विराट् कोहली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विराट कोहली
Virat Kohli
{{{imagealt}}}
वैय्यक्तिकपरिचयः
सम्पूर्णनाम विराट कोहली
जन्म (१९८८-२-२) ५ १९८८ (आयुः ३५)
देहली, भारतम्
प्रसिद्धनामानि विराटः
औन्नत्यम् ५ फ़ुट ६ इंच (१.६८ मी)
ताडनशैली दक्षिणहस्ती
कन्दुकक्षेपणशैली दक्षिणहस्तेन
पात्रम् भुजयाष्टिकः (बल्लेबाज)
अन्ताराष्ट्रियविवरणानि
राष्ट्रम् भारतम्
प्रथमटेस्ट् (cap 268) 20 जून 2011 v वेस्ट इण्डिज
अन्तिमटेस्ट् 3 सितम्बर 2012 v न्यूजीलैण्ड्
प्रथम-ओ डि ऐ(cap 175) 18 अगस्त 2008 v श्रीलङ्का
अन्तिम-ओ डि ऐ 31 जुलाई 2012 v श्रीलङ्का
गृह्यगणविवरणानि
वर्षम् गणः
2006–साम्प्रतम् देहली
2008–साम्प्रतम् रॉयल् चैलेञ्जर्स बेङ्गळुरु
वृत्तिजीवनस्य सांख्यिकी
स्पर्धा टेस्ट एकदिवसीया अन्ताराष्ट्रियक्रीडा प्रथमश्रेण्याः याष्टिकः ऍलए
क्रीडाः 32 146 107 120
प्राप्ताः धावनाङ्काः 2300 6208 5632 5,214
सामान्यताडनानि 44.23 52.61 30.96 51.62
१००s/५०s 9/9 22/33 8/11 17/28
श्रेष्ठाङ्कः 169 183 197 183
Balls bowled 66 411 534 344
विकेट् 0 2 3 2
बोलिङ्ग् 210.50 96.33 162.50
५ विकेट् (एकस्मिन् इनिङ्गस्) 0 0 0 0
१० विकेट् (एकास्यां स्पर्धायाम्) 0 n/a 0 n/a
श्रेष्ठबोलिङ्ग् n/a 1/20 1/19 1/20
क्याच्/स्टाम्पिङ्ग् 14/– 49/– 37/– 64/–
Source: [स्रोतः], 3 सितम्बर 2012

विराट् कोहली ( /ˈvɪrɑːt khəl/) (हिन्दी: विराट कोहली, आङ्ग्ल: Virat Kohli) भारतदेशस्य क्रिकेट-क्रीडायाः कश्चित् क्रिडापटुः । तेन अनेके पुरस्काराः प्राप्ताः । तेषु अर्जुनपुरस्कारः, 'पीपल्स् चाय्स्'-पुरस्कारः च अन्तर्भवतः । एषः २००८ तमे वर्षे भारतस्य एकोनविंशतिवर्षेभ्यः लघुवयस्कानां क्रिकेट्-दलस्य नायकः आसीत् । तस्य नेतृत्वे भारतेन विश्ववैजन्ती स्वायत्तीकृता । तथा च 'इण्डियन् प्रिमियर् लीग्'-क्रीडायां 'रोयल् चेलेन्जरस् बैंगलोर'-नामकस्य दलस्य नायकः आसीत् एषः । विराट् भारतस्य लोकप्रियः क्रीडालुः वर्तते । क्रिकेट्-क्रीडा इव टेन्निस्-क्रीडा अपि तस्मै बहु रोचते । तस्य प्रियक्रीडापटुः राजर् फेडरर् वर्तते [१] । प्रथमश्रेण्याः क्रिकेट-क्रीडायां विराट् देहली-दलस्य प्रतिनिधित्वं करोति । http://Vishaloppo.blogspot.com

क्रिकेट्-क्रीडायां योगदानम्[सम्पादयतु]

