वर्णकचतुष्टयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


जिज्ञासाधिकरणे वर्णकचतुष्टयम्
शंकरं शंकराचार्यं केशवं बादरायणम्
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥
नत्वा गुरुवरान् भक्त्या स्मृत्वाशेषांश्च तद्गुणान्।
नित्यं तत्कृपां याचेऽन्तःकरणशुद्धये ॥

उपोद्घातः[सम्पादयतु]

वेदान्तसूत्रतद्भाष्यतद्व्याख्याश्च मुमुक्षून् सम्यग्विचारसरण्यां नीत्वा तत्फलभूताम् अपरोक्षावगतिं च प्रापयन्तीत्यत्र नास्ति संशयलेशोऽपि । आद्याधिकरणगतैकसूत्रम् अथातो ब्रह्मजिज्ञासा इति यत्तावत्तद्भाष्यद्वारा अनुबन्धचतुष्टयप्रकाशकत्वेन तत्सम्बन्धिविचारबाहुल्येन द्योतते । भाष्यरत्नप्रभानामकतद्भाष्यटीकायां यद्विचारः प्रवृत्तः भाष्यगतवर्णकचतुष्टयाभिव्यञ्जकः तस्याविष्करणरूपप्रबन्धोऽयमिदानीमारभ्यते ।

वर्णकशब्दस्य कोऽर्थः? इति प्रश्ने जाते इदं वक्तुं शक्यते – अस्मिन् प्रकरणे एकस्यैव सूत्रस्य व्याख्यानानेकत्वसम्भवे एकैकं व्याख्यानं वर्णकशब्देन निर्दिश्यते यथा ’प्रथमवर्णकं, द्वितीयवर्णकम्’ इति । अस्मिन्विषये रत्नप्रभाकारा आहुः वर्णकचतुष्टयस्य विस्तरावसाने – एवं प्रथमसूत्रस्य चत्वारोऽर्था व्याख्यानचतुष्टयेन दर्शिताः। सूत्रस्य चानेकार्थत्वं भूषणम् । इति । एवञ्च विविधदृष्ट्या सूत्रार्थालोचनं श्रुतितदनुकूलतर्कबलेन शास्त्रार्थविशदीकरणे बहूपयोगि इत्यत्र नास्ति सन्देहः । उक्तरीत्या अत्र वर्णकचतुष्टयं वर्तते यस्य संक्षेपतः प्रदर्शनमत्र क्रियते, विस्तरस्य तु भाष्यरत्नप्रभायामेव मूलतो द्र्ष्टुं पार्यत इति ।

वर्णकचतुष्टयस्य को वा अवसरः?[सम्पादयतु]

’अथातो ब्रह्मजिज्ञासा’ इति प्रथमसूत्रत्वादत्र वेदान्तमीमांसाशास्त्रस्यारम्भणमेव कथम् उपपद्यते इति विचार्यते । यतोऽनुबन्धचतुष्टयत्वेन अधिकारी, विषयः, सम्बन्धः तथा प्रयोजनम् इति चत्वारि अंशाः प्रसिद्धाः । तेषु हि सत्सु शास्त्रारम्भमर्थवद्भवति नान्यथा इति शास्त्रमर्यादासत्वात् तेषां सिद्धिं स्थूणानिखननन्यायेन स्थापयितुं भाष्यकारा एव प्रथमं विषयप्रयोजनद्वयसिद्धये अध्यासस्वरूपवर्णनेन संसारलक्षणं प्रपञ्च्य अस्ति अत्र शास्त्रस्य विषयः ब्रह्मात्मैक्यज्ञानं तत्फलकमोक्षश्च शास्त्रस्य प्रयोजनम् इति प्रतिज्ञापूर्वकम् आहुः – एवमयमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्ष: । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः । इति ।

प्रथमवर्णकम्[सम्पादयतु]

