राजगुरुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(राजगुरु इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
हुतात्मा
शिवराम राजगुरु
राजगुरुः
भारतस्य महान् क्रान्तिकारी राजगुरुः
Native name बाबू साहेब
जन्म शिवराम
२४ अगस्त १९०८
पुणे-नगरं, महाराष्ट्रराज्यम्
मृत्युः २३ मार्च १९३१
लाहोरकारागारम्
मृत्योः कारणम् मृत्युदण्डः
स्मारकाणि हुसैनिवाला-स्थाने राष्ट्रियक्रान्तिकारिस्मारकम्
निवासः पुणे
देशीयता भारतीयः
अन्यानि नामानि राजगुरुः, एम् , बाबूसाहेब, रघुनाथः
जातिः ब्राह्मणः
शिक्षणम् साङ्गवेदसंस्कृतमहाविद्यालयः,
शिक्षणस्य स्थितिः संस्कृतस्नातकः
वृत्तिः क्रांतिकारी&Nbsp;edit this on wikidata
Organization हिन्दुस्तान-समाजवादी-प्रजातान्त्रिक-सङ्घः
कृते प्रसिद्धः सॉण्डर्स्-नरहत्या
औन्नत्यम् फलकम्:Infobox person/height
आन्दोलनम् भारतस्वतन्त्रतान्दोलनम्
विरोधी(धिनः) ब्रिटिश्-सर्वकारः
धर्मः हिन्दुधर्मः
पितरौ
पितरौ हरिनारायणः, पार्वतीदेवी
विशेषम्
भारतस्वातन्त्र्यान्दोलनस्य प्रबलक्रान्तिकारी

राजगुरुः ( /ˈrɑːəɡʊrʊhʊ/) (हिन्दी: राजगुरु, आङ्ग्ल: Rajguru) भारतस्य प्रमुखक्रान्तिकारिषु अन्यतमः वर्तते । तस्य वास्तविकं नाम शिवराम हरि राजगुरु इति । किन्तु सः राजगुरुः इति नाम्ना प्रसिद्धः अस्ति । सर्वाणि मित्राणि तं “रघुनाथ” व “एम” इति नाम्ना अपि जानन्ति स्म[१] । स्वराष्ट्रस्य स्वतन्त्रताप्राप्त्यै सः प्रतिज्ञाबद्धः आसीत् । राजगुरु इत्याख्यस्य नाममात्रश्रवणेन एव शौर्यस्य, धैर्यस्य, त्यागस्य, निस्स्वार्थतायाः, बलिदानस्य च भावः स्वतः मनसि आगच्छति; हृदये देशभक्तेः राष्ट्रसेवायाः च उत्साहः जागर्ति ।

अन्तर्विषयाः

जन्म परिवारश्च[सम्पादयतु]

महाराष्ट्रराज्ये पुणे-नगरस्य समीपे खेड-ग्रामः अस्ति । तत्र पण्डित कचेश्वर-नामकः एकः ब्राह्मणः आसीत् । तस्य मृत्योः सप्तवंशश्रेण्याः (Generation) परं तस्य वंशे हरिनारायणस्य जन्म अभवत् । सः गुणवान्, चरित्रवान् आसीत् । सः परोपकाराय सदैव तत्परः आसीत् । खेड-ग्रामे तस्य ख्यातिः विशिष्टा आसीत् । तेन विवाहद्वयं कृतम् आसीत्[२] । प्रथमया पत्न्या सः एकं पुत्रं, पञ्चपुत्रीः च प्राप्तवान् । द्वितीयायाः पत्न्याः नाम पार्वती आसीत् । तया सः द्वौ पुत्रौ, तिस्रः पुत्रीश्च प्राप्तवान् । प्रथमस्य पुत्रस्य नाम दिनकरः, अपरः शिवरामः आसीत् । शिवरामस्य जन्म १९०८ तमे वर्षे ऑगष्ट-मासस्य २४ तमे दिनाङ्के त्रयोदश्यां तिथौ अभवत् [३]। तदा श्रावण-मासस्य अन्तिमः सोमवासरः आसीत् । पार्वती शिवस्य आराधिका आसीत् । सा एकं शिवतत्वयुक्तं पुत्रम् अजीजनत् । अतः तस्य नाम शिवरामः इति कृतम्[४] । पार्वती शिवरामं ’बाबू साहेब’ इति नाम्ना अपि आह्वायति स्म ।

शिवरामस्य जन्मकुण्डल्याम् अनिष्टयोगाः आसन् । जन्मसमये हरिनारायणेन एकस्मै ज्योतिषाचार्याय तस्य जन्मकुण्डलिः प्रदर्शिता[५] । तदा ज्योतिषाचार्यः कुण्डलिं दृष्ट्वा शिवरामस्य भविष्यमकथयत् । शिवरामः दयावान्, परोपकारी च भविष्यति, प्रतिभाशाली च भविष्यति, स्वराष्ट्रस्वतन्त्रतायै उत्साहपूर्वकं योगदानं दास्यति इति ज्योतिषाचार्यस्य कथनम् आसीत् । किन्तु शिवरामस्य विवाहस्य योगः एव नास्ति इति अपि स्पष्टम् आसीत्[६] । तस्य आयुः न्यूनम् इति अपि कुण्डल्याम् आसीत् । सर्वं श्रुत्वा हरिनारायणः चिन्तामग्नः जातः । किन्तु ’लिखितमपि ललाटे प्रोज्झितुं कः समर्थः’ इति विचार्य सः मौनम् अभजत् ।

पण्डितकचेश्वरस्य समये तस्य परिवारः सुखी समृद्धः च आसीत् । किन्तु हरिनारायणस्य समये आर्थिकविपदः आगतवत्यः । तेन कारणेन भोजनस्य अपि समस्याः आगताः । महत्परिश्रमात्, भोजनस्य अभावात् हरिनारायणः व्याधिना ग्रस्तः जातः । वैद्यैः चिकित्साः अपि कारिताः किन्तु सर्वे विफलाः जाताः । अन्ते हरिनारायणेन देहत्यागः कृतः । तदा शिवरामः षड्वर्षदेशीय एव आसीत्[७] । लघुवयसि एव पितृस्नेहस्य अभावः जातः ।

पारिवारिकः इतिहासः[सम्पादयतु]

पण्डितकचेश्वरस्य लोकप्रियता सम्पूर्णे महाराष्ट्रराज्ये आसीत् । सः विलक्षणः, शक्तिसम्पन्नः, अद्भुतः च ब्राह्मणः आसीत् । शाहु संभाजी राजे भोंसले छत्रपति महाराज इत्ययम् अपि तस्य कीर्तिं जानाति स्म । सः वीरछत्रपतिशिवाजी इत्यस्य पौत्रः आसीत् । तदा शाहु संभाजी इत्ययं स्वस्य राजशासनविषये चिन्तामग्नः आसीत् । तस्य राजशासने तं विरुध्य बहूनि षड्यन्त्राणि रचितानि आसन् [८]। तेषां प्रभावेण सः चाकण-ग्रामम् आगत्य पण्डितकचेश्वरेण अमिलत् । स्वस्य व्यथां पण्डितकचेश्वरस्य समक्षं प्रास्तौत् । पण्डितकचेश्वरोपरि तस्य आशा आसीत् । तदा पण्डित कचेश्वरः तस्मै आशीर्वादं दत्तवान्; विजयप्राप्तये शुभकामनाः च दत्तवान् । अनन्तरं शाहु संभाजी युद्धे विजयं प्राप्य पुनः स्वराज्यं प्राप्तवान् । अस्मात् प्रसङ्गात् राजा प्रसन्नः जातः । तेन राज्ञा पण्डितकचेश्वराय ’राजगुरु’ इति उपाधिः प्रदत्तः । तस्मात् कालादेव पण्डितकचेश्वरस्य वंशजाः राजगुरु इति उपाधिना विख्याताः सन्ति[९]

देशभक्तेः प्रभावः[सम्पादयतु]

प्रथमविश्वयुद्धानन्तरं १९१९ तमे वर्षे मार्च-मासे ब्रिटिश-सर्वकारैः ’रोलेट् एक्ट्’ इत्यस्य आयोजनं कृतम्[१०] । अस्य आयोजनस्य मुख्यं लक्ष्यम् आसीत् यत् – भारते क्रान्तिकारिगतिविधीनाम्, आन्दोलनानां च परिष्कारः भवेत् । अनेन आयोजनेन आङ्ग्लाः ब्रह्मास्त्रकल्पां शक्तिं प्राप्तवन्तः । तैः अकारणमेव अनेके राजनेतारः कारावासं प्रति प्रेषिताः । अतः अस्मात् कारणात् अन्यक्रान्तिकारिभिः एकस्याः गोष्ठ्याः योजना कृता । सर्वैः जनैः जलियांवाला उद्यानं गोष्ठ्याः स्थानत्वेन निश्चितम्[११]

१९१९ तमे वर्षे अप्रैल-मासस्य त्रयोदशे दिनाङ्के जलियांवाला उद्याने सर्वे नगरवासिनः आगतवन्तः[१२] । तस्मिन् दिने जनानां मनसि बैसाखी पर्वणः अपि उत्साहः आसीत् । तत्र ६००० जनाः आसन् । तत्र जनरल रेजीनोल्ड डायर ९० सैनिकैः सह आगत्य त्वरितमेव सर्वे सभाजनान् हन्तुम् आदिदेश ।

शिवराम तदा लघुबालकः एव आसीत् । किन्तु उपरि लिखितयोः प्रसङ्गयोः विषये एकदा विद्यालये तस्य शिक्षकाः चर्चां कृतवन्तः आसन् । तत् श्रुत्वा शिवरामस्य मनसि देशसेवायै उत्साहः जागरितः । सः खेड-ग्रामस्य एकस्य वृद्धस्य समीपं गतवान् आसीत्[१३] । सः वृद्धः पुरा आङ्ग्लसेनायाम् आसीत् । किन्तु सः तां सेनां त्यक्त्वा कृषिकार्यं करोति स्म । तस्य वृद्धस्य समीपं गत्वा शिवरामः अनयोः प्रसङ्गयोः विषये पृष्टवान् । तदा तेन वृद्धेन शिवरामातय देशभक्तिविषये ज्ञानं प्रदत्तम् । तदा तज्ज्ञानं प्राप्य शिवरामः पुनरुत्साहितो जातः ।

तत्समये आङ्ग्लभाषायाः प्रभावः अधिकः आसीत् । तेन कारणेन विद्यार्थिनः वृत्त्यर्थं (job) आङ्ग्लभाषायां विशेषं ध्यानं ददति स्म । किन्तु शिवरामः आङ्ग्लानां प्रभावे जीवितुं नेच्छति स्म[१४] । देशभक्तेः प्रभावात् तस्य मनसि आङ्ग्लविरोधभूयिष्ठाः एव विचाराः आगच्छन्ति स्म । अतः स्वस्य भ्रात्रा दिनकरेण यदा शिवरामः आङ्ग्लभाषापठनार्थम् उक्तः, तदा शिवरामेण अभ्यासः एव त्यक्तः ।

लघुवयसि गृहत्यागः, संस्कृताध्ययनं च[सम्पादयतु]

यदा भ्रात्रा सह अभ्यासार्थं विवादः जातः, तदा तस्य आयुः षोडशवर्षाणि एव आसीत् । तदनन्तरं मातुः आशीर्वादम् आदाय शिवरामः गृहं त्यक्तवान् आसीत् [१५]। सः चलन् एव नासिक-नगरं प्राप्तवान् । नासिक-नगरं मन्दिरेभ्यः, वैदिकमन्त्रेभ्यः, संस्कृतभाषायै च प्रसिद्धम् आसीत् । नासिक-नगरस्य वातावरणं धार्मिकम् आसीत् । तेन शिवरामः प्रभावितः जातः । तस्य मनसि संस्कृतपठनार्थम् इच्छा अभवत् । कानिचन दिनानि यावत् सः एकस्मिन् आश्रमे निवासं कृतवान्[१६] । तत्र तस्य पठनस्य, आवासस्य, भोजनस्य च व्यवस्था जाता । किन्तु चतुर्णां दिनानाम् अनन्तरं तेन आश्रमः त्यक्तः । तदनन्तरं सः काशी-नगरं प्राप्तवान् ।

काशी-नगरे अहिल्याबाई-आश्रमः आसीत् । तस्य आश्रमस्य अध्यक्षः पाण्डुरङ्ग पंत जोशी इत्याख्यः आसीत् । सः हरिनारायणस्य परिचितः आसीत्[१७] । परिचितेन आश्रमाधीशेन शिवरामस्य तत्र निवासाय व्यवस्था कृता । एवं शिवरामः तत्र संस्कृताध्ययनम् आरब्धवान् । आगामिदिने शिवरामेण स्वस्य भ्रातरम् प्रति सन्देशपत्रं प्रेषितम् । तदा सन्देशपत्रं प्राप्य शिवरामस्य भ्राता, माता च निश्चिन्तौ जातौ । दिनकरेण प्रत्युत्तरे लिखितम् आसीत् यत् – सः प्रतिमासं पञ्च (५) रुप्यकाणि प्रेषयिष्यति[१८] । अतः दिनकरः प्रतिमासं शिवरामाय धनं प्रेषयति स्म ।

शिवरामस्य स्वाभिमानीजीवनम्[सम्पादयतु]

शिवरामः स्वाभिमानी आसीत् । यदा सः गृहं त्यक्त्वा निर्गतः, तदा मार्गे केषुचित् दिनेषु सः बुभुक्षितः एव आसीत् । किन्तु कस्मिंचित् गृहे भिक्षाटनं न कृतवान् । अहिल्याबाई-आश्रमस्य विद्यार्थिनः प्रतिदिनं भिक्षाटनं कृत्वा एव खादन्ति स्म । किञ्चित् दिनं यावत् एव शिवरामेण भिक्षाटनं कृतम् । तदनन्तरं स्वाभिमानकारणेन भिक्षाटनकार्यं त्यक्तम्[१९] । केवल गृहात् यद्धनं प्राप्यते तेन एव दिनानि यापयति ।

आश्रमे बहवः संस्कृतपण्डिताः पाठयितुम् आगच्छन्ति स्म । तेषु एकः पण्डितः शिवरामं चिन्तितस्थितौ दृष्टवान् । एकदा सः शिवरामं पृष्टवान् यत्- का समस्या अस्ति? किमर्थं चिन्तामग्नः भवान् ? स्वस्य सम्पूर्णं कष्टं शिवरामः पण्डिताय न्यवेदयत् । तदा पण्डितः शिवरामं स्वस्य गृहम् आनीतवान् । पण्डितस्य गृहे एव निवसति स्म खादति स्म च । स्वाभिमानेन शिवरामः तस्य पण्डितस्य गृहस्य कार्यम् अपि करोति स्म [२०]। पण्डितस्य स्वार्थः आसीत् अतः शिवरामाय भोजनं ददाति स्म । गच्छता कालेन पण्डितस्य व्यवहारे परिवर्तनम् अभवत् । पण्डितः शिवरामं ताडयति तिरस्करोति च । शिवरामेण अधिककार्यं कारयति स्म । तेन खिन्नः शिवरामः तस्य गृहम् अपि त्यक्तवान् आसीत् । तत्पश्चात् शिवरामः लघुबालकान् संस्कृतम् अपाठयत् [२१]। तेन तस्य आर्थिकसमस्यायाः अपि निवारणं जातम् ।

सावरगांवकर इत्यनेन सह मित्रता[सम्पादयतु]

शिवरामः प्रातःकाले गङ्गायां स्नातुं गच्छति स्म । ततः परं सः तत्रैव घट्टे उपविश्य वेदानां पाठं करोति । एकस्मिन् दिवसे तत्र सावरगांवकर इत्याख्यः युवकः आगतः । सः अपि मराठीजनः आसीत् । शिवरामः यदा पूजायाः निवृत्तः अभवत् तदा सावरगांवकर इत्याख्येन शिवरामेण सह मित्रता कृता [२२]। तस्य वास्तविकं नाम श्रीराम बलवन्त सावरगांवकर इति । अज्ञातनगरे समप्रान्तीयौ मिलितवन्तौ आस्ताम् । तयोः मित्रता अपि शीघ्रतया सुदृढा जाता । आमरणं तयोः मित्रता आसीत् । द्वयोः विचारधारा, देशाय भक्तिः, रुचिः च समाना आसीत् । द्वाभ्यां स्वदेशाय सर्वस्वं त्यक्तुं प्रतिज्ञा कृता । देशाय तौ गृहम् अपि त्यक्तुं सज्जौ आस्ताम्[२३]

सावरगांवकर इत्ययं शिवरामं “राजगुरुः” इति नाम्ना सम्बोधयति स्म । ततः शिवरामः स्वस्य मित्रमण्डले “राजगुरुः” इति नाम्न प्रसिद्धः जातः[२४]

शिक्षणम्[सम्पादयतु]