विराट् निकषकाले

विराट् मध्यमीयः याष्टिकः, मध्यमगत्याः कन्दुकक्षेपकः च अस्ति [२] । सः प्रथमश्रेण्याः क्रिकेट-दले देहली-महानगरस्य प्रतिनिधित्वं करोति । 'इण्डियन् प्रीमियर् लीग्'-क्रीडायां 'रॉयल् चैलेञ्जर्स् बङ्गळुरु'-दलस्य नायकः अस्ति [३] । विराट् दक्षिणदेहली अकादमी-दले अपि क्रीडति स्म । विराट् भारतीययाष्टिकेषु सर्वापेक्षया शीघ्रतया शतधावानाङ्ककर्ता अस्ति । २००८ तमे वर्षे विराट् अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायाः (एकदिवसीयक्रीडा) क्रीडकः अभवत् । २०११ तमे वर्षे विश्वचषकविजेतृदले विराट् अपि क्रीडाकः आसीत् । विराट् किङ्ग्सटन्-मध्ये वेस्टइण्डिज-देशस्य विरुद्धं २०११ तमे वर्षे स्वस्य प्रप्रथमां निकषस्पर्धाम् अक्रीडत् । विराट् २०१२ तमे वर्षे 'आईसीसी'- एकदिवसीयक्रीडालुपुरस्कारस्य विजेता अभवत् । २०१३ तमस्य वर्षस्य नवम्बर-मासे विराट् प्रप्रथमम् एकदिवसीयक्रीडायाः प्रथमकमाङ्कस्य क्रीडकः अभवत् [४]

जन्म, परिवारश्च[सम्पादयतु]

१९८८ तमस्य वर्षस्य नवम्बर-मासस्य पञ्चमे (५/११/१९८८) दिनाङ्के भारतस्य देहली-महानगरे अभवत् [५] । तस्य पितुः नाम प्रेम, तस्य मातुश्च नाम सरोज अस्ति [६] । प्रेमवर्यः वाक्कीलः, सरोजवर्या गृहिणी च आसीत् । २००६ तमस्य वर्षस्य दिसम्बर-मासे विराजः पिता दिवङ्गतः । तस्य एकः अग्रजः विकासः, एका अनुजा भावना च वर्तेते । देहली-महानगरस्य विशालभारती-नामके विद्यालये सः अध्ययनम् अकरोत् [७]

क्रीडायाः आरम्भः[सम्पादयतु]

विराजः क्रिकेट्-क्रीडायाः आरम्भेषु[८] दिनेषु यदा स्वस्य पितुः निधनदिनेऽपि देहली-पक्षतः कर्णाटक-राज्यविरुद्धं रणजी-जयस्तम्भाय (trophy) क्रीडन् आसीत्, तदा तस्य निष्ठया प्रभाविताः पत्रकाराः समाचारपत्रेषु, समाचारप्रणालिषु (news channel) च विराजः उल्लेखम् अकुर्वन् । विराट् मलेशिया-देशे आयोजिते २००८ तमस्य वर्षस्य नवदशवयस्कात् लघु-क्रिकेट-क्रीडकानां विश्वचषके विजयिभारतीयदलस्य नायकः आसीत् । चतुर्थे क्रमाङ्के क्रीडन् सः सप्तचत्वारिंशत्प्रतिशतेन (४७) षड्स्पर्धासु द्विशताधिकपञ्चत्रिंशद्धावनाङ्कान् अकरोत् । तेषु धावनाङ्केषु वेस्टइण्डिज-देशस्य विरुद्धं कृतं शतकम् अपि अन्तर्भवति । खेलप्रतियोगितायां सः सधैर्यं क्रीडति । २००९ तमस्य वर्षस्य 'इमर्जिङ्ग् प्लेयर्स्-खेलप्रतियोगितायां विराट् ऑस्ट्रेलिया-देशस्य विरुद्धं भारतस्य विजये महत्त्वपूर्णां भूमिकाम् अवहत् । तस्याः प्रतियोगितायाः चरमस्पर्धायां दक्षिण-अफ्रीका-देशस्य विरुद्धं विराट् शतकम् अकरोत् । तस्यां स्पर्धायां भारतस्य सप्तदश (१७) धावनाङ्कैः विजयः अभवत् ।

अन्ताराष्ट्रियक्रीडायां वृत्तिः (career)[सम्पादयतु]

