सामग्री पर जाएँ

लेपाक्षी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लेपाक्षी

లేపాక్షి

Lai Pakshi
Village and Mandal
देशः  भारतम्
State आन्ध्रप्रदेशः
District अनन्तपुरम्
Population
 (2001)
  Total ४२,१०१
Languages
  Official तेलुगु
  Other तेलुगु, कन्नड, उर्दु.
Time zone UTC+5:30 (IST)
PIN
515331
Vehicle registration AP 02 [A,B,C...AB,AC..] [XXXX..4 Numbers]
Nearest city Hindupur, AP
Climate dry and hot (Köppen)

लेपाक्षी- शिल्पकलाचातुर्यम् आन्ध्रप्रदेशे लेपाक्षी इत्यत्र विजयनगरसाम्राज्ये पेनुकोण्ड-आस्थाने कोशाधिपतिना विरूपण्णेन निर्मितानि शिल्पानि सन्ति । निर्माता श्रीविरुपण्णः क्रिस्ताब्दे १५३८ तमे वर्षे श्री दुर्गादेवालयं श्रीवीरभद्रदेवालयं तथा बहन्नन्दिविग्रहं च निर्मितवान् । एषः नन्दिविग्रहः भारते एव अतिमहान् इति ख्यातः अस्ति । कूर्मशैले देवालयः प्रतिष्ठापितः अस्ति । अन्तः मण्डपे ६० स्तम्भाः शिल्पयुक्ताः सन्ति । प्रत्येकस्थम्भं वैशिष्ट्यम् अस्ति । मण्डपे छद्यां शतदलकमलचित्रणम् अतीव सुन्दरम् अस्ति । परशिवस्य विविधाः भङ्ग्यः चित्रिताः सन्ति । गर्भगृहस्य पुरतः महाविष्णुः प्रतिष्ठापितः अस्ति । गर्भगृहे छद्याम् २४x१४ पादमितं वीरभद्रस्वामिचित्रम् अस्ति । देवालयस्य पार्श्वे श्री पार्वतीपरमेश्वरकल्याणमण्डपम् अपूर्णम् अस्ति । तस्य स्थम्भेषु अपि उत्तमशिल्पानि सन्ति । एकस्य गोः शरीरे तिस्रः गावः दृश्यन्ते । तथा मर्कटद्वयस्य शिल्पे त्रयः मर्कटाः दृश्यन्ते । सङ्गीतकाराणां तथा नर्तकानामपि अनेकानि शिल्पानि सन्ति । स्वल्पदूरे शिलास्थालिकाः सन्ति । तस्य कारणं किम् इति न ज्ञायते ।

मार्गः

[सम्पादयतु]

वाहनमार्गे हिन्दुपुर, पुट्टपर्ती, बागेपल्ली स्थानेभ्यः सम्पर्कः अस्ति । हिन्दुपुरे धूमशकटवाहन- निस्थानमास्ति । हिन्दुपुरतः २४.कि.मी ।

चित्रशाला

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=लेपाक्षी&oldid=486130" इत्यस्माद् प्रतिप्राप्तम्