व्याकरणभाष्यकाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

व्याकरणभाष्यकाराः इत्युक्ते पाणिनेः व्याकरणशास्त्रम् आधारीकृत्य ये पण्डिताः स्वभाष्याणि अरचयन्, ते। महाभाष्यकारः तु पतञ्जलिः एव। परन्तु अन्ये अनेके वैय्याकरणाः पाणिनेः व्याकरणशास्त्रे स्वभाष्यम् अरचयन्। तेषु भर्तृहरिः, कैय्यटः, नागेशभट्टादयः प्रसिद्धाः।

पतञ्जलिः[सम्पादयतु]

मुख्यलेखः : पतञ्जलिः

पटञ्जलिः पाणिनिना लिखिते व्याकरणे महाभाष्यम् अरचयत्। मूलतन्त्रे भाष्यसूत्राणि चांदायोनेके भाष्यग्रन्थाः प्रणीता आसन् येषां स्वरूप । तु सम्प्रति नैवोपर्लम्यते किन्तुं तेषामस्तित्वं महाभाष्यस्मरणाज्ज्ञायते । महाभाष्यं हि मूलतन्त्रवतर्कसूत्राण्यांधृत्य प्रणींतो महाग्रन्थों यस्य प्रवक्ता पतञ्जलिं हिं भगवान् । उक्तमेव -

वाक्यकारं वरुचि भाष्यकार पतञ्जलिम्।

पाणिनि सूत्रकारञ्च'•••••••••••। इति ।

भाष्यलक्षणञ्च यथा -

सूत्रार्थो वय॑तेः यत्र वाक्यैः सूत्रानुसारिभिः ।

स्वपदानि च वन्दन्ते भाष्यं भाष्यविदो विदुः ॥

भतृहरिः[सम्पादयतु]

मुख्यलेखः : भर्तृहरिः

यद्यपि भतृ हरेः पूर्वमप्येनेकैविपश्चिदभिर्महाभाष्यस्य व्याख्याग्रन्था विरचिता इति तदुद्धरणादेव ज्ञायते किन्तु के च ते इति नैव ज्ञातमस्माकम् । भतृहरिः स्वयमेवापि तान्ः एके, अपरे, केचिदित्यादिसामान्यपदैरुद्धरति । तेन ज्ञातनामसु महाभाष्यव्याख्यातृषु भतृहरिरेव प्रथमः । भर्तृहरिणाऽपि पूर्वाचार्य।, समानमेव स्वविषये नैव किञ्चिदप्युक्तम् । केचिदमुं विक्रमादित्यस्य सहोदरं भ्रातरं मन्यन्ते। इत्सिङ्गस्त, तं सप्तमशतकीनं मन्यते । केचिदमुं-पतञ्जलि. शिष्यमपि कथयन्ति । युधिष्ठिरमहाभागेन हिं भर्तृहरेः - स्थितिकालनिर्धारणाय अष्टाभिदीर्घपृष्ठे: महान् प्रयासः कृतः । वयन्तु तेषामेव सारग्राहिणः । सो मान्यतो वयमपि एकाधिकभर्तृहयुपस्थिति मन्यामहे संस्कृतसाहित्ये।

महाभाष्यदीपिका-वाक्यपदीयं-तट्ट्टीका-भट्टिकाव्य-भागवृत्ति-शतकत्रय--मीमांसा भाष्य-वेदान्तसूत्रवृत्ति-शब्दधातुसमीक्षा-षष्ठीश्रावीवृत्तिश्च ति भर्तृहरिप्रणीतत्वेने प्रसिद्धा ग्रन्थाः । एषामेकभर्तृहरिकर्तृकत्वं वा एकाधिकभर्तृहरिकर्तृकत्वंञ्चेति । निर्णयोऽपि नैव सुकरः । सामान्यतो भागवृत्तेः भट्टिकाव्यस्य प्रणयनं तु निश्चयमेव भिन्नकर्तृ कमेव । सामान्यतो महाभाष्यदीपिका-वाक्यपदीय-तट्टीकादिग्रन्थप्रणेता एको भर्तृहरिः, अपरश्च भट्टिकाव्यकर्ता भागवृत्तिकृदन्यः शतकत्रयप्रणेताऽन्यः, शेषग्रन्थौघकृदन्य इत्यनेके भतृहरयः स्मृताः । केचित्तु तेषामैक्यमपि समर्थः यन्ति । प्रासंङ्गिको महाभाष्यदीपिकाक़द्भर्तृहरिस्तु विक्रमसमकालिको वा तत्पूर्ववर्त्यपि । शतपथव्यांख्याकारो हरिस्वामी ‘अन्ये तु शव्दब्रह्म वेदं विवर्तते अर्थ भावेन प्रक्रिया इत्यत आहुः ‘इति कथनेन वाक्यपदीयस्य विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः' इति पद्यमुल्लिखंति इति तत्कर्ता हरिस्वामिपूर्ववर्ती सिध्यति । हरिस्वामी च विक्रमार्कस्य धर्माध्यक्षः ३०४७ कलिगतवर्षेषु व्याख्यां कृतवानिति तस्यैव