२००८ तमे वर्षे ऑस्ट्रेलिया-देशे 'इमर्जिङ्ग् प्लेयर्स्'-प्रतियोगितायां[९] शतकम् अकरोत् । ततः विराट् तस्मिन् एव वर्षे श्रीलङ्कायाः यात्रायै भारतस्य एकदिवसीयक्रीडादलस्य क्रीडालुत्वेन चितः । तदा सचिन तेण्डुलकर, वीरेन्द्र सहवाग च आहतौ आस्ताम् । २००८ तमे वर्षे 'आइडिया'-चषकाय श्रीलङ्का-देशस्य विरुद्धम् एकदिवसीयया अन्ताराष्ट्रियस्पर्धया विराजा स्वस्य अन्ताराष्ट्रियवृत्तेः (International Career) आरम्भः कृतः ।

स्वस्य प्रप्रथमायां स्पर्धायां सः द्वादशधावनाङ्कान् कृत्वैव 'रन् आउट्' अभवत् । तस्याः प्रतियोगितायाः चतुर्थ्यां स्पर्धायां विराट् अर्धशतकम् अकरोत् । तस्यां स्पर्धायां तस्य धावनाङ्काः चतुःपञ्चाशत् (५४) आसन् । भारतस्य तस्यां प्रतियोगितायां विजयः अपि अभवत् ।

क्रीडावेलायां युवराजेन विराट् अकस्मात् आहतोऽभवत् । ततः २००९ तमे वर्षे 'आईसीसी चैम्पियन्स्'-जयस्तम्भप्रतियोगितायां सः भागम् अवहत् । २००९ तमे वर्षे सः नियततया एकदिवसीयक्रीडालत्वेन निश्चितः अभवत् । ऑस्ट्रेलिया-देशेन सह भारते आयोज्यमानायां प्रतियोगितायां युवराजस्य पुनःक्रीडारम्भेण विराट् तस्यां श्रृङ्खलायाम् अधिकायां स्पर्धायां भागं वोढुं न शक्तवान् । परन्तु तस्याः श्रृङ्खलायाः चतर्थ्यां स्पर्धायां तेन स्वस्य प्रप्रथमं शतकं कृतम् । तस्यां स्पर्धायां तृतीये क्रमे विराट-गौतमयोः २२४ धावनाङ्कानां सहयोगः आसीत् । तस्यां श्रृङ्खलायां भारतस्य ३-१ अन्तरेण विजयः अभवत् ।

विराट् २०१० तमस्य वर्षस्य जून-मासे जिम्बाब्वे-देशे त्रिकोणस्पर्धायां भागम् अवहत् । तस्यां स्पर्धायां जिम्बाब्वे, श्रीलङ्का, भारतं च त्रिकोणियस्पर्धाम् अकुर्वन् । तस्यां श्रृङ्खलायां जिम्बाब्वे-श्रीलङ्का-देशयोः विरुद्धं सः दलस्य उपनायकत्वेन नियुक्तः अभवत् । तस्यां श्रृङ्खलायामेव विराट् एकदिवसीयक्रीडायाः शीघ्रतया एकसहस्रधावनाङ्ककर्ता भारतीयः क्रीडकः अभवत् [१०] । विराट् ४७.३८ प्रतिशतेन पञ्चविंशत्यां (२५) स्पर्धासु नवशताधिकपञ्चनवतिः (९९५) धावनाङ्कान् अकरोत् । तेषु धावनाङअकेषु त्रीणि (३) शतकानि अन्तर्भवन्ति । २०१० तमे वर्षे विराट् भारतस्य क्रीडकेषु अधिकधावनाङ्ककर्ता क्रीडकः आसीत् । २०१० तमस्य वर्षस्य जून-मासे जिम्बाब्वे-देशस्य विरुद्धं T20 श्रृङ्खलायां भारतीयदले विराट् अपि आसीत् ।

निकषस्पर्धायाः (Test Match) आरम्भः[सम्पादयतु]

