वाक्यपदीयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

वाक्यपदीयं हिं वाक्यञ्च पदञ्च तदधिकृत्य प्रणीतम् । तेनाऽस्मिन् वाक्यै ; पदञ्च विवेचिते स्तः । वाक्यपदीयस्य कर्ता भर्तृहरिः स्मृतः । इदं पूर्वमेवोक्त यत्संस्कृतसाहित्ये हि भाष्यदीपिकाकृद् भतृहरि भतृहरिपदेनाभिबोधितः वाक्यपदीयस्य प्रणेता भर्तृहरि हरिर्नाम्ना स्मृतः, भागवृत्तिकृद् भर्तृहरिर्भागवृत्तिकारपदेनाभिहितः शतकत्रयस्य कर्ता भर्तृहरिर्भर्तृहरिपदेनाभिहितश्चेत्यनेके भर्तृहरयः स्मृताः । तेषु हि भाष्यदीपिकायाः कर्ता वाक्यपदीयकारश्च क एव भर्तृहरिः, भागवृत्तिकृदपरः, शतकत्रयकृत्त्वनिर्णीत एव । यथाऽऽह गणरत्नमहोदधिकारो वर्धमानः -

‘भर्तृहरिर्वाक्यपदीयप्रकीर्णकयोः कर्ता महाभाष्यत्रिपाद्या व्याख्याता च' इति । (द्वितीयपद्यस्य व्याख्याने) ।।

प्रारूपम्[सम्पादयतु]

वाक्यपदीये हि त्रीणि काण्डानि सन्ति । तत्र प्रथमभागमकाण्डम् । द्वितीयं हि वाक्यपदीयं काण्डम् । तृतीयञ्च प्रकीर्णककाण्डम् । तैनेषां त्रिकोण्डा त्रिपदी इति कथ्यते । यथाऽऽह हेलाराजः -

‘त्रैलोक्यगामिनी येन त्रिपाण्डी त्रिपदी मता।' इति ।

वाक्यपदीयं नाम तु प्राधान्येन व्यपदेश एव । अस्मिन् हि लक्षणसमुद्दे शप्रकरणमप्यासीदिति । 'तत्र द्वादश षट्चतुर्विशतिर्वा लक्षणानि इति लक्षणमुद्दशे सापदेशं सविरोधं विस्तरेण व्याख्यास्यते ।' इति भतृहरेः स्योपशंव्याख्यायां कथनाज्ज्ञायते । किन्तु प्रकरणमिदं न केवलं सम्प्रति अपितु पुण्यराजसमये एंव दुर्लभमासीत् । यथाऽऽह हेलाराजः -

एतेषां वितत्य सोपत्तिकं सनिर्दर्शनस्वरूपं पदकाण्डे लक्षणसमुद्दे शे निर्दिष्टमिति ग्रन्थकृतैव स्ववृत्तौ प्रतिपादितम् । आगमभ्रंशाल्लेखकप्रमा| वादिना वा लक्षणसमुद्दे शश्च पदकाण्डमध्ये न प्रसिद्धः ।

एवमेवात्र बाधासमुद्दे शस्यास्तित्वमपि पुण्यराजस्य-

सेयमपरिमाणविकल्पा बाधा विस्तरेण बाधासमुद्दे शे समर्थयिष्यते ।

इति वचनाज्ज्ञायते । वाक्यपदीयं यंत्र कुत्र' वाक्यप्रदीपनाम्नाऽपि व्यवहिंयते ।

तंदित्थं वाक्यपदीयस्य आगमवाक्य-पद-प्रकीर्णविषयकखण्डा एव सम्प्रति समुपलभ्यन्ते । ग्रन्थोऽयं १९६६ कारिकासु गुम्फितः । तत्र ब्रह्मकाण्डं हि पस्पशंभागोऽस्य ग्रन्थस्य । इदं हि स्फोटसिद्धान्त व्याख्याति । तदनुसारेण शब्दतत्त्वं हि अनादिनिधनमक्षरञ्च यतोऽर्थभावेन जगतः प्रक्रिया प्रवर्तते । नादात्मिकाया वाचः पश्यन्ती-मध्यमा-वैखर्यवस्था व्याकरणविषयाः परावस्था तु सूक्ष्मत्वेन दुनिरूपा । एकैव नादात्मिका वाग् मूलाधारादुदिता सती परेत्युच्यते । सैव हृदयप्रदेशप्राप्त पश्यन्तीत्युच्यते योगिभिर्देष्टु शक्यत्वात् । सैव वृद्धि गता विवक्षां प्राप्ता मध्यमा मध्ये उरोभागे प्राप्तत्वात् । सैव क्क्त्रं प्राण ताल्वोष्ठादिव्यापारेण बहिनिर्गच्छन्ती वैखरीत्युच्यते । अर्थप्रवृत्तितत्त्वानां निबन्धनं शब्दाः । शब्दानां तत्वावबोधो व्याकरणादेव भवति । तदाश्रयेणैव प्रणवरूपब्रह्मणोऽधिगमः । व्याकरणं हि शब्दसाधुत्वव्यवस्थापक शास्त्रम् । शब्दैः सहार्थसम्बन्धी अपि नित्या भवन्ति । मध्येमनादाभिव्यङ्गयस्य शब्दस्य स्फोटात्मकता ब्रह्मरूपता नित्यता च तस्यैव न्यात्मकस्य अनित्यता । यथोक्तम् -

