विजय् अमृतराज्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विजय् अमृत् राज्वर्यः भारतस्य निवृत्तः टेनिस्-क्रीडा क्रीडालुः अस्ति ।

विजय् अमृतराज्

परिचयः[सम्पादयतु]

विजय् अमृत् राज् अन्ताराष्ट्रियः लानटेन्निस्क्रीडायाः क्षेत्रे उत्तमसाधनां कृतः प्रथमक्रीडालवः वर्तते । एषः तमिळुनाडु राज्यस्य चेन्नै नगरे १९५३ तमे वर्षे डिसेम्बर् मासस्य १४ दिनाङ्के जन्मप्राप्तवान् । तस्य माता म्यागी धैर्यम्, पिता रोबर्ट् अमृत् राज् । तस्य सहोदरौ आनन्द् अमृत् राज्,अशोक् अमृत् राज् वर्तेते । अस्य बाल्यशिक्षणं चेन्नैनगरस्य एग्मोर् स्थाने डान् बास्को विद्यालये कृतवान् । उन्नतविद्याभ्यासः लोयला विश्वविद्यालये अभवत् । विजय् अमृत् राज्, आनन्द् अमृत् राज् च १९७६ तमे वर्षे विम्बल्डन्पुरुषाणां युगलक्रीडायां उपान्त्यक्रीडा पर्यन्तं क्रीडितवन्तौ । १९८३ तमे वर्षे पद्मश्री-पुरस्कारः प्राप्तवान् ।

अन्ताराष्ट्रियचरितम्[सम्पादयतु]

क्रीडा[सम्पादयतु]

  • १९७० तमे वर्षे विजय्-वर्यः प्रथमवारं ग्राण्ड् प्री टेन्निस् सर्क्यूट्क्रीडायां क्रीडितवान् ।
  • १९७३ तमे वर्षे ग्राण्ड् स्लाम्क्रीडायां प्रागुपान्त्यक्रीडायाः पर्यन्तं क्रीडितवान् ।
  • विम्बल्डन्-क्रीडायां जान् कोडेस्(Jan Kodeš) विरुद्धं ७-५ कुलकेषु पराजयम् अनुभूतवान् ।
  • वैशाखमासे प्रचलितस्य यू एस् ओपन्क्रीडायां वर्तुलद्वये रोड् लावर्वर्यस्य(Rod Laver) विरुद्धं जयं प्राप्यवान् । परन्तु केन् रोस् वाल्(Ken Rosewall) विरुद्धं पराजयं प्राप्तवान् ।
  • १९७४ तमे वर्षे फारेस्ट् हिल्स्-स्थले वर्तुलद्वये बिजार्न् बोर्ग्(Björn Borg) विरुद्धं जयं प्राप्तवान् । परन्तु केन् रोस् वाल्वर्यस्य(Ken Rosewall) विरुद्धं पुनः असफलो जातः ।
  • विजय्-वर्यः अनन्तरवर्षेषु अनेकवारं ग्राण्ड् प्रिक्स्-क्रीडायां क्रीडितवान् ।
  • ग्राण्ड् स्लाम्-क्रीडायां सर्वदा जयं प्राप्तुं विफलः जातः ।
  • १९७४ तमे वर्षे डेविस् कप्-क्रीडायां भारतम् फिनल्स् प्राप्तुम् उत्तरदायकः आसीत् । (दुर्भाग्यवशात् भारतम् फिनल्स् न क्रीडितम् )
  • १९७० तम वर्षादारभ्य १९८० तम वर्षस्य पूर्वार्धपर्यन्तं डेविस् कप्-क्रीडायां भारतस्य नायकः आसीत् ।
  • १९८१ तमे वर्षे ग्राण्ड् स्लाम्-क्रीडायां जिम्मि कोन्नर्स्वर्यं(Jimmy Connors) ५ कलुकेषु पराजितवान् । प्रागुपान्त्यक्रीडापर्यन्तं क्रीडितवान् ।
  • विजय्-वर्यः टेनिस्-क्रीडावृत्तिजीवने सम्प्रयुक्तक्रीडायां ३८४ वारं जयं,२९६ वारं पराजयं च प्राप्तवान् ।
  • विजय्-वर्यः टेनिस्-क्रीडावृत्तिजीवने सम्प्रयुक्तक्रीडायां १६ वारं,युगलक्रीडायां १३वारं उपाधयः प्राप्तवान् ।
  • १९८० तमे वर्षे जुलै मासे विश्वश्रेण्यां १६ स्थानं प्राप्तवान् ।
  • १९८७ तमे वर्षे डेविस् कप्-विजेता आसीत् ।

इतरसहभागाः[सम्पादयतु]

  • एषः एकः नटः अपि आसीत् ।
  • एम्ऐ६(MI6) इति प्रसिद्धं आङ्ग्लचलनचित्रे नटनं कृतवान् ।
  • १९८३ तमे वर्षे ओक्टोपुस्सी इति जेम्स् बाण्ड्(James Bond) इति चलनचित्रे नटनं कृतवन् ।
  • स्टार् ट्रेक् IV:द वोयेज् होम्(Star Trek IV:The Voyage Home) चलनचित्रे वायुयानस्य चालकपात्रं कृतवान् ।
  • एन् बि सि(NBC) इति दूरदर्शनवाहिन्यां द लास्ट् प्रेंसिङ्क्ट्(The Last Precinct), वाट् अ कण्ट्रि(What a Country) इत्यादि धारावाहिन्यां नटितवान् ।
  • एषः क्रीडायाः व्याख्यातृरूपेणापि कार्यं कृतवान् ।
  • मिस्स् यूनिवर्स्(Miss Universe) स्पर्धायाः निर्णायकः अपि आसीत् ।
  • वर्तमानकाले सि एन् एन्-ऐ बि एन्(CNN-IBN) वाहिन्यां डैमेंशन्स् विद् विजय् अमृतराज्(Dimensions with Vijay Amritraj) इति कार्यक्रमे अतिथिपतिः(host) वर्तते ।

वैय्यक्तिकजीवनम्[सम्पादयतु]

  • विजय् वर्यः श्रीलङ्का तमिळीया श्यामलायाः सह परिणीतवान् ।
  • अस्य पुत्रौ प्रकाश् अमृत् राज्,विक्रम् च वर्तेते ।
  • अस्य जातिः नाडर् वर्तते ।

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विजय्_अमृतराज्&oldid=451351" इत्यस्माद् प्रतिप्राप्तम्