रन्न

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कन्नडस्य गौरान्वितः कविः रन्नः(Ranna) । कविरत्नत्रयेषु अन्यतमः ।

जन्म विद्याभ्यासः[सम्पादयतु]

स्वग्रामः इदानीन्तनस्य बागलकोटेमण्डलस्य मुधुवोऴऴ । बागलकोटेमण्डलं कर्णाटकराज्ये अस्ति । क्रि .श ९४९ तमे वर्षे एतस्य जन्म अभवत् । पिता जिनवल्लभेन्द्रः माता अब्बलब्बे ,कङकणविक्रेतृणां वंशजाः । रन्नस्य जन्म रमणीयपरिसरे अभवत् ।कर्णाटकस्य दक्षिणभागस्य श्रवणबेळगोळ प्रदेशे विद्यमानस्य अजितसेन- गुरोः समीपे विद्याभ्यासं कृतवान् । जक्की ,शान्तिः द्वे पत्न्यौ । रायः इति पुत्रः, अब्बे इति पुत्री च आस्ताम् । चावुण्डरायस्य स्मारणार्थं रायः अत्तिमब्बायाः स्मराणार्थं अब्बे इति नामकरणं कृतवान् ।

कृतयः[सम्पादयतु]

रन्नः चालुक्यचक्रवर्तिनः तैलपस्य आस्थाने “कविचक्रवर्तिः ” इति बिरुदं प्राप्तवान् आसीत् । रन्नकविना ,अजितपुराणं , साहसभीमविजयं चक्रेश्वरचरितं परशुचरितं इति चत्वारः ग्रन्थाः रचिताः इति उल्लेखः अस्ति । अजितपुराणं जैनधार्मिक ग्रन्थः अस्ति । अस्मिन् ग्रन्थे तीर्थंकरणाम् इतिहासः रचितः, तथा विशिष्टशैल्या अस्ति इति कारणतः “धीरशान्तः” इति प्रसिद्धः अस्ति । साहसभीमविजये भीम-दुर्योधनयोः प्रमुखपात्रं तथा दुर्योधन-कर्णयोः मित्रप्रेम, दुश्शसनादीनाम् असदृशं भ्रातृप्रेम इत्यादीन् विषयान् जनाः यथा सम्यक् स्मरेयुः तथा विशिष्टशैल्या चित्रितवान् । कविरन्नः पम्पकवेः स्फूर्तिं प्राप्तवान् । भासकवेः “ऊरुभङगः ” “वेणीसंहारम्” इति नाटकतः प्रभावितः जातः । कन्नडसाहित्यक्षेत्रे रन्नमहाकविः अमोघरत्नमेव आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=रन्न&oldid=344978" इत्यस्माद् प्रतिप्राप्तम्