मेघनाद साहा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
मेघनाद साहा
Meghnad Saha

মেঘনাদ সাহা
जननम् 6 अक्तूबर 1893(1893-10-06)
शेबडाताली, ढाका, (आङ्ग्लकालीकभारतम्) (सद्यः बाङ्गलादेशः)
मरणम् 16 फरवरी 1956(1956 -  02 - 16) (वयः 62) 
देहली, भारतम्
वासस्थानम् भारतम्
देशीयता भारतीयः
कार्यक्षेत्राणि भौतिकी, गणितं च
संस्थाः इलाहाबादविश्वविद्यालयः
कोलकाताविश्वविद्यालयः
इम्पिरियल् कॉलेज लंदन
इण्डियन् एसोशियेशन् फॉर् द कल्टिवेशन् ऑफ् साइन्स्
मातृसंस्थाः ढाकामहाविद्यालयः
कोलकाताविश्वविद्यालयः
विषयेषु प्रसिद्धः तापीयावेशः (Thermal ionisation
साहा आवेशीयवसमीकरणम् Saha ionization equation
धर्मः नास्तिकः [१][२]


बर्लिन्-देशे मेघनाद साहा, १९२१
कोलकाता-विश्वविद्यालयस्य विज्ञानिभिः सह मेघनाद साहा
बिराल इण्डस्ट्रि एण्ड टेकनोलोजि म्यूजियम्-संस्थायां डॉ. मेघनादस्य पूत्तलः
मेघनाद साहा

डॉ मेघनाद साहा ( ( शृणु) /ˈmɛɡhənɑːdə sɑːhɑː/) (वङ्ग: মেঘনাদ সাহা, आङ्ग्ल: Meghnad Saha) भारतस्य प्रख्यातः वैज्ञानिकः, शिक्षकश्च । डॉ मेघनादः स्वाध्ययनं १९१३ तमे वर्षे समापयत् । तस्मात् वर्षात् आजीवनं सः विज्ञानस्य सेवायै सातत्येन कार्यमकरोत् । १९१३ तमे वर्षे सः 'इण्डियन् साइंस कॉङ्ग्रेस् एसोशिएशन्'-संस्थायाः स्थापनायां महत्त्वपूर्णं योगदानम् अकरोत् । १९२५ तमे वर्षे सः 'साइंस कॉङ्ग्रेस'-संस्थायाः गणित-भौतिक-विभागयोः अध्यक्षः अभवत् । १९३४-३५ मध्ये डॉ मेघनादस्य प्रयत्नैः 'नेशनल् इंस्टीट्यूट् ऑफ् साइंस'-संस्थायाः स्थापना अभवत् । १९३७ तः १९३९ पर्यन्तं सः तस्याः संस्थायाः सभापतिः आसीत् । महेन्द्रलालसर्वकारीयप्रयोगशालायाः पुनर्रचनाम् अकारयत् सः । ततः सा प्रयोगशाला 'इंडियन् एसोशिएशन् फॉर द कल्टीवेशन् ऑफ् साइंस' इति प्रसिद्धा अभवत् । १९४४ तमे वर्षे, १९४६ तमे वर्षे च क्रमेण मन्त्रित्वेन, अध्यक्षत्वेन च तस्यां संस्थायां कार्यरतः आसीत् । १९५३ तमे वर्षे भारतसर्वकारः डॉ मेघनादं 'साइंस एसोशिएशन्'-संस्थायाः निदेशकत्वेन न्ययुङ्क्त । तस्मिन् पदे सः मृत्युपर्यन्तं स्वदायित्वम् अवहत् [३]

मेघनादः अमेरिका-देशस्य, फ्रांस-देशस्य च फैला इत्यत्वेन चितः । सः अनेकवारं विदेशेषु भारतस्य नेतृत्वम् अकरोत् । सः १९५२ तमे वर्षे लोकसभायाः निर्वाचने निर्दलीयसदस्यत्वेन बहुमतेन विजयी अभवत् । ततः तेन संसदि विज्ञानविकासस्य अनेके अंशाः उद्घोषिताः ।

अन्तर्विषयाः

जन्म, परिवारश्च[सम्पादयतु]

१८९३ तमस्य वर्षस्य अक्तूबर-मासस्य षष्ठे (६/१०/१८९३) [४] दिनाङ्के पूर्ववङ्गप्रदेशस्य (सद्यः बाङ्गलादेशे) ढाका-मण्डलस्य शेबडाताली-नामके ग्रामे मेघनादस्य जन्म अभवत् । कनसाइ-नद्याः तीरे विकसितः सः ग्रामः । मेघनादः अत्यन्ते निर्धने परिवारे धृतजन्मः । तस्य पितुः, मातुश्च नाम क्रमेण जगन्नाथः, भुवनेश्वरीदेवी च । जगन्नाथः धान्यापणिकः (Grocer) आसीत् । ग्रामस्थस्य तस्य आपणस्य स्थितिः अतिदरिद्रा आसीत् । भुवनेश्वरीदेवी अभावग्रस्तं तद्गृहम् अति प्ररिश्रमेण सञ्चालयति स्म । गृहसञ्चालननिपूणायाः तस्याः गृहे वस्तूनाम् अभावे सत्यपि बालकानां पालने अभवास्य स्थितिः कदापि प्रत्यक्षा न भवति स्म । जगन्नाथस्य न्यूनायेन परिवारः दरिद्रजीवनं यापयति स्म । तयोः अष्ट अपत्यानि आसन् । मेधनादः तयोः पञ्चमः सन्तानः आसीत् । १९१८ तमे वर्षे मेघनादस्य विवाहः अभवत् । मेघनादस्य पत्न्याः नाम राधारानी आसीत् । तयोः त्रयः पुत्राः, चतस्रः पुत्र्यश्च आसन् [५]

शिक्षणम्[सम्पादयतु]

यतो हि जगन्नाथस्य अष्ट अपत्यानि आसन्, अतः सर्वेभ्यः शिक्षणव्यस्थां कर्तुं दरिद्रः सः असमर्थः आसीत् । दरिद्रे वातावरणे बालमेघनादस्य प्राथमिकशिक्षणं ग्रामस्य सर्वकारीयशालायाम् आरब्धम् । पादत्राणस्य अभवात् सः नग्नपद्भ्यां शालां गच्छति स्म । यदा कदापि सः पाठशालायाः रिक्तः भवति स्म, तदा आपणे स्थित्वा स्वपितुः साहाय्यं करोति स्म । धनाभावे सत्यपि अध्ययने बालमेघनादः परिश्रमी आसीत् । तस्य बुद्धिचातुर्येण, परिश्रमेण च विद्यालयस्य सर्वेऽपि शिक्षकाः प्रभाविताः आसन् । बालमेघनादः यत्किमपि पठति स्म, तत् सः कदापि न विस्मरति स्म । तस्य स्मरणशक्तिः अपि अति विचक्षणा आसीत् । परीक्षायाम् आमण्डले तस्य प्रप्रथमस्थानम् आसीत् ।

ग्रामस्थे विद्यालये प्राथमिकशिक्षणं प्राप्य सः ७ माइल् दूरे स्थिते सिमुलिया-ग्रामं माध्यमिकशिक्षणं प्राप्तुं गच्छति स्म । प्रतिदिनं १४ माइल् पद्भ्यां कठिनयात्रात्वात् बालमेघनादस्य अध्ययनप्रक्रिया अति कठिना आसीत् । दीर्घकालं यावत् सः प्रतिदिनं १४ माइल् यात्रां करोति स्म, परन्तु अनुजस्य पीडां दृष्ट्वा तस्य अग्रजः जयनाथः सिमुलिया-ग्रामे बालमेघनादस्य निवासाय व्यस्थाम् अकारयत् । ततः सिमुलिया-ग्रामे अनन्तकुमाराख्यस्य कस्यचित् वैद्यस्य गृहे निवस्य बालमेघनादः अध्ययनं प्रारभत । यतो हि बालमेघनादः जानाति स्म यत्, तेन वैद्येन तस्योपरि महान् उपकारः कृतः, अतः बालमेघनादोऽपि गृहकार्येषु साहाय्यं करोति स्म । गोप्रेमी बालमेघनादः नित्यं गोसेवां करोति स्म ।