अत्र भाष्ये अध्यासवर्णनं संसारलक्षणप्रकाशनार्थम् । प्रकाशनफलं च कर्तृत्वाद्यनर्थहेतुः अध्यास एवेत्यवगतिसिद्धिः । सर्वत्राध्यासोऽधिष्ठानयाथात्म्यज्ञानादेव निवर्त्यते यतो तदज्ञानमेव तद्धेतुः । एवं च अयमप्यध्यासः स्वस्वरूपापरोक्षज्ञानादेव निवर्त्यत इति सिद्धम्, तदज्ञानमेव तत्कारणमिति । तादृशज्ञानं तु सर्वसंसारवर्जितशुद्धब्रह्मैव आत्मा नान्यत् इति प्रकारकम् । इदमेव वेदान्तवाक्यमीमांसाफलम् । एवं च ब्रह्मात्मैक्यज्ञानमस्य वेदान्तवाक्यविचारात्मकशास्त्रस्य विषयः । ज्ञानादध्याससमूलनाश एव अस्य शास्त्रविचारस्य परमं प्रयोजनम् । एवं विषयप्रयोजने अध्यासवर्णनेन साधिते भवतः । तयोस्सिद्धे सति विषयप्रयोजनसत्त्वात् शास्त्रमारम्भणीयमिति दर्शितं भवति । इदमेव प्रथमवर्णकम् ।

द्वितीयवर्णकं तत्प्रसक्तिश्च[सम्पादयतु]

विचारस्य यद्यपि साक्षाद्विषयः वेदान्ता एव तथापि तेषां गतार्थत्वं पूर्वशास्त्रेण सिद्धं इति मत्वा कृत्स्नस्यैव वेदस्य कर्मविधिपरत्वमेव, तस्याश्च विधेः ’अथातो धर्मजिज्ञासा’ इति पूर्वमीमांसाशास्त्रेणैव विचारितत्वात् तत्र वेदान्तानामपि आर्थिकविधिपरत्वनिर्णयात् वेदान्तवाक्यार्थनिर्णयाय पृथक्शास्त्रारम्भणमनवश्यकमिति प्राप्ते इदमुच्यते भाष्यकारैः – वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्य इदमादिमं सूत्रम् – ’अथातो ब्रह्मजिज्ञासा’ इति । अत्रेदं न्यायप्रदर्शनम् – यदि विधिपरत्वमेव वेदार्थस्य तर्हि सर्वज्ञा भगवन्तः बादरायणाः ब्रह्मजिज्ञासाकर्तव्यतां न ब्रूयुः, पूर्वशास्त्रेणैव कृत्स्नस्य वेदार्थस्य विधिपरत्वनिर्णयात् ब्रह्मणि मानाभावात् । तथा च ब्रह्मणो जिज्ञास्यत्वोक्त्या सूत्रशब्दादेव सिद्ध्यति यत्केनापि शास्त्रान्तरेणानवगतब्रह्मपरवेदान्तविचारः आरम्भणीय एवेति । सूत्रकृदभिप्रायः भाष्यगत-व्याचिख्यासितस्य-इतिशब्दादवगम्यते । इदमेव द्वितीयवर्णकम् । पूर्वोक्तरीया ’अथातो ब्रह्मजिज्ञासा’ इत्येतत्सूत्रस्यैव दृष्टिभेदेन व्याख्यानत्वं प्रथमवर्णकाद्भेदश्चात्र स्पष्टमवगन्तुं पार्यते ।

अत्र वर्णकद्वयोपसंहारकत्वेन अग्रिमवर्णकस्य उपक्रमत्वेन च ’भाष्यरत्नप्रभा’व्याख्यानस्य वाक्यं दृश्यते – एवं वर्णकद्वयेन वेदान्तविचारस्य (१)विषयप्रयोजनवत्त्वम् (२) अगतार्थत्वं च इति हेतुद्वयं सूत्रस्यार्थिकार्थं व्याख्याय अक्षरव्याख्यामारभमाणः पुनरप्यधिकारिभावाभावाभ्यां शास्त्रारम्भसन्देहे सति अथशब्दस्यानन्तार्यार्थकत्वोक्त्या अधिकारिणं साधयति – तत्राथशब्द इति ।

तृतीयवर्णकम्[सम्पादयतु]

एतेन तृतीयवर्णकस्य विषयस्तु शास्त्रविचारस्य अधिकारिसिद्धिः इति स्पष्टम् । शास्त्रं हि सूक्ताधिकारिणमपेक्षते । किमप्यधिकारिणमनपेक्ष्य शास्त्रं न प्रणीयते केनापि । प्रकृते ब्रह्मजिज्ञासा कर्तव्या इत्येतत्पूर्वविचारेण स्थापितम् । इदानीं केन तज्जिज्ञासोपलक्षितविचारः कर्तव्य इत्यस्य प्रश्नस्य उत्तरत्वेन सूत्रगताथशब्दविचार आरभ्यते । भाष्येऽथशब्दस्य सम्भाव्यबह्वर्थविचारं प्रवर्त्य अन्ते आनन्तर्यार्थ एव सङ्गतत्वेन स्वीक्रियते । तथा हि भाष्यवाक्यम् – तस्मात्किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते – नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं च । तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्मजिज्ञासितुं ज्ञातुं च न विपर्यये । तस्मादथशब्देन यथोक्तसाधनसंपत्त्यानन्तर्यमुपदिश्यते । इति ।