शिवरामः बाल्यकालादेव मल्लविद्याम् अभ्यस्तुम् ऐच्छत् । अतः भारत सेवा मण्डल इत्यस्यां संस्थायां सः प्रशिक्षणं प्राप्तवान् । तस्याः संस्थायाः संचालकः कुदले इत्याख्यः आसीत् । कुदले इत्ययं धनुर्विद्याम् अपि जानाति स्म [२५]। शिवरामः तस्मात् धनुर्विद्याम् अपि प्राप्तवान् । सः श्रेष्ठः धनुर्धरः इति नाम्ना प्रसिद्धः जातः ।

तदनन्तरं काशी-नगरे साङ्गवेद संस्कृत विद्यालयः आसीत् [२६]। तत्र बाबा पटवर्धन इत्याख्यः अध्यक्षः आसीत् । तस्याश्रये शिवरामः वेदाध्ययनं करोति स्म । वेदशास्त्रिणा पाठक इत्याख्येन सः न्यायशास्त्रं पाठितः । लघु सिद्धान्त कौमुदी इत्ययं ग्रन्थः वेदशास्त्रिणा पेण्डसे इत्याख्येन तस्मै पाठितः। तस्य मेधा तीक्ष्णा सूक्ष्मा च आसीत् । अतः शीघ्रतया पाठान् कण्ठस्थं करोति स्म ।

काशी-नगरे प्रतिवर्षं तर्कशास्त्रस्य मध्यमा-परीक्षायाः आयोजनं भवति स्म[२७] । सा परीक्षा इण्टर समकक्षा गण्यते । तस्य मेधया गुरवोऽपि नितरां तुष्टाः आसन् । शिवरामः परीक्षायाम् उत्तीर्णः अभवत् । ततः परं सः तर्कशास्त्रस्य उत्तमा-परीक्षार्थम् उत्साहितः आसीत्, किन्तु काभिश्चित् क्रान्तिकारिघटनाभिः तस्य अध्ययनम् अवरुद्धं जातम् [२८]

अनन्तरं सः व्यायामस्य शिबिरे प्रशिक्षणार्थम् अमरावती-नगरं गतः । ततः सः प्रशिक्षणं प्राप्तवान् । प्रशिक्षणे ज्ञानप्राप्तयै तस्य परिश्रमं दृष्ट्वा संस्थया सः “व्यायामविशारदः” इति उपाधिना समलङ्कृतः । तत्र लच्छुलाल इत्याख्यः एकः युवकः आगतः । तस्य समीपे अग्निशस्त्रम् आसीत् । शिवरामेण अग्निशस्त्रचालनस्य अपि प्रयासः कृतः । केषाञ्चिद्दिवसानाम् अनन्तरं तेन तस्मिन् कार्ये अपि सिद्धिः प्राप्ता[२९]

विवाहस्य विरोधप्रसङ्गः[सम्पादयतु]

एकदा राजगुरुः मातुः चिन्तनं, स्मरणं च कुर्वन् आसीत्, तदा सः काशीतः स्वगृहं गतवान् । तस्य माता पार्वती राजगुरुं दृष्ट्वा आश्चर्यं कृतवती । तं दृष्ट्वा सा बहुप्रसन्ना अभवत् । तस्मिन् समये राजगुरुः विवाहयोग्यः जातः । तस्य माता मनसि चिन्तां कुर्वती आसीत् । मात्रा दिनकरं प्रति विवाहस्य चर्चा कृता[३०] । दिनकरेण अपि विवाहविषये समर्थनं कृतम् ।

एकदा सर्वे मिलित्वा विनोदं कुर्वन्तः आसन्, तदा दिनकरेण राजगुरुं प्रति विवाहस्य वार्ता प्रस्थापिता । राजगुरुः आश्चर्यचकितो जातः । तस्य मनसि विवाहस्य विचारः अपि नासीत् । राजगुरुणा उक्तं यत् - “ इदानीम् अहं विवाहं कर्तुं नेच्छामि” । दिनकरेण पुनरुक्तं – “किमर्थं विवाहं कर्तुं नेच्छसि त्वं” ? राजगुरुणा उक्तं – “यावदहं गृहस्थाश्रमाय योग्यः न भवेयं, तावत्पर्यन्तं विवाहं न करिष्यामि” । यतः राजगुरुः देशसेवायै स्वस्य सम्पूर्णं जीवनं दातुम् इच्छति स्म[३१] । तेन कारणेन सः विवाहं कर्तुं नैच्छत् । तथापि दिनकरः कठोरवचनेन राजगुरुमादिष्टवान् यत् – “ मातुः इच्छा अस्ति अतः त्वं विवाहं कुरु । बहुवारं दिनकरस्य कथनं श्रुत्वा राजगुरुः सत्यम् उक्तवान् यत् – “अहं भारतमात्रे एव सम्पूर्णजीवनं प्रदास्यामि” [३२]

राजगुरुणा पूर्वतः एव मोहस्य त्यागः कृतः आसीत् । स जानाति स्म यत् – विवाहानन्तरं देशसेवायै सः किमपि कर्तुं न शक्ष्यति । बहवः जनाः विवाहात् पूर्वं देशाय उत्साहेन कार्यं कुर्वन्ति, किन्तु विवाहानन्तरं शनैः शनैः ते सर्वे मोहवशाद् स्वकर्त्तव्यं विस्मरन्ति[३३]

मासस्य समाप्तिपर्यन्तं राजगुरोः मनसि भयम् आसीत् । अतः सः दिनकरस्य समक्षम् अपि न गच्छति स्म । मासान्ते राजगुरुः काशी-नगरं पुनरागतवान्[३४] । काशी-नगरं प्राप्य तस्य मनः शान्तं जातम् । किञ्चित् समयानन्तरं सः दिनकरस्य पत्रं प्राप्तवान् । तस्मिन् पत्रे विवाहस्य एव उल्लेखः आसीत् ।

राजगुरुः पुनः भीतः जातः । बहुवारं विचार्य तेन तस्य पत्रस्य प्रत्युत्तरं पार्वतीमात्रे लिखितं यत् – “भारतमातुः रक्षायै बहूनां यूनाम् आवश्यकता वर्तते । भवत्याः (पार्वत्याः) द्वौ पुत्रौ स्तः – दिनकरः, शिवरामश्च । तयोः पुत्रयोः दिनकरः भवत्याः (पार्वत्याः) सेवां करिष्यति । अहं भारतमातुः सेवां करिष्यामि । अतः मम निर्णयेन भवती दु:खी मा भवेत् । अद्यप्रभृति भवत्याः एकः पुत्रः अस्ति इति विचार्य मे आशीर्वचांसि यच्छतु”[३५]। राजगुरोः पत्रं पठित्वा पार्वती ज्योतिषिकस्य वचांसि स्मृतवती । तावत् तया राजगुरोः विवाहस्य कामना त्यक्ता ।

चन्द्रशेखर-आजाद-मेलनम्[सम्पादयतु]

एकदा विश्वनाथवैशम्पायन-नामकः एकः युवकः कस्मिंश्चित् उद्याने भ्रमणार्थं गतवान् आसीत्[३६] । उद्याने सः एकस्मिन् आसन्दोपरि उपविशन् आसीत् । तदा तत्र आङ्ग्लाधिकारिः आगतः । तेन अधिकारिणा विश्वनाथं ततः गन्तुम् आदिष्टम् । अधिकारिणा विश्वनाथाय उक्तं यत् – “उद्यानेऽस्मिन् शुनां, भारतीयानां च प्रवेशः नास्ति इति न जानाति खलु? उत्तिष्ठ । बहिर्गच्छ” इति [३७]। किन्तु वैशम्पायनः बहिर्न गतवान् । वैशम्पायनाङ्ग्लाधिकाणोः परस्परं मल्लयुद्धं जातम् ।

तत्रस्थिताः सर्वे भारतीयाः समीपम् आगतवन्तः । किन्तु केनापि विश्वनाथस्य साहाय्यं न कृतम् । विश्वनाथस्य शक्तिः आङ्ग्लाधिकारिणः न्यूना आसीत् । तदैव जनसम्मर्दं दृष्ट्वा राजगुरुः झटिति आगतः । द्वयोः मल्लयुद्धं दृष्ट्वा सः कोपमग्नः अभवत् । राजगुरुणा आङ्ग्लाधिकारिणे उक्तं – “विश्वनाथात् क्षमां याच” [३८]। तेन कारणेन द्वयोः मल्लयुद्धं जातम् । राजगुरुः अधिकारिणं बहु ताडितवान् । किञ्चित्समयान्तरं विश्वनाथराजगुरू ततः गतवन्तौ ।

मार्गे द्वयोः परस्परं परिचयः अभवत् । विश्वनाथः काशी-नगरे क्रान्तिकारिणाम् अन्वेषणार्थम् आगतवान् आसीत्[३९] । राजगुरुं मिलित्वा विश्वनाथः प्रसन्नः अभवत् । तस्य वचनं श्रुत्वा राजगुरुः आश्चर्यचकितो जातः । यतः राजगुरुः अपि क्रान्तिकारिभिः सह देशाय योगदानं दातुमिच्छति स्म । राजगुरुणा उक्तं यत् – “ विश्वनाथ ! यदि भवान् क्रान्तिकारी अस्ति, तर्हि माम् अपि भवतः क्रान्तिकारिणां समूहस्य सदस्यं कारयतु । अहम् अपि देशाय योगदानं दातुमिच्छामि” [४०]

विश्वनाथेन उक्तं यत् – “ अवश्यं ते कार्यावसरं मेलिष्यति । किन्तु प्रतीक्षां कुरु । अल्पकाले एव भवतः सम्पर्कं करिष्यामि” [४१] । अस्य संवादस्य पूर्तौ सति तौ स्वगृहं गतवन्तौ ।

विश्वनाथेन चन्द्रशेखराय राजगुरोः देशप्रेम्णः विषये उक्तम् । चन्द्रशेखरः तस्मात् प्रभावितः अभवत् । चन्द्रशेखरेण राजगुरुं कानपुर-नगरम् आनेतुं विश्वनाथं प्रति एकं पत्रं प्रेषितम् आसीत्[४२] । तत् पत्रं विश्वानाथेन राजगुरवे श्रावितम् । तच्छ्रुत्वा राजगुरुः उत्साहितः अभवत् । द्वौ चन्द्रशेखरं मेलितुं कानपुर-नगरं गतवन्तौ आस्ताम् ।

कानपुर-नगरं प्राप्य तौ चन्द्रशेखरम् अमिलताम् । चन्द्रशेखरस्य व्यक्तित्वं दृष्ट्वा राजगुरुः प्रसन्नः अभवत् । चन्द्रशेखरः राजगुरोः परीक्षां कृतवान्[४३] । चन्द्रशेखरेण उक्तं यत् – “कस्याधारेण भवान् अस्माकं समूहे सदस्यपदम् अलङ्कर्तुमिच्छति” ? तदा राजगुरुणा उक्तं – “व्यायामः मम रूचिकरः विषयः अस्ति । अहम् अग्निशस्त्रं (Gun), चुरिकां (knife), यष्टिकां च जानामि । भारतमात्रे अहं कस्यापि प्राणान् अपहर्तुं, स्वस्य प्राणान् त्यक्तुं चापि शक्नोमि” [४४] । राजगुरोः देशभक्तिमयानि वचांसि श्रुत्वा चन्द्रशेखरः हर्षमयः जातः । तदैव चन्द्रशेखरेण उक्तं यत् – “ अद्यप्रभृति भवान् (राजगुरुः) अस्माकं समूहस्य सदस्यः अस्ति । अन्ते चन्द्रशेखरेण राजगुरवे “रघुनाथः” इति नूतनं नाम प्रदत्तम् [४५]। तावदेव समूहस्य सर्वे सदस्याः राजगुरुं “रघुनाथः” इति गुप्तनाम्ना आह्वयन्ति स्म ।

प्रथमः प्रयत्नः[सम्पादयतु]

तस्मिन् समये सर्वे क्रान्तिकारिणः कस्यांश्चित् वृत्तौ कार्यरताः भवन्ति स्म । एकदा समूहस्य गोष्ठी जायमाना आसीत् । गोठ्याम् एकस्य जनस्य हननस्य निर्णयः अभवत् । तस्य नाम ’हसन निजामी’ इति आसीत्[४६] । सः आङ्ग्लानां दूतत्वेन कार्यं करोति स्म । तस्य हननार्थं चन्द्रशेखरेण शिववर्मणे अस्य दायित्वम् प्रदत्तम् । शिववर्मणा सह एकः जनः अपि अपेक्षितः आसीत् । अस्मिन् कार्ये योग्यव्यक्तेः आवश्यकता आसीत् । ये तत्र उपस्थिताः आसन्, तेषु केचित् जनाः वैयक्तिके कार्ये व्यस्ताः आसन् । अन्ये जनाः अयोग्याः आसन् । यतः इदं योजनात्मकं कार्यम् आसीत् । तस्मिन् क्षणे एव केनचित् जनेन राजगुरोः नाम उक्तम् । राजगुरोः नामस्मरणेन एव चन्द्रशेखरेण निर्णयः कृतः यत् “राजगुरुः एव अस्य कार्यस्य अपरः जनः स्यात्” [४७]

गोष्ठ्यानन्तरं शिववर्मा राजगुरोः सम्पर्कसूत्राणि स्वीकृत्य काशी-नगरं प्राप्तवान् । तस्मिन् समये राजगुरुः कस्मिंश्चित् विद्यालये व्यायामशिक्षकत्वेन पाठयति स्म[४८] । एतदतिरिक्ततया सः अन्यत्र छात्रेभ्यः यष्टिका-गदायुद्धयोः शिक्षणम् अपि ददाति स्म । शिववर्मा कदापि राजगुरुं न मिलितवान् आसीत् । किन्तु तस्य कार्यविषयिक्या चर्चया शिववर्मा बृहच्छरीरस्य कल्पनां चकार । शिववर्मा तं मेलितुं विद्यालयं गतवान् आसीत् । तत्र राजगुरुं दृष्ट्वा शिववर्मा आश्चर्यचकितो जातः । यतः राजगुरोः शरीरं पिच्छलम् (slim) आसीत्[४९] । तौ एकान्तस्थानं गत्वा चर्चां कृतवन्तौ । अन्ते शिववर्मणा उक्तं यत् – “ एकसप्ताहानन्तरं भवान् कानपुर-नगरम् आगच्छतु । कानपुर-नगरे डी. ए. वी. महाविद्यालये अहं पाठयन् अस्मि[५०] । तत्र मम प्रकोष्ठं प्राप्नोतु । तावत्पर्यन्तम् अग्निशस्त्रस्य व्यवस्थां करोम्यहम्” । चर्चायाः अन्ते शिववर्मा राजगुरुं कानपुर-नगरस्य सम्पर्कसूत्राणि अददात् ।

यदा राजगुरुः कानपुर-नगरं प्राप्तवान् आसीत्, तदा एकस्य अग्निशस्त्रस्य एव व्यवस्था अभवत् । द्वितीयस्य अग्निशस्त्रस्य व्यवस्थायै शिववर्मा प्रयत्नरतः आसीत् । राजगुरुः शिववर्मणः प्रकोष्ठे पञ्चदशदिनानि यावत् निवासं कृतवान् आसन्[५१] । किन्तु तावत्पर्यन्तम् अपि अपरस्य अग्निशस्त्रस्य व्यवस्था न जाता । तदा राजगुरुणा उक्तं यत् – “कदा इदं कार्यं परिपूर्णं भविष्यति । अहं तस्य देशद्रोहिणः प्राणं स्वीकर्तुमिच्छामि” [५२]। शिवरामेण उक्तं यत् – “ अहम् अपि इदं कार्यं शीघ्रतया पूर्णं कर्तुमिच्छामि । किन्तु योजनायां द्वयोः अग्निशस्त्रयोः व्यवस्थायै निर्णयः अभवत् । यदि एकस्य अग्निशस्त्रस्य प्रयासः सफलः न भवेत्, तर्हि अपरेण जनेन अपराग्निशस्त्रस्य उपयोगः कर्तव्यः इति” [५३] । तदा राजगुरुणा उक्तं यत् –“ यदि एकम् अग्निशस्त्रम् अस्ति तर्हि अपरस्य का आवश्यकता ? निश्चयेन अहं प्रथमवारमेव सफलतां प्राप्स्यामि, अपरस्य आवश्यकता अपि न भविष्यति” । राजगुरोः उत्साहं दृष्ट्वा शिववर्मा अपि उत्साहितो जातः[५४]