प्राथमिकशिक्षणे मेधावी बालमेघनादः माध्यमिकशिक्षणेऽपि चमत्कारम् अकरोत् । गणितविषयः तस्मै अति रोचते स्म । अतः सः विद्यालयस्य शिक्षकैः बहुवारं प्रोत्साहितः जातः । १९०५ तमे वर्षे दशमीकाक्षायां बालमेघनादः आढाकामण्डलं प्रप्रथमे स्थाने उत्तीर्णः अभवत् । तेन कृतः परिश्रमः सर्वेभ्यः आनन्दस्य विषयः आसीत् । सर्वकारेणापि तस्मै छात्रावृत्तिः दत्त्वा तस्य साहाय्यं कृतम् । एवं बालमेघनादेन स्वाध्ययनस्य बृहत् धनविघ्नः स्वयमेव अपाकृतः ।

माध्यमिकशिक्षणं, क्रान्तिश्च[सम्पादयतु]

१९०५ तमे वर्षे मेघनादः त्रयोदशवर्षीयः अपि नासीत् । तावति अल्पवयसि सः ढाका-महानगरस्य कॉलेजियेट्-विद्यालयं प्रविष्टः । तत्रापि तस्य परिश्रमेण सर्वेऽपि प्रसन्नाः आसन् । स्वाध्ययनक्षमतया तेन तस्मिन् विद्यालयेऽपि छात्रवृत्तिः अर्जिता । तस्य शिक्षामूल्यम् अपि क्षमा अभवत् । १९०५ तमः वर्षः राष्ट्रियान्दोलनेभ्यः अपि महत्त्वपूर्णः आसीत् । यतो हि तस्मिन् वर्षे एव आभारतं वङ्गभङ्गस्य आन्दोलनं जायमानम् आसीत् । सर्वेऽपि नागरिकाः, विद्यार्थिनः च सर्वकारस्य विरोधाय असहोयगान्दोलनम् अकुर्वन् । आन्दोलनकाले वङ्गप्रदेशस्य राज्यपालः सर्वेषां विद्यालयानां, महाविद्यालयानां च निरीक्षणाय गतः । सर्वकारं प्रति विरोधदर्शनाय सर्वेऽपि विद्यार्थिनः कक्षाम् एव न गताः । विद्यार्थिनाम् आचरणेन क्रुद्धः राज्यपालः मेघनादसदृशानाम् अनेकेषां विद्यार्थिनां छात्रवृत्तिम् अस्थगयत् । अनुपस्थितान् विद्यार्थिनः राज्यपालः विद्यालयात्, महाविद्यालयात् च निषकासयत् । राज्यपालस्य निर्णयेन मेघनादस्य अध्ययने अवरोधः समुत्पन्नः । किङ्कर्तव्याकर्तव्यमूढः मेघनादः बहुदिनानि इतस्ततः अभ्रमत् । परन्तु सर्वकारीयनिर्णयस्य विरोधाय ढाका-महागरस्य किशोरिलाल-जुबली-विद्यालयः मेघनादाय प्रवेशेण सह छात्रवृत्तिः अपि अयच्छत् । अग्रजः जयनाथः अपि मेघनादस्य आर्थिकसाहाय्यम् अकरोत् । ततः विद्यालयस्य, अग्रजस्य च साहाय्येन मेघनादः स्वाध्ययनं पुनरारम्भत ।

इतिहास-संस्कृत-विज्ञान-ज्योतिषां ज्ञानार्जनस्य उद्देशेन मेघनादेन विविधानां सम्प्रदायानाम् अध्ययनं प्रारब्धम् । तेन हिन्दु-बौद्ध-जैन-ईसाई-इस्लाम्-धर्माणाम् अभ्यासः कृतः । ‘बप्टिस्ट् मिशन’-संस्थया आयोजिते वङ्ग-बाइबल-परीक्षायां मेघनादः प्रप्रथमस्थानी आसीत् । तस्याः परीक्षायाः पुरस्कारत्वेन मेघनादः बाइबल-ग्रन्थं, शतं रूप्यकाणि च अलभत । मेघनादस्य स्मरणशक्त्या सर्वेऽपि चकिताः आसन् । १९०९ तमे वर्षे मेट्रिक्यूलेशन-परीक्षायां मेघनादः आवङ्गप्रदेशं प्रप्रथमस्थाने उत्तीर्णः अभवत् । संस्कृत-आङ्ग्ल-बङ्गाली-गणित-विषयेषु मेघनादः सर्वाधिकाङ्गान् अर्जयत् । १९११ तमे वर्षे ढाका-विश्वविद्यलयान्तर्गततया ढाका-महाविद्यालात् भौतिक-रसायन-विज्ञान-गणित-जर्मनभाषा-दिविषयैः सह इण्टरमीडिएड्-परीक्षा प्रथमश्रेण्या मेघनादेन उत्तीर्णा कृता । तस्यां परीक्षायां मेघनादः गणित-रसायन-विषयोः प्रप्रथमे स्थाने आसीत् । यद्यपि सः तयोः विषयोः प्रप्रथमः आसीत्, परन्तु सर्वेषां विषयाणाम् आहत्याङ्के सः तृतीयं स्थानं प्रापत् । जर्मनभाषा मेघनादेन डॉ. नागेन्द्रनाथात् अधिता । डॉ. नागेन्द्रनाथः ढाका-महाविद्यालये रसायन-विषयस्य प्राध्यापकः आसीत् । गणितविषयः मेघनादेन के पी बसु-महोदयतात् अधीतः । ढाका-महाविद्यालयस्य प्रधानाचार्यः आर्चीबाल्ड इत्येषः अपि मेघनादस्य अनेकवारं साहाय्यम् अकरोत् । ढाकामहाविद्यालयात् उत्तीर्णः मेघनादः यदा कोलकाता-महानगरम् अगच्छत्, तदापि तयोः पत्रव्यवहारः अनर्गलतया भवति स्म ।

उच्चशिक्षणम्[सम्पादयतु]

ढाका-महाविद्यालयात् मेघनादः कोलकाता-महानगरस्य प्रेसीडेंसी-महाविद्यालयम् उच्चिशिक्षणं प्राप्तुम् अगच्छत् । १९१३ तमे वर्षे मेघनादः गणितविषयम् अधिकृत्य बी. एस्. सी ऑनर्स् इत्येनम् उपाधिं प्रप्रथमश्रेण्यां प्रापत् । कोलकता-विश्वविद्यलये तस्य द्वितीयः क्रमः आसीत् । तस्मिन् महाविद्यालये मेघनादस्य सहपाठिनः कालान्तरे प्रख्यातप्राध्यापकाः अभूवन् । तेषु सत्येन्द्र बोस, निखल रञ्जन सेन, जे सी घोष, जे एन् मुकर्जी इत्येते अन्तर्भवन्ति । प्रशान्त चन्द्र महालनबीस, नील रतन धर इत्येतौ मेघनादस्य ज्येष्ठसहपाठिनौ आस्ताम् । शरत् चन्द्र बोस इत्येषः मेघनादस्य सहपाठी आसीत् । नेताजी सुभाष चन्द्र बसु इत्येषः महाभागः मेघनादात् वर्षत्रयम् पृष्ठे आसीत् । १९१५ तमे वर्षे कोलकाता-विश्वविद्यालयात् गणितविषयम् अधिकृत्य एम् एस् सी इत्येषः उपाधिः अर्जितः मेघनादेन । एम् एस् सी इत्यस्य परीक्षायाम् अपि प्रप्रथमश्रेण्या मेघनादः उत्तीर्णः अभवत् । तस्मिन् वर्षेऽपि मेघनादः आविश्वविद्यालयं द्वितीयस्थानं प्रापत् ।

