सामग्री पर जाएँ

विकिपीडिया:प्रमुखं चित्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रमुखचित्रफलकं प्रति गच्छताम् ।

२०१२ फ़ॆब्रुवरी

[सम्पादयतु]

कथाकेळिः

[सम्पादयतु]
कथाकेळी - कृष्णः
कथाकेळी - कृष्णः

कथाकेळिः (मलयाळम्: കഥകളി, कथकळि) देशे विदेशे च प्रसिद्धिमाप्ता एकं केरळीयनृत्तकलारूपमस्ति। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः। कथाकेल्यां प्राधान्येन (१) केली, (२) अरङ्ङुकेली, (३) तोटयम्, (४) वन्दनश्लोकः, (५) पुरप्पाट्, (६) मेळप्पदम्, (७) कथाभिनयम्, (८) धनाशि च सन्ति। कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता। तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। कथाकेल्याः साहित्यं कैरळ्याम् आट्टक्कथा इति व्यवह्रियते।

२०१२ जनुवरी

[सम्पादयतु]

केरवृक्षः

[सम्पादयतु]
केरवृक्षः
केरवृक्षः

केरवृक्षः एकं बहुवर्षीयं सस्यम् अस्ति । नालिकेरवृक्षः, नारिकेलवृक्षः इति अस्य नामान्तरम् । अस्य सर्वेऽपि अङ्गानि उपयोगाय भवन्ति । एतत् कारणे केरवृक्षः कल्पवृक्षः इति प्रसिद्धा । केरवृक्षे शाखाविशाखाः न भावन्ति स्य पत्रवली दीर्घा भवति । दीर्घे दण्डे कृषाणि पत्राणि समान्तरेण संलग्नानि भवन्ति । अयं वृक्षः समुद्रतीरेषु अथवा लावण्यक्षेत्रेषु सम्यक् प्ररोहति । अस्य फलस्य नाम नालिकेरम् इति । भारते सर्वेषु धार्मिकविधिषु पूर्णफलरूपेण नालिकेरफलम् उपयोजयन्ति । नालिकेरतैलं भारते प्रायः सर्वत्र उपयुज्यते ।

२०११ दशम्बर्

[सम्पादयतु]
मयूरः
मयूरः

मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । प्रायशः अयम् अरण्ये निवसति । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति । मयूरस्य केकी, भुजङ्गभुक्, शिखी, नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रक’नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्रयुक्तताभ्रमः जायते ।

२०११ नवम्बर्

[सम्पादयतु]

ताज् महल्

[सम्पादयतु]
ताज् महल्
ताज् महल्

ताज् महल् (ताजभवनम्, तेजोमहालयः) आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते। आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं मुगळचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम्। इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ श्वेतामृतशिलया निर्मितम्। इयं शिल्पकला पर्शियन्-ओटोमन्-यवन-भारतीयशौलीभिः युक्ता अस्ति। अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः।