वीणावाद्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

वीणावाद्यम्[सम्पादयतु]

कर्नाटकीय संगीतपद्धतौ तंतुवाद्यं वीणा तु अग्रस्थाने दरीदृश्यते | बहु पुरातन वाद्यमिदं अनेक प्रकारेण नैकशतमानादारभ्य परिवर्तनं जातम् | प्रस्तुतकाले अत्यन्तप्रसिद्धा एवं जनानां कृते मोददायिका एषा सरस्वतीवीणा नाम्नी वर्तते | कांस्यतन्तु त्रयेण पुनः एका प्रमुखतन्तुना तथैव सहायिका तन्तुत्रयेण च युक्ता वर्तते एषा वीणा | सप्तस्वराणां समूहः नादेन युक्तः भवति चेत तदा वीणावादनं तु कष्टं न भवति | वीणावादनार्थं मनसः संलग्नाता तथैव इच्छा अपि बहु आवश्यकं वर्तते | सावधानतया वीणां अभ्यस्य तद्वारा आनन्देन अनुभूतिरपि प्राप्तुं शक्यते वीणावादनेन | अस्यां वीणायां तु पाण्डित्यप्राप्त्यर्थं बहुवर्षाण्यपेक्षितानि भवन्ति | यदि अभ्यासेन सम्यग्भवति चेत्तदा एषा वीणा भार्यावद्रीत्या अस्माकं मनसः भावना अस्ति सा भावना व्यंजयति | वीणा इत्युक्ते अस्माकं कृते सरस्वती स्वरूपमेव आयाति | सा सरस्वती तु संगीतविद्यायाः अधिदेवता एवं च वीणापाणी | वेदस्याभिमानी एषा सरस्वती ब्रह्मणः नाम चतुराननस्य राज्नी, भार्या एवं च कृत्तीपद्युम्नयोरपत्या एषा | एषा सरस्वती अविस्मरणमेवं अनवरतरूपेण भगवन्तं स्तौति | ब्रह्माणी-तत्त्वज़्जानी एवं च सा गानलोला | एतस्याः हस्ते सदा कच्छपी नाम वीणा भवति अतः सा वीणापाणी तथैव सा चित्ताभिमानी देवता च | सर्वेषां कृते बुद्धिदाता एषा बुद्ध्यभिमानी देवता भवति | अस्माकं देशे यानि वाद्यानि सन्ति तानि वाद्यानि जगति अन्यत्र द्रष्टुं वयं न शक्नुमः । प्रत्येकैकमपि स्वीय स्वरूपेण, रचना द्वारा एवं ध्वनिः अपि विशिष्टरीत्या वर्तते | वाद्येष्वपि तुरीयविभागं कृतवन्तः | ते च - १ तत (तन्तुद्वारा यानि वाद्यानि सन्ति तानि)

२ सुषिरम ( वायुना ध्वनिरायाति) ३ अनवद्धः (ताडनवाद्यानि) ४ घनः ( लोहः, मृदः वा वृक्षद्वारा निर्मितानि)..

अत्र वीणा तु ततवाद्येष्वन्तर्भवति | तन्तुना नादस्य उत्पत्तिः भवति तानि ततवाद्यानि | अत्रापि विभागद्वयं वर्तते श्रुतिवाद्यानि, संगीतवाद्यानीति | गायनसमये वादनसमये श्रुतिनिमित्तं 'तम्बुरः' एवं विना संगीतकार्ये ध्वनिनिमित्तं "वीणा" उपयुज्यते | ऋचां याजुषे च मध्ये मध्ये वीणायाः प्रस्तावः वर्तते | तत्र तु विणायः उपत्पत्तिनिदाने शंकरः कारणमिति वदन्ति नाम तस्याः "रुद्रवीणा" इति वर्तते तन्निमित्तानत | देवी सरस्वत्यनन्तरं विश्वावसुः, तुम्बुरुः, नारदादयः वैणिकाः भवन्ति | तुम्बुरोः वीणायाः नाम " कालावती", विश्वावसोः "बृहती", नारदस्य " महती" इति पुराणेषु एतेषां वाद्यविशेषाः भवन्ति | वीणा मोक्षसाधनार्थं सरलमार्गः इति याज्नवल्क्यः तस्य स्मृतौ वदति | रावणस्य कथायां तु श्रृण्मः वयं तस्य काले वीणायाः तन्तुः कर्तनं जातं सः तदानीं स्वदेहात् स्नायुः स्वीकृत्य वीणावादनं अकरोदिति |