मेघनादः यदा कोलकाता-विश्वविद्यालये पठति स्म, तदा अनेके विश्विविख्याताः जनाः तस्य अध्यापकाः आसन् । तेषु जगदीशचन्द्र बसु, प्रफुल्लचन्द्र राय, डी एन् मल्लिक इत्येते अन्तर्भवन्ति । परिवारस्य आर्थिकस्थितेः निर्बलतायाः कारणेन विश्वविद्यालयात् शिक्षां प्राप्य निर्गतः मेघनादः वृत्त्योपार्जनाय निर्णयम् अकरोत् ।

वृत्तिः[सम्पादयतु]

उच्चशिक्षणं प्राप्य निर्गतः मेघनादः यदा वृत्त्युपार्जनाय उचितं स्थानम् अन्विषन् आसीत्, तदा तस्य ध्याने भारतीयवित्तसेवायाः (Indian Finance Service) परीक्षा आगता । परन्तु क्रान्तिकारिभिः मेघनादस्य सम्बन्धत्वा आङ्ग्लसर्वकारेण भारतीयवित्तसेवायाः परीक्षायै मेघनादाय अनुमतिः न प्रदत्ता । मेघनादस्य यैः क्रान्तिकारिभिः निकटतमसम्बन्धः आसीत्, तेषु मुख्यौ डॉ. राजेन्द्र प्रसाद, नेताजी सुभाषचन्द्र बसु इत्येतौ आस्ताम् । आङ्ग्लसर्वकारस्य दमनेन अप्रभावितः मेघनादः कोलकाता-महानगरस्य भवानीपुराख्यं क्षेत्रं बालकान् पाठयितुं गच्छति स्म । तस्मात् विशेषवर्गात् (tuition) धनोपार्जनं कृत्वा मेघनादः परिवारपोषणम् आरभत । विशेषवर्गात् अधिकधनस्योपार्जनं न भवति स्म, अतः धनं रक्षितुं प्रतिदिनं मेघनादः पद्भ्यां, द्विचक्रिकया वा पाठयितुं गच्छति स्म । एकवर्षं यावत् सः विशेषवर्गमाध्यमे धनोपार्जनम् अकरोत् ।

कोलकाताविश्वविद्यालये[सम्पादयतु]

१९१६ तमे वर्षे कोलकाता-विश्वविद्यालयस्य उपकुलपतिः प्रो. आशुतोष मुकर्जी इत्येषः गणितविभागस्य प्रवक्तृत्वेन मेघनादस्य नियुक्तम् अकरोत् । परन्तु गणितविभागस्य अध्यक्षेण सह (प्रो. गणेशप्रसाद) मेघनादस्य सम्बन्धः सामान्यः नासीत्, अतः उपकुलपतिः मेघनादस्य स्थानान्तरं भौतिकीविभागे अकरोत् । भौतिकीस्नातकः मेघनादः अविरतपरिश्रमेण स्नातकोत्तरछात्रान् पाठयित्वा शीघ्रं हि भौतिकीविषयस्य उत्तमाध्यापकत्वेन ख्यातः अभवत् । भौतिकीविषयस्य प्राध्यापकत्वेन मेघनादेन भौतिकीविषये अधिकं संशोधनम् आरब्धम् । जर्मनभाषायाः ज्ञाता मेघनादः ऐन्स्टैन् इत्यस्य आपेक्षिकतायाः विशिष्टसिद्धान्तः (Spezielle Relativitätstheorie or special theory of relativity) इत्येतस्य विषयस्य अध्ययनम् अकरोत् । ततः सत्येन्द्र-महोदयेन (सत्येन्द्र बोस) सह मिलित्वा तं सिद्धान्तम् आङ्ग्लभाषयाम् अनुद्य प्राकाशयत् । आपेक्षिकतायाः विशिष्टसिद्धान्तः इत्येतस्य विषयस्य आङ्ग्लानुवादः प्रप्रथमं १९१९ तमे वर्षे कोलकाता-विश्वविद्यालेन प्रकाशितः [६]

संशोधनक्षेत्रे[सम्पादयतु]

भौतिकीविषयस्य योग्यरीत्या अध्यापनस्य प्रयासं कर्तुं मेघनादः संशोधनस्य रसिकः अभवत् । भौतिकीविषयस्य विभिन्नविषयाणाम् अध्ययनं कुर्वन् चतुर्विंशतिवर्षीयः मेघनादः १९१७ तमे वर्षे “मैक्सवेल स्ट्रेसेज्” इत्येतस्मिन् विषये शोधपत्रम् अलिखत् । ‘फिलॉसॉफिकल मैगजीन’ इत्याख्यायां विज्ञानक्षेत्रस्य सर्वोच्चपत्रिकायां तच्छोधपत्रं प्राकाशितम् । शोधपत्रप्रकाशनानन्तरं तु मेघनादस्य ज्ञानं विश्वव्याप्तम् अभवत् । ततः मेघनादः सूक्ष्मग्राह्युपकरणस्य निर्माणम् अकरोत् । तस्य सूक्ष्मग्राह्युपकरणस्य प्रयोगावसरे मेघनादः असिद्धयत् यत्, यदा प्रकाशः कस्मिँश्चित् सूक्ष्मवस्तूनि पतति, तदा तस्मिन् वस्तूनि भारः भवति इति । मेघनादः तं भारम् अमापयत् । तस्य प्रयोगेण प्रकाशभारसिद्धान्तः सिद्धः अभवत् । ततः मेघनादेन विकिरणभारस्य विद्युदीयाकर्षणसिद्धान्तस्योपरि (On Radiation-Pressure and the Quantum Theory) शोधप्रबन्धः लिखितः [७] । मेघनादस्य प्रकाशभारसिद्धान्तस्य, विद्युदीयाकर्षणसिद्धान्तस्य च कार्येण सर्वेऽपि विज्ञानिनः मुग्धाः अभूवन् । १९१८ तमे वर्षे कोलकाता-विश्वविद्यालयः मेघनादाय डी. एस्. सी. इति उपाधिम् अयच्छत् । तस्मिन् समये मेघनादः पञ्चविंशतिवर्षीयः आसीत् ।

१९१९ तमे वर्षे मेघनादः कोलकाता-विश्विद्यालयात् ‘प्रेमचन्द रायचन्द’-छात्रवृत्तिं, गुरुप्रसन्नपर्यटनस्य फैलोशिप् च प्रापत् । फैलोशिप्, छात्रवृत्तिश्च मेघनादेन ‘हारवर्ड् क्लासिफिकेशन् ऑफ् स्ट्रेलर् स्प्रेक्ट्रा’ इत्यस्मिन् विषये शोधप्रबन्धं लिखित्वा अर्जिता । छात्रवृत्तिं प्राप्य सः १९१९ तमस्य वर्षस्य अन्तिमेषु मासेषु यूरोप-देशम् अगच्छत् । यस्मिन् पोते सः यात्रां कुर्वन् आसीत्, तस्मिन्नेव पोते अपरः भारतीयवैज्ञानिकः, आचार्यश्च प्रफुल्लचन्द राय इत्येषः महोदयः यात्रां कुर्वन् आसीत् । यात्रां समाप्य यदा मेघनादः यूरोप-देशं प्रापत्, तदा तस्य स्नेहमयाख्यस्य मित्रस्य परामर्शानुसारं सः इम्पीरियल्-महाविद्यालस्य प्राध्यापकेन फाउलर-महोदयेन सह मन्त्रणाम् अकरोत् । फाउलर्-महोदयः वर्णक्रमिकी-विषयस्य प्रख्यातः वैज्ञानिकः आसीत् । मेघनादः विभिन्नेषु विषयेषु फाउलर्-महोदयेन सह, जे जे टाम्सन्-महोदयेन सह (कैम्ब्रिज-विश्वविद्यालयस्य प्राध्यापकः), प्रो. नेर्न्स्ट-महोदयेन सह (जर्मनी-देशे प्राध्यापकः) च विचारविमर्शम् अकरोत् ।

