वैज्ञानिकी औद्योगिकी च अनुसन्धानपरिषद्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
वैज्ञानिकी औद्योगिकी च अनुसन्धानपरिषद्
Council of Scientific and Industrial Research, India
CBRI-CSIR Roorkee.JPG
भारतगणराज्यस्य प्रधानमन्त्री परिषदः अध्यक्षः भवति ।
स्थापना २६/०९/१९४२
अधिपतिः भारतगणराज्यस्य प्रधानमन्त्री
अध्यक्षः डॉ. एम् ओ गर्ग
कर्मचारिणः परिषदि २५,००० कार्यकर्तारः सन्ति । तेषु ६०५० (अनुमानाधारितम्) कार्यकर्तारः वैज्ञानिकाः, अभियन्तारः (Engineers) सन्ति ।
अर्थसङ्कल्पः भारतसर्वकारः प्रतिवर्षं परिषदे ५०० कोटिरूप्यकाणि यच्छति ।
क्षेत्रम् अनुसन्धानभवनम्, रफिमार्गः
नवदेहली-११००१.
सङ्केतः dgcsir@csir.res.in, dg@csir.res.in
जालस्थानम् www.csir.res.in
भारतीयविज्ञानस्य जीवनम्

वैज्ञानिकी औद्योगिकी च अनुसन्धानपरिषद् ( /ˈvɛɪdʒŋnɪkɪ ɔːdjɡɪkɪ xə ənʊsədɑːnəpərɪʃhəd/) (हिन्दी: वैज्ञानिक तथा औद्यौगिक अनुसन्धान परिषद्, आङ्ग्ल: Council of Scientific and Industrial Research) (सी. एस्. आई. आर्.) भारतगणराज्यस्य प्रमुखा वैज्ञानिकसंस्था अस्ति । सा स्वायत्ता (Autonomous) परिषद् अस्ति [१] । भारतगणराज्यस्य प्रधानमन्त्री तस्याः परिषदः अध्यक्षः भवति । परिषदः नियोजनं स्वायत्तशासिनिकायेन (स्वतन्त्र-प्रबन्ध-दलेन) भवति । परिषद्-सर्वकारयोः मध्ये योग्यसेतुत्वेन कार्यं कर्तुं वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः महानिदेशकः विज्ञान-प्रौद्योगिकी-मन्त्रालये सचिवत्वेन नियुक्तः भवति[२] । भारतगणराज्यस्य नवदेहलीमहानगरस्य रफी-मार्गे स्थिते अनुसन्धानभवने वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः मुख्यकार्यालयः अस्ति [२]। मुख्यालये योजनाप्रभागः, प्रौद्योगिकीप्रभागः, अन्ताराष्ट्रियवैज्ञानिकसहयोगप्रभागः इत्यादयः प्रभागाः सन्ति ।

भारतीयसमाजाय कार्यं कर्तुं प्रयत्नशीला सा परिषद् समाजहिताय अन्यानि कार्याणि अपि करोति । परिषद् प्रतिवर्षं प्रभावशालिवैज्ञानिकेभ्यः शान्तिस्वरूप भटनागर-पुरस्कारं प्रददाति[२] । परिषद् विश्वविद्यालय-संशोधकेन्द्राणां संशोधकेभ्यः छात्रेभ्यः शिष्यवृत्तेः प्रबन्धं करोति । परिषद् शोधछात्रेभ्यः साहाय्यम् अपि प्रयच्छति । साहाय्यम् इत्यस्य कृते अखिलभारतीयपरीक्षायाः आयोजनम् अपि भवति[२]

भारतस्य चत्वारिंशत् राष्ट्रियप्रयोगशालाः, द्वादश सहकारी-औद्यौगिकसंस्थाः च तस्यां परिषदि अन्तिर्भवन्ति । वैज्ञानिकक्षेत्रे देशस्य सम्माननं वर्धयितुम् एताः संस्थाः अविरतं कार्यं कुर्वन्त्यः सन्ति । तासां मुख्यभूमिकया एव भारतदेशस्य वैज्ञानिकक्षेत्रे विकासः जायमानः अस्ति । राष्ट्रियप्रयोगशालाः भारतीयविद्यार्थिभ्यः शोधकार्यार्थं सुविधां यच्छन्ति । राष्ट्रियप्रयोगशालासु भारतीयविद्यार्थिनः शोधकार्ये स्वप्रतिभायाः, ज्ञानस्य च उपयोगं कर्तुम् उचितम् अवसरं प्राप्नुवन्ति । तेन माध्यमेन भारतस्य आर्थिकविकासः अपि वेगवान् भवति[३] । वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः ज्ञानं वैज्ञानिकक्षेत्रे आसक्तेभ्यः जनेभ्यः अत्यावश्यकम् अस्ति । वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः (सी. एस्. आई. आर्.) मुख्यकार्यालयः देहलीराज्यस्य नवदेहली-महानगरे अस्ति ।