एवमथशब्दस्य अर्थनिर्णयेन साधनचतुष्टयस्य अविनाभावत्वमन्वयव्यतिरेकाभ्यां स्थापितं भवति ।

सूत्रगतातःशब्दोऽपि अथशब्दसूचितसाधनचतुष्टयान्यतमयोः वैराग्यमुमुक्षे साधयति । तच्च भाष्यादेववगम्यते – अतःशब्दो हेत्वर्थः । यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति – तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते (छान्दो.८.१.६) इत्यादिः । तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयति – ब्रह्मविदाप्नोति परम् इत्यादिः (तैत्ति.२.१) तस्माद्यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या । इति ।

उदाहृतश्रुतिवाक्यद्वयस्य स्वारस्यं रत्नप्रभाकाराः व्याकुर्वन्ति – यदल्पं तदनित्यम् यत्कृतकं तदनित्यम् इति न्याववती तद्यथेह इत्यादिश्रुतिः कर्मफलाक्षयश्रुतेर्बाधिका (अक्षय्यं चातुर्मास्ययाजिनां फलम् इत्यर्थबोधकश्रुतिवाक्यमत्र लक्षितम्) । तस्मात् अतोऽन्यदार्तम् इति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकात् वैराग्यलाभ इति भावः । मुमुक्षां सम्भावयति – तथेति । यथा वेदः कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानलमपारं स्वयंज्योतिरानन्दं दर्शयतीत्यर्थः । इति ।

उक्तरीत्या वैराग्योत्पादकश्रुतिः इदं तु मे नैव स्यात् इत्याकारिकवृत्तिं सम्पादयति । मुमुक्षुत्वबोधकश्रुतिः ’इदमेव मम रोचते, तदेवाहं कथमपि प्रापयामि’ इत्याकारिकदार्ढ्यं सम्पादयति । उदाहृतव्याख्यानात् विवेकपूर्वकवैराग्यमेवात्र दर्शितमिति ज्ञायते । तथापि किमिति भाष्ये विवेकस्य वा शमादेर्वा उत्पादकश्रुतिर्नोदाहृता इति चेदत्र विवेकचूडामणिश्लोकावलोकनं प्रयोजनकरं भवति –

वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।
तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ २९ ॥
एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः |
मरौ सलीलवत्तत्र शमादेर्भानमात्रता ||३०|| इति ।

एवञ्च वैराग्यमुमुक्षुत्वकथनेन इतरेषाम् उक्तार्थत्वं सम्पादितं भवतीति मन्तव्यम् ।

इति तृतीयवर्णकम् अधिकारिसिद्धिं स्थाप्य शास्त्रारम्भणेऽन्तरायराहित्यं स्फुटयति इत्यत्र रत्नप्रभावाक्यम् – अथातःशब्दाभ्यामधिकारिणः साधितत्वात्तेन (अधिकारिणा/मुमुक्षुणा) ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः। इति।

चतुर्थवर्णकं तत्प्रसक्तिश्च[सम्पादयतु]

