विविधप्रयोगसंहिता
विधिप्रयोगसंहिता अथर्ववेदान्तर्भूता संहिता वर्तते। विधिप्रयोगसंहितायां मन्त्राणां प्रयोगः कस्यापि विशिष्टविधेः अनुष्ठानाय भवति। अस्याः अनुष्ठानस्य अवसरसे एकस्यैव मन्त्रस्य विभिन्नपदान् विभाज्य अभिनवमन्त्रस्य निर्माणं भवति। आर्षीसंहितायाः मन्त्रोऽयमस्ति -
‘ऋतुभ्यष्ट्वाऽऽर्त्तवेभ्यो, मादभ्यो संवत्सरेभ्यः ॥ घात्रे विधात्रे समृधे भूतस्य पतये यजे ॥'
मन्त्रविभागाः
[सम्पादयतु]मन्त्रस्यास्य निम्नलिखिता विभागाः सन्ति—
( १) ऋतुभ्यः त्वा यजे स्वाहा ।
( २ ) आर्तवेभ्यः त्वा यजे स्वाहा ।
( ३ ) माद्भ्यः त्वा यजे स्वाहा ।
( ४ ) संवत्सरेभ्यः त्वा यजे स्वाहा।
अनेनैव प्रकारेण 'धात्रे, विधात्रे, समृधे तथा भूतस्य पतये' इत्यादिपदानां पश्चात् 'त्वा यजे स्वाहा' इति पदस्य प्रयोगो भवति । विधौ प्रयुक्तभाविनां एतेषां मन्त्राणां समुदायः ‘विधिप्रयोगसंहिता' कथ्यते ।
‘विधिप्रयोगसंहितायाः' प्रथमोऽयं प्रकारोऽस्ति । अनेन प्रकारेण अस्याः अन्ये अपि चत्वारो भेदाः भवन्ति । तृतीयप्रकारे कस्यापि विशिष्टमन्त्रस्य 'आवर्तनम् तस्य सूक्तस्य प्रतिमन्त्रेण सह भवति । अनेन प्रकारेण सूक्तस्य मन्त्राणां संख्या द्विगुणिता भवति । चतुर्थप्रकारे कस्मिंश्चिदपि सूक्ते समागतानां मन्त्राणां क्रमस्य परिवर्त्तनं भवति । पञ्चमप्रकारे कस्यापि मन्त्रस्य अर्द्धभागमेव सम्पूर्णमन्त्रं मत्वा प्रयोगो भवति । अनेन प्रकारेण अार्थीसंहितायाः मन्त्राणां विधिप्रयोगसंहितायां पञ्चप्रकारेण प्रयोगाः भवन्ति ।
अनेन ज्ञातो भवति यद् ऋषिसंहिता एव मूलसंहिता अस्ति । अाचार्यसंहितायां अस्य संक्षेपीकरणं भवति। यदा विधिप्रयोगसंहितायामस्य विस्तृतीकरणं भवति। आचार्यदारिलस्य कौशिकसूत्रस्य भाष्यानुसारेण अथर्वसंहितायाः प्रकारत्रयस्य विश्लेषणं कृतमस्ति।[१]
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भः
[सम्पादयतु]- ↑ अथर्वसंहिता एकइट्स फाम्र्स बाई डा० एच० आर० दिवेकर, पृ० १९३-२१२