पराहे तौ देहली-नगराय प्रस्थितवन्तौ । देहली-नगरे कस्मिंश्चित् विश्रामालये तौ उषितौ । तत्र गत्वा शिववर्मणा ’हसन निजामी’ इत्ययम् अन्विष्टः । तेन ’हसन निजामी’ इत्यस्य विषये सम्पूर्णं ख्यापनं (Information) प्राप्तम् [५५]। इतोऽपि शिववर्मणा तस्य दिनचर्या अपि प्राप्ता आसीत् । तेन शिववर्मा ज्ञातवान् यत् एकाकी अस्मिन् कार्ये काठिन्यं भविष्यति । अतः सः अपरम् अग्निशस्त्रम् आनेतुं लाहोर-नगरं गतवान् आसीत् । राजगुरुः देहली-नगरे एव आसीत् । सः ’हसन निजामी’ इत्ययं समालक्षते स्म । ’हसन निजामी इत्याख्यं तस्यां रात्रौ कुत्रचित् सम्भोजनाय गमिष्यति’ इति राजगुरुः अजानात्[५६] । राजगुरुणा शिववर्मणः पुनरागमनस्य प्रतीक्षां न कृता । राजगुरुः तस्मिन् दिने एव कार्यं पूर्णं कर्तुमिच्छति स्म । अतः सः स्वस्य वेशं परिवर्त्य ’हसन निजामी’ इत्याख्यस्य गृहस्य समीपे एव तिष्ठन् प्रतीक्षाम् अकरोत् । यदा ’हसन निजामी’ इत्ययं स्वस्य कारयानेन पुनरागतवान्, तदा कारयानात् एकः जनः बहिरागतः । राजगुरुणा अग्निशस्त्रं चालितम् [५७]। सः जनः मृत्युम् प्रापत् । गोलिकायाः रवं श्रुत्वा आरक्षकाः (Police) घटनास्थलं प्राप्तवन्तः | किन्तु राजगुरुः ततः गतवान् आसीत् । सः मथुरा-रेलयानमार्गे गच्छन् आसीत् । आरक्षकाः तस्य पृष्टे गतवन्तः । किन्तु सः मार्गे एव निगूढः (Hide) जातः । तदा शीतर्तुः आसीत्[५८] । मार्गस्य समीपं बहूनि क्षेत्राणि (Farms) आसन् । क्षेत्रेषु जलम् अपि आसीत् । किन्तु आरक्षकेभ्यः रक्षार्थं सः प्रातःकालपर्यन्तं तस्मिन् जले एव आसीत् । प्रातःकाले सः मथुरा-नगराय प्रस्थितवान् । ततः कानपुर-नगरं गतः ।

शिववर्मा अपि प्रातःकाले देहली-नगरं प्राप्तवान् आसीत् । देहली-नगरे आरक्षकाः सन्दिग्धजनान् परीक्षन्ते स्म । एतादृशीं स्थितिं दृष्ट्वा शिववर्मा सचेतः जातः । सः विश्रामालयं प्राप्तवान् । किन्तु तत्र राजगुरुः उपस्थितः नासीत् इति दृष्ट्वा तस्य प्रतीक्षा कृता[५९] । तथापि राजगुरुः न आगतः । प्रातःकालीनं समाचारपत्रं दृष्ट्वा सः ज्ञातवान् यत् – “राजगुरोः कार्येण एव देहली-नगरे जनानां परीक्षणं भवदस्ति” इति ।

आगामी-दिने सः कानपुर-नगरं प्राप्तवान् आसीत्[६०] । अनेन कार्येण सः उत्साहितः आसीत् । किन्तु तत्र गत्वा तेन ज्ञातं यत् – रात्रौ अन्धकारे सः ’हसन निजामी’ इत्यस्य श्वसुरस्य हननं कृतवान् आसीत् । एतत्सर्वं ज्ञात्वा सः दुःखी अभवत् । तस्य हृदयं ग्लानिमयं जातम् आसीत् । रात्रौ राजगुरुशिववर्मणोः शय्या समीपे एव आसीत् । शयनकाले राजगुरुणा उक्तं यत् – “अहम् अस्माकं समूहस्य अपराधी अस्मि । यतः मया अस्मिन् कार्ये शीघ्रता कृता । अहम् अस्मै समूहाय अयोग्यः सिद्धोऽभवम्” [६१] । तदा शिवशर्मणा उक्तं यत् – “ भवता शीघ्रता कृता न तु अपराधः । रात्रौ अन्धकारे एतादृशी त्रुटिः केनापि भवितुं शक्यते । अतः चिन्ता मास्तु” [६२] । शिववर्मा राजगुरोः प्रोत्साहनम् अकरोत् ।

अनेन प्रसङ्गेन राजगुरुः तस्य समूहस्य अभिन्नः सदस्यः अभवत् । स्वस्य साहसेन सः प्रतिष्ठाम् अपि प्राप्तवान् आसीत् । अल्पवयसि एव राजगुरोः पितुः अवसानं जातम् । तेन पितृप्रेम न प्राप्तम् । लघुवयसि तेन गृहम् अपि त्यक्तम् आसीत्[६३] । तेन कुत्रापि सन्मानः, स्नेहः च न प्राप्तः । किन्तु तस्मिन् समूहे सः प्रतिष्ठां, सन्मानं, स्नेहम् इत्यादिकं सर्वं प्राप्तवान् आसीत् ।

भगतसिंहेन सह मेलनम्[सम्पादयतु]

कानपुर-नगरात् “प्रताप” नामिकायाः साप्ताहिक्याः प्रकाशनं भवति स्म । तस्यां साप्ताहिक्याम् एकदा देशभक्तिविषये लेखः आसीत् । तस्य लेखस्य लेखकः “गणेश शङ्कर विद्यार्थी” इत्याख्यः आसीत्[६४] । राजगुरुणा सः लेखः पठितः । राजगुरुः गणेशस्य अन्यान् अपि बहून् लेखान् पठितवान् । तेन राजगुरुः प्रभावितः जातः । कस्मिंश्चित् दिने राजगुरुः प्रवासार्थं कानपुर-नगरं गतवान् आसीत् । सः “प्रताप” नामिकायाः साप्ताहिक्याः कार्यालयम् अपि गतवान् [६५]। तत्र राजगुरोः गणेशेन सह मेलनम् अभवत् । कार्यालये गणेशं मिलित्वा तस्य उत्साहः वर्धितः ।

गणेशः अपि राजगुरुं जानाति स्म । गणेशः चन्द्रशेखरं सम्यक्तया जानाति स्म । यतः चन्द्रशेखरेण बहुवारं राजगुरोः विषये उक्तम् आसीत्[६६] । अतः किञ्चित् समयं यावत् राजगुरुगणेशयोः संवादः अभवत् । किञ्चित् क्षणं विचार्य राजगुरुणा उक्तं यत् – “ अहम् आजीवनं देशसेवायै कार्यं कर्तुमिच्छामि । किन्तु सम्पूर्णतया कार्येषु योगदानं प्रदातुं न प्रभवामि । अतः भवान् मे मार्गदर्शनं करोतु” [६७]

गणेशेन उक्तं यत् – “भवान् स्वयमेव प्रगल्भः अस्ति । अतः भवते मार्गदर्शनस्यावश्यकता नास्ति । तथापि अहम् एकेन जनेन सह भवतः परिचयं कारयामि । तं जनं मिलित्वा भवान् सन्तोषम् अनुभविष्यति” [६८]

पुनः राजगुरुणा उत्साहेन उक्तं – “भवान् कस्य जनस्य विषये चर्चां करोति” ? ततः परं गणेशेन उक्तं यत् – “भवता बलवन्तस्य नाम श्रुतम् उत वा न” ? राजगुरुः बलवन्तं जानाति स्म । बलवन्तस्य लेखाः प्रताप-साप्ताहिक्यां नियमितरूपेण प्रकाशिताः भवन्ति स्म[६९] । राजगुरुः बलवन्तस्य लेखान् पठति स्म । तेन सः बलवन्तं जानाति । किञ्चित् समयान्तरं गणेशेन बलवन्तः आहूतः । बलवन्तः एव भगतसिंहः अस्ति इति गणेशः राजगुरुं बोधितवान् । “भगतसिंहेन सह सहसा मेलनं भविष्यति” इति राजगुरुः कदापि न व्यचारयत् [७०]। राजगुरुः बहु प्रसन्नः जातः । भगतसिंहः पूर्वस्मादेव राजगुरुं जानाति स्म । देहली-नगरस्य काण्डस्य विषये भगतसिंहः अजानात् । तावदेव भगतसिंहः राजगुरोः प्रशंसां शृणोति स्म । ततः परं द्वयोः मित्रता अभवत्[७१] । द्वौ मिलित्वा देशसेवायै कार्याणि कृतवन्तौ आस्ताम् ।

“नौजवान भारत सभा” इत्यस्याः सदस्यः[सम्पादयतु]

भगतसिंहः कानपुर-नगरतः लाहौर-नगरं गतवान्[७२] । तत्र गत्वा भगतसिंह-भगवतीचरणयोः मिलित्वा “नौजवान भारत सभा” इत्यस्याः स्थापना कृता । भारतस्य युवानः तस्यां सभायां सदस्यतां प्राप्तुं शक्यन्ते स्म । ये क्रान्तिकारिणः युवानः आसन्, ते तस्यां सभायां सदस्यतां स्व्यकुर्वन् । यदा राजगुरुणा अस्याः सभायाः विषये ज्ञातं, तदा तेनापि सदस्यता प्राप्ता[७३] । तस्याः सभायाः निम्नलिखितानि उद्देश्यानि आसन् -

  • श्रमिकाणां, कृषकाणां च सङ्घटनेन एकस्य पूर्णगणराज्यस्य स्थापना भवेत् ।
  • कस्यापि जनस्य धर्मः, ज्ञातिः वा न गण्यते । सर्वेषां राष्ट्रियताधारेण एव युवसु देशभक्तेः भावना उद्भावनीया[७४]

सुखदेवः, धनवन्तरी, यशपालः, पिण्डीदासः, रामकिशनः इत्यादयः तस्याः सभायाः प्रमुखाः सदस्याः आसन् । सर्वेषां यूनां मतैः सभायाः अध्यक्षत्वेन रामकिशनः चितः आसीत् । भगतसिंहः महामन्त्री, भगवतीचरणः प्रचारमन्त्री च आसीत्[७५]

लाहौर-नगरे ये क्रान्तिकारिणः कार्यरताः आसन्, ते अपि तस्यां सभायां सदस्याः अभवन् । भगतसिंहः समाजवादस्य समर्थकः आसीत्[७६] । यतः सः जानाति स्म यत् समाजवादः एव भारतस्य उज्ज्वलभविष्याय उत्तमः मार्गः अस्ति । राजगुरुः अपि समाजवादस्य समर्थकः आसीत् । सः समाजवादस्य परिभाषाम् अपि न जानाति स्म । तथापि जीवनस्य अनुभवैः एव समाजवादं प्रति आकृष्टः अभवत्[७७]

”एम” नामकरणम्[सम्पादयतु]

चन्द्रशेखर-आजाद, रामप्रसाद बिस्मिल, बटुकेश्वर दत्त, अशफाक उल्ला, राजेन्द्रनाथ लाहिडी, रोशनसिंह, योगेशचन्द्र इत्यादीनां क्रान्तिकारिणां समूहाः सक्रियाः आसन् । सर्वैः मिलित्वा आङ्लानां विरोधार्थं योजना कृता[७८] । किन्तु तस्यां योजनायाम् अधिकस्य धनस्य आवश्यकता आसीत् । सर्वैः विचारितं यत् – सर्वकारस्य सम्पत्तिः लुण्ठनीया । ऑगस्ट-मासस्य नवमे दिनाङ्के काकोरी-ग्रामे एकं रेलयानम् अलुण्ठयन् । तस्मिन् रेलयाने ८६०० रुप्यकाणि आसन्[७९] । तत् धनम् आवश्यकतायाः अपि अधिकम् आसीत् । किन्तु क्रान्तिकारिभिः अस्य लुण्ठनस्य विपरितं फलं प्राप्तम् । आरक्षकैः एकः क्रान्तिकारी बद्धः । तेन क्रान्तिकारिणा सर्वकारसाक्षित्वेन तस्याः योजनायाः विषये सत्यम् उदितम् । तेन कारणेन बहवः क्रान्तिकारिणः मृत्युदण्डं प्राप्तवन्तः आसन्[८०] । तेषु रामप्रसाद बिस्मिल, रोशनसिंह, राजेन्द्रनाथ लाहिडी, अशफाक उल्ला खां च आसीत् ।

काकोरी-काण्डस्य प्रभावेण क्रान्तिकारिणां समूहाः विघटिताः जाताः । सर्वेषां पुनस्सङ्घटनाय ई. स. १९२८ तमस्य वर्षस्य सितम्बर-मासस्य ८ दिनाङ्के देहली-महानगरस्य एकस्मिन् गुप्तस्थाने अखिलभारतीय-गोष्ठी आयोजिता[८१] । तस्यां गोष्ठ्यां भारतस्य प्रमुखाः क्रान्तिकारिणः आसन् । तदा हिन्दुस्थान-समाजवादी-प्रजातान्त्रिक-सङ्घस्य स्थापना कृता । तस्यां सभायां प्रमुखाणां क्रान्तिकारिणाम् उपनामानि रचितानि । तेषु राजगुरवे “एम” इति नाम प्रदत्तम्[८२] । रघुनाथः अपि तस्य गुप्तनाम आसीत् । तथापि चन्द्रशेखरः अपरं नाम अददात् । सः महाराष्ट्रियः आसीत् । अतः “एम” इति महाराष्ट्रियस्य संक्षिप्तनाम इति ।

साईमन् कमिशन्’ इत्यस्मै राजगुरोः प्रतिकारः[सम्पादयतु]

ब्रिटिश्-सर्वकारेण १९१९ तमे वर्षे लॉर्ड् मॉन्टैग्यू, लॉर्ड् चेम्सफोर्ड् इत्येतयोः नेतृत्वे एकस्याः समितेः रचना कृता आसीत्[८३] । भारतीयानां हिताय तस्याः समितेः रचना अभवत् । किन्तु सा समितिः भारतीयेभ्यः अनुचिता आसीत् । अतः सर्वत्र बहिष्कारार्थं गोष्ठ्यः अभवन् । १९२७ तमस्य वर्षस्य नबम्बर-मासस्य ८ दिनाङ्के सर्वकारेण उद्घोषितं यत् – “भारतस्य स्थितेः अध्ययनार्थं सप्त समूहाः भारतम् आगमिष्यन्ति” इति [८४]। किन्तु तेषां समूहानां सदस्येषु एकः अपि भारतीयः नासीत् । सर्वैः तेषां समूहानां बहिष्कारार्थं निश्चयः कृतः ।

१९२८ तमस्य वर्षस्य फरवरी-मासस्य ३ दिनाङ्के सर्वे समूहाः मुम्बई-महानगरं प्राप्तवन्तः आसन्[८५] । तेषां समूहानाम् अध्यक्षः ’जॉन् साईमन्’ इत्याख्यः आसीत् । अतः अस्य नाम ’साईमन् कमिशन्’ इति आसीत् [८६]। मुम्बई-महानगरे बहवः जनाः एकत्रिताः अभवन् । तत्र कृष्णध्वजैः सर्वेषां समूहानां तिरस्कारः कृतः । मुम्बई-महानगरे कार्यं पूर्णं कृत्वा देहली-महानगराय सर्वे समूहाः प्रस्थितवन्तः । तत्रापि जनाः बहिष्कारार्थम् उपस्थिताः आसन् । यत्र यत्र समूहाः गच्छन्ति स्म, तत्र तत्र जनाः भविष्यन्ति स्म । जनाः “इङ्कलाब जिन्दाबाद”, “साईमन् कमिशन् वापस जाओ” इति सूत्रं घोषयन्ति (slogan) स्म[८७]

लाहौर-नगरे अपि ते समूहाः कार्यार्थं गतवन्तः आसन्[८८] । लाहौर-नगरं क्रान्तिकारिणां मुख्यस्थलं मन्यते स्म । तत्रापि बहिष्कारार्थं जनाः सम्मिलिताः आसन् । लाहौर-नगरे समूहानां बहिष्कारस्य दायित्वं ’नौजवान-भारत-सभायाः’ आसीत्[८९] । सभायाः क्रान्तिकारिणः लहौर-नगरस्य रेलस्थानकं प्राप्तवन्तः आसन् । “लाला लाजपत राय” इत्याख्येन नौजवान-भारत-सभायाः नेतृत्वं कृतम्[९०] । सर्वे क्रान्तिकारिणः रक्षायै “लाला लाजपत राय” इत्याख्यं परितः तिष्ठन्तः आसन् । किञ्चित् समयानन्तरं जनसम्मर्दः अभवत् । तदा आरक्षकैः जनेषु यष्टिकाप्रहारः कृतः । तथापि जनाः उद्घोषान् (slogan) कुर्वन्तः आसीत् । तेन खिन्नः आरक्षकाधीक्षकः ’जे. पी. साण्डर्स्’ इत्याख्यः अन्यैः आरक्षकैः सह तीव्रयष्टिकाप्रहारान् कृर्वन् आसीत्[९१] । सः ’लाला लाजपत राय’ महोदयं त्रिधा प्राहरत् । ’लाला लाजपत राय’ इत्यस्य मस्तके यष्टिकया क्षतिः जाता । तेन कारणेन प्रदर्शनं स्थगितं कृतम् । सर्वे समूहाः ततः गतवन्तः । यतः प्रदर्शनस्य पूर्वमेव निर्णयः जातः यत् – “प्रदर्शने किमपि हिंसात्मकं कार्यं मा भवेत्” इति[९२]

