"यमद्वितीया" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Removing zh,bo,pl,es,hu,bn,chr,br,ar,nl,sv,pt,is,eo,ru,sr,tr,fi,uk,be-x-old,nn,rue,ne,hr,da,fr,ko,he,be,it,de,id,ml,vi,zh-yue,simple,sh,hi,sk,kn,en,no,ca,cs,bg,mr,fa,arc,te (strongly connected to sa:भारतीयपर्वाणि)
पङ्क्तिः ११: पङ्क्तिः ११:


[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]


[[new:नख:]]
[[new:नख:]]

१५:०७, २९ जुलै २०१३ इत्यस्य संस्करणं

एतत् अपि कार्त्तीकमासे आचर्यमाणस्य दीपावलीपर्वणः अङ्गभूतं पर्व अस्ति । एतत् पर्व आचर्यते कार्त्तीकशुद्धद्वितीयायाम् । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।

दीपावल्यवसरे गृहात् बहिः प्रज्वाल्यमानः आकाशदीपः


”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।
अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“

एतद्दिने एव यमदेव: भगिन्या: यमुनादेव्या: गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्वा ता: सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् ।

"https://sa.wikipedia.org/w/index.php?title=यमद्वितीया&oldid=246586" इत्यस्माद् प्रतिप्राप्तम्