राष्ट्रियप्रयोगशालायाः विशेषम्[सम्पादयतु]

राष्ट्रियप्रयोगशालासु विज्ञानस्य विभिन्नेभ्यः क्षेत्रेभ्यः संशोधनं कर्तृभ्यः अनेकाः सुविधाः सन्ति । तेन भारतस्य युवधनं देशात् बहिः अगत्वा स्वदेशे स्थित्वापि स्वदेशस्य कृते संशोधनं कर्तुं प्रभवति । एताः प्रयोगशालाः भारतस्य महत्वपूर्णाः संस्थाः सन्ति । भौतिकविज्ञानम्, इन्धनप्रौद्यागिकी, औषधिविज्ञानं, चर्मोद्योगः, सामुद्रिकसरायणं, विद्युतरसायनं, वैज्ञानिकोपकरणं, भूमिविज्ञानम् इत्यादिषु क्षेत्रेषु राष्ट्रियप्रयोगशालाः संशोधनं कर्तुं सुविधां यच्छन्ति[४]

राष्ट्रियप्रयोगशालानाम् उद्देश्यम्[सम्पादयतु]

भारतदेशस्य गौरवम् आदिकालात् देदीप्यमानम् अस्ति । आधुनके युगे भारतस्य पुरातनं गौरवं रक्षितं भवेत् इति राष्ट्रियप्रयोगशालानां मुख्यलक्ष्यम् अस्ति[३] । केवलं देशस्य सैद्धान्तिकानुसन्धानस्य न अपि तु प्रायोगिकानुसन्धानस्य दायित्वम् अपि राष्ट्रियप्रयोगशालानाम् अस्ति । भारतीयोद्योगानां समस्यानां निराकरणम् अपि प्रयोगशालानाम् उद्देश्यम् अस्ति[४] । सुगम-स्वल्पव्ययविधिम् अन्विष्य देशस्य उत्पादनक्षमतायाः वृद्धिः अपि राष्ट्रिप्रयोगशालानाम् उद्देश्यं भवति । देशस्य विभिनेषु स्थानेषु यत् खनिजद्रव्यम् अस्ति, तस्य अन्वेषणस्य दायित्वम् अपि राष्ट्रियप्रयोगशालानाम् एव भवति[४]

इतिहासः[सम्पादयतु]

प्राचीनकालात् एव विज्ञानक्षेत्रे, प्रौद्योगिकीक्षेत्रे भारतीयसमाज-भारतीयसंस्कृत्योः महत्पूर्णयोगदानम् अस्ति । चतुस्सहस्रवर्षेभ्यः प्राक्तना हडप्पा-संस्कृतिः प्रमुखतः ताम्र-काँस्य-धातुक्षेत्रेषु, कृषिक्षेत्रे च उत्तमं कार्यम् अकरोत् । हरप्पा-संस्कृतेः स्थितिः धातु-कृषिक्षेत्रयोः आधारेणैव दृढा आसीत् । मगधराज्यस्य प्रथमसाम्राज्यस्य उपलब्धिः तस्य राज्यस्य लोहधातोः अद्वितीयसाधनानाम् उपरि आधारिता आसीत्[३]

भारतदेशे चिकित्सा-विज्ञानस्य चरकसंहिता, सुश्रुतसंहिता इत्यादीनां महतां ग्रन्थानां रचना अभवत् । तस्मिन् काले वैद्याः शव-परीक्षां कुर्वन्ति स्म । प्राचीनवैद्याः शल्यचिकित्साम् (Operation) अपि कुर्वन्ति स्म[३]