२०११ तमस्य वर्षस्य जून-मासे, जुलाई-मासे च भारतीयदलस्य वेस्टइण्डिज-देशेन सह श्रृङ्खलायाः आयोजनम् आसीत् । तस्यां श्रृङ्खलायां सचिन तेन्दुलकर विश्रामं स्वीकृतवान् । गौतमः, वीरेन्द्रश्च आहतौ आस्ताम् । अतः नवीनानां त्रयाणां क्रीडकाणां प्रवेशोऽनुमतः । तेषु त्रिषु विराट् अपि अन्यतमः आसीत् । भारतेन सा निकषश्रृङ्खला १-० अन्तरेण विजीता । परन्तु विराट् निकषस्पर्धायाः प्रारूपे तेन बहुः सङ्घर्षः कृतः । मुख्यरूपेण सः पञ्चसु स्पर्धासु (५) भागम् अवहत् । तासु पञ्चस्पर्धासु तेन केवलं षड्सप्ततिः (७६) धावनाङ्काः कृताः । तस्यां श्रृङ्खलायां विराजः मुख्यसमस्या आसीत् वेगेन कन्दुकक्षेपकः फिडेल एडवर्ड्स् । सः वारत्रयं विराजं बहिः (Out) अकरोत् ।

२०११ तमस्य वर्षस्य इङ्ग्लैण्ड-श्रृङ्खला[सम्पादयतु]

२०११ तमस्य वर्षस्य जुलाई-मासस्य इङ्ग्लैण्ड-श्रृङ्खलायाम्[११] इङ्ग्लैण्ड्-देशस्य विरुद्धं भारतस्य चतस्रः निकषस्पर्धाः आसन् । परन्तु पूर्वकृतेन न्यूनधावकाङ्केन विराजः चयनं भारतीयदले नाभवत् । ततः युवराजः आहतः अभवत् । अतः विराजः दले प्रवेशः अभवत् । परन्तु सः एकस्याम् अपि स्पर्धायाम् अक्रीडत् । ततः एकदिवसीयस्पर्धायां सः अक्रीडत् । परन्तु तस्यां श्रृङ्खलायां ३-० अन्तरेण भारतस्य पराजयः अभवत् । पञ्चस्पर्धायाम् एकशताधिकचतुर्नवतिः (१९४) धावनाङ्काः विराजा कृताः । तेषु धावनाङ्केषु एकं शतकम् अपि अन्तर्भवति । तस्मिन् एव वर्षे अक्तूबर-मासे इङ्ग्लैण्ड-देशस्य दलं भारतस्य प्रवासार्थं गतम् । एवम् इङ्ग्लैण्ड-भारतदेशयोः मध्ये द्वितीयश्रृङ्खलायाः आयोजनम् अभवत् । तस्यां श्रृङ्खलायां पञ्चैकदिवसीयस्पर्धायाः आसन् । तासु पञ्चस्पर्धासु भारतस्य ५-० अन्तरेण विजयः अभवत् । विराजा पञ्चस्पर्धासु द्विशताधिकसप्ततिः (२७०) आवनाङ्काः कृता । तस्यां श्रृङ्खलायां विराट् सर्वाधिकधावनाङ्ककर्ता क्रीडालुः आसीत् । तेन तस्याः श्रृङ्खलायाः एकस्यां स्पर्धायाम् एकशताधिकद्वादश (११२) धावनाङ्कानाः कृताः ।

२०११ वेस्टइण्डिज-देशे भारतीयदलम्[सम्पादयतु]

२०११ तमस्य वर्षस्य नवम्बर-मासे, दिसम्बर-मासे च वेस्ट इण्डिज-देशे श्रृङ्खलायाः आयोजनम् आसीत् । तस्यां श्रृङ्खलायां तिस्र निकषस्पर्धाः, पञ्चैकदिवसीयस्पर्धाः अन्तर्भूताः आसन् । इङ्ग्लैण्ड्-देशस्य विरुद्धं पूर्वस्मिन् मासे योग्यप्रदर्शनेन विराजः चयनं वेस्ट इण्डिज्-देशस्य श्रृङ्खलायै अभवत् । निकषस्पर्धायां तु विराट् एकस्यां स्पर्धायाम् एव अक्रीडत् । तस्यां निकषश्रृङ्खलायां भारतस्य ०-२ अन्तरेण विजयः भवत् । एकदिवसीयश्रृङ्खलायां भारतस्य ४-१ अन्तरेण विजयः अभवत् । विराट् एकस्यां स्पर्धायां शताधिकसप्दश (११७) धावनाङ्कान् अकरोत् । तस्यां श्रृङ्खलायां ६०.७५ प्रतिशदा द्विशताधिकत्रिचत्वारिंशत् (२४३) धावनाङ्काः विराजा कृताः [१२]