श्रीमतोऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः ।

धर्माध्यक्षो हरिस्वामी व्याख्याच्छातपथीं श्रुतिम् ।

यदाब्दानां कलेर्जग्मुः सप्त त्रिशच्छतानि वै ।

चत्वारिंशत्समश्चान्यास्तदा भाष्यमिदं कृतम् ।। " इति कथनेन सिध्यति ।

अपरञ्च, हरिस्वामी ‘अथवा सूत्राणि यथा विध्युदेश इति प्राभाकराः-अपः-प्रणयतीति यथा' इति प्रभाकरं स्मरति । प्रभाकरस्य गुरुः कुमारिलः तन्त्रवातिके वाक्यपदीयगतं तत्वावबोधशब्दानां नास्ति । व्याकरणादृते' इति वचनमुद्धृत्य' तदूपरसगन्धेष्वपि वक्तव्यमासीदिति खण्डपति :: कुमारिलश्च भट्टो विक्रमपूर्ववर्तीति संम्मतमेव । तत्पूर्ववर्ती एव भतृहरिरिति । तस्य प्राचीनत्वम् । अस्य हि विदुषो महाकाव्यदीपिका प्रामाणिको अन्थः । ग्रन्थोऽयं प्रथमं बासुदेवशरणाख्येन विदुषा प्राकाश्यं नीतः । तदस्य महापुरुषस्य न केवलं स्थितिकाल एवापितु तस्य जन्मस्थानविषयोऽपि नैव ज्ञातोऽस्माकम् । एतदनुमीयते । यत्काश्मीरकैर्जयादित्यवानांदिभिः प्रथमं नाम्नां स्मृतत्वात् ।

तथैव काश्मीरकाभ्यामेव हेलाराजपुण्यराजाभ्यां वाख्यपदीयस्य व्याख्यानात् । काश्मीरकैरेव सोमानन्दोत्पलाचार्यप्रभृतिशैवमताचार्यैर्वाक्यपदीयस्योद्धरणात्ततोऽपि महाभाष्यस्य प्रायः काश्मीरेष्वेवोपलब्धेश्च भर्तृहरिरपि काश्मीर एवेति । केचित्तु वर्तमानचुनारदुर्गं भर्तृहरेदुर्गत्वेन गृह्णन्ति । यदि स विक्रमातुजस्तदा तेन अवन्तिवासिना भाव्यमेव । विवादेऽस्मिन्नैकोऽपि पक्षः प्रामाणिकरूपेणॉपस्थितः। स चेत्काश्मीरकोऽभविष्यत्तदा कह्नणस्तमवश्यमेवाऽस्मरिध्यतु । तथापि तस्य काश्मीरकत्वे एव पण्डिताः समाश्वस्ता दृश्यन्ते । सम्प्रति महाभाष्यदीपिका त्रिपाद्येवोपलब्धा। किन्तु कतिपर्वग्रन्थान्तरोद्धरणैज्ञयते यत्सा महाभाष्यव्यापिन्येवाऽऽसीदिति । भाष्यदीपिकामेवानुजीवति कैयटः ।

कैयटः[सम्पादयतु]

