व उ चिदम्बरम् पिळ्ळै

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
व.उ.चिदम्बरं पिळ्ळै
V. O. Chidambaram Pillai.jpg
व.उ.चिदम्बरं पिळ्ळै
जन्म १८७२ तमवर्षस्य सप्टम्बरमासस्य पञ्चमदिनाङ्कः
ओट्टपिडारम्, तमिळ्नाडु, भारतम्
मृत्युः १९३६ तमवर्षस्य नवम्बरमासस्य १८ दिनाङ्कः
तूतुकुडि, तमिळ्नाडु, भारतम्
अन्यानि नामानि वी.ओ.सी, व.वू.सी, कप्पल् उट्टिय् तमिळन्, चेक्किळित्त तमिळ्न्
वृत्तिः वक़ील, Trade unionist, व्यापारी, activist, राजनैतिज्ञः edit this on wikidata
Organization भारतीयराष्ट्रियकाङ्ग्रेस्, स्वदेशिस्टीम् न्याविगेषन् कम्पनी
आन्दोलनम् भारतस्य स्वातन्त्र्यसङ्ग्रामः

व.उ.चिदम्बरम् पिळ्ळै भारतस्य स्वातन्त्र्यसङ्ग्रामस्य नेतृषु प्रमुखः अस्ति । सः स्वतन्त्र्यसङ्घर्षे भागं गृहीत्वा अन्यानपि प्रेरितवान् । एतस्य कार्यकरणेन आङ्ग्लेयाः अग्नेः उपरि स्थिताः इव तापम् अनुभूतवन्तः । सः आङ्ग्लेयानाम् आक्रमणं विरुध्य सङ्घर्षं कृतवान् । तेषां क्रूरनियमान् विरुध्य जनानां पुरतः वीररसयुक्तानि भाषणानि कृतवान्। व.उ.चिदम्बरं पिळ्ळै तमिळ्भाषायाम् , आङ्ग्लभाषायां च निपुणः आसीत् । सः चतुरः लेखकः , सत्वशाली भाषणकर्ता , निःस्वार्थी नेता , धीरः स्वातन्त्रसङ्ग्रामस्य नेता च आसीत् । तस्य त्यागमयं जीवनम् उदात्तचरितम् इव अस्ति । भारतस्य राजनैतिक-सामाजिक-आर्थिकस्वातन्त्र्यार्थं तेन कृताः त्यागाः सङ्घर्षाः च बहवः सन्ति । तेन अनुभूतानि दुःखानि अपि बहूनि । चिदम्बरस्य राजनैतिकजीवनम् उदात्तशीलधर्मशक्तियुक्तं आसीत् । सः स्नेहशीलः अपि आसीत् । व.उ.चिदम्बरं पिळ्ळै प्रसिद्धः अधिवक्ता आसीत् । सः तमिळ्भाषया कविताः लिखति स्म । लेखनानि अपि लिखितवान् अस्ति । तमिळ्भाषया विद्यमानं साहित्यं पठित्वा तद्विषये लेखनानि लिखितवान् अस्ति । सः मित्रैः सह मेलनसमये सर्वदा स्वातन्त्र्यसङ्घर्षविषये , तमिळ्साहित्यविषये एव चर्चां कुर्वन् भवति स्म । सः आङ्ग्लपुस्तकानाम् अपि अनुवादं कृतवान् अस्ति ।व.उ.चिदम्बरं पिळ्ळै भारतस्य जनेभ्यः सुपरिचितः अस्ति । १८९२ तमे वर्षे बालगङ्गाधरतिलकस्य वीरभाषणैः प्रेरितः सन् अनन्तरकाले तस्य शिष्यत्वेन कार्यं कृतवान् ।

अन्तर्विषयाः

व.उ.चिदंबरस्य जननं , शिक्षणं यौवनकालः च[सम्पादयतु]