प्राचीनग्रन्थेषु वीणा[सम्पादयतु]

इदानींतन वीणा यदस्ति तत्तु प्राक्तनकालात् बहु परिष्कृतः वर्तते | कविकुलगुरुकालैदासः स्वीय "श्यामलादण्डके" "माणिक्यवीणामुपलालयन्तीम्" इति श्यामला शारदा माणिक्ययुक्तवीणां सा वासदतयतीति उक्तवन्तः | तदेवरीत्या प्रतिज्नायौगन्धरायणमित्यस्मिन्नाटके राजा उदयनः "घोषवती" नामांकितमेकां वीणां नुदितवान् | कर्नाटकदेशे संगीतक्षेत्रे ये त्रिमूर्तयः आसन तेष्वन्यतमः नादज्योतिः श्री मुत्तुस्वामीदीक्षितानां कृते तस्य गुरुः चिदम्बरनाथ योगी अनुग्रहेण काशिक्षेत्रे गंगा मध्ये तयल्लब्धा वीणा वर्तते तस्याः उपरि देवनागरिलिपिमध्ये "रामः" इति अंकितं वर्तते | एतादृशरीत्या वीणायाः इतिहासः वर्तते |

वीणायाः स्वरूपमेवं कार्यदक्षता[सम्पादयतु]

