लीला राव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
लीला राव
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः गिरिजायाः प्रतिज्ञा, बालविधवा, होलिकोत्सवः

लीला रावः नाटकलेखिकायाः सुप्रसिद्धकवयित्र्याः क्षमायाः तनूजा वर्तते। अस्याः विवाहो हरीश्वरदयालेन सह समवर्तत । हरीश्वरदयालो प्रथमतो भारतीयशासनसेवायां विदेशसेवायां नियुक्तोऽभूत्।

लीला “टेनिस क्रीडायाम् अग्रतामुपलब्धवती । संस्कृते लेखनस्य प्रेरणा सा मातुः प्राप्तवती । तया जनन्याः कथात्मकरचनाः सम्यक् रूपकायिताः । लीलायाः कृतयः १९५५ ईसवीयाब्दमारभ्य १९६१ ईसवीयाब्दं यावद् मञ्जूषाभिधानायां संस्कृतपत्रिकायां प्रायशः प्रकाशिताः । तस्याः कृतिषु निम्नलिखिताः प्रसिद्धाः सन्ति -

(१) गिरिजायाः प्रतिज्ञा । (२) बालविधवा । (३) होलिकोत्सवः । (४) क्षणिकविभ्रमः । (५) गणेशचतुर्थी । (६) मिथ्याग्रहणम् । (७) कटुविपाकः । (८) कपोतालयः । (६) शंसिच्छत्रम् । (१०) स्वर्णपुरकृषीवलाः । (११) असूयिनी (१२) वीरभाः । (१३) तुकारामचरितम् । (१४) ज्ञानेश्वरचरितम् । (१५) जयन्तु कुमाउनीयाः।

लीलायाः रूपकाणि साम्प्रतिकशैलीम् अनुवर्तन्ते । तेषु प्रायः सामयिक-समस्याम् अधिकृत्य कथावस्तु प्ररोचितमस्ति । नाट्यनिर्देश-रङ्गनिर्देशयोः प्राचुर्यं वर्तते।

गिरिजायाः प्रतिज्ञा[सम्पादयतु]

क्षमारावद्वारा विरचिता गिरिजायाः प्रतिज्ञेति नाम्नी आख्यायिका लीलारावद्वारा रूपकायिता । पुण्यपत्तनस्य (पूनायाः) सविधे पर्वतप्रदेशे गिरिजाभिधाना काचिद् वृद्धा निवसति स्म । तस्या वसति-कक्षे स्वपुत्रस्यैकं विशालं चित्रं कुड्ये अवलम्बितमासीत् । सा कक्षं शोधयन्ती चित्रेण सह वार्तालापं कुर्वाणा कथयति स्म - त्वं चिन्तां मा कुरु । अहं तव वधस्य प्रतिशोधमवश्यं साधयिष्यामीति ।

अथैकस्मिन् दिवसे कारागारात् पलायितः कश्चिद् बन्दी तस्याः शरणमाययौ । वृद्धा रज्ज्वाः सहायतया तं कूपेऽवतारयामास । बन्दिनः अन्वेषणकर्त्तारस्तस्या गृहस्य प्रतिकोणमन्विष्यन्ति स्म । तेऽन्धकारावृतं कूपम् अपि अवलोकयामासुः । तदा वृद्धया समुदीरितम् - अस्मिन् कूपे अवतीर्य अप्यवलोकयन्तु भवन्तः । किंतु प्रगाढान्धकारवशात् कोऽपि कूपं न प्राविशत् । ततः तैस्सह वार्तालापेन वृद्धया ज्ञातं यदयमेव मम पुत्रस्य निहन्ता वर्तते, यं रक्षितुं प्रयतमानाऽस्मि । वृद्धा तं वृत्तान्तमुपश्रुत्य कथं मम प्रतिज्ञा-प्रतिशोधः, पुत्र-वधप्रतीकाररश्चेति कथयन्ती विललाप। तस्याः विलापं श्रुत्वा रक्षिणः प्रोचुः किं स भवत्या विलोकितः ? सोवाच -