“मैक्सवेल स्ट्रेसेज्” इत्येस्मिन् विषये मेघनादेन शोधपत्रं प्राकाशितम् । ततः वर्षद्वयाभ्यान्तरे एव मेघनादेन ‘तापीयावेशः’ (विद्युत द्वारा कणों को अविष्‍ट करने की क्रिया, Ionization) इत्यस्मिन् विषये गहनं संशोधनं कृतम् । मेघनादे सिद्धं कृतं यत्, सूर्ये वायूनां परमाणुषु असाधारणोष्मा, असाधरणभारश्च भवति, तेन ऊष्मा-भारौ आवेशितौ भवतः । सः प्रक्रमः (Process) तापीयावेशः उच्यते । स्वसंशोधनस्य आधेरण मेघनादः तन्तौ तत्त्वानाम् उपस्थितिं ज्ञातुं मार्गं प्रादर्शयत् । १९२० तमे वर्षे मेघनादस्य ‘तापीयावेशसिद्धान्तःलन्दन-महानगरस्य ‘फिलॉसॉफिकल मैगजीन’ मध्ये प्रकाशितः । मेघनादस्य सः सिद्धान्तः अद्य Saha ionization equation इति प्रसिद्धः अस्ति ।

१९२१ तमे वर्षे कोलकाता-विश्वविद्यालयस्य उपकुलपतिः आशुतोष-महोदयः मेघनादम् एकं पत्रम् अलिखत् । तस्मिन् पत्रे सः उदलिखत्, भवान् भारतं प्रत्यागत्य पुनः कोलकाता-विश्वविद्यालये भौतिकीं पाठयतु इति । भवतः कृते विश्वविद्यालये संशोधनस्यापि व्यवस्था कृता इत्यपि तस्मिन् पत्रे लिखितम् आसीत् । उपकुलपतेः सम्माननं कृत्वा मेघनादः कोलकाता-महाविद्यालयस्य भौतिकप्राध्यापकत्वेन वर्षद्वयं कार्यम् अकरोत् ।

अलीगढविश्वविद्यालयः, बनारसविश्वविद्यालयः च मेघनादं स्वप्रयोगशालायां नियुक्तं कर्तुं सज्जः आसीत् । परन्तु कोलकाता-विश्वविद्यालात् अधिकसाधनाम् अभावं दृष्ट्वा मेघनादः कालोकता-महाविद्यालये एव अविरतं कार्यम् अकरोत् । भारतीयवातावरणविज्ञानविभागस्य निदेशकः सर गिलबर्ट् वाकर् इत्येषोऽपि कोडाईकनाल-वेधशालायां सूर्यरङ्गावल्याः (Sun’s Spectrum) विषये संशोधनं कर्तुं मेघनादं न्यवेदयत् । परन्तु अधिकवेचनस्य, अधिकसुविधायाः च लोभं त्यक्त्वा मेघनादः आङ्ग्लसर्वकारीयपदं नाङ्ग्यकरोत् ।

इलाहाबादविश्वविद्यालये[सम्पादयतु]

१९२३ तमे वर्षे कोलकाता-विश्वविद्यालयं त्यक्त्वा मेघनादः इलाहाबाद-विश्वविद्यालये भौतिकीविभागाध्यक्षस्य पदम् अगृह्णात् । तत्पदं सः पञ्चदश वर्षाणि गौरवान्वयत् । इलाहाबाद-विश्वविद्यालये विद्युत्समस्या, प्रयोगशालासमस्या, उपकरणसमस्या, ऊष्णजलवायुसमस्या च आसीत् । यद्यपि इलाहाबाद-विश्विद्यालये तादृश्यः अनेकाः समस्याः आसन्, तथापि मेघनादस्य अध्यक्षतायां तस्य विश्वविद्यालयस्य भौतिकीविभागः अत्युन्नतिम् अकरोत् । मेघनादस्य काले इलाहाबाद-विश्वविद्यालयस्य प्रयोगशाला विश्वविख्याता आसीत् ।

१९२७ तमे वर्षे इटली-देशस्य महानतमस्य वैज्ञानिकस्य वोल्टा इत्यस्य जन्मशताब्द्यां डॉ. मेघनादः उपस्थितः । ततः १९३३ तमे वर्षे अमेरिका-देशस्य हार्वर्ड-विश्वविद्यालयस्य शताब्दी-समारम्भेऽपि मेघनादः ससम्मानम् उपस्थितः । इलाहाबाद-प्रयोगशालायाः आर्थिकस्थितिः अपि निर्बला आसीत् । १९२७ तमे वर्षे डॉ. मेघनादः ‘रॉयल् सोसाइटी’ इत्याख्यायाः संस्थायाः फैलो (एफ् आर् एस्) इति चितः । डॉ. मेघनादाय अभिनन्दनं पाठयितुम् उत्तरप्रदेशराज्यस्य राज्यपालः सर विलियम् मॉरिस् इत्येषः किञ्चन पत्रम् अलिखत् । राज्यपालं प्रत्युत्तरं लिखन् मेघनादः स्वार्थिकाऽक्षमतायाः उल्लेखम् अकरोत् । फलतः सर् विलियम् मॉरिस् इत्येषः मेघनादाय पञ्च सहस्ररूप्यकाणि प्रैषयत् । ततः १९३५ तमे वर्षे रॉयल् सोसाइटी इत्येषा संस्था अपि मेघनादस्य द्वि सहस्ररूप्यकाणां साहाय्यम् अकरोत् । तेन धनेन डॉ. मेघनादः तापीयावेशक्षेत्रे संशोधनम् अकुर्वन् । ततः सः आयनमण्डलक्षेत्रेऽपि संशोधनमारभत । डॉ. मेघनादस्य आध्यक्ष्ये इलाहाबाद-विश्वविद्यालयस्य भौतिकीविभागात् अनेके योग्याः संशोधकाः संशोधनम् अकुर्वन् । तेषु संशोधकेषु डॉ. गोविन्दराम तोषनीवाल, डॉ. रामनिवास राय, डॉ. कल्याण बक्श माथुर, डॉ. रामरत्न वाजपेयी इत्यादयः महत्त्वपूर्णानि अनुसंधानानि अकुर्वन् ।

डॉ. मेधनादः १९३४ तमे वर्षे भारतीयविज्ञानकॉङ्ग्रेस-संस्थायाः अध्यक्षत्वेन निर्वाचितः । १९३७-३८ तमे वर्षे सः राष्ट्रियविज्ञानसंस्थानस्य अध्यक्षत्वेन नियुक्तः । १९३६ तमे वर्षे ‘कार्नेगी टैवलिंग फैलोशिप’ इत्येतत् अपि डॉ. मेघनादः प्रापत् ।

पुनः कोलकाता-विश्वविद्यालये नियुक्तः[सम्पादयतु]