मुख्यलेखः : कैय्यटः

कैय्यटोऽपरो महाभाष्यव्याख्याकृद्विचक्षणः। स हि काश्मीर इति तु नाम्नैव । प्रतीयते । प्रदीपपुष्पिकातो ज्ञायते यत्तस्य पिता जैयटः । तस्यापि कालोअनिश्चित एव । तं हरदत्तः ‘यद्वा प्रतिपरसमनुभ्योऽक्ष्ण इति टच समासान्तः । इति कथनस्य'.अन्ये तु. प्रतिसरसमनुभ्योऽक्ष्ण इति शरत्प्रभृतिषु पाठात् टच्: समासात इत्याहुः।' इति कैथनेनोद्धरति । तथैव हे त्रपु हे अपो इति- हे त्रपु. इति प्राप्ते हे पो भवतीत्यर्थः । इति कैयटवाक्यं हरदत्तः 'हे त्रप्विति प्राप्ते । है त्रप इति भवतीति भाष्यं व्याचक्षाणा नित्यमेव गुणमिच्छन्ति' इति । समुद्धरति । अनेन च कैयटस्यै हरदत्तपूर्ववतत्वं सिध्यति । मैत्रेयरक्षितश्च धेर्मकीर्तेः रूपावतारं स्मरति । धर्मकीर्तिश्च पदमञ्जरीमितिः शृङ्खलयाः सर्वान् । संयोज्यं । युधिष्ठिरमीमांसक एकां प्रामाणिक समयतालिकामुपस्थापयति । यथा--

सर्वानन्दः टीकासर्वस्वम् १२१५ वै०
मैत्रेयरक्षितः धातुप्रदीपः ११६५ वै०
धर्मकीतिः रूपावतारः ११४० वै०
हरदत्तः पदमञ्जरी १११५ वै०
कैयटः महाभाष्यप्रदीपः ११९० वै०

तेन हि कैयटो न्यूनतममपि वैकमैकादशशतकात्पूर्ववत्यैव सम्भवति से ततोऽपि प्राचीनतरः । कैयटो हि भाष्यव्याख्यायां भर्तृहरिमुपजीवति । स स्वयमेव कथयति -

तथापि हरिबर्द्धन सारेण ग्रन्थसेतुना।

क्रममाणः शनैः पारं तस्य प्राप्तास्मि पङ्गुवत्' इति ।

तस्य गुरुर्महेश्वरो नाम । यथा तेनैवोक्त -

पदवाक्यप्रमाणानां पारं यातस्य धीमतः ।

गुरोर्महेश्वरस्यापि कृत्वा चरणवन्दनम् ।। इति ।

स एवाग्रे कथयति–कैयटो जयटात्मजः इति । सत्यमेव भाष्यप्रदीपो हि महाभाष्यार्णवतरणिः केवलः स एव भाष्यमर्मज्ञानाय सम्प्रति समुंपलब्धो ग्रन्थः ।

महाभाष्यप्रदीपस्यानेकैविचक्षणैः व्याख्या कृता । तेषु हि. चिन्तामणिः, मङ्गलयज्वा, रामचन्द्रसरस्वतिः, ईश्वरानन्द सरस्वतिः, अन्नम्भट्टः, नारायण रामसेवकः, नारायणशास्त्री, नागेशभट्टः, प्रवर्तकोपाध्यायः आदेन्नः सर्वेश्वर, ... हरिरामः, गुरुप्रसादशास्त्री च प्रसिद्धाः । व्याख्याग्रन्थाश्च चिन्तामणे: (१५०० । १५५० वै०) महाभाष्यकैयटप्रकाशः, मङ्गलयज्वनः (१५२५ वै०)कैरोट, टिप्पणी, रामचन्द्रस्य (१५२५-१६.०० वै०) कैयटविवरणम्, ईश्वरानन्दस्य ( १५५०-१६०० वै० ) महाभाष्यप्रदीपविवरणम्, अन्नम्भट्टस्य (१५५०= १६०० वै०) प्रदीपोद्द्योतनम्, नारायणस्य (१६५४ वै०) प्रदीपविवरणम्, रामसेवकस्य (१६५०-१७०० वै०) महाभाष्यप्रदीपव्याख्या, नारायणस्य (१७१०-१७३० वै०) महाभाष्यप्रदीपव्याख्या, प्रवर्तकोपध्यायस्य (१६५ p= १७०० वै०') महाभाष्यप्रदीपप्रकाशिका, नागेशभट्टस्य (१७३०-१८१० वै०) प्रदीपोद्द्योतः, आदेन्नस्य ‘महाभाष्यप्रदीपस्फूतिः सर्वेश्वरस्यापि महाभाष्य! प्रदीपस्फूतिः हरिरामस्य महाभाष्यप्रदीपव्याख्या, गुरुप्रसादशास्त्रिणः राजलक्ष्मीश्न प्रसिद्धाः। तेष्वपि नागेशभट्टस्ये उद्योतो गुरुप्रसादस्य राजलक्ष्मीश्य सम्प्रति सुलभैः शेषस्तु पुस्तकालयेष्वेव ।

