राणा भगवानदास

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राणा भगवानदास
رانا بھگوان داس
पाकिस्थानस्य मुख्यन्यायाधीशः
कार्यवाहकः
In office
२४ मार्च २००७ – २० जुलाई २००७
Appointed by परवेझ मुशर्रफ
Preceded by जावेद इकबाल (कार्यवाहकः)
Succeeded by इफ्तिखार मोहम्मद चौधरी
व्यैय्यक्तिकसूचना
Born (१९४२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२०)२० १९४२
कराची, ब्रितानी राज
(अधुना पाकिस्थानम्)
Died २३ २०१५(२०१५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२३) (आयुः ७२)
कराची, पाकिस्थानम्

न्यायमूर्तिः (सेवानिवृत्तः) राणा भगवानदास (२० दिसम्बर १९४२ - २३ फरवरी २०१५), पाकिस्थानीयायाः न्यायपालिकायाः कश्चन उच्च-सम्मानितः जनः आसीत्, यः पाकिस्थानीय-सर्वोच्च-न्यायालयस्य न्यायधीशः, कार्यवाहक-मुख्य-न्यायधीशः च आसीत्। सः पाकिस्थाने २००७ वर्षस्य न्यायिकसङ्कटकाले, अल्प-समयस्य कृते पदारूढः इफ्तिखार-मोहम्मद-चौधरी-महोदयः २००५ एवञ्च २००६ विदेशयात्राम् आसीत्, तस्मिन् समये कार्यवाहक-मुख्य-न्यायाधीशस्य कार्यभारम् अवहत्।[१]एवं सः वारद्वयं प्रथमः हिन्दूः, द्वितीयः मुस्लिमभिन्नः च जनः आसीत्, यः पाकिस्थान-उच्चतम-न्यायालयस्य प्रमुख-कार्यभारी जातः।[२] भगवानदासः पाकिस्थानस्य सङ्घीय-लोक-सेवा-आयोगस्य अध्यक्षरूपेण अपि कार्यम् अकरोत्। २००९ मध्ये सः सङ्घीय-नागरिक-सेवायाः चयनाय पीठस्य मुख्यकर्ता आसीत्।

जीवनम्[सम्पादयतु]

भगवानदासस्य जन्म २० दिसम्बर १९४२ दिनाङ्के सिन्ध-प्रदेशस्य नसीराबाद-जनपदे जातः आसीत्। तस्य जन्म कराची-महानगरस्य हिन्दू-सिन्धी-परिवारे अभवत्। सः अधिवक्तुः अध्ययनं कृत्वा इस्लामी-अध्ययने अनुस्नातकः जातः।[२] २३ फरवरी २०१५ दिनाङ्के तस्य निधनम् अभवत्।[३]

कार्यवाहकः मुख्यः न्यायाधीशः[सम्पादयतु]

९ मार्च २००७ दिनाङ्के पाकिस्थानीयः राष्ट्रपतिः मुशर्रफ-महाशयः मुख्य-न्यायाधीशं पदच्युतम् अकरोत्।[४] ततः पाकिस्थानस्य सर्वोच्चन्यायिकपरिषद् (एसजेसी) तस्य विरुद्धम् आरोपान् निश्चितान् अकरोत्। अतः न्यायाधीशः भगवानदासः कार्यवाहकः मुख्यन्यायाधीशः अभवत्। परन्तु सः कानिचन दिनानि यावत् अज्ञातवासे निवस्य उक्तवान् यत्, सः हबारत-यात्रां गतवान् आसीत्। १५ मार्च २००७ दिनाङ्के तस्य तत्कालीन-निवासस्य घोषणायै पाकिस्थान-सर्वकारस्य आग्रहे सति उच्चतम-न्यायालये याचिका अभवत्।[५] सः २३ मार्च दिनाङ्के पुनः गृहम् अगच्छत्। सः पाकिस्थाने प्रचल्यमानानां घटनानां विषये परिचितः आसीत्। भारतात् प्रत्यागत्य सः कार्यवाहक-उच्चन्याधीषस्य पदं स्वीकृतवान्। तस्य कार्यकालः २४ मार्च तः २० जुलाई २००७ यावत् आसीत्। तावत् पर्यन्तं पाकिस्थानस्य उच्चतम-न्यायालयः इफतिखार-मुहम्मद-चौधरी-महोदयं पुनः पदारूढम् अकरोत्।[६]

सन्दर्भः[सम्पादयतु]

  1. "संग्रहीत प्रति". Archived from the original on 19 मार्च 2015.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  2. २.० २.१ "Hindu named Pakistan's Chief Justice" [पाकिस्तान के मुख्य न्यायाधीश हिन्दू नाम] (in अंग्रेज़ी). रिडिफ डॉट कॉम. 1 सितम्बर 2005. Archived from the original on 25 मई 2014. आह्रियत 6 सितम्बर 2013.  Unknown parameter |url-status= ignored (help)
  3. "पाकिस्तान के पूर्व एकमात्र हिंदू चीफ जस्टिस राणा भगवानदास का निधन". ज़ी न्यूज़. २४ फ़रवरी २०१५. Archived from the original on 26 फ़रवरी 2015. आह्रियत २६ फ़रवरी २०१५.  Unknown parameter |url-status= ignored (help)
  4. "CJ Suspended, escorted home" [मुख्य न्यायाधीश निलम्बित, घर पर नज़रबंद] (in अंग्रेज़ी). डॉन, पाकिस्तानी समाचार पत्र. 9 मार्च 2007. Archived from the original on 31 अक्तूबर 2010. आह्रियत 6 सितम्बर 2013.  Unknown parameter |url-status= ignored (help)
  5. "Petition in SC on Bhagwandas" [भागवानदास पर उच्चतम न्यायालय में याचिका दायर] (in अंग्रेज़ी). डॉन. 15 मार्च 2007. Archived from the original on 31 अक्तूबर 2010. आह्रियत 6 सितम्बर 2013.  Unknown parameter |url-status= ignored (help)
  6. Bhagwandas meditating in Indian Ashram Archived २०१०-१०-३१ at the Wayback Machine Dawn - March 20, 2007.
"https://sa.wikipedia.org/w/index.php?title=राणा_भगवानदास&oldid=456066" इत्यस्माद् प्रतिप्राप्तम्