पञ्चदश वर्षाणि इलाहाबाद-विश्वविद्यालये कार्यं कृत्वा १९३८ तमे वर्षे डॉ. मेघनादः कोलकाता-विश्वविद्यालये भौतिकी-प्राध्यापकत्वेन नियुक्तः अभवत् । सः भौतिक्याः तारकनाथ-पालित-पीठिकायाम् आरूढः अभवत् । इलाहाबाद-विश्वविद्यालयं त्यक्त्वा कोलकाता-विश्वविद्यालये नियुक्तः डॉ. मेघनादः मध्ये जर्मनीविज्ञान-अकादमी-संस्थायाः सदस्यः अभवत् । कोलकाता-विश्वविद्यालये पुनर्नियुक्तः डॉ. मेघनादः स्वसंशोधनस्य दिशाम् एव पूर्णतया पर्यवर्तयत् ।

डॉ. मेघनादः परमाणुविज्ञानक्षेत्रे यत् नाभिकीयभौतिकीत्वेन प्रसिद्धम् अस्ति, तस्मिन् विषये स्वानुसन्धानम् आरभत । विश्वविद्यालये अन्तरिक्षकिरणानुसन्धानप्रयोगशलां निर्मिय डॉ. मेघनादः परमाण्वनुसन्धानस्य प्रप्रथमं सोपानं पूर्णम् अकरोत् । डॉ. मेघनादः स्वछात्रौ दार्जिलिंग-प्रदेशस्य २१०० मी. उन्नतं पर्वतम् अन्तरिक्षकिरणमापनाय प्रैषयत् । तौ छात्रौ डॉ. एन् दासगुप्त, पी सी भट्टाचार्य च आस्ताम् । नाभिकीयभौतिकीक्षेत्रे अनुसन्धानाय आवश्यकं ‘साइक्लोट्रॉन्’ इत्यस्य स्थापनायै जवाहरलाला नेहरू इत्येषः, कोलकाता-विश्वविद्यालयः, केचन उद्योगपतयः, टाटा एण्ड सन्स्-संस्था इत्यादयः डॉ. मेघनादस्य आर्थिकसाहाय्यम् अकुर्वन् । साइक्लोट्रॉन् (Cyclotron) इत्यस्य स्थापनायै डॉ. नागचौधरी, बी एम् बनर्जी, डॉ. अजीतकुमार साहा, कमलेश राय इत्यादयः नवयुवानः डॉ. मेघनादस्य साहाय्यम् अकुर्वन् ।

साहा इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स् [८][सम्पादयतु]

साइक्लोट्रॉन् (Cyclotron) इत्यस्मात् रेडियो-कैल्शियम्, रेडियो-फास्फोरस् इत्यादीनां कृत्रिमतत्त्वानां निर्माणं शक्यते । तानि कृत्रिमतत्त्वानि चिकित्साक्षेत्रे उपयुज्यन्ते । डॉ. मेघनादस्य आग्रहेण ‘इण्डियन् स्कूल ऑफ् ट्रापिकल मिडिसन्’ इत्येषा संस्था स्वरोगिणः डॉ. मेघनादस्य प्रयोगशालां प्रेषयति स्म । साइक्लोट्रॉन् इत्यस्य संशोधनस्य कृते शक्तिशालिसूक्ष्मदर्शिणः अपि आवश्यकता अनुभूता डॉ. मेघनादेन । यतो हि एतादृशे संशोधने तत्त्वानि कैंसर, ल्यूकोमिया, ट्यूमर इत्यादिभिः रोगैः ग्रस्तानि अपि भवन्ति स्म । तादृशैः तत्त्वैः युक्तानां रोगिणां शरीरे रक्तपरिवर्तनं, जीवाणूनां जन्म च भवति । रक्ते जायमानं परिवर्तनं, जीवाणूनाम् अभ्यासः च शक्तिशालिसूक्ष्मदर्शिना एव ज्ञातुं शक्यते ।

एकलक्षरूप्यकमूल्यात्मकं तत् इलेट्रॉन्-सूक्ष्मदर्शियन्त्रं भारते कुत्रापि उपलब्धं नासीत् । तथा च भारते कोऽपि तादृशं यन्त्रं सञ्चालयितुम् अपि न जानाति स्म । परन्तु डॉ. मेघनादेन तस्य यन्त्रस्य क्रयणनिश्चयः कृतः । यन्त्रं क्रेतुं डॉ. मेघनादस्य साहाय्यं केन्द्रसर्वकारः, वङ्गसर्वकारः, उद्योगपतयः इत्यादयः अकुर्वन् । १९४५ तमे वर्षे डॉ. एन् दासगुप्त इत्येनम् अमेरिका-देशं प्रेषित्वा स्टैनफोर्ड-विश्वविद्यालयस्य मार्टेन इत्याख्यस्य प्राध्यापकस्य साहाय्येन डॉ. मेघनादः इलेक्ट्रॉन्-सूक्ष्मदर्शियन्त्रस्य परिकल्पनां निर्मापयत् । तथा च तस्य यन्त्रस्य अनेकानि अवयवानि तस्मिन् स्टैनफोर्ड-विश्वविद्यालये एव निर्मापितानि । प्रयोगशालायाः कार्येण सह डॉ. मेघनादः सर्वकारीयकार्येषु अपि सँल्लग्नः आसीत् । १९४९ तमे वर्षे डॉ. सर्वपल्ली राधाकृष्णन्-महोदयस्य अध्यक्षतायां निर्मितस्य विश्वविद्यालयायोगस्यापि सः सदस्यः आसीत् ।

डॉ. मेघनादस्य प्रयासाः १९५० तमे वर्षे फलीभूताः । १९५० तमे वर्षे कोलकाता-विश्वविद्यालयस्य ‘यूनिवर्सिटी कॉलेज् ऑफ् साइंस्’ इत्यस्यां संस्थायां ‘इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’ इत्यस्याः संस्थायाः स्थापना अभवत् । ततः तस्याः संस्थायाः नाम परिवर्तितं भूत्वा ‘साहा इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’ इत्येयत् भवत् । तस्याः संस्थायाः विधिवदुद्घाटनं १९५० तमस्य वर्षस्य जनवरी-मासस्य एकादशे (११/१/१९५०) दिनाङ्के अभवत् । ‘साहा इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’-संस्थायाः उद्घाटनं नॉबेल-पुरस्कारविजेत्री आइरीन् जोलियो क्यूरी इत्येषा अकरोत् । डॉ. मेघनादः आजीवनं तस्याः संस्थायाः अवैतनिकनिदेशकपदं व्याभूषयत् । ततः तेन नाभिकीयभोतिकी-न्यूट्रॉन्-भौतिकी-नाभिकीयरसायन-कण-त्वरित्रादिक्षेत्रेषु गभीरानुसन्धानं प्रारब्धम् । तेन सह स्नातकोत्तस्य अध्ययनाध्यापनं च प्रारब्धम् । एवं डॉ. मेघनादेन द्वयोः अदम्यविभागयोः स्थापना कृता । प्रथमः नाभिकीयभौतिकी, अपरः जीवभौतिकी च ।

१९५२ तः १९५६ पर्यन्तं कोलकाता-विश्वविद्यालये भौतिक्या निवृत्तप्राध्यापकत्वेन कार्यम् अकरोत् । १९५०-१९५६ इंस्टीट्यूट ऑफ् न्यूक्लियर् फिजिक्स्-संस्थायाः संस्थापकस्य, निदेशकस्य च पदे आसीत् । १९५५-१९५६ मध्ये ‘इण्डियन् एसोसिएशन् फॉर् द कल्टीवेशन् ऑफ् साइंस’ इत्यस्याः संस्थायाः निदेशकः आसीत् ।

संशोधनानि, कार्याणि च[सम्पादयतु]