१९२८ तमस्य वर्षस्य नवम्बर-मासस्य १७ दिनाङ्के ’लाला लाजपत राय’ इत्याख्यः मस्तकपीडया स्वस्य प्राणान् त्यक्तवान्[९३] । तदनन्तरं रावीनद्यास्तटे तस्य अग्निसंस्कारः कृतः । तस्मिन् काले राजगुरोः स्वास्थ्यं समीचीनं नासीत् । अतः सः लाहौर-प्रदर्शने नासीत् । तदा राजगुरुः पूना-नगरे आसीत् । एतं समाचारं प्राप्य सः त्वरितेन लाहौर-नगरं गतवान् [९४]

१९२८ तमस्य वर्षस्य दिसम्बर-मासस्य २८ तमे दिनाङ्के लाहौर-नगरस्य ’मजङ्ग हाऊस्’ इति नामके स्थाने क्रान्तिकारिणां गोष्ठी जाता[९५] । तस्यां गोष्ठ्यां चन्द्रशेखर आजाद, राजगुरु, भगतसिंह, जयगोपाल, किशोरीलाल, सुखदेव, महावीरसिंह, भगवानदास च सम्मिलिताः अभवन् ।

गोष्ठ्यां राजगुरुणा उक्तं यत् – “आङ्ग्लैः अस्माकं स्वाभिमानस्य क्षतिः कृता अस्ति । अतः ’लाला जी’ इत्याख्यस्य मृत्योः प्रतीकारः तु अवश्यमेव करणीयः । वयम् अपमानं कदापि शोढुं न शक्नुमः इति अस्माभिः आङ्ग्लाः सूचनीयाः” [९६]

चन्द्रशेखरेण उक्तं यत् – अस्मिन् विषये धैर्येण कार्यं करणीयम् भविष्यति । अतः शान्त्या विचार्य योजना करणीया[९७] ।अन्ते सर्वैः राजगुरोः समर्थनं कृतम् आसीत् । सर्वैः मिलित्वा प्रतिकारार्थं योजना कृता ।

प्रदर्शने यष्टिकाप्रहाराय आदेशः आरक्षकाधिकारिणा स्कॉट् इत्याख्येन प्रदत्तः आसीत् । अतः स्कॉट् इत्याख्यस्य हननाय योजना संरचिता । रचनायां सर्वेषां साहाय्यम् आवश्यकम् आसीत् । अतः जयगोपाल, राजगुरु, भगतसिंह, भगवानदास, विजय इत्यादिभिः योजनायाः कार्याणि विभक्तानि कृतानि[९८]

सर्वे क्रान्तिकारिणः स्कॉट् इत्यस्य दिनचर्यां ज्ञातुं संशोधनं कुर्वन्तः आसन् । दिनचर्यां ज्ञात्वा स्कॉट् इत्याख्यस्य हननार्थं सज्जाः अभवन् । दिसम्बर-मासस्य १६ दिनाङ्के काकोरी-काण्डः अभवत् । अतः दिसम्बर-मासस्य १५ दिनाङ्के स्कॉट् इत्यस्य हननाय निर्णयः कृतः आसीत् [९९]। किन्तु तस्मिन् दिने सः कार्यालयम् एव न गतवान् । अतः योजना विलम्बबिता जाता । दिसम्बर-मासस्य १७ दिनाङ्के सर्वे क्रान्तिकारिणः सज्जाः अभवन् । प्रातःकाले सार्ध-नववादने (९:३० am) जयगोपालः दूरादेव एकम् आङ्ग्लारक्षकाधिकारिणम् अपश्यत्[१००] । तेन दूरादेव अनुमानं कृतम् आसीत् यत् – सः अधिकारिः एव स्कॉट् अस्ति इति । अतः सः सर्वान् सूचितवान् । तस्मिन् दिने एव तस्य हननं कर्तव्यम् इति सर्वैः निर्णीतम् । मध्याह्ने २ वादने यदा आरक्षकाधिकारिः बहिरागतः, तदा राजगुरुणा तस्योपरि अग्निशस्त्रम् (Gun) अक्षिपत् । तस्मिन् क्षणे एव सः अधिकारिः भूमौ पतितः, मृतश्च[१०१] । सर्वे क्रान्तिकारिणः योजनानुसारं ’मजङ्ग हाऊस्’ इति स्थानं प्राप्तवन्तः । किन्तु तस्यां योजनायाम् एका त्रुटिः जाता ।

साण्डर्स् स्कॉट् इत्येतयोः वेशः समानः एव आसीत् । अतः स्कॉट् इत्यस्य स्थाने साण्डर्स् इत्याख्यस्य हननं जातम्[१०२] । यतः भयवशात् स्कॉट् केभ्यश्चित् दिवसेभ्यः लाहौर-नगरात् बहिः गतवान् आसीत् । साण्डर्स् इत्याख्येन एव “लाला लाजपत राय” उपरि यष्टिकाप्रहारः कृतः । अतः क्रान्तिकारिणः तस्य हत्यया अपि सन्तोषं कृतवन्तः । सम्पूर्णे नगरे क्रान्तिकारिणां जयजयकारः अभवत् । इयं घटना “लाहौर कुतन्त्र” इति नाम्ना विख्याता अस्ति[१०३]

राजगुरुणा एकया गोलिकया एव साण्डर्स् इत्यस्य हननं कृतम् । अतः सर्वे तस्य प्रशंसां कृतवन्तः । किन्तु सः निराशः अभवत् । यतः तस्यां घटनायाम् एकस्य भारतीयारक्षकस्य अपि हननम् अभवत् । तस्यारक्षकस्य विषये विचार्य सः तस्य पश्चात्तापं कुर्वन् आसीत्[१०४]

तदा चन्द्रशेखरेण व्यादिष्टं यत् – “सः स्वस्य कर्त्तव्यपालनं कुर्वन् आसीत्, भवान् अपि स्वस्य कर्त्तव्यपालनं कुर्वन् आसीत् च । अस्माकं रक्षा एव ते कर्त्तव्यम् अस्ति । अतः तस्य हननम् अनुचितं नासीत्” [१०५] । चन्द्रशेखरस्य वचांसि श्रुत्वा बोधः जातः, पुनः उत्साहः आगतश्च ।

तदनन्तरम् आरक्षकेभ्यः रक्षणार्थं क्रान्तिकारिणः लाहौर-नगरात् बहिः गच्छन्तः आसन् । तेषु चन्द्रशेखरराजगुरुभगतसिंहाः अपि गतवन्तः आसन् । सर्वेषां वेशः परिवर्तितः आसीत् । राजगुरुचन्द्रशेखरौ लखनऊ-नगरं गतवन्तौ[१०६]

ततः परं राजगुरुः काशी-नगरं प्राप्तवान् । तत्र राजगुरुः सावरगांवरकर-इत्याख्येन सह निवसति स्म । राजगुरुणा पुनः व्यायामशाला आरब्धा । तस्य व्यायामशाला आरक्षकालयस्य (Police Station) समीपे एव आसीत् । तथापि सः निर्भयेन व्यायामशालां चालयति स्म[१०७] । तस्मिन् काले क्रान्तिकारिभिः स्वस्य कार्यालयस्य स्थानं परिवर्तितम् आसीत् । क्रान्तिकारिभिः आगरा-नगरे कार्यालयः स्थापितः । आगरा-नगरे “हिङ्ग की मण्डी”, “नाई की मण्डी” इत्येते द्वे स्थाने आस्ताम्[१०८] । तत्र “हिङ्ग की मण्डी” इत्यस्मिन् स्थाने अग्निगोलकस्य यन्त्रशाला स्थापिता । “नाई की मण्डी” इत्यस्मिन् स्थाने क्रान्तिकारिणां निवासार्थं व्यवस्था आसीत् । तत्र क्रान्तिकारिभ्यः प्रशिक्षणं प्रदीयते स्म । समयान्तरे साण्डर्स्-काण्डे उपरते सति राजगुरुः क्रान्तिकारिणः मेलितुम् आगरा-नगरं गतवान् आसीत्[१०९]

अग्निगोलकस्य विस्फोटात् संसदि विरोधः[सम्पादयतु]

तस्मिन् समये देशे विरोधार्थम् आन्दोलनानि प्रचलन्ति आसन् । तैः आन्दोलनैः सर्वकारस्य स्थितिः शिथिला जायमाना आसीत् । सर्वकारेण “जन सुरक्षा बिल”, “औद्योगिक विवाद बिल” इत्येतयोः निश्चयीकरणार्थं निर्णयः कृतः[११०] । अयं सर्वकारस्य कूटनीतिः आसीत् । तदा सर्वकारः जनानाम् एकताम् भेत्तुं प्रयासान् कुर्वन् आसीत् । किन्तु भगतसिंहः इत्यादयः युवकाः सर्वकारस्य नीतिम् ज्ञातवन्तः । अतः अस्याः कूटनीतेः विरोधार्थं क्रान्तिकारिणः मिलित्वा योजनां कृतवन्तः[१११] । चन्द्रशेखर, राजगुरु, भगतसिंह, सुखदेव, बटुकेश्वर, विजयकुमार, जयदेव च गोष्ठ्यां सम्मिलिताः जाताः ।

गोष्ठ्यां तयोः विधेयकयोः (Bill) विषये चर्चा अभवत् । विधेयकौ निश्चितौ न भवेताम् इति क्रान्तिकारिणां मतम् आसीत् । घोषणायाः अधिकारः ’वायसराय’ इत्याख्यस्य आसीत् । भगतसिंहेन स्वस्य विचारः प्रस्थापितः यत् – “यदा “वायसराय” इत्ययं विधेयकयोः (Bill) घोषणां करिष्यति, तदा वयं संसदि अग्निगोलकानां विस्फोटेन तस्य विरोधं करिष्यामः[११२] । तेन जनानां मनसि क्रान्तिकारिविचाराः उद्भविष्यन्ति” इति ।

अस्यां योजनायां द्वयोः क्रान्तिकारिणोः आवश्यकता आसीत् । भगतसिंहः स्वयमेव अस्य कार्यस्य दायित्वम् अवहत् । अपरस्य जनस्य विचारः भवत् आसीत् । अन्ते बटुकेश्वरः तत्कार्यार्थं चितः[११३] । तस्मिन् कार्ये राजगुरुः नाम नासीत् । अतः सः दुःखी अभवत् । तदा राजगुरुणा उक्तं यत् – “अस्मै कार्याय भगतसिंहः न गच्छेत् इति मे मतिः । “हिन्दुस्तान-समाजवादी-प्रजातान्त्रिक-सङ्घस्य” सङ्घठने भगतसिंहस्य आवश्यकता वर्तते । तस्य स्थाने अहं तत्कार्यं करिष्यामि” [११४]

तदा चन्द्रशेखरेन उक्तं यत् – “संसदि आङ्ग्लभाषायां वक्तव्यम् भवति । भवान् तत् न कर्तुं शक्नोति । किन्तु यदि भगतसिंहः इच्छेत् तर्हि बटुकेश्वरस्य स्थाने गन्तुं शक्नोति” [११५]। अन्ते भगतसिंहस्य वचनैः प्रभावितः राजगुरुः योजनां स्वीकरोति ।

१९२९ तमस्य वर्षस्य अप्रैल-मासस्य ९ दिनाङ्के संसदि ’जन सुरक्षा बिल’, ’औद्योगिक विवाद बिल’ इत्येतयोः विधेयकयोः निश्चयार्थं गोष्ठी आरब्धा[११६] । संसद्सदस्यानां विवादः प्रचलन् आसीत् । तत्र दर्शकेषु भगतसिंहः, बटुकेश्वरः च उपविश्य प्रतीक्षां कुर्वन्तौ आस्ताम् । जॉन् शूस्टर् इत्याख्येन यदा घोषणा कृता, तदैव भगतसिंहः एकम् अग्निगोलकं प्रक्षिप्तवान्[११७]

ततः परं क्षणं विरम्य पुनः सः अपरम् अग्निगोलकं प्रक्षिप्तवान् । तेन जनसम्मर्दे कोलाहलः जातः । सर्वे दर्शकाः, संसद्सदस्याः, आरक्षकाः च प्राणरक्षार्थम् इतः ततः धावन्तः आसन् । किञ्चित् समयान्तरे स्थितिः शान्ता जाता । भगतसिंहेन, बटुकेश्वरेण च आत्मसमर्पणं कृतम्[११८] । तौ नीत्वा आरक्षकाः आरक्षकालयं गतवन्तः । द्वयोः मुखमण्डले भारतमात्रे आत्मसमर्पणस्य उत्साहः परिदृश्यते स्म ।

मित्रतायां शठः[सम्पादयतु]

क्रान्तिकारिणाम् आन्दोलनेन सर्वकारः क्रुद्धः अभवत् । तेन कारणेन आरक्षकाः क्रान्तिकारिणां बन्धनं कर्तुं प्रयासरताः आसन् । तदा क्रान्तिकारिषु जयगोपाल, हंसराज वोहरा इत्येतौ द्वौ अवष्टब्धौ जातौ[११९] । कारागारे ताभ्यां सर्वं सत्यम् उक्तम् । “साण्डर्स् इत्याख्यस्य नरहत्यायां राजगुरुः अपि आसीत्” इति तौ उक्तवन्तौ । ब्रिटिशसर्वकारेण राजगुरुः विषये पुरा न श्रुतम् आसीत् । किन्तु हंसराजः जयगोपालः इत्येतौ राजगुरोः सम्पूर्णं परिचयं दत्तवन्तौ । ताभ्यां राजगुरोः सर्वाणि सम्पर्कसूत्राणि ब्रिटिशसर्वकाराय दत्तानि[१२०]

गुप्तचरविभागे “शरद केसकर” इत्याख्यः एकः अधिकारी आसीत् । गुप्तचरविभागेन तस्मै राजगुरोः दिनचर्यां ज्ञातुं दायित्वं प्रदत्तम् आसीत् । ‘केसकर’ इत्ययं पूना-नगरं गतवान् आसीत्[१२१] । तत्र सः राजगुरुणा सह मित्रताम् अकरोत् । स्वयं देशभक्तः अस्ति इति ’केसकर’ राजगुरुम् अकथयत् । तेन राजगुरुः तस्मात् प्रभावितः जातः । किन्तु राजगुरुः न जानाति स्म यत् ’केसकर’ गुप्तचरः अस्ति । भविष्यत्काले कियन्ति सङ्कटानि भविष्यन्ति इति अपि सः विचारितुं न शक्नोति स्म । किन्तु ‘केसकर’ सम्पूर्णाः सूचनाः ब्रिटिश-सर्वकाराय प्रेषयति स्म[१२२]

तस्मिन् काले एव मुम्बई-महानगरस्य राज्यपालं लेडरिक्स् साईक्स् इत्याख्यं हन्तुं राजगुरुः योजनाम् अकरोत्[१२३] । तस्याः योजनायाः सन्देशः राजगुरुणा चन्द्रशेखरं प्रति प्रेषितः आसीत् । चन्द्रशेखरः तस्याः योजनायाः आदेशम् अयच्छत् । चन्द्रशेखरः भगवानदासः, सदाशिवः इत्याख्यौ द्वौ क्रान्तिकारिणौ प्रेषितवन्तौ [१२४]। चन्द्रशेखरेण ताभ्याम् सह अग्निशस्त्राणि, अग्निगोलकानि, अग्निगोलकानां निर्माणाय सामग्र्यः च पूना-नगराय प्रेषिताः आसन् । किन्तु भुसावल-नगरस्य रेलस्थानके द्वौ क्रान्तिकारिणौ बद्धौ जातौ । तदा राजगुरुः एकाकी एव अवशिष्टः जातः । किन्तु राजगुरुः दृढनिश्चयः आसीत्[१२५] । अतः एकाकी एव लेडरिक्स् इत्याख्यं हन्तुं सज्जः अभवत् ।

एकस्मिन् दिवसे पूना-नगरे एका सभा अभवत् । सभायां लेडरिक्स् अपि आमन्त्रितः आसीत् । तस्याः सभायाः सन्देशं प्राप्य राजगुरुः सभास्थलं प्राप्तवान् । किन्तु तत्र बहवः आरक्षकाः सुरक्षायै उपस्थिताः आसन् । तादृशीं स्थितिं दृष्ट्वा राजगुरोः उत्साहः नष्टः जातः[१२६]

‘केसकर’ राजगुरोः योजनां जानाति स्म । सभायाः पूर्वमेव ‘केसकर्’ गुप्तचरविभागस्य वरिष्ठाधिकारिणं ‘कवठालकर्’ इत्याख्यम् असूचयत्[१२७] । कवठालकर इत्याख्यः तत्रैव राजगुरोः बन्धनं कर्तुम् ऐच्छत् । किन्तु जनसम्मर्दनेन सः विचारम् अत्यजत् ।