जाल्मोऽसौ यदि दृष्टः स्यादर्पयेयं हि तं ध्रुवम्।

कदापि नानुकम्प्योऽसौ पापिष्ठः पुत्रघातकः।।

अथानुसन्धातृषु व्रजत्सु वृद्धोपकूपं गत्वा प्रतिशोधज्वालया दंदह्यमाना जगाद - त्वया मम जातो हतः । अहं तत्प्रतिशोधं साधयामि । बन्दिनोक्तम् क्षमतां भवती -

शपे मम जनन्या ते भद्रे विश्वस्यतां मयि।

दैवयोगान्नतु द्वेषादात्मजस्ते हतो बत।।

मम मातरि दयस्व । अहं तस्या एकलः पुत्रः । तच्छ्रुत्वा वृद्धा तं रज्जुसाहाय्येन कूपाद् बहिः निःसारयामास | स तां प्रणम्य गतः । ततो वृद्धा “क्षमस्व मां पुत्रक ! क्षमस्व” इत्यभिधाय चित्रगतयात्मजाय मालां समर्पयाम्बभूव।

बालविधवा[सम्पादयतु]

नाटकेऽस्मिन् पार्वत्यै बालविधवासीत् । अनूपः यै स्निह्यति स्म । स तया सह विवाहं कामयते । सा पतिगृहे दीना दासीव कार्यमकरोत्। गोशालाया अन्धकारावृते कोणे रात्रिं गमयति स्म च।

पार्वती कूपाज्जलं गृहीत्वा गच्छन्ती मध्येमार्गम् अनूपेन दृष्टा । तौ सस्नेहं वार्तालापं चक्रतुः परस्परमालिङ्गताञ्च । अथ पार्वत्योक्तं मया बालस्य पत्युर्मुखमपि नावलोकितम् । कालान्तरे पुण्यपत्तने गत्वा विवाहस्य योजनां तौ रचयामासतुः । तत्र कोऽपि पुरोहितो धर्मलोपभयात् तयोः पुनर्विवाहं नाकारयेत् । ततोऽनूपो न्यायालये हस्ताक्षरपूर्वकं परिणयं प्रस्तावयति स्म । किंतु तादृशो विवाहः पार्वत्यै नारोचत । अथ पार्वती गृहं न्यवर्तत | सा गृहे भृशं भत्सिता । त्वं मम कुलं दूषयसि । नास्ति तव कृते स्थानमत्र। इतो गच्छ । यत्र क्वचित् कूपे निपतेत्यादि प्रत्यादिष्टा।

एकदा निशीथे सा गृहान्निःसृता । तस्याः सारमेयः तामन्वगच्छत् । अनूपोऽपि घनीभूतेऽन्धकारे तामाह्वयन्ननुससार ।

होलिकोत्सवः[सम्पादयतु]

होलिकोत्सवो नामैकाङ्क-रूपकं दृश्यत्रयात्मकम् । रूपकेऽस्मिन् होलिकावसरे ग्राम्यश्रमिकपरिवारस्य स्थितेश्चित्रणं वर्तते।

कस्मिंश्चिच्छ्रमिकपरिवारे गणुर्नाम श्रमिको राधाभिधानया पत्न्या गोपालनामकेन पुत्रेण च सह न्यवसत् । यद्यप्ययं परिवारो दीनोऽवर्तत, परं तु तत्र मानसोल्लासे न्यूनत्वं नासीत् । होलिकायाः प्रमोदास्पदेऽवसरे राधा पतिमपृष्ट्वा स्वकीयं केयूरं बन्धकीकृत्य पत्युः पुत्रस्य च कृते नवानि वस्त्राणि क्रीणाति स्म । ततः सा गोपालं सुसज्जं विधाय होलिकाप्रमोदे प्रेषयत् । अथ नव-वस्त्रेषु सुसज्जं होलिकोत्सवे प्रवेष्टुं पतिं गच्छन्तं सा अब्रवीत् - मदिरागृहं न गन्तव्यम् । ततो नृत्यन्तीव राधा गृहकर्मणि व्यापृताभवत्।

