लोभः प्रवृत्तिरारम्भः...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
- रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः[सम्पादयतु]
लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा रजसि एतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥
अन्वयः[सम्पादयतु]
भरतर्षभ ! लोभः प्रवृत्तिः कर्मणाम् आरम्भः अशमः स्पृहा एतानि रजसि विवृद्धे जायन्ते ।
शब्दार्थः[सम्पादयतु]
- लोभः = परद्रव्यप्राप्तीच्छा
- प्रवृत्तिः = प्रवर्तनम्
- कर्मणाम् = कार्याणाम्
- आरम्भः = प्रारम्भः
- अशमः = अशान्तिः
- स्पृहा = तृष्णा
- रजसि = रजोगुणे
- विवृद्धे = बृंहिते ।
अर्थः[सम्पादयतु]
अर्जुन ! पुरुषस्य यदा लोलुपत्वम्, निरन्तरप्रयत्नः, काम्येषुं निषिद्धेषु च कर्मसु प्रवृत्तिः, अविश्रान्तिः, दृष्टमात्रेषु अपि वस्तुषु परमा आसक्तिः च भवति तदा तस्मिन् रजोगुणः वृद्धिं गतः इति ज्ञातव्यम् ।