अनेकव्यक्तयभिव्यङ्ग्या जातिः स्फोट इति स्मृता । इति ।

ध्वनयस्तु शब्दजाः शब्दा एव । स्फोटो नित्यो ध्वनयस्तु अनित्या भङ्गुरत्वात् । प्राकृतवैकृतेति ध्वनिद्वयम् । तत्र प्राकृतध्वनिव्यतिरेकेण स्फोटस्यानधिगन्तव्यात प्राकृतध्वनिः स्फोटरूप इव मन्यते । स एव ह्रस्वदीर्घप्लुतादिंव्यवहारहेतुः । अन्तस्करणस्थितो वी बुद्धिस्थितः शब्दो ध्वनीनां कारणम् । बुद्धिन्द्रिर्यादिषु शब्दसंस्कारो जायते । बुद्धिभेदादभिन्नस्य शब्दस्य भेदोऽपि भवति ।

व्यवहारे फ्रवृत्तिनिवृत्त्वाद वाक्यमेव प्राधान्यं भजते । पदानि तु तस्य ज्ञानसौकर्याय प्रकल्पितान्यङ्गान्येव । वाक्यसम्बन्धेऽष्टौ विकल्पाः भवन्ति आख्यातशब्दः, सङ्घातः सङ्घातर्वार्तनी जातिः, एकोऽनवयवः शब्दः, क़मः, . बुद्धयतुसंहतिः, आद्यं पदम्, पृथक्सर्वं पदं साकाङ्क्षञ्च ।

अविकल्पेऽपि वाक्यार्थे विकल्पा भावनाश्रयाः।

अत्राधिकरणे वादाः पूर्वेषां बहुधा गताः।। इति।

महाग्रंथस्यास्यानेकैविचक्षणैव्यख्याग्रंथाः प्रणीता दृश्यन्ते । तत्र ब्रह्मकाण्डे

च स्वयं ग्रंथकर्तृव स्वोपज्ञा व्याख्या प्रणीताऽस्ति । तृतीये हि प्रकीर्णाख्ये काण्डे हेलाराजस्य प्रकाशव्याख्या सम्प्रति लभ्यते । वृषभदेवेन धर्मपालेन च स्वोपज्ञवृत्तेष्टीका कृताऽऽसीत् । पुण्यराजेन द्वितीयकाण्डस्य नातिविस्तीर्णा स्फुटार्थका टीका प्रणीताऽस्ति । एवमेव हेलाराजस्य च प्रकीर्णककाण्डस्य प्रकाशाभिधा व्याख्या लभ्यते । एवमेव फुल्लराजगङ्गादासप्रभृतिविद्वद्भिश्च वाक्यपदीयस्य, व्याख्याग्रंथः प्रणीत आसीदिति श्रूयते । महापण्डितस्य रघुनाथस्य अम्बाकर्मीसंज्ञिता व्याख्या काण्डत्रये एव लभ्यते । तत्र वृषभदेवधर्मपाल तु अविज्ञातदेशास्थितिकालौ काश्मीरकत्वेनानुमितावेव । पुण्यराजस्तु, काश्मीरक एवं शशाङ्घाख्यशिष्यो विक्रमानन्तरैकादशशतकभवः । हेलाराजोऽपि काश्मीरक एवं भूतिराजस्य शिष्यो मुक्तापीडस्य काश्मीरनरेशस्य सभासद् । स हि प्रतीहारेन्दुराजस्य भ्राता विक्रमानन्तंरैकादशशतकभवः । रघुनाथो हि काशीनाथतनूजो हरिनाथानुजः सुभद्राकुक्षिजः । व्याख्येयं २०१८ मिते वैक्रमाब्दे पूरिता । अम्बाकर्जी व्याख्या सरला सारपूर्णा च । एषां हि वाक्यपदीयसदृशदुर्बोध्यग्रंथाध्ययनायानन्या सरणिः।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाक्यपदीयम्&oldid=446047" इत्यस्माद् पुनः प्राप्तिः