मदिरागृहं ‘क्लब'-सदृशमासीत् । तत्र पानेन सार्धं यूतक्रीडायाः अपि व्यवस्थासीत् । तत्र स्वामिना रङ्गुणा गणोः पानाय साग्रहं मदिरा प्रदत्ता । अथ चाकथयत् - त्वं मिथ्यैव स्वपत्नीमात्मनो वशवर्तिनीं मन्यसे । पश्य, एष केयुरस्तव पत्न्या मत्कृते समुपायनीकृतः । गणुना पत्न्याः केयूरस्य परावर्तनाय स्वकरतलस्थं सर्वं धनं पणितम् । किंतु स पराजितः । तदा तस्य किमपि रिक्थं नासीत्। तेन पुनर्निपीतम् । ततो गृहमागत्य पत्नीम् अताडयद् अकथयच्च केयूरस्त्वया स्वजाराय समर्पितः। राधा वृत्तमिदं गोपायितुमैच्छत् परन्त्वस्य फलं प्रतिकूलं सञ्जातम् । ततो गणुस्तां पद्भ्यामताडयत् । मयि कायार्थं प्रति गतवति तव जारः प्रत्यहमायतीति कथयित्वा स तां व्यभिचारपरायणां मत्वा गृहाद् निःसारयामास।

अथ यदा तयोः पुत्रो गोपालो गृहम् आयातस्तदा तस्योष्णीषं दृष्ट्वा स पुत्रं पप्रच्छ कुतोऽयमुष्णीषः क्रीतः । पुत्रेण निवेदितम् - कुसीकस्य विपणेरयं क्रीतः । अहं मात्रा सह तत्र गतवानासम् । ततो गणुर्गोपालस्य वाससः कोणे किमपि निबद्धमपश्यत् । तत्रैक पत्रमासीद्, यस्मिन् दश रूप्यकाणि प्रदाय केयूरो बन्धकीकृत इति लिखितमवर्तत । अथ गणुः स्वभ्रान्तिं ज्ञात्वा ‘राधे राधे' इति पुनः पुनराहूय रोदिति स्म ।

रूपकेऽस्मिन् श्रमिकपरिवारस्य दुर्दशायाः भावुकतापूर्णं वर्णनं संस्कृतसाहित्ये अनुपमं वर्तते।

वृत्तशंसिच्छत्रम्[सम्पादयतु]

वृत्तशंसिच्छत्रे जामातैको श्वश्रूं प्रत्यासक्तो दर्शितः । त्यागी महात्मा रामां (रामीं) प्रति स्वविवाहं प्रस्तावयति । एवं हीदं रूपकं योरपीयां रीतिमनुकरोति।

रय्याग्रामपुरोहितस्य विधवाकन्याया इन्दिरायाः पुत्री अनुपमेन सह विवाहितासीत् । श्वश्रूः जामाता च तुचरंग-क्रीडायां निमग्नः आसीत् । अनुपमस्य चेतसि इन्दिरा प्रत्यासक्तिः पदं लेभे | इन्दिरायाः तनुजा वयसा द्वादशवर्षीयासीत् । अनुपमो वयसा अष्टविंशतिवर्षीयः, इन्दिरा च षविंशतिवर्षीयासीत् । अथ प्रस्थानवेलायाम् अनुपम इन्दिरामपि सहैव चलितुमभ्यर्थयत् । इन्दिरया प्रोक्तम् - मीरा मम तनूजा सह वासयोग्या सञ्जाता । त्वया सह मम निवासो नोचितः । तदानुपमेन स्पष्टीकृतम् अहं तु तुभ्यमेव स्निह्यामि । अन्यथावश्यं, म्रिये । तच्छ्रुत्वा श्वश्रूर्जामातरं सक्रोधमुवाच –प्रमत्तो मा भव । अमृतं परित्यज्य त्वं विषं प्रति प्रवृत्तोऽसि । ततोऽनुपमः श्वश्रूचरणयोः स्पृष्ट्वा क्षमामयाचत । अथोद्विग्नः स मरणमेव श्रेयो मन्यते स्म । स वनैकदेशे प्रायश्चित्तं समारब्धुमियेष ।