नागेशभट्टः[सम्पादयतु]

मुख्यलेखः : नागेशभट्टः

नागेशभट्टो हि नव्यवैयाकरणेषु मूर्धन्यः । तस्य हि महाभाष्यप्रदीपोद्योतो नितान्त प्रौढः प्राञ्जलश्च ग्रन्थः । | नागेशो हि महाराष्ट्रिय ब्राह्मणः । तस्य पिता शिवभट्टों माता च सतीदेवी। हरिदीक्षितस्तस्य गुरुर्वैद्यनाथश्च प्रधानशिष्यः । वैक्रमानन्तर १७३०-१८१० मितवर्षांण्यभितस्तस्य स्थितिकालः । स हि शृङ्गवेरपुराधीशाश्रितः पण्डितः । स हि स्वयमेव कथयति ।

पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः ।

शिवभट्टसुतो धीमान् सतीदेव्यास्तु गर्भजः ।

याचकानां कल्पतरोररिकक्षहुताशनात् ।

शृङ्गवेरपुराधीशाद् रामतो लब्धजीविकः । इति ।।

एवञ्च उद्द्योतारम्भे स कथयति -

नाविस्तीर्णं न विस्तीर्ण मध्यानामपि बोधकृत् ।

भाष्यप्रदीपव्याख्यानं कुर्वेऽहं तु यथामति ।।

एतदतिरिक्तमपि नागेशस्य लघुशब्देन्दुशेखर-बृहच्छब्देन्दुशेखर-परिभाषेन्दुशेखर-लघुमजुषा-परमलधुमञ्जुषा-वैयाकरणसिद्धान्तमजुषा--स्फोटवाद-महाभाष्यप्रत्याख्यानसंग्रहप्रभृतयो ग्रन्थाः सम्प्रति समुपलब्धाः प्रसिद्धाश्च । तस्य हिं प्रदीपोद्योतोपरि वैद्यनाथस्य छायानाम्नी टीका प्रसिद्धा । तथैव गुरुप्रसादशास्त्रिणः राजलक्ष्मी नाम्नी टीका च ।

गुरुप्रसादशास्त्री[सम्पादयतु]

गुरुप्रसादशास्त्री हि सिद्धवैयाकरणः । तेन हि प्रदीपोद्योतावधिकृत्य राजलक्ष्मी नाम्नी टीका प्रणीताऽस्ति । स हि स्नेहिरामशिष्य इति तस्यैव मङ्गलपद्यतो ज्ञायते । व्याख्येयं खण्डिता. दृश्यते । वाणीविलासप्रकाशनतः पुनर्मुद्रिते महाभाष्ये टीकेयं, नवमाह्निक पर्यन्तमेव मुद्रिता । तदनन्तरं तु केवलं टिप्पण्येव दृश्यते । गुरुप्रसादस्य हि अष्टाध्याय्यां सरला टीका च प्रकाशिताऽस्ति । स हि स्नेहिरामस्य पौत्रः, शिवनारायणस्य पुत्रः व्याख्यासमापन कालश्च १९९६ वैक्रमाब्दाः । एवमेव ज्येष्ठकलशाख्येन विह्लणतातेनापि महाभाष्योपरि व्याख्याग्रन्थः । प्रणीत इति श्रूयते किन्तु तद्विषये न किमपि ज्ञातंमस्माकम् । स हि १०८५११३५ वैक्रमाब्दभवः ।

मैत्रेयरक्षितेनाऽपि (११४५-११७५ वै०) महाभाष्यस्य ब्याख्या कृतेति सीरदेवकृतोद्धरणतो ज्ञायते । तद्विषषे न किमपि ज्ञातमस्माकम् । पुरुषोत्तमदेवेनापि ( १२०० वै० ) महाभाष्योपरि , प्राणपणा नाम्नी व्याख्या कृताऽस्तीति ग्रन्थान्तरतो ज्ञायते । तस्य च भाषावृत्तिः कुण्डलीव्याख्यानं, कारककारिका, दुर्घटवृत्तिः, परिभाषावृत्तिः, ज्ञापकसमुच्चयः, उगादिवृत्तिः कारकचक्रञ्चति ग्रन्थाः प्रसिद्धाः ।

