यमद्वितीया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भ्रातृद्वितीया

इदं यमद्वितीया उत्सवः भ्रातृद्वितीया, भ्रातृतिलकं च इति, लोकभाषासु भाई दूज, भौबीज, किजा पुजा, भाई फोण्टा च इति नामभिः प्रसिद्धः उत्सवः । भारते विविधप्रान्तेषु उल्लासेन आचर्यते । दीपावली पर्वणः पश्चादेव शुक्लपक्षस्य द्वितीयायां तिथौ सम्पद्यते । अस्मिन् उत्सवे बहुषु कुटुम्बेषु भगिन्यः निजभ्रातृणां पूजनं कृत्वा पेयभक्ष्यादिभिः सत्कुर्वन्ति.

दिनम्[सम्पादयतु]

अस्य पर्वणः तिथिः कार्तिकमासस्य शुक्लपक्षस्य द्वितीया भवति। केचन दीपावलीपर्वणः पश्चात् दिने, अन्ये होली पर्वणि वा इदं पर्वं व्यवहरन्ति।

पौराणिकम्[सम्पादयतु]

एतत् अपि कार्त्तीकमासे आचर्यमाणस्य दीपावलीपर्वणः अङ्गभूतं पर्व अस्ति ।

किजापूजा विषये नेवारी पारम्परिकः चित्रकलाः
”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।
अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयैः ॥“

एतद्दिने एव यमदेवः भगिन्या: यमुनादेव्याः गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अतः पुरुषाः सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्यः उपायनानि दत्त्वा ताः सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वणः अन्तिमं दिनम् ।

आचरणम्[सम्पादयतु]

रक्षा-बन्धनं सदृशः अयं उत्सवः। भगवान् श्रीकृष्णः क्रूर-दैत्यं नरकासुरं हत्वा स्व-भगिनीं सुभद्रां मिलितवान् आसीत् । सुभद्रया भगवतः स्वागतं मिष्टान्नैः पुष्पैः च् कृतम् । उत्त्तरभारते भाई दूज नाम्ना, नेपालदेशे किजापुजा तथा भाई टीका नाम्ना, पूर्वभारते भाई फोण्टा इति, पश्चिम-भरते भौबीज इति, तैलङ्गदेशे भ्रातृ-द्वितीया यमा-द्वितीया वा इति नाम्ना भाई-दूज-पर्वं सुभद्रया कृतं भ्राता-प्रेमं जनान् स्मारयति इति बहवः मन्यन्ते । एतस्मिन् दिवसे भगिन्यः स्व-भ्रातृन् आमन्त्रयित्वा, तान् स्वादिष्ट-भोजनैः मधुपाकैः च हर्षयन्ति । क्षीरं,पुरिका इत्यादि विशेष-व्यञ्जनानां प्रबन्धः भवति च । नेपाल-देशे तु भगिन्या भर्तारं सप्त-वर्ण-तिलकेन पूजनम् एका प्राचीन-परम्परा अस्ति । यदि भगिनी-भर्त्रोः मेलनं असम्भवं, तर्हि सा भगिनी चन्द्रदेवं स्वाग्रजं मत्वा तस्य आराधानां करोति। तस्मात् कारणात् अद्य अपि बालाः चन्द्रदेवं स्वमातुलं मत्वा तं “चन्दामामा” इति नाम्ना संबोधयन्ति ।

भ्राता सदैव भगिन्यः रक्षणे तत्तपरः इति पर्वणः तात्पर्यम् ।

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यमद्वितीया&oldid=482611" इत्यस्माद् प्रतिप्राप्तम्