१९२९ तमस्य वर्षस्य दिसम्बर-मासस्य २९ तमे दिनाङ्के राजगुरुः सावरगांवरक इत्याख्येन सह चलचित्रं दृष्टुम् अगच्छत्[१२८] । चलचित्रं दृष्ट्वा सांयकालस्य ६ वादने सः पुनः गृहं प्राप्तवान् आसीत् । रातौ ८ वादने सः भोजनं प्राप्य सावरगांवरक इत्याख्येन सह वार्तालापम् अकरोत् । रात्रौ द्विवादने तौ शयनार्थं गतौ ।

रात्रौ सार्धत्रिवादने (३.३०am) तस्य गृहे कश्चन जनः गतवान् आसीत्[१२९] । सः गृहं प्राप्य द्वारम् अताडयत् । तदा सावरगांवरकर इत्यनेन उक्तं – कः भवान् ? जनेन उक्तं यत् – द्वारम् उद्घाटय, ‘एम’ इत्यस्मै एकः सन्देशः अस्ति । ‘एम’ इति कूटसङ्केतं श्रुत्वा सावरगांवरकर इत्यनेन द्वारम् उद्घाटितम् । यथा तेन द्वारम् उद्घाटितं, तथैव बहवः आरक्षकाः गृहं प्रविष्टाः । आरक्षकाः द्वौ क्रान्तिकारिणौ बद्ध्वा लाहौर-नगरस्य कारागारं नीतवन्तः[१३०]

आगामिदिवसे सर्वान् क्रान्तिकारिणः लाहौर-नगरस्य न्यायालयम् आनीतवन्तः । तत्र मित्राणि दृष्ट्वा राजगुरुणा ’इङ्कलाब’ इति उद्घोषितम्, मित्रैः अपि ‘जिन्दाबाद’ इति प्रत्युत्तरं प्रदत्तम्[१३१] । क्रान्तिकारिणां नादेन सम्पूर्णः न्यायालयः स्फायते स्म । राजगुरुः सर्वाणि मित्राणि अमिलत् । सर्वे मिलित्वा विनोदं कुर्वन्तः आसन् । तद्दृश्यं दृष्ट्वा न्यायाधीशः विचलितः जातः । किन्तु सः किमपि कर्तुम् असमर्थः आसीत्[१३२] । क्रान्तिकारिणः प्रतिदिनं सिंहः इव न्यायालयं प्रविशन्ति स्म । यदा न्यायाधीशः आसने उपविशति स्म, तदा सर्वे क्रान्तिकारिणः ‘इङ्कलाब जिन्दाबाद’, वन्दे मातरम्, ‘साम्राज्यवादी मूर्दाबाद’ इत्यादिम् उद्घोषयन्ति स्म[१३३]

लाहौर-षड्यन्त्रान्तर्गतं चतुर्विंशतिः क्रान्तिकारिणः अभियुक्ताः (accuses) आसन् [१३४]। तेषु – भगतसिंह, बटुकेश्वर दत्त, सुखदेव, राजगुरु, शिववर्मा, कमलनाथ तिवारी, किशोरीलाल, गया प्रसाद, सुरेन्द्र पाण्डे, अजय घोष, कुन्दनलाल, देशराज, प्रेमदत्त च त्रयोदश क्रान्तिकारिणः आरक्षकैः बद्धाः आसन् ।

चन्द्रशेखर आजाद, सतगुरु दयाल, भगवानदास, कैलाशपति, भगवतीचरन वोहरा, यशपाल इत्येते षड् क्रान्तिकारिणः द्रवन्ते स्म[१३५] |

शेषाः पञ्च क्रान्तिकारिणः दण्डभयेन, लोभेन, व्यक्तिगतस्वार्थेन च सर्वकारस्य साक्षिणः अभवन्[१३६] । तेषु – फणीन्द्रनाथ घोष, जयगोपाल, मनमोहन बैनर्जी, हंसराज वोहरा, ललितकुमार च आसन् ।

फणीन्द्रनाथः सर्वप्रथमः साक्ष्यम् अददात् । कस्मिंश्चित् समये सः क्रान्तिकारिभ्यः आदरणीयः आसीत् । ‘हिन्दुस्तान-समाजवादी-प्रजातान्त्रिक-सङ्घस्य श्रेष्ठः कार्यकर्ता अपि आसीत्[१३७] । किन्तु लोभेन सः मित्राणां विरोधे साक्षिरूपेण अभवत् ।

अनन्तरम् अपरः साक्षी जयगोपालः आसीत् । सः क्रान्तिकारिसमूहस्य महत्वपूर्णः सदस्यः आसीत् । चन्द्रशेखरभगतसिंहौ तस्य गाढमित्रे आस्ताम् । साण्डर्स्-काण्डे अपि जयगोपालेन सहयोगः कृतः । तथापि सः सर्वेषां क्रान्तिकारिणां साक्ष्यं कृत्वा सत्यम् अवदत् । अभियुक्तेषु क्रान्तिकारिषु प्रेमदत्तः कनिष्ठः आसीत् । क्रोधवशात् प्रेमदत्तः जयगोपालस्य मुखे पादत्राणम् अक्षिपत्[१३८]

तदा राजगुरुणा प्रेमदत्तः उक्तः यत् – “अहो प्रेमदत्त ! सुन्दरं, सुन्दरं । तेन सह एतादृगेव व्यवहर्तव्यः” । ततः परं न्यायलये एव क्रान्तिकारिणः अधः लिखितं गीतम् अगायन्[१३९]


सरफरोशी की तमन्ना अब हमारे दिल में है ।
देखना है जोर कितना बाजु-ए-कातिल में है ।
वक्त आने दे बता देंगें तुझे ए आसमां,
हम अभी से क्या बताए क्या हमारे दिल में है ।
ए शहीदे-मुल्को-मिल्लत, मैं तेरे ऊपर निसार,
अब तेरी हिम्मत की चर्चा गैर की महफिल में है ।
सरफरोशी की तमन्ना अब हमारे दिल में है ।

न्यायालये अस्य गीतस्य नादः आसीत् । गीतेन दर्शकाः मूकाः अभवन् । न्यायाधीशः अभियुक्तानां करबन्धनाय आदिष्टवान् । किन्तु क्रान्तिकारिभिः न स्वीकृतम्[१४०] । तेन कारणेन न्यायालये कोलाहलः अभवत् । अतः तद्दिवसीयं कार्यं स्थगितम् अभवत् । आगामिदिवसे पुनः तादृशी स्थितिः सञ्जाता । तस्मिन् दिने अपि कार्यं स्थगितम् अभवत् । अभियुक्ताः तत् नैच्छन्, उक्तवन्तः च यत् – “ते करबन्धनं विहाय एव न्यायालयं प्रविशन्ति” इति[१४१] । तदा आरक्षकाधिकारिणा उक्तं – केवलं बहितः न्यायालयपर्यन्तं करबन्धनं कर्त्तव्यम् भविष्यति । न्यायालयं प्रविश्य करबन्धनम् उद्घाटयिष्यामि” । तदा अभियुक्ताः स्वीकृतवन्तः । अन्ततो गत्वा भगतसिंहेन अधिकारिणे करबन्धनम् उद्घाटयितुं सङ्केतः कृतः । तथापि अधिकारिणा न उद्घाटितम् । अधिकारिणः व्याजं दृष्ट्वा राजगुरुभगतसिंहौ हास्यं कुर्वन्तौ आस्ताम्[१४२] । मध्याह्ने विरामे सति सर्वे भोजनाय गताः । तदा अभियुक्तानां करबन्धनम् उद्घाटितम् आसीत् । पुनः यदा कार्यवाही प्रारब्धा, तदा अभियुक्तैः करबन्धनं न स्वीकृतम् । तेन खिन्नः न्यायाधीशः आदिष्टं यत् – “अभियुक्तान् ताडयन्तु” । आदेशं श्रुत्वा सर्वैः आरक्षकैः अभियुक्ताः ताडिताः[१४३]

तस्मिन् दिने लाहौर-नगरे सार्वजनिक-लोकसभायाम् आरक्षकाणाम् एतद् दुष्कृत्यस्य निन्दा अभवत् । आगामिदिवसे समाचारपत्राणां मुख्यपृष्ठेषु अपि इयं वार्त्ता मुद्रिता आसीत् । वार्तायाः प्रभावेण न्यायाधीशेन करबन्धनस्य आदेशः प्रतिगृहीतः[१४४] । ततः परम् अभियुक्ताः करबन्धनं विहाय एव प्रविशन्ति स्म ।

आमरणम् अनशनं प्रसङ्गः[सम्पादयतु]

कारागारे मानसिकपीडां प्रदातुं क्रान्तिकारिभ्यः सौविध्यानि न प्रदत्तानि आसन् । भोजनस्य स्तरः निम्नः, क्रान्तिकारिणां निवासस्य स्थाने स्वच्छतायाः अपि अभावः च वर्तते स्म[१४५] । अतः भगतसिंहेन अनिश्चितकालाय अनशनस्य घोषणा कृता । अस्मिन् अनशने भगतसिंहः सौविध्याय काश्चित् अभियाचनाः कृतवान्, ताः अभियाचनाः (Demands) अधः लिखिताः सन्ति[१४६]

  1. वयं राजनैतिकाः बन्दिनः स्मः । अतः अस्मभ्यं योग्यस्तरस्य भोजनं दातव्यं भवेत् । युरोपीय-बन्दिनां सदृशं भोजनं भवेत् ।
  2. बलात् अस्माभिः कारागारे श्रमकार्यं मा कारयेयुः ।
  3. केनापि अवरोधेन विना लेखनार्थं, पठनार्थं च सामाग्रीणां सौकर्यं भवेत् ।
  4. प्रत्येकस्मै बन्दिने एकं समाचारपत्रं प्रदातव्यं भवेत् ।
  5. प्रत्येकस्मिन् कारागारे राजनैतिकानां बन्दिनां स्वतन्त्रविभागः भवेत् । युरोपीयबन्दिनः यानि सौकर्याणि प्राप्नुवन्ति, तानि सर्वाणि सौकर्याणि राजनैतिकबन्दिभ्यः अपि भवेयुः ।
  6. स्नानार्थं सौकर्यं भवेत् ।
  7. स्वच्छवस्त्राणि दद्युः ।
  8. राजनैतिकबन्दिभ्यः श्रेष्ठबन्दिनः इव व्यवहारः भवेत् ।

उपर्युक्तानि सर्वाणि तथ्यानि तर्कसङ्गतानि आसन् । तथापि सर्वकारेण तानि तथ्यानि अस्वीकृतानि । किन्तु अनशनस्य प्रभावेण क्रान्तिकारिणां स्थितिः गम्भीरा जाता । तेन कारणेन सर्वकारेण सर्वाः अभियाचनाः स्वीकर्तुम् आश्वासनं प्रदत्तम् । सर्वकारस्य आश्वासनेन १९२९ तमवर्षस्य अक्टूबर-मासस्य ५ दिनाङ्के अनशनस्य विरामः अभवत्[१४७]

किन्तु अनशनस्य अवसानं भवेत् इति इच्छया सर्वकारेण लघ्व्यः अभियाचनाः स्वीकृताः, अन्याः निरस्ताः च [१४८]। अतः पुनः भगतसिंहेन अनशनम् आरब्धम् ।

भगतसिंहबटुकेश्वरौ केन्द्रियकारागारे आस्ताम् । किन्तु राजगुरुः युवकानां कारागारे आसीत् । यदा राजगुरुः अनशनस्य समाचारं प्राप्तवान्, तावदेव तेन आमरणम् अनशनम् आरब्धम्[१४९]

अनशनस्य त्रयोदश दिनानि व्यतीतानि । बुभुक्षया राजगुरोः शरीरं दुर्बलं जायमानम् आसीत् । दुर्बलतायाः कारणेन सः उपवेष्टुम् अपि न शक्नोति स्म । सः दृढनिश्चयः आसीत् । अतः सः अनशनं न त्यजति स्म[१५०] । सर्वकारस्य समस्याः वर्धन्ते स्म । राजगुरुः अपि अभियाचनाः स्वीकारयितुं प्रयत्नरतः आसीत् । तदा राजगुरोः स्थितिः गम्भीरा आसीत् । राजगुरोः स्थितिं दृष्ट्वा नगरजनाः अपि आन्दोलनानि कुर्वन्तः आसन् । बहवः प्रमुखाः नेतारः अपि तस्य समर्थनं कुर्वन्तः आसन् [१५१]

तादृश्या स्थित्या सर्वकारः प्रभावितः जातः । अतः राजगुरोः अनशनस्य भङ्गः आवश्यकः अभवत् । तेन कारणेन आरक्षकाः अन्यैः अनशनकर्तृभिः बन्दिभिः सह राजगुरुं चिकित्सालयं नीतवन्तः[१५२]

चिकित्सालये चिकित्सकेन दुग्धं पाययितुं निर्यासस्य (Rubber) नलिका बलात् एव राजगुरोः मुखे स्थापिता । किन्तु चिकित्सकेन एका त्रुटिः जाता । चिकित्सकः निर्यासनलिका उदरस्य स्थाने फुफ्फुसे (lung) स्थाप्य तस्यां नलिकायां दुग्धम् अपूरयत् | तेन कारणेन फुफ्फुसाः सङ्कुचिताः अभवन् । अनया त्रुट्या राजगुरुः क्लोमपाकरोगेन (pneumonia-निमोनिया) पीडीतः जातः[१५३]

“सर्वेषु बन्दिषु तस्य स्थितिः अधिकतमा असमीचिना अस्ति । सः मृत्युशय्यायाम् अस्ति । तस्य फुफ्फुसाः सङ्कुचिताः जाताः । शरीरं कङ्कालम् इव दृश्यते । सः ज्वरेण अपि पीडितः अस्ति । तस्य बाहुविक्षेपः (Movement) अपि कर्तुं न शक्नोति” इति सन्देशः लाहौर-नगरस्य ‘द ट्रिब्यून्’ इति नामके समाचारपत्रे मुद्रितः आसीत्[१५४]

राजगुरोः गभीरायां स्थितौ सत्यां भगतसिंहेन अनशनं त्यक्तुम् एकः सन्देशः प्रेषितः आसीत् । तस्मिन् सन्देशे भगतसिंहेन लिखितं यत् – “भवतः समर्थनेन वयम् अधिकं बलं प्राप्तवन्तः । किन्तु अधुना अनशनं स्थगयतु । मयि विश्वासं करोतु । वयं सत्याग्रहस्य कार्यम् आमरणं करिष्यामः” [१५५]

“भगतसिंहबटुकेश्वरौ एकाकीनौ एव आन्दोलनं करिष्यतः” इति राजगुरुः कदापि न स्वीकरोति स्म । यद्यपि राजगुरोः स्वास्थ्यं प्रतिदिनं शिथिलं जायमानम् आसीत्, तथापि राजगुरुणा अनशनं न त्यक्तम्[१५६]

भगतसिंहः राजगुरोः घनिष्ठं मित्रम् आसीत् । अतः भगतसिहस्य मनसि राजगुरोः स्वास्थ्यविषयिकी चिन्ता आसीत् । भगतसिंहः राजगुरोः पार्श्वे गन्तुम् इच्छति स्म । किन्तु तद् असम्भवम् आसीत् । यतः संसदि अग्निगोलककानां विस्फोटकारणात् सर्वकारः भगतसिंहबटुकेश्वराभ्यां “कालापानी” इति दण्डम् अकरोत् [१५७]। तौ स्वमित्रैः पृथक् केन्द्रियकारागारे आस्ताम् ।

रविवासरे एव तौ युवकानां कारागारे नीतवन्तः । राजगुरोः स्वास्थ्यं शक्तिहीनम् आसीत् । अतः राजगुरुं मेलितुं भगतसिंहबटुकेश्वरौ युवकानां कारागारे आहूतौ[१५८] । भगतसिंहः त्वरितमेव गन्तुं सज्जः अभवत् ।

भगतसिंहस्य मनसि राजगुरोः विषये एव चिन्तनं चलत् आसीत् । मार्गे गमने सति भगतसिंहः स्वस्य, राजगुरोः च पुरातनानां स्मरणानां चिन्तनं कुर्वन् आसीत् । तस्मिन् काले सः दुःखी अभवत् । यतः राजगुरोः सदृशं मित्रं दुर्लभम् आसीत्[१५९] । राजगुरुः मित्रेभ्यः स्वस्य प्राणम् अपि त्यक्तुं सज्जः आसीत् ।