महाभाष्यस्य पुरुषोत्तमकृतवृत्तेः शङ्कराख्येन विदुषा व्याख्या लिखिता तस्याश्च मणिकण्ठेन टीका कृता । : । तथैव धनेश्वरेण (१२५०-१३०० वै०) चिन्तामणिनाम्नी टीका कृताऽऽसीत् । असौ हि वोपदेवस्य गुरुः । शेषनारायणस्य (१५१०-१५५० वै०) सूक्तिरत्नाकरनाम्नी महाभाष्य • व्याख्याऽप्यस्तीति युधिष्ठिरलेखतो ज्ञायते । विष्णुर्मिश्राऽऽख्येन विदुषा (१६०० वै०) क्षीरोदनामक टिप्पणं कृतमासीदिति ‘तदिदं सर्वं क्षीरोदाख्ये त्रैलिङ्गतार्किकविष्णुमिश्रविरचिते महाभाष्य टिप्पणे 'स्पष्टम्' इति शिवरामेन्द्रकथनतो ज्ञायते । शब्दकौस्तुभे च[१] स स्मृतः।

१६००-१६७५ वैक्रमाब्देषु स्थितिमता नीलकण्ठेन भाष्यतत्वविवेकाख्या महाभाष्यस्य टीका प्रणीताऽस्ति । तस्य हि पाणिनीयदीपिका, परिभाषावृत्तिः सिद्धान्तकौमुद्याः सुखबोधिनीटीका, गूढार्थदीपिका च कृतित्वेन प्रसिद्धाः । शेषविष्णुना ( १६००-१६५० वै० ) अपि महाभाष्यप्रकाशिको नाम्नी महाभाष्यव्याख्या प्रणीतेति श्रूयते । तिरुमलाख्येन (१५५० वैः ) पण्डितेनाऽपि अनुपदानाम्नी महाभाष्यव्याख्या कृताऽस्ति । गोफालकृष्णाख्येन (१६५०-१७०० वै०) महाभाष्योपरि शाब्दिकचिन्तामणिनाम्नी टीका प्रणीतेति युधिष्ठिरमहाभागलेखतो ज्ञायते ।

शिवरामेन्द्रसरस्वतिः[सम्पादयतु]

हरिहरेन्द्र भगवत्पूज्यपादशिष्येण -१६७५-१७५० वैक्रमादेषु स्थितिमताश्रीमती शिवरामेन्द्रसरस्वतिना यतिना 'सिद्धान्तरत्नप्रकाशनाम्नी महाभाष्यस्य सरला सुबोधां च व्याख्या प्रणीताऽस्ति । एषा हि सम्पूर्ण महाभाष्यव्यापिका । । अस्य हि कैयटवचनानि पदे पदे खण्डितानि दृश्यन्ते तन्माध्यमेन भतृहरेरपि ।। स हि विष्णुमित्रस्य क्षीरोदव्याख्यानं, सिद्धान्तकौमुदीं शब्दकौस्तुभं, चोद्धृत्य दूषयति यत्र कुंत्र । ग्रन्थोऽयं १७०१ मितवैक्रमाब्दे सम्पूर्ण आसीत्।

प्रयागवेङ्कटांद्रिनामंकपण्डितेन महाभाष्यस्य विद्वन्मुखेभूषणः नाम्नी व्याख्या प्रणीतांऽस्ति । कुमारतातयेन वैक्रमसप्तदशशतकभवेन महाभाष्योपरि व्याख्याग्रन्थः प्रणीत आसीदिति श्रूयते । सत्यप्रिंयतीर्थस्वामिनाऽपि महाभाष्यविवरणं १७९४-१८०१ वर्षेषु वैक्रमेषु । प्रणीतमिति ज्ञायते । राजनृसिंहाख्येन विपश्चिताऽपि महाभाष्यस्य शब्दबृहती' नाम्नी टीका प्रणीताऽऽसीदिति श्रूयते ।

नारायणः[सम्पादयतु]

नारायणाख्येन केनचिद्विदुषा महाभाष्यविवरणनामको महाभाष्यव्याख्याअर्थः प्रणीतोऽस्ति । तस्य च हस्तलेखो नेपालस्य राष्ट्रियाभिलेखालये विद्यत इति श्रूयते । ग्रन्थोऽयं तत्र सूचीपत्रकस्य द्वितीये भागे २११ पृष्ठेऽभिलिखितोऽस्तीत्यपि युधिष्ठिरमहाशयानुशासनतो ज्ञायते ।। . सर्वेश्वराख्येने विपश्चिताऽपि महाभाष्यस्य महाभाष्यस्फूति नाम्नी’व्याख्या प्रणीतेति श्रूयते ।