वीणावाद्ये तु लघु एवं बृहत् शिरः वर्तते | बृहदस्ति चेत् "घटः" इति वदन्ति | एतत्तु दक्षिणभागे वर्तते तथैव सामान्यतः पनसवृक्षेण निर्मायन्ति | एतस्याः निर्माणार्थं बहु मासाः अपेक्षिताः नाम बहुषु मासेषु पनसः काष्ठं जले संस्थाप्य कर्तनेन स्वरूपादिकं विरचय्य घटः निर्मायन्ति | तस्य घटस्य भारः लघुः भवति चेत् नादः सुमधुररूपेणागच्छति इति विश्वासः | घटनिर्माणानन्तरं तदुपतरि वृक्षस्य त्वचा आच्छादनं कुर्वन्ति | तदनन्तरं दण्डिं योजयन्ति | तस्य वामपार्श्वः भूमिं प्रति वक्रता आप्नोति एवं तस्य कृते लघुघटस्य योनजनं कुर्वन्ति | एतादृशी वीणा तंजावूर नगरे आदौ निर्मितवन्तः अतः "तंजावूर वीणा" इति प्रसिद्धम् | वामपार्श्वे लघुघटः वर्तते तत्तु सोरेबुरुडे अथवा लोहस्य पात्रं भवितुं शक्यते | तदुपरि नौपट्टिकां स्थापयतन्ति | एवं तत्र कानिचन साधनानि संस्थाप्य स्वरानुगुणं कुर्वन्ति "वीणायाः मेलधारणम" इति काचनपद्धतिः वर्तते | तस्मिन् कार्ये किमपि क्लेशः भवति अथवा कार्ये व्यत्यासः भवति चेत् तदा अपस्वराणां प्राबल्यं भविष्यति | एतानि सोपानानि वीणाघटस्योपरि स्थापयन्ति चेत्तदा तत्र स्थापितकाष्ठस्य द्वारा अश्चमाध्यमेन ध्वनिरायाति | तत्र स्थापिताश्वस्य एवं साधनस्य उन्नतिः समानरूपेण भवयति चेत् सुललितनादः आगच्छति | तत्र तुरीयतन्तूनां नामानि सारणिः, पंचमः, मंद्रः, अनुमन्द्रः इति व्यपदिश्यन्ते | तस्य समीपे कांस्य रेकु इति कश्चन वर्तते | एतद्वारा नाम तिसृभिः तन्तुभिः ध्वनिः गच्छति | तदेव मध्यषड्ज, मध्यपंचम एवं ताराषड्जनामानि प्रसिद्धानि | सप्ततन्तवः लघुघटद्वारा आगत्य बहु दृढतररूपेण दृश्यते | श्रुतिवीणायां दृढमेवं अदृढं कर्तुं पिंजः, दण्डः, शिरः इति वर्तते अस्ति चेत् खण्डवीणा नाम्ना वर्तते | भागत्रयमेकस्मिन् काष्ठे कुर्वन्ति चेत् तां प्रति अखण्डवीणा इति वदन्ति | अखण्डवीणायाः ध्वनिः अति मधुरतां यच्छन्ति इति प्राक्तनाः वदन्ति | वेंकटमुखी महाभागाः तिसृषु वीणावाद्येषु शुद्धमेळवीणा, रघुनाथमेळा वीणावाद्येषु तन्तवः पूर्वोक्त क्रमेण नास्ति तस्याः प्रभेदः वर्तते इति वदन्ति | तत्र तासां श्रृतिनिर्माणे एवं सोपानानां निर्माणक्रमे किंचित् भेदः दृश्यते | तत्र वीणावादनसमये लघुघटः वर्तते तत्तु वादकानां वामस्थ ऊरुस्थले स्थापयन्ति | बृहद्घटस्तु दक्षिणऊरुस्थलं स्पृशति | दक्षिणहस्तस्य मध्यमतर्जन्यंगुली पूर्वोक्त तन्तुषु सारणिं वामसहस्ते तु पूर्वस्थापितघटस्य समीपस्थ सोपानं स्पृष्ट्वा ध्वनिः कुर्वन्ति | दक्षिणकनिष्ठिकांगुल्या तन्तुः एवमिष्टस्थले उपयुज्यन्ति नादकाः | वीणागमकं प्रति सूक्तवाद्येषु गायनः सम्यक् न भवति चेत् तन्तुना एव अद्भुतरूपेण उत्पत्तिः कर्तुं शक्यते | वीणावाद्येषु प्रधानतन्तवः सारणिः, मन्द्रपंचम, मन्द्रषड्जजतन्तुषु संवादी, अनुवादी स्वराणां कृते सहायकसोपानं यदस्ति तं वामहस्तांगुल्या नुदित्वा दक्षिणहस्तांगुल्या नादोत्पादानं कुर्वन्ति तदेव "गमकम" नाम तन्त्रं भवति |

ऐतरेयोपनिषदि वीणावाद्यम्[सम्पादयतु]

ऐतरेयोपनिषदि वीणा देहतुल्यमिति वदन्ति | अथ खल्वियं दैवीवीणा भवति | तदनुकृतिरसौ मानुषी वीणा भवति | यथास्याः शिरः एवममुष्याशिरः | यथास्याः उदरमेवममुष्याः अम्भणम | यथास्यै जिह्वा - एवममुष्ये वादनम | यथास्यास्तंत्रय एवममुष्या अंगुलयः | यथास्याः स्वरा एवममुष्या स्वराः | देहः दैवीवीणातुल्यं भवति | मनुजाः निर्मिताः काष्ठवीणा तु देवनिर्मितदेहतुल्यमेव भवन्ति | देहं प्रति शिरः तदेवरीत्या वीणायाः कृते लघुघटः | देहं प्रति उदरः तदेवरीत्या वीणायाह कृते बृहद् घटः | काष्ठनौका यदस्ति तत्तु मेरुदण्डतुल्यः नाम उपरिस्थादधः संपर्कः करोति शरीरे यथा मेरुदण्डवद्रीत्या | नाड्यः एव तन्तवः | नादाः श्रृण्मश्चेत सर्वाः नाड्यः नादे अन्तर्गतत्वेन दृश्यते | तथैव वादकस्य अंगुल्यः तन्तूनामुपरि क्रीडन्ति तदा वीणानाम घटे नादजलस्य पूरणं भूत्वा बहिरायाति | देहो नाम वीणा तयदस्ति तत्तु देवकार्यार्थनिमित्तमेव | वीणायाः कृते अस्माकं हस्तः लयवासद्यं भवति | एतद्वारा देवतार्चनं करणीयम् |