भगतसिंहबटुकेश्वरौ कारागारं प्राप्तवन्तौ । तत्र गत्वा तौ राजगुरुम् अमिलताम् । भगतसिंहं दृष्ट्वा राजगुरुः प्रसन्नः जातः [१६०]। किन्तु दुर्बलतायाः कारणात् सः किमपि वक्तुम् असर्मर्थः आसीत् । राजगुरुः शिववर्माणं प्रति एकं सङ्केतं कृतवान् । सङ्केतं प्राप्य शिववर्मा भगतसिंहाय एकं पत्रम् अददात् । भगतसिंहः उत्साहेन तत् पत्रम् अपठत् । राजगुरुणा तस्मिन् पत्रे लिखितम् आसीत् यत् – “सफलता” इति । एकेन शब्देन राजगुरोः मनसः इच्छा स्पष्टा जाता[१६१]

भगतसिंहः राजगुरवे उक्तवान् – “भवान् सत्यं वदति । किन्तु साम्प्रतं भवतः स्वास्थ्यं समीचिनं नास्ति । अतः स्वास्थ्यं समीकर्तुम् ओषध्याः, दुग्धस्य च आवश्यकता वर्तते । अतः भवान् औषधिदुग्धे स्वीकरोतु” [१६२]

राजगुरुणा उक्तं यत् – “यावत् पर्यन्तम् अस्माकम् अभियाचनाः परिपूर्णाः न भवेयुः, तावत्पर्यन्तम् अहं जलम्, अन्नं च न स्वीकरिष्यामि । मम कृते इदम् एकम् अमूल्यं क्षणं वर्तते । अतः इमं त्यक्तुं मा वद” [१६३]

राजगुरोः वचांसि श्रुत्वा भगतसिंहः चिन्तितः जातः । तदा सहसा बन्दीपालः आगतः । तेन उत्साहेन उक्तं यत् – “ सर्वकारेण भवताम् अभियाचनाः स्वीकृताः । तस्य आदेशः अपि अस्माभिः प्राप्तः” [१६४]। सर्वे बन्दिनः प्रसन्नाः अभवन् । तदा भगतसिंहः “इङ्कलाब जिन्दाबाद” इत्युद्घोषयत् ।

लॉर्ड् इरविन् इत्यनेन राजगुरोः स्थितिं दृष्ट्वा सर्वकाराय एकं पत्रं प्रेषितम् आसीत् । तस्मिन् पत्रे लॉर्ड् इरविन् इत्यनेन लिखितं यत् – “राजगुरुः क्लोमपाकरोगेण (pneumonia-निमोनिया) ग्रस्तः अस्ति । तस्य स्थितिः गभीरा अस्ति । सः मृतावस्थायाम् अस्ति । तेन जनेषु प्रबलता वर्धिष्यति । अतः बन्दिनाम् अभियाचनाः स्वीकृत्य कारागारस्य नियमेषु, व्यवस्थासु च सौकर्याणां वृद्धिः भवेत्” [१६५]

तस्मात् दिनात् एव कारागारे सौकर्याणां वृद्धिः अभवत् । राजगुरोः तपः पूर्णम् अभवत् । तस्मिन् क्षणे एव दुग्धम् आनीतम् । तेन दुग्धेन राजगुरोः अनशनं विरमितम्[१६६] । ततः परं भगतसिंहः राजगुरवे उक्तवान् यत् – “भवान् एकाकी एव बलिदानाय ममाग्रे गन्तुं न शक्ष्यति” । आवां सह एव गमिष्यावः । अतः पुनः प्रयासं मा कुरु” । इति श्रुत्वा तत्र उपस्थिताः बन्दिनः अहसन् । भारतमात्रे सः प्राणान् अपि दातुं सज्जः आसीत् । अनेन प्रसङ्गेन राजगुरोः मातृप्रेम दृश्यते[१६७]

न्यायसभायाः(Tribunal) सङ्घटनम्[सम्पादयतु]

सर्वकारः इमम् अभियोगं रहस्येन कर्तुम् ऐच्छत् । किन्तु इदं कार्यं सरलं नासीत् । अस्य अभियोगस्य प्रचारः विदेशपर्यन्तम् अभवत् [१६८]। यस्मिन् दिने अभियुक्ताः न्यायालयं गच्छन्ति स्म, तस्मिन् दिने जनसम्मर्दः भवति स्म । बहुकालं यावत् जनाः क्रान्तिकारिणः दृष्टुम् प्रतीक्षां कुर्वन्ति स्म ।

न्यायालस्य विपरीतनिर्णयेन जनेषु कोलाहलः मा भवेत्, अतः कठोरस्य निर्णयस्य आवश्यकता वर्तते स्म । तेन कारणेन १९२९ तमस्य वर्षस्य सितम्बर-मासस्य १२ तमे दिनाङ्के सर्वकारेण एकं विधेयकं (pass) सत्यापितम् [१६९] । तस्य विधेयकस्य अधिकारः अस्ति यत् – “अभियुक्तानाम् अनुपस्थितौ एव न्यायालयस्य कार्यप्रवृत्तिः चलेत्” इति । सर्वकारस्य उद्देश्यम् आसीत् यत् – “क्रान्तिकारिणाम् अनुपस्थितौ एव अभियोगस्य शीघ्रतया निर्णयः स्यात्[१७०]

“पण्डित मोतीलाल नेहरु” विपक्षस्य नेता आसीत् । मोतीलाल नेहरु इत्याख्येन तस्य विधेयकस्य विरोधः कृतः आसीत् । सर्वकारेण सह अपि विवादः कृतः [१७१]। मोतीलाल नेहरु इत्याख्यस्य तर्काः योग्याः आसन् । अतः सर्वकारः अपि किमपि वक्तुम् असमर्थः आसीत् । येन केन प्रकारेण सर्वकारः विधेयकं स्वीकारयितुम् इच्छति स्म ।

१९३० तमवर्षस्य मई-मासस्य १ दिनाङ्के सर्वकारेण स्वस्य विशेषाधिकारम् उपयुज्य ’लाहोर कुतन्त्र केस् ऑर्डिनेन्स्’ इति नामकः अध्यादेशः सत्यापितः [१७२]। तस्यान्तर्गतया एकस्याः न्यायासभायाः (Tribunal) सङ्घटनम् अकरोत् । तस्याः सभायाः अध्यक्षत्वेन न्यायाधीशः ‘’जे. कोल्डस्ट्रीम्’ आसीत् । न्यायाधीशः ‘आगा हैदर्’, न्यायाधीशः ‘जी. सी. हिल्टन्’ च अस्याः सभायाः सदस्यौ आस्ताम्[१७३]

तस्याः न्यायसभायाः अधिकाराः आसन् यत् – “सभायाः सदस्याः अभियुक्तानां, प्रतिवादपक्षस्य अधिवक्तुः, प्रतिवादपक्षस्य साक्षिणां च अनुपस्थितौ अपि एकपक्षीयं निर्णयं कर्तुं समर्थाः भविष्यन्ति” इति[१७४]

१९३० तमस्य वर्षस्य मई-मासस्य ५ दिनाङ्के न्यायसभायाः अन्तर्गतं “लाहौर कुतन्त्र” इत्यस्य अभियोगस्य कार्यम् आरब्धम् । सम्पूर्णा न्यायालयीया प्रक्रिया केन्द्रियकारागारस्य समीपस्थे न्यायालये प्रचलती आसीत् । किन्तु समयान्तरे शेषा प्रक्रिया ‘पुञ्च’ इत्यस्मिन् स्थले अभवत्[१७५]

तावदेव अभियुक्ताः नूतनस्थलं नीतवन्तः । समाचारपत्रेषु प्रतिदिनम् अस्य अभियोगस्य अद्यतनानि मुद्रितानि भवन्ति स्म । किन्तु तेन कारणेन जनाः अभियुक्तानां समर्थनं कुर्वन्तः आसन् । अतः अस्याभियोगस्य मुद्रणम् अवरुद्धम्[१७६]

सर्वकारपक्षतः एम्. सी. एच्. कार्डननोड् इत्याख्यः प्रतिवक्ता (advocate) आसीत् । तेन अभियुक्तेषु अधः लिखितानि त्रीणि दोषारोपणानि निर्धारितानि[१७७]

  1. षड्यन्त्राणि, हननं च
  2. अग्निगोलकानां निर्माणं, चौर्यं च
  3. अग्निगोलकानां प्रयोगः, प्रकारान्तरैः ब्रिटेन्-देशस्य नृपस्य विरोधः च

अभियुक्तानां पक्षात् कोऽपि प्रतिवक्ता नासीत् । सर्वकारेण उक्तं यत् – “ यदि भवन्तः इच्छन्ति, चेत् सर्वकारः निजव्ययेन भवद्भ्यः एकं प्रतिवक्तारं दातुं शक्नोति” इति । तदा भगतसिंहः “लाला दुनीचन्द” इत्याख्यम् अभियोगकार्यं दृष्टुं, तस्मात् परामर्शं प्राप्तुं च प्रतिवक्तृत्वेन स्वीकृतवान्[१७८] । १९३० तमस्य वर्षस्य मई-मासस्य १२ तमे दिनाङ्के सर्वे अभियुक्ताः न्यायालयं प्राप्तवन्तः । तत्र अभियुक्ताः भक्तिगीतानि गायन्तः आसन् । मुख्यन्यायाधीशः गीतानाम् अनुवादं ज्ञातवान् । तदा सः क्रुद्धः जातः । अभियुक्तान् तूष्णीं स्थातुं न्यायाधीशः आरक्षकान् आदिष्टवान् । तादृशम् अत्याचारं दृष्ट्वा न्यायाधीशः आगा हैदर् इत्याख्यः न्यायालयात् बहिर्गन्तुम् इच्छति स्म । यदि आगा हैदर् बहिर्गच्छेत्, चेत् न्यायलयस्य अपमानः भवितुं शक्यते स्म । अतः मुख्यन्यायाधीशेन आगा हैदर् इत्याख्यं प्रति प्रार्थना कृता । विवादेन तद्दिवसीया कार्यं स्थगितम्[१७९]

अस्याः घटनायाः अनन्तरं कोऽपि अभियुक्तः न्यायालयं न गतवान् । सर्वकारः अस्याभियोगस्य शीघ्रतया समाप्तिं कर्तुम् इच्छति स्म । अतः सर्वकारेण पुरातना न्यायसभा (Tribunal) विलोपिता, पुनः नूतना न्यायसभा रचिता च[१८०]

कोल्डस्ट्रीम् , आगा हैदर् इत्याख्यौ मुक्तौ जातौ । तयोः स्थाने जे. के. कैम्प्, अब्दुल कादिर् इत्याख्यौ न्यायाधीशौ चितौ । न्यायसभया एकपक्षीयं कार्यम् आरब्धम् । १९३० तमस्य वर्षस्य अगस्त-मासस्य २६ तमे दिनाङ्के त्रिमासीयस्य अभियोगस्य निर्णयः जातः[१८१] । औपचारिकताः कारणेन सर्वकारेण अभियुक्तेभ्यः स्वस्य प्रतिवादान् प्रतिपादयितुम् एकः अवसरः प्रदत्तः । किन्तु क्रान्तिकारिणः प्रतिवादे (Defence) किमपि वक्तुं नैच्छन् ।

मित्रैः सह अन्तिमं सामूहिकभोजनम्[सम्पादयतु]

१९३० तमस्य वर्षस्य अक्टूबर्-मासस्य ५ दिनाङ्के रात्रौ ‘लाहौर-षडयन्त्रस्य’ अभियुक्ताः मिलित्वा भोजनं कुर्वन्तः आसन्[१८२] । तस्मिन् समये कारागारस्य अधिकरिणः अपि उपस्थिताः आसन् । क्रान्तिकारिणः परस्परं वार्तालापं कुर्वन्तः आसन् । सर्वे पुरातनानि स्मरणीयान् प्रसङ्गान् चर्चयन्तः आसन् । तां स्थितिं दृष्ट्वा अधिकारिणः अपि विचारयन्तः आसन् यत् – “कीदृशाः इमे जनाः ? मृत्योः भयम् एव नास्ति” । तेषु हननस्य, चौर्यस्य च आरोपः आसीत्, तथापि तेषां व्यवहारः सभ्यः एव आसीत्[१८३]

अभियोगः समाप्तः जातः । न्यायसभायाः निर्णयः कस्मिंश्चित अपि समये आगन्तुं शक्नोति स्म । अतः कारागारस्य अधिकारिभिः अभियुक्तानां सामूहिकस्य भोजनस्य व्यवस्था कृता । सर्वे अभियुक्ताः भोजनं कुर्वन्तः आसन् । भोजनं कृत्वा राजगुरुः अधिकारिणम् उक्तवान् यत् – “अन्नदाता सुखी भव, एतादृक् भोजनं प्रतिदिनं मिलेत्” इति[१८४]

तदा भगतसिंहः राजगुरुम् उक्तवान् – “भोजनं तु प्राप्स्यति किन्तु एतादृशं न । इदं भोजनं केवलम् अद्यैव अस्ति” [१८५]

सर्वे अधिकारिणः विचारयन्तः आसन् यत् – “केषुचित् दिनेषु न्यायालयस्य निर्णयः आगमिष्यति । तदा केभ्यश्चित् “कालेपानी” इत्यस्य दण्डः भविष्यति, केभ्यश्चित् मृत्युदण्डः च” । अधिकारिणः दुःखिनः आसन् । तदा राजगुरुः उक्तवान् यत् – “भवन्तः किमर्थं दुःखिनः आसन् । इदम् अस्माकम् एकं पवित्रपर्व अस्ति । अस्माभिः अयम् एकः सुवर्णावसरः मन्यते । यदि अवसरः मिलेत्, तर्हि भाग्यवन्तः भविष्यामः” [१८६]

राजगुरोः वचांसि श्रुत्वा अधिकारी मनसि उक्तवान् - “एकस्मिन् दिवसे भवतां बलिदानं सार्थकं भविष्यति” इति[१८७] । क्रान्तिकारिणां सामूहिकस्य भोजनस्य समाप्तौ सत्याम् अधिकारिणः सर्वान् पृथक् अकुर्वन् ।

न्यायसभायाः (Tribunal) अन्तिमनिर्णयः[सम्पादयतु]

१९३० तमस्य वर्षस्य अक्टूबर-मासस्य ७ दिनाङ्के प्रातःकाले न्यायसभायाः सन्देशवाहकः कारागारं प्रापत्[१८८] । अभियुक्ताः निर्णयं श्रोतुं न्यायालयं न गतवन्तः आसन् । अतः सन्देशवाहकः स्वयम् एव कारागारं प्राप्तवान् आसीत् । कारागारं प्राप्य तेन चतुःषष्टिपृष्ठात्मकस्य न्यायालयीयनिर्णयस्य पठनम् आरब्धम् ।

“लाहौर-कुतन्त्रे राजगुरुः, भगतसिंहः, सुखदेवः च प्रमुखाः अभियुक्ताः उद्घोषिताः । अतः तेभ्यः मृत्युदण्डः भविष्यति” इति सन्देशवाहकेन पठितम्[१८९] । किञ्चित् समयं यावत् सर्वे स्तब्धाः अभवन् । किन्तु राजगुरुभगतसिंहसुखदेवानां मुखे प्रसन्नता दृश्यते स्म । सर्वे तदा “इङ्कलाब जिन्दाबाद” इत्युद्घोषं कुर्वन्तः आसन् । त्रयः परस्परम् आलिङ्गनं कुर्वन्तः आसन् । तस्मिन् समये तेषां प्रसन्नतायाः सीमा नासीत् । तेषां मृत्युपर्व सफलं जातम् [१९०]

पुनः सन्देशवाहकः उक्तवान् – “कमलनाथ तिवारी, विजय कुमार सिन्हा, जयदेव कपूर, शिव वर्मा, गयाप्रसाद, किशोरीलाल, महावीरसिंह इत्याख्यैः लाहौर-कुतन्त्रे सहयोगः कृतः । अतः तेभ्यः “कालेपानी” अर्थात् आजीवनकारावासीयः दण्डः अभवत्” [१९१]

“कुन्दनलाल इत्याख्याय त्रिवर्षीयः कारावासीयः दण्डः, प्रेमदत्त इत्याख्याय सप्तवर्षीयः कारावासीयः दण्डः च अभवत् [१९२]

“मास्टर् आशाराम, सुरेन्द्रनाथ पाण्डेय, देशराज, जितेन्द्रनाथ सान्याल, अजय घोष इत्याख्यानाम् अपराधः प्रमाणितः न जातः । अतः तौ कारागारात् मुक्तिं प्राप्स्यन्ति” इति सन्देशवाहकेन उक्तम् [१९३]

मुक्तेः सन्देशं श्रुत्वा ते उत्साहहीनाः अभवन् । निर्णयः श्रावितः । अतः तस्मिन् दिने एव राजगुरु, भगतसिंह, सुखदेव इत्याख्यानां स्थानं परिवर्तितम्[१९४] । कारागारस्य चतुर्दशक्रमाङ्कस्य प्रकोष्ठे त्रयः प्रेषिताः । ‘यस्मै मृत्युदण्डः निर्धारितः, सः एव चतुर्दशक्रमाङ्के प्रकोष्ठे निवसति स्म’ इति कारागारस्य नियमः आसीत्[१९५]