कालान्तरे अष्टादशवर्षाणि व्यतीतानि । खढकीनाम्नः स्थानस्य सविधे नदीं निकषा श्मश्रुल एकः तपस्वी वसति । स बहुसमयपूर्वं रेलयानात् पतितोऽभवत् । ततस्तस्य चेतना प्रणाशं गता | पश्चात् पुण्यपत्तनस्य राजकीये चिकित्सालये चिकित्सितः । ततः प्रभृति च फलमूलान्यश्नन् त्यागीबाबेति नाम्ना तत्रैव निवसति स्म कांश्चिच्छात्रानाध्यापयञ्च । कतिपयमासपूर्वं स रामीनाम्नीं विधवां नद्यां निमज्जन्तीं ररक्ष ततः आरभ्य रामी तस्याश्रमम् आयाति स्म । निकटवर्तिनि विधवाश्रमे सा कर्मचारिण्यासीत् । ‘त्यागीबाबा' महोदयस्ताम् अवोचत्साम्प्रतं त्वदायत्तं जीवनं मे क्षणमपि वियोगं न सहते । रामी तमुक्तवती - अहं वस्तुतो न विधवा । मम पतिः क्वचिज्जीवति । शैशव एव पत्युः वियुक्ताहं तत्प्रवृत्तिं न जानामि । स मया ग्रामे ग्रामेऽन्वेषितः । अथ चार्थाभावाद् विधवेव रूपं दधाना वास्तविकाभिधानं परिवर्त्य कर्मचारिणी-रूपेण विधवाश्रमे वसामि । सम्प्रति विधवाश्रमे सैकस्यावकाशो भविता, अतोऽहं स्वग्रामं रय्याभिधानं प्रयास्यामि । त्यागिमहात्मनोक्तम् - अत्रैव ममाश्रम उष्यताम् । आवां परस्परं विवाहितौ भूत्वात्रैव निवसावः । राम्याभिहितम् अहं प्रागेव विवाहिता, पुनर्विवाहो भवितुं नार्हति । अन्ततो गुरुजनानुज्ञया सा विवाहमियेष। तस्या गमनवेलाय त्यागिसहात्मनोक्तंशीघ्रमागम्यतां त्वया त्वां विना कष्टं जीवनं मम।

मीरायां रय्याग्रामं गतवत्यामेव त्यागिमहात्मापि तत्रैवागतः। श्मश्रुलमपि तम् इन्दिराभिज्ञातवती। मीरा बहिर्गतासीत् । अनुपमेन (‘त्यागी बाबा-महोदयेन) कथितं यत् रेलदुर्घटनाया मस्तकाघातात् पूर्ववृत्तं न स्मरासि। ततः कष्टे निमग्नोऽहमेकान्ते नदीतटेऽवसम्।

अथ स प्रतिनिवर्तनं जिगमिषति तदेन्द्रिया निवेदितं तव पत्नी मीरापि वर्ततेऽत्र । पश्चात् अनुपमो रेलस्थानात् स्वविष्टरादिकमानेतुं गतः । अथ मीरा समागत्य मातुः पुरतः पुनर्विवाहस्य चर्चां चकार। इन्दिरा अनुपमस्यागमनं मीरायै सहसा निवेद्य तच्चेतो दुःखयितुं न समीहते स्म । अतः सोक्तवती यत्तव परिणेतुः समाचारोऽस्ति प्राप्तः । ततः स स्वयमेवगतोऽस्तीति तया निवेदितम्। मीरायाश्चेतसि त्यागिमहात्मानं प्रत्यासक्तिः समुत्पन्नाविद्यत । अतस्तस्याश्चेतो द्विधा भिन्नमभूत्। भोजनात् पूर्वं मीरा द्वारपिधानसमये छत्रं दृष्टवती। तच्छत्रं त्यागिमहात्मनो वर्तत इति साभिज्ञातवती । तज्जनन्येन्दिरया प्रोक्तम् - इदमनुपमस्यैव छत्रमास्ते । अस्मिन्नेव समये स तत्र समागतः। इन्दिरोवाच - मङ्गलं खल्विदं छत्रम्।