आर्यभटः (ई. ४९९), ब्रह्मगुप्तः (ई. ६२८) इत्यादिसदृशाः महान्तः गणितज्ञाः, खगोलविदः च भारते अभवन् । अद्य समग्रे संसारे प्रचलिता शून्य-आधारित-दाशमिक-स्थानमान-पद्धतिः (Decimal) भारतीयसंशोधनस्य एव परिणामः अस्ति[३]देहली-महानगरे स्थितः षोडशशतवर्षेभ्यः पुरातनः लोहस्तम्भः भारतीयविज्ञानस्य उत्तमम् उदाहरणम् अस्ति । चन्द्रगुप्त-विक्रमादित्ययोः शासने ई. ३७५-४१३ मध्ये तस्य स्तम्भस्य निर्माणं जातम् आसीत् । कृषिकर्मणः साधनानि, वास्तु-शिल्पकलयोः व्यवसायः इत्यादिषु क्षेत्रेषु अपि भारतस्य स्थानम् अद्वितीयम् आसीत्[३]

भारतस्य गुरुकुलेषु, आश्रमेषु च स्थित्वा विद्यार्थिनः योग्यानाम् आचार्याणां सान्निध्ये विज्ञानस्य ज्ञानम् अर्जयन्ति स्म[५] । प्राच्यग्रन्थेषु उल्लेखः प्राप्यते यत्, तक्षशिलां परितः विशेषज्ञानाम् आचार्याणाम् अनेकाः आश्रमाः आसन् । तेषु आश्रमेषु वेद-वेदाङ्गयोः, आयुर्वेदस्य, खगोलशास्त्रस्य, रसायणशास्त्रस्य, शिल्पशास्त्रस्य च शिक्षणकार्यं भवति स्म[५] । ततः भारतदेशे नालन्दा, विक्रमशिला इत्यादीनां विद्यापीठानां स्थापना अभवत् । तेषु विद्यालयेषु अपि भारतीयज्ञानस्य अविरतगङ्गा वहति स्म । उक्तेषु सर्वेषु विद्यालयेषु, विद्यापीठेषु न केवलं भारतीयछात्राः, अपि तु वैदिशिकाः छात्राः अपि ज्ञानं प्राप्नुवन्ति स्म । विद्यार्थिनः कुशलशिल्पकलाविदां सान्निध्ये स्थित्वा शिल्पकलायाः ज्ञानं प्राप्नुवन्ति स्म[५]

भारतस्य वैपुल्यं विश्वप्रसिद्धम् आसीत् । अतः वैदेशिकेभ्यः देशेभ्यः भारतस्य व्यापर-व्यवसाययोः सम्बन्धाः अपि आसन् । अन्यदेशैः सह भारतस्य व्यापारसम्बद्धत्वात् विज्ञानस्य, प्रौद्योगिक्याः च आदानप्रदानं सामान्यम् आसीत्[५] । ततः भारते शकानां, कुषाणानां, तुर्किजनानां, मुगलजनानां च आगमने सति भारतीयाः नवीनविज्ञानस्य ज्ञानं प्राप्तवन्तः । परन्तु ते भारतस्य अतिक्रमणं कृतवन्तः, अतः भारतीयसंस्कृतौ कुठाराघातः अभवत्[५] । तदारभ्य भारतीयसंस्कृतेः ज्ञान-विज्ञानयोः क्षेत्रेषु संशोधनं मन्दम् अभवत् । ततः आक्रमणकारिणाम् आङ्ग्लानां शासनकाले तु भारतीयशिक्षणपद्धतौ एव कुठाराघातः अभवत् । ततः भारतीयसंस्कृतेः स्थाने पाश्चात्यसंस्कृतेः विस्तारः अभवत् । कालान्तरे भारतदेशे विभिन्नाः विश्वविद्यालयाः, महाविद्यालयाः अभवन्, परन्तु ज्ञानस्य गङ्गायाः ह्रासः अभवत्[५]

भारते एकोनविंशतिशतके पुनः विज्ञानस्य, प्रौद्योगिक्याः च क्षेत्रे पुनरुत्थानस्य आरम्भः अभवत् । १७८४ तमे वर्षे संस्कृतेः पुरातत्वस्य च क्षेत्रे संशोधनार्थं कोलकाता-महानगरे एशियाटिक् सोसायटी इत्यस्याः संस्थायाः स्थापना अभवत् । ततः १८७५ भारतीय-वातावरण-विज्ञान-विभागस्य, १८९० तमे वर्षे भारतीय-वनस्पति-विज्ञान-सर्वेक्षण-संस्थायाः, १९१६ तमे वर्षे भारतीय-प्राणिविज्ञान-सर्वेक्षण-संस्थायाः च स्थापना अभवत् । उक्तानां सर्वासां संस्थानां स्थापना आङ्ग्लशासनकाले अभवत्[५] । १८७६ तमे वर्षे डॉ. महेन्द्रलाल इत्याख्येन महानुभावेन इण्डयन् एसोसिएशन् फॉर् द कल्टिवेशन् ऑफ् साइन्स् इत्यस्याः संस्थायाः स्थापना कृता आसीत् । परन्तु तस्याः संस्थायाः तस्य वैज्ञानिकस्य व्यक्तिगतं साहसम् आसीत् । तस्यां संस्थायां संशोधनकार्यं कुर्वन् चन्द्रशेखर वेङ्कटरामन् १९३० तमे वर्षे भौतिकीक्षेत्रे नॉबल्-पुरस्कारं प्राप्तवान्[५]

भारते विज्ञानस्य पुनरुद्धारेण सह एव भारतवर्षेण महान्तः वैज्ञानिकाः जनिताः । तेषु जगदीशचन्द्र बसु, प्रफुल्लचन्द्र राय, श्रीनिवासन् रामानुजन्, चन्द्रशेखर वेङ्कटेशरामन्, मेघनाद साहा, सत्येन्द्रनाथ बसु इत्यादीनां महानुभावानां मुख्यस्मरणं भवति[५] । एतेषु अनेके स्वस्य स्वतन्त्रानुसन्धानकेन्द्रस्य अपि स्थापनाम् अकुरवन्[५] । यथा जगदीशचन्द्र बसु कोलकाता-महानगरे बोस इन्स्टिट्यूट् इत्यस्याः संस्थायाः स्थापनाम् अकरोत् । चन्द्रशेखर वेङ्कटरामन् इत्यनेन अपि रामन रिसर्च् इन्टिट्यूट् इत्यस्याः संस्थायाः स्थापना कृता आसीत् । १८९२ तमे वर्षे बङ्गाल केमिकल्स् एण्ड् फार्मास्यूटिक्स् इत्यस्याः संस्थायाः स्थापनां प्रफुल्लचन्द्रः अकरोत् ।

भारतीयोद्योगविकासे आङ्ग्लसर्वकारस्य रुचिः नासीत्[४] । परन्तु १९३९ तमे वर्षे यदा द्वितीयविश्वयुद्धम् अभवत्, तदा ते विवशाः सन्तः भारतीयोद्योगविकासे रुचिं स्वीकृतवन्तः । यतो हि विश्वयुद्धानन्तरं वैदेशिकवस्तूनां भारते आयातः अतिन्यूनः अभवत् । युद्धसामग्रीणाम् आवश्यकतायां सत्यां विवशाः आङ्ग्लाः १९३९ तमे वर्षे वैज्ञानिक-औद्यौगिक-अनुसन्धानस्य एकस्याः समितेः रचनाम् अकुर्वन्[४] । आङ्ग्लाः डॉ. शान्तिस्वपरूप भटनागर इत्येनं समितेः अध्यक्षत्वेन अघोषयन् । १९४२ तमे वर्षे यदा विश्वयुद्धस्य प्रभावः एशिया-द्वीपे अपि अभवत्, तदा आङ्ग्लाः समितेः नाम परिवर्त्य परिषदः रचनाम् अकुर्वन् । वैज्ञानिकी, औद्योगिकी च अनुसन्धानपरिषद् इति तस्याः परिषदः नामकरणम् अभवत्[४]

१९४२ तमे वर्षे यदा परिषदः नामपरिवर्तितं, तदा तस्य कार्यक्षेत्रस्य व्यापः अपि निर्धारतः आङ्ग्लसर्वकारेण[४] । ततः रसायण-भौतिकी-धातुकर्म-इन्धन-काच-चर्म-औषधीत्यादिषु क्षेत्रेषु संशोधनकार्यम् आरब्धम् । परन्तु कार्यक्षेत्रे निर्धारिते सत्यपि तेषु क्षेत्रेषु किमपि फलवत् कार्यं नाभवत् । १९४७ तमे वर्षे यदा भारतगणराज्यं स्वतन्त्रम् अभवत्, तदा उक्तेषु क्षेत्रेषु दृढरीत्या कार्यम् आरब्धम् । भारतगणराज्यस्य प्रप्रथमः प्रधानमन्त्री जवाहरलाल नेहरू व्यक्तिगतरुच्या संशोधनक्षेत्रे कार्यं वेगवत् अकारयत्[४]

परिषदः प्रतीकचिह्नम्[६][सम्पादयतु]

वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः (CSIR) प्रतीके विज्ञानरूपी ज्योतिः उद्योगरूपिणे चक्रे प्रदर्शिता अस्ति । तस्य प्रतीकस्य भावः अस्ति यत्, विज्ञानस्य दीपप्रभा भारतगणराज्यस्य उद्योगजगति स्थितम् अन्धकारं दूरीकरिष्यति इति । प्रारम्भिके काले यदा भटनागर-महाभागः परिषदः प्रतीकविषये चिन्तयन् आसीत्, तदा आङ्ग्लैः प्रभावितः सः चक्रे लैम्प् इत्यस्य परिकल्पनाम् अकरोत् । परन्तु परिकल्पनायाः प्रायोगिकक्रियान्वयं कुर्वन् कलाकारः शान्तिस्वरूपस्य कथनानुसारं कार्यं कर्तुं न प्रभवति स्म । सः चित्रणे अतीव कष्टम् अन्वभवत् । ततः अन्ततो गत्वा सः कलाकारः शान्तिस्वरूपम् अकथयत्, “महाशय ! सत्यस्य उत ज्ञानस्य दीपप्रभा ‘स्पिरिट् लैम्प’-द्वारा प्रदर्शयितुं न शक्यते । तस्याः दीपप्रभायाः स्वरूपं तु अस्माकं पारम्परिकेण भारतीयदीपेन एव प्रकटीभवति” इति ।

परिषदः वर्तमानस्थितिः[सम्पादयतु]

भारतगणराज्यस्य स्वतन्त्रतानन्तरमेव परिषदः विस्तारः अभवत् । स्वतन्त्रतानन्तरं आभारतम् एकादशप्रयोगशालानां स्थापना अभवत् । तासु रसायनप्रयोगशाला (पुणे), भौतिकप्रयोगशाला (नवदेहली), धातुकर्मप्रयोगशाला (जमशेदपुर), खाद्यसामग्रीप्रयोगशाला (मैसूर), काचप्रयोगशाला (कोलकाता) इत्यादयः प्रयोगशालाः १९५० तमे वर्षे एव आरभन्त । १९५५ तमे वर्षे डॉ. शान्तिस्वरूपस्य देहावसानम् अभवत्[६] । तस्य कर्मठतायाः, पण्डितस्य सुविधादानस्य च परिणामस्वरूपतः प्रारम्भिके काले भारतवर्षेण विज्ञानक्षेत्रे असामान्यानि कार्याणि कृतानि । अतः डॉ. रामन् तयोः उपलब्धिं ‘नेहरू-भटनागर-प्रभावः’ इत्यनेन सम्बोधयति[६]

वर्तमानकाले (२०१४) वैज्ञानिक तथा औद्यौगिक अनुसन्धानपरिषदा सञ्चालिताः प्रयोगशालाः/संस्थाः चत्वारिंशत् (४०) सन्ति । परिषदः एकाशीतिः (८१) क्षेत्रीयकेन्द्राणि/क्षेत्रीयप्रयोगशालाः सन्ति । परिषदि २५,००० कार्यकर्तारः सन्ति । तेषु ६०५० (अनुमानाधारितम्) कार्यकर्तारः वैज्ञानिकाः, अभियन्तारः (Engineers) सन्ति । भारतसर्वकारः प्रतिवर्षं परिषदे ५०० कोटिरूप्यकाणि यच्छति । तद्विहाय औद्यौगिकक्षेत्रे सम्बन्धस्य कारणेन परिषद् अतिरिक्तं धनम् अर्जयति[६]

ग्रन्थालयः[सम्पादयतु]

१९६४ तमे वर्षे नवदेहली-महानगरे स्थिते मुख्यकार्यालये आधुनकिविषयसम्बद्धानां पुस्तकानां संरक्षणार्थं ग्रन्थालयस्य स्थापना अभवत् । प्रारम्भके काले सः ग्रन्थालयः नोलेज् सेन्टर् इति प्रसिद्धम् आसीत्, परन्तु २००८ तमे वर्षे तस्य नाम नोलेज् रिसोर्स् सेन्टर् (Knowledge Resource Centre - KRC) अभवत् । कर्मचारिणां सूचनाप्राप्तेः स्तरे वृद्धिः एव ग्रन्थालस्य मुख्योद्देशः अस्ति । स्वस्य उत्कृष्टपुस्तकानां सङ्ग्रहणत्वात् के आर् सी-ग्रन्थालयः विज्ञानस्य, प्रौद्योगिक्याः, प्रबन्धस्य च आधुनिकसूचनां प्राप्तुम् अत्युत्तमस्थलत्वेन प्रसिद्धम् अस्ति । संशोधनक्षेत्रस्य छात्राः, संशोधकाश्च सदस्यतां प्राप्य पुस्तकानि स्वीकर्तुं शक्नुवन्ति । के आर् सी-ग्रन्थालयः अवकाशस्य दिनेषु, शनिवासरे, रविवासरे च पिधीतं भवति । सोमवासरात् शुक्रवासरपर्यन्तं कार्यालयस्य समयः प्रातः ९:०० तः सायं ५:३० पर्यन्तं भवति[७]

परिषदः प्रयोगशालानाम् आवलिः[सम्पादयतु]

अत्र मुख्यप्रयोगशालानाम् एव नामोल्लेखः कृतः वर्तते ।

१. केन्द्रीयम् औषधि-अनुसन्धान-संस्थानम् (लखनऊ)

२. राष्ट्रिय-रासायणिक-प्रयोगशाला (पुणे)

३. केन्द्रीय-चर्म-अनुसन्धान-संस्थानम् (चेन्नैई)

४. केन्द्रीय-खाद्य-प्रौद्योगिकी-अनुसन्धान-संस्थानम् (मैसूर)

५. केन्द्रीय-काच-‘सिरेमिक’-अनुसन्धान-संस्थानम् (मैसूर)

६. राष्ट्रिय-पर्यावरण-अभियान्त्रिकी-अनुसन्धान-संस्थानम् (नागपुर)

७. केन्द्रीय-लवण-समुद्रिरसायण-अनुसन्धान-संस्थानम् (भावनगर)

८. राष्ट्रिय-समुद्र-विज्ञान-संस्थानम् (गोवा)

९. राष्ट्रिय-वान्तरिक्ष-प्रयोगशाला-१ (बैङ्गळुरु)

१०. राष्ट्रिय-वान्तरिक्ष-प्रयोगशाला-२ (बैङ्गळुरु)

११. भारतीय सुपरकम्प्यूटर-सम्बद्धं संशोधनम्

१२. केन्द्रीय-इन्धन-अनुसन्धान-संस्थानम् (धनबाद)

१३. क्षेत्रीय-अनुसन्धान-प्रयोगशाला (भुवनेश्वरः)

१४. कोशिकीय एवम् आणविकजीव-विज्ञानकेन्द्रम् (हैदराबाद)

१५. भू-भौतिकीय-अनुसन्धान-संस्थानम् (हैदराबाद)

१६. क्षेत्रीय-अनुसन्धान-प्रयोगशाला (भोपाल)

१७. राष्ट्रिय-वनस्पति-अनुसन्धान-संस्थानम् (लखनऊ)

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. GUNAKAR MULEY (2012). हमारी प्रमुख राष्ट्रीय प्रयोगशालाएँ. राजकमल प्रकाशन. p. 13. ISBN 9788126722631. 
  2. २.० २.१ २.२ २.३ प्रयोगशालाएँ 2012, पृष्ठम् 17
  3. ३.० ३.१ ३.२ ३.३ ३.४ ३.५ प्रयोगशालाएँ 2012, पृष्ठम् 13
  4. ४.० ४.१ ४.२ ४.३ ४.४ ४.५ ४.६ ४.७ प्रयोगशालाएँ 2012, पृष्ठम् 15
  5. ५.० ५.१ ५.२ ५.३ ५.४ ५.५ ५.६ ५.७ ५.८ ५.९ प्रयोगशालाएँ 2012, पृष्ठम् 14
  6. ६.० ६.१ ६.२ ६.३ प्रयोगशालाएँ 2012, पृष्ठम् 16
  7. "ग्रन्थालयः". CSIR. CSIR. Retrieved ०७/०२/२०१५.