सामग्री पर जाएँ

वैशाखी पर्व

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैशाखी पर्व  (( /ˈvɛɪʃɑːkh pərvə/)) (हिन्दी: बैसाखी, आङ्ग्ल: Vaisakhi) भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।

वैशाखी महोत्सवः

वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यः मेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।

वैशाखीपर्वणः महत्त्वम्

[सम्पादयतु]

पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते ।

यदा कृषकाः आवर्षम् उद्यमान् कुर्वन्ति तदैव वर्षान्ते सस्यानि परिपक्वानि भवन्ति । ततः परं तेषां कर्तनकार्यं कृत्वा विक्रयणार्थं प्रेषयन्ति । अन्ते सम्पूर्णवर्षस्य फलं प्राप्य विश्रान्तिम् अनुभवन्ति ।

वैशाखी-पर्व मूलरूपेण नूतनसस्यानाम् उत्सवः अस्ति । सस्येषु अपि विशेषतः 'रबी' इत्यस्य सस्यस्य उत्सवः । पञ्जाबराज्ये 'रबी' इत्यस्य खाद्यानि भवन्ति । तेषु चणकः, सर्षपः, एरण्डः इत्यादयः अस्यां ऋतौ उत्पाद्यन्ते ।

वैशाखीपर्वणः इतिहासः

[सम्पादयतु]

इतिहासे अस्य पर्वणः विशेषं महत्वं वर्तते । वैशाखमासे एव 'सिक्ख' इत्येतेषां गुरोः श्री अङ्गद देव जी इत्याख्यस्य जन्म अभवत् । पौराणिककथानुसारं ब्रह्मणा सृष्टेः रचना वैशाखमासे एव कृता आसीत् । भगवतः रामस्य राज्याभिषेकः वैशाखमासे एव अभवत् । अतः इदं पर्व पर्वणां महापर्व कथ्यते ।

नववर्षस्य आरम्भः

[सम्पादयतु]

अप्रैल-मासस्य त्रयोदशे चतुर्दशे वा दिनाङ्के सूर्यः मेषराशिं प्रविशति । बङ्गाली-समाजे अस्मिन् दिने नववर्षोत्सवः आचर्यते । तेभ्यः एतस्मात् दिनात् नववर्षस्य आरम्भः भवति । अस्मिन् दिने जनाः सांस्कृतिककार्यक्रमस्य आयोजनं कुर्वन्ति । कार्यक्रमे भगवतोः दुर्गाशिवयोः पूजा भवति ।

सार्वजनिकस्थलेषु नृत्य-गायनादीनि भवन्ति । देशस्य प्रगत्यै जनाः सङ्कल्पं कुर्वन्ति । जनाः नूतनानि वस्त्राणि धरन्ति । गृहेषु मिष्ठान्नानि व्यञ्जनानि निर्मान्ति, भगवते समर्पयित्वा खादन्ति च ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=वैशाखी_पर्व&oldid=342039" इत्यस्माद् प्रतिप्राप्तम्