विभूतिपादः
दिखावट
- 3.1 देशबंधश्चित्तस्य धारणा
- 3.2 तत्र प्रत्ययैकतानता ध्यानम्
- 3.3 तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः
- 3.4 त्रयमेकत्र संयमः
- 3.5 तज्जयात् प्रज्ञालोकः
- 3.6 तस्य भूमीषु विनियोगः
- 3.7 त्रयमन्तरङ्गं पूर्वेभ्यः
- 3.8 तदपि बहिरङ्गं निर्बीजस्य
- 3.9 व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः
- 3.10 तस्य प्रशान्तवाहिता संस्कारात्
- 3.11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः
- 3.12 ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः
- 3.13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः
- 3.14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी
- 3.15 क्रमान्यत्वं परिणामान्यत्वे हेतुः
- 3.16 परिणामत्रयसंयमादतीतानागतज्ञानम्
- 3.17 शब्दार्थप्रत्ययानामितरेतराध्यासात्संस्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम्
- 3.18 संस्कारसाक्षत्करणात्पूर्वजातिज्ञानम्
- 3.19 प्रत्ययस्य परचित्तज्ञानम्
- 3.20 न च तत्सालम्बनं, तस्याविषयीभूतत्वात्
- 3.21 कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम्
- 3.22 सोपक्रमं निरुपक्रमं च कर्म, तत्संयमादपरान्तज्ञानम्, अरिष्टेभ्यो वा
- 3.23 मैत्र्यादिषु बलानि
- 3.24 बलेषु हस्तिबलादीनि
- 3.25 प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्
- 3.26 भुवनज्ञानम् सूर्ये संयमात्
- 3.27 चंद्रे ताराव्यूहज्ञानम्
- 3.28 ध्रुवे तद्गतिज्ञानम्
- 3.29 नाभिचक्रे कायव्यूहज्ञानम्
- 3.30 कण्ठकूपे क्षुत्पिपासानिवृत्तिः
- 3.31 कूर्मनाढ्यं स्थैर्यम्
- 3.32 मूर्धज्योतिषि सिद्धदर्शनम्
- 3.33 प्रातिभाद्वा सर्वम्
- 3.34 हृदये चित्तसंवित्
- 3.35 सत्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भागः......
- 3.36 ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते
- 3.37 ते समाधावुपसर्गा व्युत्त्थाने सिद्धयः
- 3.38 बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः
- 3.39 उदानजयाज्जलपंककंटकादि़ष्टसंग उत्क्रांतिश्च
- 3.40 समानजयाज्ज्वलनम्
- 3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्
- 3.42 कायाकाशयोः संबंधसंयमाल्लघतूल समापत्तेश्चाऽऽकाशगमनम्
- 3.43 बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशवरणक्षयः
- 3.44 स्थूलस्वरूपसूक्ष्मन्वयार्थवत्त्वसंयमाद्भूतजयः
- 3.45 ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च
- 3.46 रूपलावण्यबलवज्रसंहननत्वानि कायसंपत्
- 3.47 ग्रहणस्वरूपस्मितान्वयार्थवत्त्वसंयमादिंद्रियजयः
- 3.48 ततो मनोजवित्वं विकरणभावः प्रधनजयश्च
- 3.49 सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावादिष्ठातृत्वं सर्वज्ञातृत्वं च
- 3.50 तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्
- 3.51 स्थान्युपनिमंत्रणे संगस्मयाकरणं पुनरनिष्टप्रसंगात्
- 3.52 क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम्
- 3.53 जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः
- 3.54 तारकं सर्वविषयं सर्वथाविषयमक्रमम् चेति विवेकजम् ज्ञानम्
- 3.55 सत्वपुरुषयोः शुध्दीसाम्ये कैवल्यमिति