२०११ क्रिकेट-विश्वचषके योगदानम्[सम्पादयतु]

२०११ तमस्य वर्षस्य विश्वचषकाय प्रथमायां स्पर्धायां शतककर्तृषु भारतीयक्रीडकेषु विराट् प्रप्रथमः क्रीडालुः अभवत् । तेन वेस्ट इण्डिज-देशस्य विरुद्धम् एकोनषष्टिः (५९) धावनाङ्काः कृताः । तस्यां स्पर्धायां तस्य युवराजस्य च एकशताधिकद्वाविंशतिः (१२२) धावनाङ्कानां सहयोगः (Partnership) आसीत् । अन्तिमस्पर्धायां तस्य, गौतमस्य च त्र्याशीतेः (८३) धावनाङ्कानां सहयोगेन भारताय श्रीलङ्का-देशस्य विरुद्धं महत्त्वपूर्णं योगदानम् अभवत् । सः ३५.२५ प्रतिशतेन नवसु (९) स्पर्धासु द्विशताधिकद्वयाशीतिः (२८२) धावनाङ्कान् अकरोत् [१३]

ऑस्ट्रेलिया-देशे अभायासश्रृङ्खला, सी.बी.-श्रृङ्खला[सम्पादयतु]

२०११ तमस्य वर्षस्य दिसम्बर-मासे एव ऑस्ट्रेलिया-देशस्य श्रृङ्खलायै [१४] विराजः चयनं जातम् आसीत् । मेलबर्न-नगरे प्रप्रथमा निकषस्पर्धा आसीत् । तस्मिन् दिने विरोटेन अनुभूतं यत्, निकषस्पर्धायां तस्य स्थितिः सुदृढा नास्ति इति । ततः सिडनी-नगरे द्वितीयायाम् निकषस्पर्धायां यदा विराट् क्षेत्ररक्षणं (fielding) कुर्वन् आसीत्, तदा ऑस्ट्रेलिया-देशस्य प्रशंसकाः तस्य अपमानम् अकुर्वन् । तस्य अपमानस्य प्रत्युत्तरं यच्छन् विराट् क्रोधम् अकरोत् । प्रशंसकैः कृतः सः व्यवहारः अयोग्यः आसीत् इति सिद्धे सति तस्य वेतस्य अर्धः भागः दण्डरूपेण व्यवस्थापकैः स्वीकृतः । तस्याः घटनायाः अनन्तरम् एकस्मिन् साक्षात्कारे विराट् अवदत्, "एकदिवसीयस्पर्धायां मम रीत्याः उत स्वभावस्य विषये सर्वे किमर्थं विरोधं कुर्वन्ति इति अहं न जाने । परन्तु अधुना एषा स्थितिः मम अनुभवग्रहणस्य अवस्था अस्ति । अहम् ऑस्ट्रेलिया-देशे विकटपरिस्थित्यां क्रीडन् अस्मि" इति । तस्यां श्रृङ्खलायां भारतस्य ४-० अन्तरेण पराजयः अभवत् । तस्यां श्रृङ्खलायां भारतदले सर्वाधिकधावनाङ्ककर्ता क्रीडालुः विराट् आसीत् ।