डॉ. मेघनादः संशोधनक्षेत्रे अनेकानि कार्याणि अकरोत् । तेषु कार्येषु तस्य मतानि, विचाराः, अन्यजनैः सम्पर्काः च अभूवन् । तस्य प्रसिद्धेः कारणेन तस्य जीवस्य अनेके प्रसङ्गाः उपलभ्यन्ते ।

ताराकीयवर्णक्रमः[सम्पादयतु]

रदरफोर्ड्, बोर इत्येतयोः सिद्धान्तयोः उपयोगं कृत्वा तारकीयवर्णक्रमाणां भेदं ज्ञातुं प्रप्रथमः प्रयासः डॉ. मेघनादेन कृतः । ताराणां वर्णक्रमाणां स्रोतसां प्राकृतिकस्पष्टीकरणं प्रस्तुत्य तस्य विषयस्य जटिलताम् अपाकरोत् सः । अनेकेषां वैज्ञानिकानां मते तारकीयवर्णक्रमक्षेत्रे डॉ. मेघनादस्य संशोधनं मौलिकं, स्वाभाविकं च आसीत् । ऊष्णपदार्थानां शनैः शनैः जायमानायाः विभाजनप्रक्रियायाः स्मरणं कृत्वा पदार्थः वायुत्वेन परिवर्तितः भवति । तस्य वायोः अणवः पदार्थत्वेन परिणति । ततः ते अणवः क्रमेण घटकतत्त्वेषु, अणुतत्त्वेषु, परमाणुतत्तवेषु च परिणति । अतः डॉ. मेघनादः अवदत्, "अधिके तापमाने ६००० ° उत तस्मात् अधिके तापमाने यदि तारा भवति, तर्हि तारायाः अनेके घटकपरमाणवः स्वबाह्योपग्रहीयविद्युदणुं (इलैक्टॉन्) त्यजति" इति । डॉ. मेघनादस्य मौलिकसंशोधनं तस्मै अन्तराष्ट्रियख्यातिम् अयच्छत् । तस्य सिद्धान्तः 'नक्षत्राणां रश्मिचित्राणां भौतिकसिद्धान्तः' इति प्रसिद्धः ।

तापगतिकीयनियमाः, गतिजसिद्धान्तश्च[सम्पादयतु]

अग्रे विविधवायूनां गतिजसिद्धान्तानां, तापगतिकीयसिद्धान्तानां च विविधवायुषु परिक्षणं कर्तुम् इच्छति स्म डॉ. मेधनादः । इलेक्टॉन्-आयन-परमाणूनां वायुमिश्रितेषु गतिजसिद्धान्तेषु सङ्ख्यात्मकसूत्राणां प्रयोगं कृत्वा मेघनादः असिद्धयत्, "यस्य कस्यापि तत्त्वस्य परमाणूनां खण्डनम् उत आवेशीकरणम् उच्चतापमानादेव न, अपि तु निम्नभारेणापि शक्यम् अस्ति । यावत् पर्यन्तं कस्यचित् परमाणोः विभाजनस्य, पुनर्मिलनस्य च गतिः सन्तुलिता न भवति, तावत् उच्चतापमाने उत उच्चभारे कस्यचित् परमाणोः इलैकट्रॉन् इत्यस्य, खण्डितभागानां च विभाजनप्रक्रिया स्वतः सातत्येन प्रचलति" इति । उक्तविषयस्य सिद्धये डॉ. मेघनादस्य समीकरणम् एकमात्रं गणितीकरणम् आसीत् । तस्य सिद्धान्तेन कस्यचित् तारकीयवायुमण्डले आवेशीकरणस्य गणनां कर्तुं शक्यते । डॉ. मेघनादः प्रप्रथमवारं कस्यचित् तारकस्य, परमाणोः च गहनसम्बन्धम् उपास्थापयत् । डॉ. मेघनादस्य स एव सिद्धान्तः ताराभौतिक्याः आधारः अभवत् ।

सामान्यपरीप्रक्ष्ये डॉ. मेघनादस्य तारा-परमाण्व्योः सिद्धन्तः मनुष्यजीवनस्य कृते अनुपयोगी प्रतिभाति । परन्तु आवेशीकरणस्य सिद्धान्तः अस्माकं नित्य-नैमित्तिककार्येषु अत्यधिकोपयोगी अस्ति । यथा – रेडिया-तरङ्गाणां प्रेक्षणं, ज्वालामूखिनां संवहनं, विस्फोटकप्रतिक्रियाणां निर्माणम् इत्यादिषु ।

ज्योतिभौतिकविज्ञानम्[सम्पादयतु]

१९३८ तमे वर्षे डॉ. मेघनादः कोलकाता-विश्वविद्यालयस्य 'बोस रिसर्च इंस्टीट्यूट्'-संस्थायाः निदेशकः अभवत् । तस्मिन् पदे आसीनः सन् सः अनेकान् आविष्कारान् अकरोत् । तेषु मुख्याः १. तापमानसिद्धान्तः २. नॉपजन ३. वर्णपटविज्ञानम् ४. परमाणोः रचना ५. 'डाइरेक्' इत्यस्य परमाणुसिद्धान्तः । उक्ताध्ययनैः डॉ. मेघनादः ज्योतिभौतिकविज्ञानक्षेत्रे अनेकानि संशोधनानि अकरोत् । तस्य सर्वं संशोधनं मौलिकम् आसीत् । ज्योतिभौतिकविज्ञाने आकाशीय-पिण्डानां भौतिकावस्थितिः, प्रकाशः, तापक्रमः, वायुमण्डलरचना इत्यादयः डॉ. मेघनादस्य अध्ययनविषयाः आसन् ।

नदीसमस्यायाः व्याख्या[सम्पादयतु]

भारतीयनदीनां समस्याः परिहर्तुं डॉ मेघनादेन अनेके उपायाः निर्दिष्टाः । १९१३ तमे वर्षे वङ्गप्रदेशस्य दामोदरनद्यां भयङ्करे आप्लवे (flood) जाते, डॉ मेघनादेन अनेकेषां शिबिराणाम् आयोजनं कृतम् आसीत् । ततः १९२३ तमे वर्षे वङ्गप्रदेशस्य उत्तरदिग्भागेऽपि आप्लवे सञ्जाते डॉ मेघनादः शिबिराणाम् आयोजनम् अकरोत् । तेषु वर्षेषु तस्य यः अनुभवः आसीत्, तस्य आधारेण स्वसंशोधनं कृत्वा डॉ. मेघनादः 'मॉर्डन् रिव्यू' इत्यादिषु समाचरापत्रेषु लेखान् अपि अलखित् । १९१३ तः १९४० पर्यन्तं डॉ. मेघनादेन नदीसमस्यानां यत् किमपि संशोधनं कृतम् आसीत्, तेन आधारेण तेन नदीसमस्यानां काचित् व्याख्या उपस्थापिता ।

नदीसमस्यानां व्याख्योपस्थाने सः उदलिखत्, जर्मनी-अमेरिका-रूस-देशानां वैज्ञानिकप्रयोगशालासु नदीनियन्त्रणसम्बद्धाः प्रयोगाः भवन्ति । तेषां प्रयोगानाम् आधारेण ते नदीनियन्त्रणस्य कार्यं सुचारुरीत्या कुर्वन्ति । अतः डॉ मेघनादस्य इच्छा आसीत् यत्, भारतेऽपि नदीसंशोधनस्य प्रयोगशालाः भवेयुः इति । तेन नदीसंशोधनशालायाः स्थापनायाः विचाराः अनेकासु पत्रिकासु अपि प्रकाशिताः । तैः लेखैः डॉ मेघनादः सर्वकारस्य ध्यानं नदीप्रयोगशालां प्रति कर्षयितुम् इच्छति स्म ।