अयं निर्णयः गुप्तः भवेत् इति सर्वकारः इच्छति स्म । अतः सर्वकारेण बहवः प्रयासाः कृताः । किन्तु किञ्चित् समयान्तरे एव आभारते जनाः इमां वार्त्तां प्राप्तवन्तः आसन् । तदा स्थितिः गभीरा अभवत् । अतः १४४ अधिनियमानुसारं (Act of law) सर्वकारेण लाहौर-नगरे सञ्चलनेभ्यः, विरोधयात्राभ्यः च प्रतिबन्धः कृतः[१९६] । लाहौर-नगरे प्रत्येकेऽस्मिन् स्थाने आरक्षकाः उपस्थिताः आसन् ।

१९३० तमस्य वर्षस्य अक्टूबर-मासस्य ८ दिनाङ्के जनैः विरोधः कृतः । बहुभिः जनैः आत्मसमर्पणं कृतम् । विभिन्नेषु स्थानेषु, ग्रामेषु, नगरेषु च जनाः सभाः कृतवन्तः आसन् । तथापि न्यायालयस्य निर्णयः न परिवर्तितः[१९७]

अन्तिमवारं मात्रा सह मेलनम्[सम्पादयतु]

न्यायालयस्य नियमानुसारं मृत्युदण्डस्य केभ्यश्चित् दिनेभ्यः पूर्वम् अभियुक्तं मेलितुं प्रतिबन्धः भवति । अतः पार्वती राजगुरुं मेलितुं गता आसीत् । इदम् अन्तिमं मेलनम् आसीत्[१९८] । इदं मेलनं दुःखेन परिपूर्णम् आसीत् । सा ज्ञातवती आसीत् यत् – “अद्यप्रभृति सा राजगुरुं मेलितुं न शक्ष्यति” । राजगुरुं मिलित्वा सा रुदती आसीत् ।

तदा राजगुरुणा उक्तं यत् – “भवत्याः अश्रुभिः मांं शिथिलं मा कुरु” इति । बाल्यकालादेव भवती एव सत्यपथे चालनार्थं मह्यं शिक्षणम् अददात् । मया भवत्याः शिक्षणम् अनुपालितम् । मह्यम् आशीर्वादान् प्रददातु यत् – जीवनस्य अन्तिमं क्षणं यावत् मम सङ्कल्पः दृढः भवेत्” इति[१९९]

पुत्रस्य वचांसि श्रुत्वा पार्वती उक्तवती यत् – “जीवनस्य अन्तिमं क्षणं यावत् स्वस्य सङ्कल्पेषु अचलो भव । गर्वितास्म्यहम् यत् – भवान् देशाय स्वस्य प्राणत्यागं कुर्वन् अस्ति । तव बलिदानेन राष्ट्रस्य जनाः जागतिकाः भविष्यन्ति । तदनन्तरं सर्वे मिलित्वा भवता कृतानि अपूर्णानि कार्याणि पूरयिष्यन्ति” [२००]

मातुः हस्तं स्पृष्ट्वा राजगुरुणा उक्तं यत् – “मयि विश्वासं करोतु । अहं मृत्योः कदापि न भेष्यामि । यावत् देशः स्वतन्त्रः न भवेत्, तावत् पर्यन्तम् अहं वारं वारम् आगमिष्यामि । मम बलिदानं व्यर्थं न भविष्यति, अनेन बहवः राजगुरवः उत्पन्नाः भविष्यन्ति” इति[२०१]

मेलनस्य समयः सम्पूर्णः अभवत् । अन्तिमवारं पुत्रं दृष्ट्वा माता पार्वती आर्द्रहृदयेन ततः गता[२०२]

अन्तिमनिर्णयाय पुनर्विचारप्रार्थना (appeal)[सम्पादयतु]

न्यायसभायाः निर्णयस्य प्रतिवादे ‘प्रिवी काउन्सिल्’ इत्यस्मिन् न्यायालये पुनर्विचारप्रार्थनां (appeal) कर्तुम् शक्नुवन्ति स्म । ‘प्रिवी काउन्सिल्’ ब्रिटिश्-शासनस्य उच्चतमः न्यायालयः आसीत् [२०३]। किन्तु भगतसिंह, राजगुरु, सुखदेव इत्याख्येषु कोऽपि पुनर्विचारप्रार्थनां (appeal) कर्तुं नैच्छत् । प्रतिवक्तुः प्राणनाथ महेता इत्याख्यस्य प्रतिबोधनेन तेषां विचारः परिवर्तितः जातः । “अनया प्रार्थनया विश्वस्मिन् भारतीयक्रान्तेः उद्देश्यानां प्रचारः भविष्यति” इति सर्वे विचारितवन्तः । परन्तु प्रार्थनया मृत्युदण्डस्य आजीवनकारावासदण्डे परिवर्तनं मा भवेत् इति भयम् आसीत्[२०४]

अतः १९३० तमस्य वर्षस्य मार्च-मासस्य २० तमे दिनाङ्के तैः प्रार्थनापत्रेण सह एकम् अन्यं पत्रम् अपि प्रेषितम् आसीत्[२०५] । तस्मिन् पत्रे ब्रिटिश्-सर्वकारस्य सत्यतायाः प्रतिपादनं कृतम् आसीत् । सर्वे मृत्युदण्डम् एव इच्छन्ति स्म । अतः तेषां प्रार्थना निर्णयपरिवर्तनाय नासीत् । ते केवलं ब्रिटिश्-सर्वकारस्य क्रूरतां प्रदर्शयितुम् इच्छन्ति स्म[२०६]

किन्तु ‘प्रिवी काउन्सिल्’-न्यालयेन तत्पत्रम् अस्वीकृतम् । मृत्युदण्डः एव तस्य अन्तिमः निर्णयः आसीत्[२०७]

सन्धेः वैफल्यम्[सम्पादयतु]

‘लॉर्ड् इरविन्’ इत्याख्यः भारतस्य तत्कालीनः राज्यपालः (Governor) आसीत् । १९३१ तमस्य वर्षस्य मार्च-मासस्य ४ दिनाङ्के महात्मागान्धी, लॉर्ड् इरविन् इत्याख्ययोः सन्धिः अभवत्[२०८] । अयं “गान्धी-इरविन्-सन्धिः” इति नाम्ना अपि ज्ञायते । तस्मिन् सन्धौ महात्मना बहवः प्रस्तावाः प्रस्थापिताः । तेषु प्रस्तावेषु कारागारस्थानां सत्याग्रहस्य बन्दिनां मुक्त्यर्थम् अपि एकः प्रस्तावः आसीत् । सर्वे जनाः बहुसमयात् अस्य प्रस्तावस्य प्रतीक्षां कुर्वन्तः आसन्[२०९] । सर्वे विचारयन्ति स्म यत् – “भगतसिंह, राजगुरु, सुखदेव इत्येतेषां मुक्त्यर्थम् अपि प्रस्तावः भवेत्” । किन्तु प्रस्तावेषु कस्यापि नामोल्लेखः अपि न कृतः । प्रस्तावे उल्लिखितम् आसीत् यत् – “ये बन्दिनः अहिंसायाः आधारेण आन्दोलनानि कृतवन्तः । तेभ्यः एव मुक्तिं दद्यात्”[२१०]

अयं “गान्धी-इरविन-सन्धिः” क्रान्तिकारिभ्यः विफला जाता । तेन कारणेन जनाः निरपेक्षाः अभवन् ।

मृत्युः[सम्पादयतु]

राजगुरु, भगतसिंह, सुखदेव इत्येतेषां मृत्युदण्डाय १९३१ तमस्य वर्षस्य मार्च-मासस्य २४ तमः दिनाङ्कः निर्णीतः आसीत् [२११]। विभिन्नस्थलेषु जनाः क्रान्तिकारिणां मुक्त्यर्थम् आन्दोलनानि कुर्वन्तः आसन् । तस्मिन् काले त्रयः क्रान्तिकारिणः देशस्य आदर्शपुरुषाः जाताः [२१२]

सर्वकारः अजानात् यत् – “एभिः आन्दोलनैः विद्रोहस्य स्थितिः भवितुं शक्यते” । अतः सर्वकारेण २३ दिनाङ्के एव मृत्युदण्डं दातुं निर्णयः कृतः [२१३]

१९३१ तमस्य वर्षस्य मार्च-मासस्य २३ तमे दिनाङ्के प्रातःकाले राजगुरुः विश्रान्तिं कुर्वन् आसीत् । २३ तमः दिनाङ्कः तस्य जीवनस्य अन्तिमः दिवसः आसीत् [२१४]। कारागारस्य प्राङ्गणे सहसा ‘इङ्कलाब जिन्दाबाद्’ इति घोषाः अभवन् । सर्वे बन्दिनः मध्याह्ने श्रमार्थं गच्छन्ति स्म, रात्रौ पुनरागच्छन्ति स्म । किन्तु तस्मिन् दिने ते बन्दिनः सांयकाले एव पुनरागतवन्तः आसन् । तान् दृष्ट्वा राजगुरुः अचिन्तयत् ।

तदैव एकः आरक्षकः आगत्य सखेदम् उक्तवान् यत् – “सज्जः भव । अन्तिमक्षणः आगतः” [२१५]

तदा राजगुरुणा उक्तं यत् – “अहो ! अयं तु प्रसन्नतायाः सन्देशः वर्तते । मुहूर्तः कदा अस्ति ?” [२१६]

“अद्य सायंकाले....” इति उक्त्वा आरक्षकः मौनम् अधारयत् । “चलतु ! अन्तिमस्नानं करोतु” इत्युक्त्वा आरक्षकः ततः गतः[२१७]

अन्तिमं स्नानं कृत्वा त्रयः क्रान्तिकारिणः कारागाराध्यक्षस्य समीपं गतवन्तः । अध्यक्षः अपि तान् दृष्ट्वा दुःखी अभवत् । यदा अध्यक्षेण तेषां करबन्धनार्थम् उक्तम् । तदा ते उक्तवन्तः यत् – “किं भवान् अस्माकम् अन्तिमाम् इच्छां न प्रक्ष्यति खलु” [२१८] ? तदा सः उक्तवान् – “वदतु भवतां का इच्छा” ?

ते उक्तवन्तः – “अस्माकं करबन्धनं मा भवेत्, मृत्युदण्डसमये मुखाच्छदनम् अपि मा भवेत् च” इति [२१९]। किञ्चित् क्षणं विचार्य अध्यक्षेण करबन्धिन्यः तत्रैव त्यक्ताः ।

तदनन्तरं मृत्युदण्डाय त्रयः मृत्युस्थलं नीताः । तत्र त्रिषु मध्ये भगतसिंहः तिष्ठन् आसीत् । भगतसिंहस्य द्वयोः पक्षयोः राजगुरुः, सुखदेवश्चासीत् । त्रयः परस्परं हस्तान् मेलयित्वा एकस्वरेण गीतं गायन्तः आसन् यत्[२२०]


मेरा रंग दे बसंती चोला, माए रंग दे बसंती चोला ।
दम निकले इस देश की खातिर बस इतना अरमान है ।
एक बार इस राह में मरना सौ जन्मों के समान है ।
देख के वीरों की कुर्बानी अपना दिल भी बोला ।
मेरा रंग दे बसंती चोला, माए रंग दे बसंती चोला ।
जिस चोले को पहन शिवाजी खेले अपनी जान से ।
जिसे पहन झांसी की रानी मिट गई अपनी शान पे ।
आज उसी को पहन के निकला हम मस्तों का टोला ।
मेरा रंग दे बसंती चोला, माए रंग दे बसंती चोला ।

अन्ये बन्दिनः अपि सर्वकारस्य धूर्तताम् अजानन् । ‘इङ्कलाब जिन्दाबाद्’ इत्यनेन घोषेण सम्पूर्णं कारागारम् अनुगर्जितः । सर्वे बन्दिनः अपि दुःखिताः आसन् । लाहौर-नगरस्य अधिकारी मृत्युस्थले त्रयाणां प्रतीक्षां कुर्वन् आसीत् । यदा ते क्रान्तिकारिणः मृत्युस्थलं प्राप्तवन्तः, तदा करबन्धनं तेषां हस्ते नासीदित्यतः अधिकारी क्रुद्धः जातः । तदा कारागाराध्यक्षः उक्तवान् यत् – “चिन्ता मास्तु । ते विश्वसनीयाः सन्ति” [२२१]

तदा क्रान्तिकारिणः हसितवन्तः, उक्तवन्तः च यत् – “अद्य भवान् द्रक्ष्यति यत् भारतीयाः क्रान्तिकारिणः लक्ष्यं प्राप्तुं मृत्युम् अपि प्रसन्नहृदयेन स्वीकुर्वन्ति । भवान् भाग्यवान् अस्ति” [२२२]। तेषां वचांसि श्रुत्वा न्यायाधीशः अपि आश्चर्यचकितो जातः ।

मृत्युस्थले तिस्रः रज्जवः आसन् । ते क्रान्तिकारिणः स्वयमेव रज्जूनां समीपं गतवन्तः । तेन ‘इङ्कलाब जिन्दाबाद’, ‘वन्दे मातरम्’ इत्यादयः उद्घोषिताः । समीपं गत्वा तैः स्वयमेव रज्जुभिः ग्रीवा निबद्धा । तेषां साहसं दृष्ट्वा वधकर्माधिकारी (executioner) अपि विस्मितः अभवत् [२२३]। तेन पुरा कदापि तादृशाः साहसिकाः वीराः न दृष्टाः आसन् । अतः सः तान् विरमय्य, तेषां चरणरजः स्वस्य मस्तके धृतवान् च ।

सांयकाले ७ वादनस्य ३३ निमेषे न्यायाधीशेन सङ्केतः कृतः [२२४]। सङ्केतं दृष्ट्वा वधकर्माधिकारी रज्जुदण्डम् अकृषत् । केषुचित् क्षणेषु एव त्रयः क्रान्तिकारिणः देशरक्षणाय हुतात्मनः (Martyr) अभवन्[२२५]

रोचकानि प्रसङ्गानि[सम्पादयतु]

व्रतोपवासानां बलम्[सम्पादयतु]

एकदा जगद्गुरुः शङ्कराचार्यः खेड-ग्रामं गतवान् आसीत् । शङ्कराचार्यस्य तेजसा राजगुरुः प्रभावितः अभवत् । राजगुरुः शङ्कराचार्यस्य सेवकः आसीत् । शङ्कराचार्यस्य सन्निधौ तस्य मनसि अपि प्रकाण्डः विद्वान् भवितुम् इच्छा जागतिका । राजगुरुः तपव्रतोपवासानां ज्ञानं प्रापत् । तदनन्तरम् आत्मशुद्धये, पवित्रतायै, एकाग्रतायै विकासाय च तेन अन्नजलं त्यक्त्वा पञ्चदिनात्मकं व्रतम् आचरितम् । तदैव सः एकदा युवावस्थायाम् आत्मविश्वासस्य परीक्षणाय निम्बपत्राणि, आर्द्रगोधूमाः च भुक्त्वा एकविंशतिदिवसीयं व्रतम् अकरोत् । तैः व्रतोपवासैः कारागारे कृते अनशने सफलतां प्राप्तवान् आसीत् [२२६]

ब्रह्मचर्यपालनम्[सम्पादयतु]

एकदा राजगुरु, शिववर्मा इत्याख्यौ ‘हसन निजामी’ इत्याख्यं हन्तुं देहली-नगरं गतवन्तौ आस्ताम् । तौ एकस्मिन् विश्रामालये निवासं प्राप्तवन्तौ । आगामि-दिने शिववर्मा भ्रमणार्थं गतवान् आसीत् । पुनरागमने सति शिववर्मा विश्रामालयस्य बहिः राजगुरुं दृष्ट्वान् । शिववर्मा पृष्टवान् – “किमर्थं भवान् अत्र शैत्ये तिष्ठन् अस्ति” ?

तदा राजगुरुणा उक्तं – “किमपि नाभूत् । किन्तु इदानीम् आवां तस्मिन् विश्रामालये न निवत्स्यावः” [२२७]

पुनः शिववर्मा पृष्टवान् – “किमभवत् ? सर्वं कुशलम् अस्ति खलु” ?

