वेम्बनाड् सरोवरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वेम्बनाड् सरोवरम् नौकागृहं च
केरळे स्थाननिर्देशः

केरळराज्ये स्थितमेतत् दक्षिण-एशिया राष्ट्रेष्वेव अतीव बृहत् अस्ति अमेरिकादेशे स्थितेषु लेक् सुपीरियर् समानतां प्राप्नोति एतत् । केरलराज्ये कोट्टायम्-अलप्पुळ्-एर्णाकुलमण्डलेषु एतत् सरोवरम् व्याप्तम् अस्ति । अस्य विस्तारः २०५ चतुरस्र कि.मीटरमितः । अस्मिन् सरोवरे भागद्वयम् अस्ति । एकः भागः मधुरजलयुक्तः । अन्यः भागः लवणजलयुक्तः । पेरियार्-मीनचिल्-पम्पानद्यः च अत्र समुद्रं प्रविशन्ति । अतः एकः भागः समुद्रः इत्येव कथयितुं शक्यः । अस्मात् सरोवरात् अनेकनालाः रचिताः सन्ति । तत्र तत्र जलस्थानानि सृष्टानि सन्ति । अस्मात् सरोवरात् जलयानेन अनेकेषां नगराणां सम्पर्कः साध्यः अस्ति । क्विलान् (८ घण्टाः) चङ्गनचेरी (३ घण्टाः), कुमारकम् (३ घण्टाः) कोच्ची (४ घण्टाः) स्थलानि प्रति नौकायानेन गन्तुं शक्यते । विविधाः नौकाः सन्ति । नौकागृहम् अपि अस्ति । जले आधुनिकरीत्या नौकागृहे वासः कर्तुं शक्यते नैकाविहारः अतीव आनन्ददायकः विषयः अत्र ।

कुमारकम्[सम्पादयतु]

एतत् किञ्चन पक्षिधाम अस्ति । द्विहेक्टर् विस्तीर्णे एतत् पक्षिधाम अस्ति । अत्र क्रिस्ताब्दे १८१८ तमे वर्षे हेन्री बाकर् महोदयः एतत् पक्षिधामवषये ज्ञात्वा अभिवृध्दिकार्याणि कृतवान् । निसर्गरमणीये अत्र स्थलए गोहेरान्स, इण्डियन् हार्टर् वैटऎविस्, पर्पलहेरान् इत्यादि पक्षिणः वसन्ति । १३५ अधिक जातीयाः पक्षिणः अत्र निवसन्ति । एतत् कोटायम् नगरतः १२ कि.मी दूरे अस्ति । प्रातः २० वादनतः सायङ्काले ६ वादनं यावत् प्रवेशः अस्ति । केरळसर्वकारेण अत्र पूर्वजलविहाराय व्यवस्था कल्पिता अस्ति ।कोल्लं प्रदेशतः अलेप्पी- पर्यन्तं नौकायानं कर्तुं शक्यते । अष्टघण्टाः यावत् नौकायानं भवति । यथा स्पेन्देशे ‘बुल् फैट’ (वृषभयुध्दम्) भवति तथैव अस्मिन् प्रदेशे प्रसिध्दम् अस्ति स्नेक् बोट रेस्’ नौकायानस्पर्धा ‘प्रचलति । अनेके जनाः गायन्तः नौकायानं चालयन्ति । जनप्रियास्पर्धा एषा प्रतिवर्षम् आगस्टमासस्य द्वितीये शनिवासरे भवति ।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

कोच्चीविमाननिस्थानतः ७८ कि.मी

धूमशकटमार्गः[सम्पादयतु]

कोट्टायम् निस्थानतः १० कि.मी

भूमार्गः[सम्पादयतु]

कोच्चीतः ८५ कि.मी। राष्ट्रियमार्गः- ४७ क्विलानतः चङ्गनचेरीतः वाहनसम्पर्के अस्ति ।

वसतिव्यवस्था[सम्पादयतु]

गोल्डन् वाटर् रेसार्ट[सम्पादयतु]

अस्मिन् वसतिगृहे केरळभोजनव्यवस्था अस्ति सर्वविधव्यञ्जनानां आस्वादस्य अवकाशः अस्ति । सायङ्काले सांस्कृतिककार्यक्रमाः प्रचलन्ति । मोहिनीयाट्टम्, कळरी सङ्गीतम् इत्यादिकं प्रचलन्ति । एतादृशनि अन्यानि उपहारवसतिगृहाणि नाम राडिसन् प्लाझा रेसार्ट्, मायारेसार्ट इत्यादीनि सन्ति ।

Gallery[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वेम्बनाड्_सरोवरम्&oldid=370550" इत्यस्माद् प्रतिप्राप्तम्