मीराचरितम्[सम्पादयतु]

मीराचरितं क्षमारावस्य मीरालहरीमुपजीवति । अस्मिन् लीला प्रारम्भे मङ्गलाचरणं न्यस्तवती । अतः पश्चात् संक्षेपेण प्रस्तावनापि सूत्रधारमुखेनोपन्यस्ता । अन्ते भरतवाक्यं नास्ति । भारतीयसांस्कृतिकपरम्परामण्डितेऽस्मिन् रूपके त्रयोदश दृश्यानि विलसन्ति । मीरायाः जीवनस्य हरिभक्तिपराः सर्वाः घटनाश्चित्रिताः । प्रस्तुतस्यैकाङ्करूपकस्य भाषा सरला लघुवाक्यमण्डिता चास्ति ।

स्वर्णपुरकृषीवलाः[सम्पादयतु]

अस्मिन्नेकाङ्के त्रिषु दृश्येषु स्वर्णपुरकृषकाणां भूकराप्रदानस्य सत्याग्रहस्य, आंग्लशासनविहितात्याचारस्य च कथास्ति । रेवानाम्नी विधवा सत्याग्रहस्याग्रणीः। तं ग्राममग्निना दहति ग्रामशासकः । दृष्ट्वैतद्रेवा कथयति -

ज्वालेयं जटिला पुण्या दीपिकेति विभाव्यताम् ।

नीराज्यते ययास्माभिर्बुद्धिनेता बृहस्पतिः ।।

एवं हि ग्रामस्य सर्वे जनाः सत्याग्रहिणो भूत्वा कथयन्ति - महात्मा गान्धिर्जयतु । स्वदेशो भुवनत्रयम्।

असूयिनी[सम्पादयतु]

दृश्यचतुष्टयसंयुते अस्मिन्नेकाङ्के रेविकाभिधानाया मृतपुत्राया धीवर्याः कथा विलसति। धीवरी स्वपुत्राणां मृत्युनिरोधाय प्रतिवेशिनीशिशोर्बलिमिच्छति । किंतु सो शीघ्रमनुभवति यत्स्वपुत्रजीवनाय परपुत्राणां हननं घोरपापं वर्तते । अथ नेपथ्ये कथितम् -

कालिका यदि सम्प्रीता भवेन्मानवयज्ञतः।

न किं हि भावि सन्तानं कुर्यात् सा चिरजीविनम्।।

क्षणिकविभ्रमम्[सम्पादयतु]

क्षणिकविभ्रममेकाङ्करूपकं वर्तते । सुनीतेः पुत्रो गोविन्दः एकवर्षं यावत् चौर्यापराधे दण्डितः कारागारेऽवसत् । सुनीतेः पतिः रेलयाने यात्रासमये हत इति मिथ्यासमाचारो रामदासेन सुनीत्यै दत्तः । गोविन्दः कारागाराद् यदा गृहम् आयातस्तदा तेन सार्धं तस्य परमसुहृत् कश्चित् समायातः, येन सुनीतेः सद्व्यवहारो नासीत् । रामदासः गोविन्दमवदत — यो जनस्त्वया सहानीतः स एव तव पिता अयं निर्दोषः सन्नपि विंशतिवर्षं यावत् कारागारं दण्डितः सन्नध्युवास।

सुनीतेः दुर्व्यवहारात् खिन्नो गोविन्दस्य पिता गृहं त्यक्त्वा क्वचिद् गतवान्। एष एव क्षणिकविभ्रमः।

गणेशचतुर्थी[सम्पादयतु]

गणेशचतुर्थ्याः चन्द्रदर्शनं ग्रामवासिने हरयेऽनिष्टं जनयति । तस्य गृहे भोक्तुं किमपि नासीत् । स तदर्जनाय रात्रौ क्वचिद् गच्छन् निर्दोषः सन्नपि चौर्यापराधे निबद्धः । अनन्तरं प्रमाणाभावान्मुक्तः।

मिथ्याग्रहणम्[सम्पादयतु]