तस्याः श्रृङ्खलायाः अनन्तरमेव ऑस्ट्रेलिया-देशे एव त्रिकोणश्रृङ्खलायाः आयोजनम् आसीत् । भारतस्य दलं भारतं न प्रत्यागतम्, अपि तु तत्र स्थित्वैव निकषः कृतः । सा त्रिकोणश्रृङ्खला ऑस्ट्रेलिया-श्रीलङ्का-भारतदेशानां दलेषु आसीत् । तस्यां श्रृङ्खलायां सर्वाः एकदिवसीयस्पर्धाः आसन् । तस्यां श्रृङ्खलायां भारतीयदले सर्वाधिकधावनाङ्काः विराजा कृताः । तस्यां श्रृङ्खलायां तेन त्रिशताधिकत्रिसप्ततिः (३७३) धावनाङ्काः कृताः । तेषु धावनाङ्केषु द्वे अर्धशतके अन्तर्भवतः । तथा च एकं शतकम् अपि अन्तर्भवति । तस्यां श्रृङ्खलायां भारतदेशस्य दलम् चरमस्पर्धां यावत् नाक्रीडत् [१५]

२०१२ एशियाचषकः[सम्पादयतु]

२०१२ तमस्य वर्षस्य मार्च-मासे एशिया-चषकस्य आरम्भः अभवत् । तस्याः प्रतिस्पर्धायाः एकदिवसीयस्पर्धायाः उपनायकत्वेन विराट् दायित्वम् अवहत् । सः एशिया-चषके पञ्चम्यां स्पर्धायां पाकिस्थान-देशस्य विरुद्धम् एकशताधिकाष्टचत्वारिंशत् (१४८) कन्दुकेषु एकशताधिकत्र्याशीतिः (१८३) धावनाङ्कान् अकरोत् । तस्यां स्पर्धायां पाकिस्थान-देशेन त्रिशताधिकत्रिंशत् (३३०) धावनाङ्कानां लक्ष्यं भारतस्य सम्मुखं स्थापितम् आसीत् । तस्य लक्ष्यस्य प्राप्त्यै विराजा द्वाविंशतिः (२२) चतुराङ्काः, एकवारं षडाङ्काः कृताः । तस्य योगदानेन तस्यां श्रृङ्खलायां भारतस्य विजयः अभवत् । तस्यां स्पर्धायां कृताः धावनाङ्काः एकदिवसीयस्पर्धायां तस्य उच्चतमः प्राप्ताङ्कः आसीत् । एशिया-चषके एकशताधिकत्र्याशीतिः (१८३) धावनाङ्काः सर्वाधिकः व्यक्तिगतः प्राप्ताङ्कः वर्तते । पाकिस्थान-देशस्य विरुद्धं सर्वाधिकव्यक्तिगतधावनाङ्कानां विश्वविक्रमः वेस्ट इण्डिज-देशस्य ब्रायन लारा इत्यस्य नाम्ना आसीत् । परन्तु विराजा तस्य विश्वविक्रमः अतिक्रान्तः [१६]

२०१२ न्यूजीलैण्ड-देशे भारतीयदलम्[सम्पादयतु]

न्यूजीलैण्ड-देशे क्रीडामग्नः विराट्

न्यूजीलैण्ड-देशे द्वे निकषस्पर्धे आस्ताम् । प्रथमायां स्पर्धायां विरोटेन एकशताधिकषड्प्रतिशतेन (१०६) द्विशताधिकद्वादश (२१२) धावनाङ्काः कृताः । तेषु धावनाङ्केषु एकं शतकं, द्वे अर्धशतके च अन्तर्भवन्ति । बेङ्गळुरु-महानगरे यदा निकषस्पर्धायां सः अक्रीडत्, तदा तेन निकषस्पर्धायाः द्वितीयं शतकं कृतम् । निकषस्पर्धायाः प्रथमस्पर्धायाम् एक षडाङ्कः, चतुर्दश (१४) चतुरङ्काः च कृताः । एवं तेन एकशताधिकत्रयः (१०३) धावनाङ्काः कृताः । द्वितीयायां स्पर्धायां सः बहिरगत्वा (not out) ५१ * धावनाङ्कान् अकरोत् । तस्याम् निकषस्पर्धायां विराट् 'मैन ऑफ द मैच'-सम्माननं प्रापत् [१७]

आय.पी.एल वृत्तिः[सम्पादयतु]

विराजः IPL मध्ये प्रदर्शनम् (२०१५) पर्यन्तम् [१८]