नीलकण्ठपुत्रेण कमलाकरदीक्षितशिष्येण सदाशिवाल्येन विदुषा १७२३ मित वैक्रमाब्दे महाभाष्यस्य गूढार्थदीपिनीनाम्नी टीका प्रणीतेति ज्ञायते। गजेन्द्रगढनिवासिना राघवेन्द्राचार्येण महाभाष्यव्याख्या विरचिताऽऽसीदिति श्रूयते । धर्मपुरीवास्तव्येन नरसिंहाचार्येणाऽपि शाब्दिककण्ठमणिनाम्नी महाभाष्यव्याख्या प्रणीतेत्यपि श्रूयते । एते चान्या अज्ञाताश्च कतिपये व्याख्याग्रन्था महाभाष्यमधिकृत्ये प्रणीताः सन्ति।

व्याकरणपरम्परायां पाणिनिह भगवान् सूत्रकारः, कात्यायनो हि भगवान् वाक्यकारः, पतञ्जलिह भगवान् पदकार इति स्मृताः । तदतिरिक्तमेपि. अनुपदकारः पदशेषकारश्च तत्र तत्र स्मृतौ दृश्येते । एतदनुमीयते यदनुपदे ग्रन्थौ हि महाभाष्यानन्तरप्रणीतः सम्भवति पदशब्देन भाष्यस्यैव बोधनम्त्, तथैव पैदशेषग्रन्थो हि महाभाष्यावशिष्टविषयप्रतिपादके एव। कोऽसौ अनुपदकासेवा पदशेषकार इति तु नैव ज्ञातमधुनाऽपि एतदपि नैव ज्ञातं यदुभावेव ग्रन्थौ एकस्यैव कृती वा पृथक्पृथक्प्रणेतुरिति । पदमञ्जर्यां[२] 'पदशेषो , ग्रन्थविशेषः' इत्येतावदेवोक्तम् । अनुपदकारस्योल्लेखो यथा -

एवञ्च युवानमाख्यत् अचीकलदित्यादिप्रयोगोऽनुपदकारेण नेष्यत इति । लक्ष्यते' ( तन्त्रप्रदीपे )।

'प्रेण्वनमिति अनुपदकारेणानुम उदाहरणमुपन्यस्तम् । - ( दुर्घटवृत्तौ )

एवमेव पदशेषकारश्च काशिकावृत्तौ स्मृतः । यथा--

‘पदशेषकारस्य पुनरिदं दर्शनम्---गम्युपलक्षणार्थं परस्मैपदग्रहण परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात् सकारादेरार्धधातुकस्येडू भवति ।[३]

'अत एव भाष्यवातिकविरोधात् ‘गमेरिट्' इत्यत्र परस्मैपदग्रहणं गम्युपलक्षणार्थम् । परस्मैपदेषु यो गमिनदष्टः इति पदशेषकारदर्शनमुपेक्ष्यम् ।'

(माधवीयधातुवृत्तौ) ।

‘‘पदशेषकारस्तु शब्दाध्याहारं शेषमिति वदति ।' (भाष्यव्याख्याप्रपञ्च )

भाष्यव्याख्याप्रपञ्चो हि पुरुषोत्तमदेवस्य महाभाष्यलघुवृत्तेव्र्याख्याग्रन्थः । तत्रापि पदशेषकारस्योल्लेखात् पदशेषग्रन्यो वैक्र मत्रयोदशशतकपर्यन्तमप्युपलभ्य आसीदिति ज्ञायते ।

तयोश्च निम्नक कत्वमेव न्याय्यं दृश्यते ।

एतदतिरिक्तमपि हेलाराज़-राघवसूरि-राजरुद्रादिभिरपि वातकव्याख्यानाय प्रयासः कृतः । तत्र हेलाराजेंन वातकोन्मेषनामको वातकव्याख्यापरको ग्रन्थः प्राणायि । तथैव राघवेन्द्रसूरेः अर्थ प्रकाशिकाऽऽख्यो ग्रन्थः, राज रुद्रस्य च अलोकंवातकव्याख्या कीर्तिता । ते हि सम्प्रत्यपि पुस्तकालयेष्वेव हस्तलेखरूपेण सन्ति यत्र कुत्र।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. १॥१॥८
  2. ७/२/६८
  3. ७/२।५८
"https://sa.wikipedia.org/w/index.php?title=व्याकरणभाष्यकाराः&oldid=446959" इत्यस्माद् पुनः प्राप्तिः