चतुर्थवर्णकप्रसक्तिं तत्रैव व्याख्याने द्योतितम् – प्रथमवर्णके बन्धस्य अध्यासत्वोक्त्या विषयादिप्रसिद्धावपि ब्रह्मप्रसिद्ध्यप्रसिद्ध्योः विषयादिसम्भवासम्भवाभ्यां शास्त्रारम्भसन्देहे पूर्वपक्षमाह – तत्पुनरिति । पुनःशब्दो वर्णकान्तरद्योतनार्थः । इति । विचार्यब्रह्म यदि विचारात्प्रागेव ज्ञातं तर्हि ब्रह्म अज्ञातम् इति न, तेन विचारेण ब्रह्मविषयकाज्ञाननिवृत्तिरूपफलमपि न इति ब्रह्म न विचारयितव्यम् । तथा यदि अज्ञातं ब्रह्म, तर्हि न कोऽपि तं जिज्ञासितुं विचारयितुं च शक्नोति, अज्ञातविषयस्य ज्ञातुम् उद्देश्यत्वायोगात् । यद्बुद्धावेव न आरूढं तं (ब्रह्म) विचारात्मकशास्त्रं वा वेदान्ता (श्रुतिवाक्यानि) वा नैव प्रतिपादयितुं शक्नुवन्ति । तेन अनुबन्धचतुष्टयान्यतमसम्बन्धाख्यः प्रतिपाद्यप्रतिपादकरूपः (विषयः प्रतिपाद्यः, शास्त्रं प्रतिपादकम् इतिरूपः) नैव सिद्ध्यति इति शास्त्रस्य आत्यन्तिकं फलं मोक्षोऽपि न सिद्ध्यति इति अनारम्भणीयं शास्त्रम् इति प्राप्तम् । तत्र ब्रह्म प्रसिद्धं वा अप्रसिद्धं वा इति विचारः क्रियते भाष्ये । सर्वस्य चेतनात्मकस्य स्वविषयकास्तित्वप्रसिद्धिं अनुभवप्रमाणीकृत्य ब्रह्मणः सर्वस्यात्मत्वाच्च तेन आपाततोऽपि ब्रह्मास्तित्वज्ञानं साधयित्वा, तथापि स्वात्मविषयकविशेषप्रतिपत्तिं प्रति विप्रतिपत्तिदर्शनेन अप्रसिद्धिमपि साधितं भाष्ये । तेन ब्रह्म विषयत्वं भजति शास्त्रस्य विचारे, तेन च उक्तफलरूपमोक्षासिद्धिरपि न सम्भवति इति परिहृत्य शास्त्रारम्भणे न व्यवधानमिति उपसंहरति चतुर्थवर्णकम् । तत्पूर्वं अन्यदपि किञ्चित्प्रश्नपूर्वकं विचार्यते – सूत्रे विचारवाचिपदं नास्ति इत्यतः विचारारम्भः करणीयः इति कथं सूत्रशब्दादवगम्यते? इति । तत्र समाधानम् – जिज्ञासाशब्दात्प्राप्तेच्छार्थकत्वेन विचारो लक्षितः तेन च तत्कर्तव्यता बोधिता सूत्रेण इति ।

वर्णकचतुष्टयसारांशः[सम्पादयतु]

  • ब्रह्मज्ञानस्य मोक्षाय आवश्यकत्वोक्त्या तदज्ञानकार्याध्यासः तन्मूलकसंसारश्च प्रतिपादितः भाष्ये । तेन अज्ञाननिवर्त्यब्रह्मज्ञानप्राप्त्यै विचार आरम्भणीयः इति प्रथमवर्णकसंक्षेपः ।
  • कृत्स्नस्य वेदस्यार्थः पूर्वमीमांसाशास्त्रादेव निर्णीतः इति यदि ब्रह्ममीमांसाशास्त्रमनारम्भणीयं तर्हि नैवम्, यतः सर्वज्ञैः भगवद्भिः सूत्रकृद्भिः बादरायणमहर्षिभिः ब्रह्मजिज्ञासात्मकशास्त्रं न प्रणीतं स्याद्यदि धर्मजिज्ञासाशास्त्रादेव कृत्स्नस्य वेदस्यार्थः विधिपरत्वेन निर्णीतः स्यात् । तादृशार्थापत्त्या द्वितीयवर्णकं प्रवर्तते ।
  • अनुबन्धचतुष्टयान्यतमाधिकारिसिद्धावेव शास्त्रारम्भः स्यात् नान्यथा इति तत्सिद्धये सूत्रगताथातःशब्दपर्यालोचनात् साधनचतुष्टयवान् मुमुक्षुः सिद्ध्यत्येव तिबलान्निर्णयः तृतियवर्णकहृदयम् ।
  • यद्यपि विषयप्रयोजनसिद्धिः प्रथमवर्णकादेव कृता तथापि मुख्यविषयब्रह्मप्रसिद्ध्यप्रसिद्धिरूपकोटिद्वयविचारेण ब्रह्मण आपातप्रसिद्ध्यापि विचारः सिद्ध्यति इति स्थापनं चतुर्थवर्णकरहस्यम् ।
  • एवं चतुर्ष्वपि वर्णकेषु शास्त्रारम्भविषये आक्षेपोत्थापनं समानम् । तदाक्षेपमूलं तथा तत्परिहारप्रकारश्च प्रतिवर्णकं भिद्यते इति विशेषो द्रष्टव्यः ।

श्रीसद्गुरुचरणारविन्दार्पणमस्तु

"https://sa.wikipedia.org/w/index.php?title=वर्णकचतुष्टयम्&oldid=395811" इत्यस्माद् पुनः प्राप्तिः