व्यायोगः (रूपकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


दशरूपके नाटकानां दश प्रकाराः निर्दिष्टाः सन्ति। दृश्यकाव्यस्य अपरं नाम रुपकम् ! साहित्यदर्पणग्रन्थे विश्वनाथः रुपकाणां दश प्रधानप्रभेदान् दर्शयति, ते च नाटकं, प्रकरणं, भाणः प्रहसनं, डिमः, व्यायोगः, समवकारः, वीथी, अङ्कः ईहामृगः च । तत्र व्यायोगप्रभेदस्य उत्तमोदाहरणत्वेन मध्यमव्यायोगः वर्तते । व्यायोगः इत्येषः चतुर्थः प्रभेदः । अत्र विशेषेण कार्यार्थं बहवः आयुज्यन्ते-प्रवृत्ता भवन्तीति व्यायोग इति सार्थकं नाम । वि आङ् इत्युपसर्गद्वयपूर्वकात् युजिर् योगे इति धातोः दैवादिकात् ’करणाधिकरणयोश्च’ इत्यधिकरणे ल्युटि व्यायोग इति शब्दः । बहूनां प्रवृत्तेरधिकरणमित्यर्थः । अस्य लक्षणं तावदिदम् - मनुष्यबहुलेऽस्मिन् अत्र कथावस्तु रामायणमहाभारतादेः स्वीकारात् प्रसिद्धम् । स्त्रीपात्राणि न्यूनानि । अत्र मुखम्, प्रतिमुखम्, निर्वहणं चेति त्रय एव सन्धयः, तदुक्तं दर्पणे -

ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः ।
हीनो गर्भविमर्शाभ्यां नरैर्बहुभिराश्रितः ॥

एकाङ्केऽत्र स्त्रीनिमित्तं युद्धं सम्भवति । भारती, सात्वती, आरभटी चेति वृत्तित्रयमात्रस्य अत्र सम्भवः । रामायणादौ प्रसिद्धः कश्चित् राजा इह नायको भवति दिव्यो वा कश्चित् पुरुषः । स पुनः धीरोद्धतो भवतीति विशेषः । धीरोद्धतस्य लक्षणं तावदिदम् - मायापरः प्रचण्डापलोऽहङ्कारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ अत्र करुणः, रौद्रः, वीरः, भयानकः, बीभत्सः, अद्भुतश्च इत्येतेषु रसेष्वन्यतमो रसः प्रधानो भवति । कथञ्चिदपि हास्य-शृङ्गार-शान्ता अत्र न भवन्ति । अस्य उदाहरणं सौगन्धिकाहरणम् । मध्यमव्यायोगः इत्यप्यस्यैव प्रसिद्धमुदाहरणान्तरम् ।

व्यायोगस्य लक्षणम्[सम्पादयतु]

  • व्यायोगस्य नायकः प्रसिध्दः पुरुषः भवेत् ।
  • पुरुषपात्राणि अधिकानि, स्त्रीपात्राणि न्यूनानि च भवेयुः ।
  • अत्र नाटके एकः एव अङ्कः भवेत् ।
  • व्यायोगस्य कथा (इतिवृत्तं) प्रसिद्धा भवेत् । सा च कथा एकस्मिन् एव दिने प्रवृत्ता स्यात् ।
  • नायकः दिव्यः राजर्षिः क्षत्रियः वा भवेत् । सः धीरोध्दतः भवेत् ।
  • अस्मिन् युध्दस्य, नियुध्दस्य, सङ्घर्षस्य दृश्यं भवितुमर्हति । एतानि सर्वाणि लक्षणानि मध्यमव्यायोगे अन्वितानि भवन्ति ।
"https://sa.wikipedia.org/w/index.php?title=व्यायोगः_(रूपकम्)&oldid=395903" इत्यस्माद् पुनः प्राप्तिः