दैविकता[सम्पादयतु]

वीणा दैविकस्वरूपेण वर्तते चेदपि अस्माकं जीवने विशिष्टस्थानं प्राप्तं वर्तते | सर्वासां वाद्यानां मध्ये पृथग्रूपेण वीणा वादकस्य मनसः भावान सम्यक्तया प्रदर्शयति | वीणाभ्यासेन मनः शान्तः भवति | तन्तुषु अस्माकं हस्तस्य स्पर्शः यदा भवति तदा अस्माकं नाडीषु नादः प्रवहति | वादकस्य हृत्स्पर्शी या वीणा भवति सा आप्तः भवति | सा वीणा तु तदा वाद्यमिति अंशः मनसि न भवति केवलं सखा इत्येव भवति | अस्माकं भावनामनसः प्रफुल्लता निदानमेव भवति | बहिरागतनादाः अस्मत्सविधे संभाषणं करोति | अतः सर्वत्र नादः एव भवति | मध्ये मध्ये तन्तून् यदा स्पृशति तदा मन्द्रमेवं तारे "स" मध्यमे "प" मिश्रितः भवति चेत् तदा किंकिंणिस्वरः श्रूयते | अतः विणावादनकम्पनेन नादकस्य शरीरेपि कम्पनः भवति | विजयभास्करेण संगीते यद्दत्तं श्रीमती बि।के सुमित्रा गायकी भूत्वा कल्याणी चलच्चित्रस्य " वीणा निनगेको कम्पना ....मृदुवागि नुडि मुदवागि नुडि....राग सं मोहन.....|||" गीतिः वादकवीणामध्ये कीदृशी सम्बन्धः वर्तते इति प्रदर्शयति | एकवारं नुदति चेत् मनः आनन्ददायकं भवतीति "निन्नयनादके मैमन ओलिसि....|| , एवं भावनायाः नूतनप्रपंचस्य आरम्भः भवतीति " भावतरंगदि लोकवे मरेसि....| गीतानि वर्तन्ते | एतद्वारा भगवतः आराधनमपि कर्तुं शक्यते |

सरस्वती आराधना[सम्पादयतु]

वीणापाणि, विश्वकल्याणि, गायन नर्तननन्द प्रदायिनी एतादृशी नामांकिता एषा इति बहुविधतरीत्या डी।वी।जी| महाभागाः वर्णयन्ति | संगीतशास्त्रस्याहत- अनाहतस्य स्मरणं कारयति | आहतमित्युक्ते श्रूयते यश्शब्दः अनाहतमित्युक्ते श्रोतुमपि न शक्यते | एतादृशस्थ मौनगायनं सरस्वती देवी चेन्नकेशवस्वामिं प्रति अर्पयति |

वीणासंबद्धवाद्यविशेषाः[सम्पादयतु]

रुद्रवीणा विचित्रवीणा चित्रवीणा महानाटकवीणा

प्रसिद्धवीणावदकाः[सम्पादयतु]

वीणा शेषण्णः वीणा सुब्बण्णः एस् भालचन्द्रः चिट्टि बाबुः आर् के सूर्यनारायणः ई गायत्री

"https://sa.wikipedia.org/w/index.php?title=वीणावाद्यम्&oldid=433898" इत्यस्माद् पुनः प्राप्तिः