राजगुरुः उक्तवान् यत् – “अनन्तरमस्योत्तरं दास्यामि । इतः चलतु भवान्” । स्वस्य वस्तूनि नीत्वा तौ रेलस्थानकं गतवन्तौ । आरात्रौ तौ तत्रैव शयितौ आस्ताम् ।

आगामि-दिने राजगुरुः शिववर्माणं विश्रामालयस्य प्रसङ्गं श्रावितवान् यत् – “विश्रामालयस्य व्यवस्थापकः राजगुरोः ब्रह्मचर्यं विकलयितुं प्रयासं कुर्वन् आसीत्” । प्रसङ्गं श्रुत्वा शिववर्मा हसन् आसीत्[२२८]

निद्राप्रियः राजगुरुः[सम्पादयतु]

एकदा क्रान्तिकारिणां समूहे धनं न्यूनम् अभवत् । धनोपार्जनाय भगतसिंह, राजगुरु, शिववर्मा इत्याख्याः गोरखपुर-नगरं गतवन्तः । तत्र ते सर्वकारस्य सम्पत्तिं लुण्ठितुं गताः । ते एकस्मिन् पुरातने आपणे निवसन्तः आसन् । सम्पूर्णः दिवसः भ्रमणे व्यतीतः भवति स्म । रात्रौ शयनार्थम् एव ते आपणं गच्छन्ति स्म । आपणे बहूनि अनुपयोगीनि वस्तूनि आसन् । अतः ते शयनार्थम् उपयुक्तं स्थानम् एव समीकुर्वन्ति स्म[२२९]

एकदा रात्रौ शयनस्थाने सर्पः आगतः । सर्पस्य रवं श्रुत्वा शिववर्मा, भगतसिंह इत्याख्यौ जागतिकौ । किन्तु राजगुरुः निद्राधीनः आसीत् । शिववर्मा, भगतसिंह इत्याख्यौ राजगुरुम् उक्तवन्तौ । परन्तु राजगुरुः तथापि न अजागः । किञ्चित् क्षणानन्तरं सर्पः कस्मिंश्चित् रन्ध्रे गतः ।

प्रातःकाले शिववर्मा, भगतसिंह इतीमे अस्याः घटनायाः विषये राजगुरुम् उक्तवन्तौ । तदा घटनां श्रुत्वा राजगुरुः खिन्नः जातः, उक्तवान् च – “किमर्थं भवद्भ्याम् अहं न जागतिकः” [२३०]? भवन्तौ मम चिन्ता एव न कुरुतः”। शिववर्मा, भगतसिंह इत्येतौ परस्परं दृष्ट्वा अहसताम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५. ISBN ९७८-९३-५०४८-३१९-०. 
  2. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-०. 
  3. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-०. 
  4. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-०. 
  5. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १९. ISBN ९७८-९३-५०४८-३१९-०. 
  6. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १९. ISBN ९७८-९३-५०४८-३१९-०. 
  7. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-०. 
  8. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३. ISBN ९७८-९३-५०४८-३१९-०. 
  9. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १४. ISBN ९७८-९३-५०४८-३१९-०. 
  10. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. २१. ISBN ९७८-९३-५०४८-३१९-०. 
  11. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. २१. ISBN ९७८-९३-५०४८-३१९-०. 
  12. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १५. ISBN ९७८-९३-५०४८-३१९-०. 
  13. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. २५. ISBN ९७८-९३-५०४८-३१९-०. 
  14. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. २९. ISBN ९७८-९३-५०४८-३१९-०. 
  15. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३०. ISBN ९७८-९३-५०४८-३१९-०. 
  16. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३१. ISBN ९७८-९३-५०४८-३१९-०. 
  17. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३१. ISBN ९७८-९३-५०४८-३१९-०. 
  18. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३२. ISBN ९७८-९३-५०४८-३१९-०. 
  19. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३३. ISBN ९७८-९३-५०४८-३१९-०. 
  20. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३४. ISBN ९७८-९३-५०४८-३१९-०. 
  21. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३५. ISBN ९७८-९३-५०४८-३१९-०. 
  22. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३६. ISBN ९७८-९३-५०४८-३१९-०. 
  23. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३६. ISBN ९७८-९३-५०४८-३१९-०. 
  24. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३६. ISBN ९७८-९३-५०४८-३१९-०. 
  25. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३७. ISBN ९७८-९३-५०४८-३१९-०. 
  26. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३७. ISBN ९७८-९३-५०४८-३१९-०. 
  27. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३७. ISBN ९७८-९३-५०४८-३१९-०. 
  28. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३८. ISBN ९७८-९३-५०४८-३१९-०. 
  29. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ३८. ISBN ९७८-९३-५०४८-३१९-०. 
  30. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४०. ISBN ९७८-९३-५०४८-३१९-०. 
  31. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४१. ISBN ९७८-९३-५०४८-३१९-०. 
  32. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४१. ISBN ९७८-९३-५०४८-३१९-०. 
  33. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४२. ISBN ९७८-९३-५०४८-३१९-०. 
  34. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४२. ISBN ९७८-९३-५०४८-३१९-०. 
  35. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४१. ISBN ९७८-९३-५०४८-३१९-०. 
  36. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४४. ISBN ९७८-९३-५०४८-३१९-०. 
  37. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४४. ISBN ९७८-९३-५०४८-३१९-०. 
  38. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४५. ISBN ९७८-९३-५०४८-३१९-०. 
  39. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४७. ISBN ९७८-९३-५०४८-३१९-०. 
  40. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४७. ISBN ९७८-९३-५०४८-३१९-०. 
  41. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४७. ISBN ९७८-९३-५०४८-३१९-०. 
  42. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४७. ISBN ९७८-९३-५०४८-३१९-०. 
  43. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ४९. ISBN ९७८-९३-५०४८-३१९-०. 
  44. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५०. ISBN ९७८-९३-५०४८-३१९-०. 
  45. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५०. ISBN ९७८-९३-५०४८-३१९-०. 
  46. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५१. ISBN ९७८-९३-५०४८-३१९-०. 
  47. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५१. ISBN ९७८-९३-५०४८-३१९-०. 
  48. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५१. ISBN ९७८-९३-५०४८-३१९-०. 
  49. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५२. ISBN ९७८-९३-५०४८-३१९-०. 
  50. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५३. ISBN ९७८-९३-५०४८-३१९-०. 
  51. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५३. ISBN ९७८-९३-५०४८-३१९-०. 
  52. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५४. ISBN ९७८-९३-५०४८-३१९-०. 
  53. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५४. ISBN ९७८-९३-५०४८-३१९-०. 
  54. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५४. ISBN ९७८-९३-५०४८-३१९-०. 
  55. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५५. ISBN ९७८-९३-५०४८-३१९-०. 
  56. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५५. ISBN ९७८-९३-५०४८-३१९-०. 
  57. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५५. ISBN ९७८-९३-५०४८-३१९-०. 
  58. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५५. ISBN ९७८-९३-५०४८-३१९-०. 
  59. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५६. ISBN ९७८-९३-५०४८-३१९-०. 
  60. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५६. ISBN ९७८-९३-५०४८-३१९-०. 
  61. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५७. ISBN ९७८-९३-५०४८-३१९-०. 
  62. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५७. ISBN ९७८-९३-५०४८-३१९-०. 
  63. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५७. ISBN ९७८-९३-५०४८-३१९-०. 
  64. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-०. 
  65. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-०. 
  66. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-०. 
  67. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-०. 
  68. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ५९. ISBN ९७८-९३-५०४८-३१९-०. 
  69. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६०. ISBN ९७८-९३-५०४८-३१९-०. 
  70. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६०. ISBN ९७८-९३-५०४८-३१९-०. 
  71. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६०. ISBN ९७८-९३-५०४८-३१९-०. 
  72. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६१. ISBN ९७८-९३-५०४८-३१९-०. 
  73. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६१. ISBN ९७८-९३-५०४८-३१९-०. 
  74. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६१. ISBN ९७८-९३-५०४८-३१९-०. 
  75. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६२. ISBN ९७८-९३-५०४८-३१९-०. 
  76. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६२. ISBN ९७८-९३-५०४८-३१९-०. 
  77. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६२. ISBN ९७८-९३-५०४८-३१९-०. 
  78. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६३. ISBN ९७८-९३-५०४८-३१९-०. 
  79. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६३. ISBN ९७८-९३-५०४८-३१९-०. 
  80. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६४. ISBN ९७८-९३-५०४८-३१९-०. 
  81. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६६. ISBN ९७८-९३-५०४८-३१९-०. 
  82. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६६. ISBN ९७८-९३-५०४८-३१९-०. 
  83. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-०. 
  84. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-०. 
  85. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-०. 
  86. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-०. 
  87. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६७. ISBN ९७८-९३-५०४८-३१९-०. 
  88. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६८. ISBN ९७८-९३-५०४८-३१९-०. 
  89. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६९. ISBN ९७८-९३-५०४८-३१९-०. 
  90. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ६९. ISBN ९७८-९३-५०४८-३१९-०. 
  91. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७०. ISBN ९७८-९३-५०४८-३१९-०. 
  92. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७०. ISBN ९७८-९३-५०४८-३१९-०. 
  93. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-०. 
  94. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-०. 
  95. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-०. 
  96. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-०. 
  97. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७१. ISBN ९७८-९३-५०४८-३१९-०. 
  98. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७३. ISBN ९७८-९३-५०४८-३१९-०. 
  99. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७४. ISBN ९७८-९३-५०४८-३१९-०. 
  100. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७४. ISBN ९७८-९३-५०४८-३१९-०. 
  101. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७५. ISBN ९७८-९३-५०४८-३१९-०. 
  102. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७७. ISBN ९७८-९३-५०४८-३१९-०. 
  103. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७७. ISBN ९७८-९३-५०४८-३१९-०. 
  104. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७७. ISBN ९७८-९३-५०४८-३१९-०. 
  105. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ७८. ISBN ९७८-९३-५०४८-३१९-०. 
  106. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८३. ISBN ९७८-९३-५०४८-३१९-०. 
  107. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८४. ISBN ९७८-९३-५०४८-३१९-०. 
  108. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८४. ISBN ९७८-९३-५०४८-३१९-०. 
  109. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८४. ISBN ९७८-९३-५०४८-३१९-०. 
  110. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ८९. ISBN ९७८-९३-५०४८-३१९-०. 
  111. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९०. ISBN ९७८-९३-५०४८-३१९-०. 
  112. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९०. ISBN ९७८-९३-५०४८-३१९-०. 
  113. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९०. ISBN ९७८-९३-५०४८-३१९-०. 
  114. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९०. ISBN ९७८-९३-५०४८-३१९-०. 
  115. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९१. ISBN ९७८-९३-५०४८-३१९-०. 
  116. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९२. ISBN ९७८-९३-५०४८-३१९-०. 
  117. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९२. ISBN ९७८-९३-५०४८-३१९-०. 
  118. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९३. ISBN ९७८-९३-५०४८-३१९-०. 
  119. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-०. 
  120. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-०. 
  121. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-०. 
  122. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-०. 
  123. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९४. ISBN ९७८-९३-५०४८-३१९-०. 
  124. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-०. 
  125. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-०. 
  126. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-०. 
  127. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-०. 
  128. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९५. ISBN ९७८-९३-५०४८-३१९-०. 
  129. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९६. ISBN ९७८-९३-५०४८-३१९-०. 
  130. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९७. ISBN ९७८-९३-५०४८-३१९-०. 
  131. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-०. 
  132. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-०. 
  133. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-०. 
  134. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-०. 
  135. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-०. 
  136. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९८. ISBN ९७८-९३-५०४८-३१९-०. 
  137. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९९. ISBN ९७८-९३-५०४८-३१९-०. 
  138. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ९९. ISBN ९७८-९३-५०४८-३१९-०. 
  139. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १००. ISBN ९७८-९३-५०४८-३१९-०. 
  140. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १००. ISBN ९७८-९३-५०४८-३१९-०. 
  141. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १००. ISBN ९७८-९३-५०४८-३१९-०. 
  142. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १००. ISBN ९७८-९३-५०४८-३१९-०. 
  143. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०१. ISBN ९७८-९३-५०४८-३१९-०. 
  144. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०१. ISBN ९७८-९३-५०४८-३१९-०. 
  145. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०२. ISBN ९७८-९३-५०४८-३१९-०. 
  146. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०२. ISBN ९७८-९३-५०४८-३१९-०. 
  147. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०३. ISBN ९७८-९३-५०४८-३१९-०. 
  148. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०३. ISBN ९७८-९३-५०४८-३१९-०. 
  149. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०३. ISBN ९७८-९३-५०४८-३१९-०. 
  150. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-०. 
  151. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-०. 
  152. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-०. 
  153. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-०. 
  154. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-०. 
  155. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०४. ISBN ९७८-९३-५०४८-३१९-०. 
  156. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०५. ISBN ९७८-९३-५०४८-३१९-०. 
  157. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०५. ISBN ९७८-९३-५०४८-३१९-०. 
  158. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०५. ISBN ९७८-९३-५०४८-३१९-०. 
  159. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०५. ISBN ९७८-९३-५०४८-३१९-०. 
  160. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-०. 
  161. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-०. 
  162. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-०. 
  163. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-०. 
  164. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०७. ISBN ९७८-९३-५०४८-३१९-०. 
  165. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०८. ISBN ९७८-९३-५०४८-३१९-०. 
  166. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०८. ISBN ९७८-९३-५०४८-३१९-०. 
  167. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०८. ISBN ९७८-९३-५०४८-३१९-०. 
  168. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०९. ISBN ९७८-९३-५०४८-३१९-०. 
  169. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०९. ISBN ९७८-९३-५०४८-३१९-०. 
  170. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०९. ISBN ९७८-९३-५०४८-३१९-०. 
  171. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १०९. ISBN ९७८-९३-५०४८-३१९-०. 
  172. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-०. 
  173. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-०. 
  174. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-०. 
  175. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-०. 
  176. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-०. 
  177. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११०. ISBN ९७८-९३-५०४८-३१९-०. 
  178. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १११. ISBN ९७८-९३-५०४८-३१९-०. 
  179. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १११. ISBN ९७८-९३-५०४८-३१९-०. 
  180. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११२. ISBN ९७८-९३-५०४८-३१९-०. 
  181. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११२. ISBN ९७८-९३-५०४८-३१९-०. 
  182. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११३. ISBN ९७८-९३-५०४८-३१९-०. 
  183. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११३. ISBN ९७८-९३-५०४८-३१९-०. 
  184. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११४. ISBN ९७८-९३-५०४८-३१९-०. 
  185. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११४. ISBN ९७८-९३-५०४८-३१९-०. 
  186. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११४. ISBN ९७८-९३-५०४८-३१९-०. 
  187. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-०. 
  188. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-०. 
  189. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-०. 
  190. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-०. 
  191. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-०. 
  192. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-०. 
  193. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११५. ISBN ९७८-९३-५०४८-३१९-०. 
  194. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-०. 
  195. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-०. 
  196. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-०. 
  197. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-०. 
  198. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-०. 
  199. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११७. ISBN ९७८-९३-५०४८-३१९-०. 
  200. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११६. ISBN ९७८-९३-५०४८-३१९-०. 
  201. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११७. ISBN ९७८-९३-५०४८-३१९-०. 
  202. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११८. ISBN ९७८-९३-५०४८-३१९-०. 
  203. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११९. ISBN ९७८-९३-५०४८-३१९-०. 
  204. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११९. ISBN ९७८-९३-५०४८-३१९-०. 
  205. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. ११९. ISBN ९७८-९३-५०४८-३१९-०. 
  206. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२०. ISBN ९७८-९३-५०४८-३१९-०. 
  207. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२२. ISBN ९७८-९३-५०४८-३१९-०. 
  208. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२५. ISBN ९७८-९३-५०४८-३१९-०. 
  209. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२५. ISBN ९७८-९३-५०४८-३१९-०. 
  210. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२५. ISBN ९७८-९३-५०४८-३१९-०. 
  211. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२६. ISBN ९७८-९३-५०४८-३१९-०. 
  212. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२६. ISBN ९७८-९३-५०४८-३१९-०. 
  213. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२६. ISBN ९७८-९३-५०४८-३१९-०. 
  214. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२६. ISBN ९७८-९३-५०४८-३१९-०. 
  215. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-०. 
  216. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-०. 
  217. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-०. 
  218. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-०. 
  219. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२७. ISBN ९७८-९३-५०४८-३१९-०. 
  220. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२८. ISBN ९७८-९३-५०४८-३१९-०. 
  221. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२८. ISBN ९७८-९३-५०४८-३१९-०. 
  222. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२८. ISBN ९७८-९३-५०४८-३१९-०. 
  223. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२९. ISBN ९७८-९३-५०४८-३१९-०. 
  224. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२९. ISBN ९७८-९३-५०४८-३१९-०. 
  225. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १२९. ISBN ९७८-९३-५०४८-३१९-०. 
  226. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३४. ISBN ९७८-९३-५०४८-३१९-०. 
  227. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३५. ISBN ९७८-९३-५०४८-३१९-०. 
  228. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३६. ISBN ९७८-९३-५०४८-३१९-०. 
  229. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३६. ISBN ९७८-९३-५०४८-३१९-०. 
  230. प्रवीण भल्ला (२०१३). शहीद-ए-वतन राजगुरु. प्रभात पेपर् बैक्स्. p. १३६. ISBN ९७८-९३-५०४८-३१९-०. 

अधिकवाचनाय[सम्पादयतु]

[शहीद-ए-वतन राजगुरु]

"https://sa.wikipedia.org/w/index.php?title=राजगुरुः&oldid=386836" इत्यस्माद् पुनः प्राप्तिः