितानि सन्ति । द्विशताधिकसङ्गोष्टीषु पत्रप्रस्तुतिं कृत्वा जे.सि बोर्ड् प्रशस्तिः न्याशनल् इलेक्ट्रानिक्स् कान्फरेन्स् मध्ये अत्युत्तमपत्रप्रशस्तिः इत्याद्याः अनेकाः प्रशस्तयः अपि प्राप्ताः । पञ्चाशदधिकच्छात्रेभ्यः शोधकार्ये मार्गदर्शनमपि अकरोत् ।

वेदविषये कार्यम्[सम्पादयतु]

पृष्ठभूमिः[सम्पादयतु]

पर्ड्यूविश्वविद्यालये ग्रन्थालये धार्मिकग्रन्थेषु भारतीयग्रन्थानाम् अनुवादाः नासन् । बैबल् खुरान् झेण्डा अवेस्ता इत्यादीनां ग्रन्थानाम् अनुवादाः तेन दृष्टाः । एवं भवति चेत् अस्माकम् अध्यात्मसम्पत् वैदेशिकान् न प्राप्नुयात् इति विचिन्त्य कश्यपवर्येण वेदानाम् अनुवादस्य सङ्कल्पः कृतः ।

कार्यम्[सम्पादयतु]

अनेकानि वर्षाणि यावत् तपोरूपेण कार्यमिदं स्वीकृत्य वेदं संस्कृतं च अधीत्य ऋचः पठित्वा, वेदभाष्यज्ञान् उपसृत्य, शतशान् ग्रन्थान् परिशील्य आङ्ग्लानुवादः कृतः । पञ्चविंशतिसहस्रस्य मन्त्राणाम् आङ्ग्लानुवादः कश्यपवर्येण विहितः वर्तते। वेद-उपनिषद्विषयकाः त्रिंशदधिकाः ग्रन्थाः अपि कश्यपवर्येण विरचिताः विद्यन्ते । ऋग्वेदस्य कृष्णयजुर्वेदस्य सामवेदस्य अथर्ववेदस्य च संहितानां आङ्लानुवादं विवरणं भाष्यं च लिखितवान् कश्यपमहोदयः । एतादृशं कार्यं कृतवान् एकैकः जनः अयम् ।

कृतयः[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रङ्गस्वामी_कश्यपः&oldid=474723" इत्यस्माद् प्रतिप्राप्तम्