लवणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लवणनिर्माणम्

एतत् लवणं जगतः सर्वेषु भागेषु उपयुज्यते । एतत् लवणम् आङ्ग्लभाषायां Salt इति उच्यते । आयुर्वेदे तु लवणं नाम सैन्धवं लवणम् एव । इदानीं जगति सर्वत्र उपयुज्यमानं सामुद्रं लवणम् । तन्नाम समुद्रात् प्राप्तं लवणम् । सामुद्रं लवणं केवलम् आहारत्वेन उपयुज्यते । किन्तु सैन्धवं लवणम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । एतत् लवणं सर्वेषाम् आहारपदार्थानां निर्माणे उपयुज्तते । मधुराणां भक्ष्याणां निर्माणे केवलं कदाचित् उपयुज्यते लवणम् ।

आयुर्वेदस्य अनुसारम् अस्य लवणस्य स्वभावः[सम्पादयतु]

लवणराशिः

एतत् सैन्धवं लवणं पचनार्थं लघु । एतत् लवणं जीर्णानन्तरं स्वादुविपाकः भवति । एतत् लवणम् अनुष्णशीतवीर्ययुक्तम् । सामुद्रं लवणं पचनार्थं गुरु । एतत् लवणं लवणरसयुक्तम् । एतत् लवणं जीर्णानन्तरं मधुरविपाकः भवति ।

१. सैन्धवं लवणं त्रिदोषहरम्, अवुदाहि, अग्निदीपकं चापि ।
२. एतत् लवणम् आहारस्य रुचिं वर्धयति ।
समुद्रात् लवणसङ्ग्रहः
३. सामुद्रं लवणं कफं पित्तं च वर्धयति ।
४. सैन्धवलवणस्य उपयोगम् आयुर्वेदस्य आचार्याः बहुधा विवृतवन्तः सन्ति ।
५. एतत् सैन्धवं लवणं जीर्णाङ्गव्यूहं समीकरोति ।
६. एतत् सैन्धवं लवणं कोष्ठगतं वायुं निवारयति ।
७. एतत् सैन्धवं लवणं श्वासम् (अस्तमा), कासं च शमयति ।
८. एतत् सैन्धवं लवणं वातरोगं, मलस्य अवरोधं च निवारयति ।
९. एतत् सैन्धवं लवणम् अभ्यङ्गार्थं विभिन्नैः तैलैः सह उपयुज्यते । मलावरोधे सति मूत्रसङ्गे एरण्डतैलेन सह सैन्धवं लवणं योजयित्वा उदरस्य अधोभागे, पृष्ठभागे, कटिप्रदेशे च लेपयित्वा अभ्यङ्गं कुर्वन्ति ।
१०. एतत् सैन्धवं लवणं श्वासरोगे सति कर्पूरादितैलेन सह अभ्यङ्गार्थम् उपयुज्यते ।
११. एतत् सैन्धवं लवणं सर्वेषु अपि आस्थापनबस्तिषु उपयुज्यते ।
१२. एतत् सैन्धवं लवणं विभिन्नैः कषायैः सह, चूर्णैः सह, घृतैः सह च वमनार्थम् अपि उपयुज्यते ।
१३. वमनार्थम् एतत् सैन्धवं लवणं २ – ४ ग्रां यावत् केवलम् उपयुज्यते ।
१४. लवणभास्करचूर्णम् अपि औषधत्वेन उपयुज्यते ।
१५. एतत् सैन्धवं लवणं पित्तं वर्धयति । तस्मात् कारणात् पित्तप्रकृतियुक्तानां, पित्तजन्यैः रोगैः पीडितानां, पित्तदेशे काले एतत् वर्ज्यम् ।
"https://sa.wikipedia.org/w/index.php?title=लवणम्&oldid=300972" इत्यस्माद् प्रतिप्राप्तम्