मिथ्याग्रहणनाम्नि दृश्यद्वयात्मके एकाङ्के मुहम्मद-महोदयस्य बहुपत्नीत्वस्य चर्चास्ति । असकृत् स स्वपत्न्याः सख्याः सरलायाः गृहं गच्छति । एतस्मादमीना क्षुभिता वर्तते । परन्तु स महोदयः सरलया सह निवसन्तीं स्वकीयां द्वितीयां पत्नी मलितुं यातीति ज्ञानममीना पश्चाल्लेभे।

कटुविपाकः[सम्पादयतु]

कटुविपाकं नाटकं क्षमायाः “ग्रामज्योतिः” इति रचना रूपकायते । ग्रामीणा युवती रेवा सत्याग्रहान्दोलने प्राणान् परित्यजति । तस्याः पिता राजपुरुष आसीत् । स अन्ततः एतदनुभवति यन्मम सर्वे सम्बन्धिनः सत्याग्रहिणः संवृत्ताः ।

कपोतालयः[सम्पादयतु]

कपोतालयप्रहसनं हिन्दी-लेखकस्य जगदीशचन्द्रमाथुरस्य आख्यायिकामुपजीवति । विभवसम्पन्नेन तेन कथानायकेन स्वनिखलसम्पत्तेः संरक्षणं (बीमा) कारितम् । तस्य गृहे चौराः सम्पत्तिमचोरयन्, परन्तु संरक्षण(वीमा)वशात् स हानिं नान्वभवत्।

वीरभाः[सम्पादयतु]

वीरभानामैकाङ्कस्य नायिका वीरभा अस्ति । सा युवावस्थायां सर्वस्वं परित्यज्य तपस्विचर्यामङ्गीकृत्य राष्ट्रस्य स्वतन्त्रतायै सत्याप्रहान्दोलनस्याग्रणीः भवति ।

तुकारामचरितम्[सम्पादयतु]

क्षमायाः तुकारामचरितमेवास्मिन् रूपकायितम् । नाटकेऽस्मिन्नाद्यन्तं पद्यात्मकाः संवादा विलसन्ति। तुकारामस्य चरितमत्र वर्णितम्। प्रस्तुतनाटक एकादशाङ्काः सन्ति ।

ज्ञानेश्वरचरितम्[सम्पादयतु]

ज्ञानेश्वरचरितं नाटकं चतुर्दशदृश्येषु सम्पन्नं विद्यते । अस्मिन् "महात्मनो ज्ञानेश्वरस्य समग्र-जीवनगाथा विलसति।

जयन्तु कुमाउनीयाः[सम्पादयतु]

इयं नाट्यकृतिः लीलायाः परवर्ति-रचनास्वग्रगण्या विद्यते । हिमालये सम्भूतस्य चीन-भारतयोः सङग्रामस्य कथास्मिन्नाटके वर्तते । दूरतो गुलिकानाद् श्रूयते । कुमांउसैनिको गायन्तो वादयन्तो मानसिक-खिन्नतां दूरयन्ति । सैनिकजीवनस्य चक्षुभ्यमवलोकितं वर्णनमस्मिन् नाटके वर्तते।

कुमाउनीसेनायाः सेनापतिः हरीश्वरोऽभूत् । तस्मिन् सेनाया अगाधो विश्वास आसीत् । सेनायाः समक्षं बहुविधं वैषम्यमासीत् । बहवो वीरास्तत्र रोगग्रसिता बभूवुः । ऊर्णवस्त्राणां ऊनत्वेन शैत्यं बाधते स्म भृशम् । अस्त्र-शस्त्राण्यपि पुराणान्यपर्याप्तानि चासन् । शत्रोः पार्श्वे आधुनिकान्यायुधान्यवर्तन्त।0

नोर्बुनामा सिक्किम-प्रदेशस्य गुप्तचरो नीलाङ्गलशिखरमधिरुह्य सङ्कटबाहुल्यमतिक्रामन् चीनानां गुल्मं प्रविश्य तेषां योजनां ज्ञात्वा समागच्छत्।

नीलाङ्गलं विजेतुं हरीश्वरस्य नेतृत्वे सेना तच्छिखरमधिरुरोह। ‘कर्नल' शिखेरः सहवर्ती आसीत् । नीलाङ्गलशिखरे भारतस्य राष्ट्रियध्वजः उल्लासितः । पराक्रमेऽस्मिन्ननेके वीरा दिवङ्गताः।

ततो विदेशमन्त्री वर्मा तत्र गत्वाघोषयत् - इदं क्षेत्रम् अमेरिकादिदेशानां शासकानां मतं समादृत्य विमोक्तव्यं भवद्भिः। दृश्यत्रयात्मकेऽस्मिन् नाटके “वेडूपाको बारामासा” “छानी विलोरी” इत्यादीन्यनेकानि गीतानि वर्तन्ते।

तुलाचलाधिरोहणम्[सम्पादयतु]

नेपालदेशे घोरपाटलग्रामस्य समीपे तुलाचलस्योपत्यकाः सन्ति । अत्र निझराणां गीतमनिशं श्रूयते । कश्चन पथिकः पोटलिकां गृहीत्वा गच्छन्नासीत्। उपरिष्टाद् वायुयानस्य घर्घरनिनादोऽश्रूयत। वायुयानं दुर्घटनाग्रस्तं भवति स्म। तुलाचलः पान्थमपृच्छत् अपि मां जेतुं समागतोऽसि ? पथिकेनोक्तम् - अहं तु भवतो दर्शनार्थमागतोऽस्मि । तुलाचलोऽपृच्छत्तर्हि कीदृगिदं वायुयानम् ? पथिकेनोक्तम् - मुम्बय्यां यानमेतच्चालकस्य भ्रान्त्येह समायातम् । विमानस्य सञ्चालकः तुलाचलं प्रणाम । एको राजदूत आयातः । स तुलाचलं प्रति श्रद्धामभिव्यक्तवान् । अमेरिकायां द्वौ नागरिकावागतौ । ताभ्यां तुलाचलो भयङ्करः प्रतिभातः । ललनैका सूदूरादागत्य शीतलोऽयं महान् प्रदेश इत्यवोचत्। पश्चात् वायुयानस्य दुर्घटनायाः कारणानि ज्ञातुं विशेषज्ञाः आयाताः।

मायाजालम्[सम्पादयतु]

क्षमारावद्वारा विलिखितया आख्यायिकाया सम्यक् रूपायणं प्रस्तुतं मायाजालं नाम । अस्यां कृतौ संवादाधिक्यं वर्तते । रङ्गमञ्चोपरि कार्यस्य ( Action ) अभावोऽस्ति। मायाजाले चतस्रः कन्याः धूर्तानां कारणाज्जीवनस्य शुचिताया वञ्चिताः भवन्ति । मुग्धाभिधानायाः कन्यायाः पिता स्वजामात्रे पेरिसदेशेऽध्ययनस्य व्यवस्थां संयोजयामास । परंतु स पेरिसे स्वां पत्नीं मुग्धां तत्याज। मन्दायाः परिणयः केनचिद् अज्ञातपुरुषेण सह सम्पन्नः । स प्रथमं तु तां अत्यधिकं समाद्रियते स्म। अथ पुत्रे समुत्पन्ने स पत्नीं विसस्मार | प्रेष्ठिकन्यां मोहिनीमपि तस्याः पतिः पेरिसे नीत्वा कालान्तरे तां परित्यक्तवान् । दया वेश्यायाः कन्यासीत् । सा मातरं त्यक्त्वा ब्राह्मणस्य एकस्य गृहमध्युवास | प्रयत्नशतैरपि तत्र तस्या विवाहो न सम्पन्नः । सा समुद्रतटे मूर्छितं तरुणामेकं ररक्ष । सोऽपि तां नोवाह। प्रस्तुत रूपकं १९७२ ईसवीयवत्सरे विश्वसंस्कृते प्रकाशितम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

नाटकम्

भारतम्

संस्कृतम्

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लीला_राव&oldid=444075" इत्यस्माद् पुनः प्राप्तिः