विराट् 'इन्डियन प्रीमियर लीग' मध्ये आरम्भादेव 'रॉयल चैलेञ्जर बेङ्गलोर'-दलपक्षतः क्रीडति । आइ. पी. एल्. मध्ये विराट् शताधिकस्पर्धासु भागम् अवहत् । सः तस्य दलस्य नायकः अपि अस्ति [१९]

एकदिवसीयस्पर्धायां विराजः स्थितिः[सम्पादयतु]

वर्षः स्पर्धा धावनाङ्काः प्रतिशतम् SR महत्तमधावनाङ्काः १०० ५०
2014 21 1054 58.55 99.62 139* 4 5 94 20
2013 34 1268 52.83 97.53 115* 4 7 137 20
2012 17 1026 68.40 93.78 183 5 3 92 5
2011 34 1381 47.62 85.56 117 4 8 127 7
2010 25 995 47.38 85.11 118 3 7 90 4
2009 10 325 54.16 84.41 107 1 2 36 3
2008 5 159 31.80 66.52 54 0 1 21 1

स्रोतः: [१]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. "विराटस्य प्रिय फेडरर्". press release. zee news. आह्रियत ०५/०२/२०१५. 
  2. "विराटस्य स्थितिः". press release. ICC. आह्रियत ०५/०२/२०१५. 
  3. "विराटस्य स्थानं". press release. royalchallengers.com. आह्रियत ०५/०२/२०१५. 
  4. "विराटस्य प्रथमं स्थानं". press release. ICC. Archived from the original on 2016-03-05. आह्रियत ०५/०२/२०१५. 
  5. "विराटस्य व्यक्तिगतम्". press release. social media. आह्रियत ०५/०२/२०१५. 
  6. "विराटस्य व्यक्तिगतम् १". press release. social media. Archived from the original on 2015-02-14. आह्रियत ०५/०२/२०१५. 
  7. "विराटस्य व्यक्तिगतम् २". press release. .viratkohli.club. Archived from the original on 2015-02-14. आह्रियत ०५/०२/२०१५. 
  8. "विराटस्य आरम्भः". press release. .viratkohli.club. Archived from the original on 2015-02-13. आह्रियत ०५/०२/२०१५. 
  9. "विराटस्य अन्ताराष्ट्रियक्रीडायां वृत्तिः". press release. icc-cricket.com. Archived from the original on 2016-03-05. आह्रियत ०५/०२/२०१५. 
  10. "विराटस्य अन्ताराष्ट्रियक्रीडायां वृत्तिः १". press release. icc-cricket.com.  Text "url http://www.icc-cricket.com/cricket-world-cup/news/2014/media-releases/77586/indias-no-1-odi-ranking-at-stake " ignored (help);
  11. "विराटस्य अभ्यासक्रीडाया". press release. timesofindia.indiatimes. आह्रियत ०५/०२/२०१५. 
  12. "विराटः वेस्टइण्डिज-देशे". press release. icc-cricket.com.  Text "url http://www.icc-cricket.com/cricket-world-cup/news/2014/match-reports/78541/kohli-masterclass-leads-india-to-victory " ignored (help);
  13. "विराटः". press release. timesofindia.indiatimes. आह्रियत ०५/०२/२०१५. 
  14. "विराटः विश्वचषके". press release. icc-cricket.com. Archived from the original on 2014-07-02. आह्रियत ०५/०२/२०१५. 
  15. "विराटः विश्वचषके योगदानम्१". press release. icc-cricket.com. Archived from the original on 2014-07-02. आह्रियत ०५/०२/२०१५. 
  16. "विराटस्य एशियाचषकः". press release. howstat.com. आह्रियत ०५/०२/२०१५. 
  17. "विराटः न्यूजीलैण्ड-देशे". press release. .espncricinfo.com. आह्रियत ०५/०२/२०१५. 
  18. "विराटस्य आय.पी.एल". press release. viratkohli.club. आह्रियत ०५/०२/२०१५. 
  19. "विराटस्य आय.पी.एल". press release. royalchallengers.com. Archived from the original on 2015-01-12. आह्रियत ०५/०२/२०१५. 
"https://sa.wikipedia.org/w/index.php?title=विराट्_कोहली&oldid=484181" इत्यस्माद् प्रतिप्राप्तम्