१९४२ तमे वर्षे तस्य प्रयासाः सफलाः अभूवन् । तस्मिन् वर्षे वङ्गप्रदेशे "नद्यनुसन्धानसंस्थान"स्य स्थापना अभवत् । १९४३ तमे वर्षे पुनः दामोदरनद्यां आप्लवे सञ्जाते सति सर्वकारः आप्लवनिवारणयोजनासमितेः अध्यक्षपदे डॉ मेघनादस्य नियुक्तिम् अकरोत् । आप्लवनिवारणसमितेः अध्यक्षो भूत्वा सः दामोदरनदीम् उपलक्ष्य अनेकाः योजनाः अरचयत् । सः अमेरिका-देशस्य 'टेनिसी वैली अथॉरिटी'-संस्थावत् 'दामोदर वैली कॉरपोरेशन्'-संस्थायाः रचनाम् अकरोत् । तस्याः संस्थायाः निरीक्षणे दामोदरनद्याः तटे अनेकेषां योजनानां क्रियान्वयम् अभवत् ।

नवीनपञ्चाङ्गस्वीकारः[सम्पादयतु]

डॉ मेघनादः भारतीयज्योतिश्शास्त्रेऽपि रुचियुक्तः आसीत् । यदा सः जयपुरस्य महाराजा-महाविद्यालयं पाठयितुम् अगच्छत्, तदा सः आविश्वं प्रसिद्धं जन्तरमन्तरवेधशालाम् अपि अगच्छत् । 'कौंसिल ऑफ् साइंटिफिक् एंड इंडस्ट्रियल् रिसर्च'-संस्थायाः आग्रहेण डॉ. मेघनादः १९५२ तमे वर्षे पञ्चाङ्गसंशोधनसमितेः अध्यक्षः अभवत् । वर्षत्रयानन्तरं १९५५ तमे पञ्चाङ्गसंशोधनप्रबन्धः तेन यूनेस्को-संस्थायाः सम्मुखम् उपस्थापितः । तस्मिन् प्रबन्धे डॉ मेघनादेन यत् संशोधनं कृतम् आसीत्, तेन सर्वेऽपि अति प्रसन्नाः आसन् । सः भारतसर्वकाराय अपि कांश्चन परामर्शान् अयच्छत् । ततः भारतसर्वकारेणापि नवीनपञ्चाङ्गस्य स्वीकारः कृतः ।

राजनेता[सम्पादयतु]

बाल्याकालात् निर्धनतायाम् अधितः डॉ मेघनादः स्वसामर्थ्येन अनेकेषां संस्थानां संस्थापकः, सहस्थापकः, अध्यक्षः च अभवत् । तस्य ज्ञानेन, कार्यैः च आभारतं गर्वान्वितम् आसीत् । १९५२ तमे वर्षे यदा लोकसभायाः निर्दलीयसदस्यत्वेन डॉ मेघनादः निर्वाचने भागम् अवहत्, तदा सः बहुमतेन निर्वाचने विजयी अभवत् । सः कोऽपि राजनेता नासीत्, अपि तु सः सत्तायाः उपयोगं कृत्वा भारते विज्ञानविकासं कर्तुम् इच्छति स्म । अतः तेन संसदि ये केऽपि अंशा उद्घोषिताः, तेषु अधिकाः विज्ञानसम्बद्धाः आसन् । १९५४ तमस्य वर्षस्य मई-मासस्य दशमे (१०/५/१९५४) दिनाङ्के संसदि परमाणूर्जायाः शान्तिपूर्णोपयोगे वादः आरब्धः । डॉ मेघादस्य प्रयासैः तस्य वादस्य आरम्भः आसीत् । डॉ. मेघनादः संसदि बहुधा आभारतं प्रयोगशालायानाम् आधुनीकरणस्य विषयान् अपस्थापयति स्म । यतो हि तस्य मतम् आसीत् यत्, भारतीयप्रयोगशालाः आधुनिकोपकरणैः, पुस्तकालयैः च समृद्धाः स्युः इति ।

विस्थापितेभ्यः कार्यम्[सम्पादयतु]

१९५० तमे पूर्ववङ्गप्रदेशात् विस्थापितानां साहाय्यार्थं डॉ मेघनादः साहाय्यशिबिरस्य निर्माणम् अकरोत् । यद्यपि सः स्वयम् उच्चरक्तचापेन, आंशिकपक्षाघातेन च पीडितः आसीत्, तथापि सः तेषां साहाय्यार्थं गच्छति स्म । सः असमराज्यस्य, त्रिपुराराज्यस्य विस्थापितानाम् अपि साहाय्यार्थं गच्छति स्म ।

१९५६ तमस्य वर्षस्य फरवरी-मासस्य त्रयोदशे (१३/२/१९५६) [९] दिनाङ्के मेघनादः संसदः आयव्ययसत्रे (Budget Session) भागं वोढुं सः देहलीम् अगच्छत् । तत्र तेन विस्थापितानां समस्याः, अनुद्योगितायाः (unemployment), नदीनियन्त्रणस्य च अंशाः चर्चिताः ।

मृत्युः[सम्पादयतु]

१९५६ तमस्य वर्षस्य फरवरी-मासस्य षोडशे (१६/२/१९५६) [१०] दिनाङ्के डॉ मेघनादः महत्त्वपूर्णानि प्रलेखनानि (Documents) नीत्वा राष्ट्रपतिभवनं गच्छन् आसीत । परन्तु मार्ग एव सः मूर्छितः अभवत् । मूर्छितं डॉ मेघनादं कश्चन सज्जनः चिकित्सालयम् अनयत् । परन्तु तावता डॉ मेघनादः देहं त्यक्तवान् आसीत् । डॉ मेघनादस्य संस्मरणे विज्ञानक्षेत्रे विशिष्टानुसन्धानकृद्भ्यः प्रतिवर्षं 'डॉ मेघनाद साहा स्मारक'-पुरस्कारः प्रदीयते ।

व्यक्तित्वम्[सम्पादयतु]

यद्यपि डॉ. मेघनादः संशोधनकत्वेन स्वजीवनं समार्पयत्, ताथापि सः आदिनं प्रयोगशालायां स्थित्वा संशोधनं न करोति स्म । सः बर्नाल्, हाल्डेन्, जूलियट् क्यूरी इत्यादिवत् स्वसहयोगिभिः सह स्थित्वा तेषु विज्ञानस्य सामाजिकोद्देशान् प्रति कर्तव्यभावं जनयति स्म । तस्य मतम् आसीत् यत्, स्वतन्त्रभारते वैज्ञानिकानां कार्येण अर्थव्यवस्थाविकासः भवतु । प्रत्येकस्मिन् स्तरे तान्त्रिकज्ञानं व्यपकं स्यात् इति । अत एव सः स्वजीवनस्य अन्तिमेषु वर्षेषु शिक्षा-औद्योगिकीकरण-राष्ट्रियायोजन-नदीयोजना-समाजवाद-कृषि-इत्यादीनां कृते कार्यं कृतवान् । शिक्षादीनां विकासे विज्ञानस्य बाहुल्येन उपयोगः एव तस्य लक्ष्यम् आसीत् । अतः तेन तेषां विषयाणां समस्याः निवारयितुं स्वपूर्णं ध्यानं योजितम् ।

१९३५ तमात् वर्षात् सः 'साइंस् एण्ड कल्चर्'-पत्रिकायां प्रतिमासं विभिन्नानां समाजोपयोगिविषयाणां सम्पादनं करोति स्म । तेषु विषयेषु मुख्यत्वेन देशविकाससम्बद्धाः अंशाः भवन्ति स्म । भारतीयोद्योगपतिभिः, वैदेशिकधनिकैः च यद्धनं भारतात् बहिः गच्छति स्म, तस्य विरोधाय सः स्वपत्रिकासु पौनःपौन्येन लिखति स्म । डॉ. मेघनादः भारते औद्योगिकोन्नतिम् इच्छति स्म, येन भारतीयसमाजः आधुनिकव्यावहारिकविज्ञानेन लाभान्वितः स्यात् । तस्य इच्छा आसीत् यत्, भारतं शीघ्रातिशीघ्रं सुखि, समृद्धं च भवेत् ।

भारतीयानां मार्गदर्शनावसरे सः सोवियतसङ्घस्य उदोहरणं दत्त्वा वदति स्म यत्, यथा सोवियतसङ्घवासिभिः भारतात् अपि अधिकानां समस्यानां प्रतिकारः कृत्वा स्वस्य सामन्तवादी, कृषिप्रधानः च देशः समृद्धः कृतः, तथैव अस्माभिः स्वदेशे करणीयम् । आधुनिकविज्ञानेन, तान्त्रिकसाहाय्येन च निर्धनदेशोऽपि समृद्धः भवितुम् अर्हति इति । अतः डॉ. मेघनादः वैज्ञानिकानां प्रतिभाविकासम् अपि समृद्धभारताय विभिन्नमार्गेषु मुख्यमार्गत्वेन परिगणयति स्म । वैज्ञानिकानां प्रतिभाविकासाय कार्यं कर्तुं सः स्वयम् अपि उत्सुकतापूर्वकं कार्यं करोति स्म । सः जानाति स्म यत्, निर्धनतायाः कारणेन कथं प्रतिभायाः विकासः अवरुणद्धि ? इति । यतो हि सः स्वयं निर्धनतायाः कारणेन अनेकेषां कष्टानां साक्षी अभवत् ।

स्वबाल्यकालस्य स्मरणं कृत्वा सः तं वैद्यं (डॉ. अनन्तकुमार दास) प्रति स्वकृतज्ञतां प्रदर्शयति स्म, यस्य साहाय्यनेन सः अपठत् । १९३५ तमे वर्षे विज्ञानीयज्ञानस्य प्रसाराय डॉ. मेघनादेन 'साइंस एण्ड कल्चर्'-पत्रिकायाः आरम्भः कृतः । तस्यां पत्रिकायां सः शताधिकान् लेखान् अलिखत् । तेषु शतष्षु राष्ट्रिययोजना-वैज्ञानिकशिक्षा-उद्योग-भूभौतिकी-आप्लव-अदुष्कालनियन्त्रण-परमाणुभौतिकी-पुरातत्वादीनां स्वानुसन्धानम् अलिखत् । तेषु विषयेषु तस्य असाधारणज्ञानस्य, व्यापकदृष्टेः च पूर्णतया बोधः भवति ।

१९३८ तमे वर्षे भारतीयराष्ट्रियकॉङ्ग्रेस-दलस्य कस्याँश्चित् सभायां सुभाषचन्द्रस्य भाषणे समाप्ते सति डॉ मेघनादः तं प्रश्नोत् । सः अपृच्छत्, किं स्वतन्त्रे भारते पारम्परिकसंसाधनैः कृषिः भविष्यति ? अर्थात् शकटाधारितानां कृषिसाधनानाम् उपयोगेन उत आधुनिकयन्त्राणाम् उपयोगेन कृषिः भविष्यति ? इति । ततः सः स्वमतम् अपि उपास्थापयत्, "यदि भारम् उन्नतिं कर्तुम् इच्छति, तर्हि भारते व्यापकतया विशुद्धं, व्यावहारिकं च अनुसन्धानम् आवश्यकम् । सर्वैः वैज्ञानिकैः मिलित्वा शिक्षायाः, अनुसन्धानस्य च राष्ट्रिययोजना निर्मिय तस्याः क्रियान्वयः करणीयः" इति ।

१९३८ तमे वर्षे पण्डितः यदा राष्ट्रिययोजानासमितेः अध्यक्षः आसीत्, तदा ईन्धनस्य, शक्तेः च उपसमित्याध्यक्षः डॉ मेघनादः आसीत् । तस्मिन् काले तेन आभारतं नदीनां समस्याः गाम्भीर्येण परिलक्षिताः । ततः राष्ट्रियोजनासमितेः सिञ्चनस्य, जलमार्गाणां च उपसमितेः अपि सः अध्यक्षपदं व्याभूयत् । १९४० तमे वर्षे डॉ मेघनादः डॉ शान्तिस्वरूपस्य अध्यक्षतायां भारतसर्वकारस्य 'कौंसिल ऑफ् साइंटिफिक एण्ड् इंडस्ट्रियल् रिसर्च'-संस्थायां सदस्यः अभवत् । सर्वेषु पदेषु डॉ मेघनादस्य कार्यं भारतविकासस्य लक्ष्यं प्रति वेगवतम् आसीत् । तस्य वरदहस्तैः अनेकेषां प्रयोगाणां शिलान्यासः अभवत् । सः विद्यार्थिनः पौनःपुन्येन वदति स्म यत्, "परिश्रमेण कार्यं कुर्वन्तः भवन्तु, प्रतिष्ठां स्वतः प्राप्स्यन्ति" इति ।

प्रसिद्धः ज्योतिश्शास्त्री सर एण्डिक्टन् इत्येषः अवदत्, ज्योतिश्शास्त्रे गैलिलियो इत्यस्मात् अद्य पर्यन्तं ये आविष्काराः अभूवन्, तेषु भारतस्य महतः वैज्ञानिकस्य डॉ मेघनादस्य आविष्काराः अपि महत्त्वपूर्णाः सन्ति इति ।

लिखितानि पुस्तकानि[सम्पादयतु]

  • ए ट्रीटीड ऑन् दी थ्योरी ऑफ् रिलिटिविटी
  • ऑन् ए फिजीकल थ्योरी ऑफ दी सोलर कोरोना
  • ए ट्रीटीज ऑन हीट
  • ए ट्रीटीज ऑन् मॉर्डन् फिजिक्स
  • माई एक्सपीरियेंस इन रशिया

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Santimay Chatterjee, Enakshi Chatterjee (1984). Meghnad Saha, scientist with a vision. National Book Trust, India. p. 5. "Even though he later came to be known as an atheist, Saha was well-versed in all religious texts— though his interest in them was purely academic." 
  2. Robert S. Anderson (2010). Nucleus and Nation: Scientists, International Networks, and Power in India. University of Chicago Press. p. 602. ISBN 9780226019758. "a self-described atheist, saha loved swimming in the river and his devout wife loved the sanctity of the spot. swimming and walking were among the few things they could do together." 
  3. Eminent scientists published by Scholastic India pvt. Ltd.
  4. कुष्णमुरारी लाल श्रीवात्सव (2015). भारतीय वैज्ञानिक. प्रतिभा प्रतिष्ठान, नई दिल्ली. p. 141. ISBN 978-93-83111-68-8. 
  5. Indian Parliament (1952-57) book
  6. https://archive.org/stream/principleofrelat00eins/principleofrelat00eins_djvu.txt
  7. http://adsabs.harvard.edu/full/1919ApJ....50..220S
  8. http://www.saha.ac.in/web/about-sinp/brief-history
  9. कुष्णमुरारी लाल श्रीवात्सव (2015). भारतीय वैज्ञानिक. प्रतिभा प्रतिष्ठान, नई दिल्ली. p. 151. ISBN 978-93-83111-68-8. 
  10. कुष्णमुरारी लाल श्रीवात्सव (2015). भारतीय वैज्ञानिक. प्रतिभा प्रतिष्ठान, नई दिल्ली. p. 151. ISBN 978-93-83111-68-8. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मेघनाद_साहा&oldid=314648" इत्यस्माद् पुनः प्राप्तिः