व.उ.चिदम्बरं पिळ्ळै १८७२ तमे वर्षे सप्टम्बरमासस्य पञ्चमदिनाङ्के तमिळ्नाडुराज्ये तिरुनेल्वेलीमण्डले ओट्टपिडारम् नामके कस्मिंश्चित् ग्रामे उलगनाथन् ,परमायी अम्बा दम्पत्योः ज्येष्ठपुत्रत्वेन जन्म प्राप्तवान् । तस्य षष्ठे वयसी वीरपेरुमाळ् अण्णावि नामकस्य कस्यचित् अध्यापकस्य समीपे तमिळभाषाध्ययनम् आरब्धवान् । तस्य पितामही तस्मै शिवपुराणकथाः वदति स्म । पितामहः रामायणकथाः वदति स्म । पितामहेन सह गत्वा अल्लिकुलत्तुसुब्रह्मण्यपिळ्ळैवर्येन उक्ताः महभारतकथाः अपि चिदम्बरेण श्रुताः । सर्वकारकार्यालयस्य कार्यकर्ता श्री. कृष्णः चिदम्बराय आङ्ग्लं बोधितवान् । सः यदा स्थलपरिवर्तनं कृत्वा अन्यत्र गतवान् तदा चिदम्बरस्य पिता तत्रत्यानां साहाय्येन झटित्यैव आङ्ग्लशिक्षणार्थम् विद्यालयं निर्मितवान् । विद्यालये श्री.अरम्वळर्त्तनाथपिळ्ळैवर्यम् अध्यापकरूपेणण नियुक्तवान् । विद्यालयस्य निर्वहणदायित्वं पुदियमुत्तूरस्थम् आदंसन् नामकस्य कस्यचित् क्रैस्तमतगुरोः समीपम् दत्तवान् । तदनन्तरम् चिदम्बरं षण्मुखस्वामिनाथनामकयोः समीपम् अध्ययनम् कृतवान् । यदा सः चतुर्दशवर्शीयः अभवत् तदा पठनार्थम् ओट्टपिडारात् तूतुकुडिं प्रति गतवान् । तत्र सः सेण्ट् झेवियर्स् विद्यालये , काल्ड्वेल् विद्यालये च अध्ययनं कृतवान् । तिरुनेल्वेलीनगरस्थे हिन्दुमहाविद्यालये अपि सह अध्ययनं कृतवान् ।

क्रीडासक्तिः[सम्पादयतु]

चिदम्बरस्य यौवनकाले सर्वासु क्रीडासु तस्य आसक्तिः आसीत् । क्रीडने सः चतुरः अपि आसीत् । तस्य स्वचरितात् वयम् एतं विषयम् अवगन्तुं शक्नुमः । एतेन तमिळ्नाडुराज्यस्य क्रीडाः अपि वयम् अवगच्छामः ।तासु काश्चन एवं सन्ति-भित्तौ चलनं ,वृक्षारोहणम् , एकश्वासेन सङ्ख्या कथनम् , अश्वारोहणम् , जलक्रीडाः , दण्डारोहणं , छुरिकाक्षेपणम् , शीर्षासनेन चलनं ,बस्कि ,कुस्ति इत्यादयः ।

अधिवक्ता[सम्पादयतु]

व.उ.चिदम्बरं पिळ्ळै किञ्चित् कालं यावत् तालुकाकार्यालये उद्योगं कृतवान् । अनन्तरं तस्य पिता न्यायविषये शिक्षणं प्राप्तुं तं तिरुच्चीं प्रति प्रेषितवान् । तत्र श्री.गणपति ऐयर् , श्री.हरिहरन् च तं बोधितवन्तौ । १८९४ तमे वर्षे परीक्षां लिखित्वा उत्तीर्णः अभवत् । सः निर्धनानां कृते निश्शुल्कं वादं करोति स्म। बहुषु अवसरेषु चिदम्बरस्य पक्षेण एव विजयः प्राप्तः । तेन सः प्रसिद्धः अधिवक्ता अभवत् । तस्य वाक्चातुर्यं , सत्यसन्धता इत्यादीनां कारणेन न्यायादीशानां चिदम्बरस्य उपरि बहु आदरः आसीत् । यदा आरक्षकैः दोषेण निरपराधिनाम् उपरि दोषारोपः कृतः तदा ते चिदम्बरस्य वाग्चातुर्येण विमुक्ताः भवन्ति स्म । तेन कारणेन आरक्षकाणां चिदम्बरस्य उपरि कोपः उत्पन्नः । चिदम्बरस्य पिता एतादृशीं स्थितिं न इष्टवान् । अतः सः १९०० तमे वर्षे तूतुकुडी नगरे एव उद्योगं करोतु इति उक्तवान् । तत्राऽपि चिदम्बरं पिळ्ळै प्रसिद्धः अधिवक्ता आसीत् ।

देशस्य विषये चिन्तनम्[सम्पादयतु]

एकदा व.उ.चिदम्बरं पिळ्ळै यदा चेन्नै गतवान् तदा रामकृष्णमठे श्री स्वामी विवेकानन्दः तेन मिलितः । सः चिदम्बरं प्रति देशार्थं किमपि करोतु इति उक्तवान् । एतत् चिन्तनं तस्य मनसि बीजरूपेण समयक् उपस्थापितम् । कालान्तरे तस्य वृक्षरूपेण वर्धनम् अभवत् । तदनन्तरं सः स्वातन्त्र्यसङ्घर्षवीरः अभवत् । यदा चेन्नैनगरं गच्छति तदा सर्वदा महाकविना सुब्रह्मण्यभारतीवर्येण मिलति स्म । व.उ.चिदम्बरं पिळ्ळै सुब्रह्मण्यभारतीवर्यस्य गीतानि इच्छया शृणोति स्म । चिदम्बरं तथा सुब्रह्मण्यभारती समानमण्डलस्थग्रामात् आगतौ । चिदम्बरस्य जन्मस्थानं ओट्टपिडारं, सुब्रह्मण्यभारतीवर्यस्य एट्टयपुरम् अस्ति । द्वयोः पितरौ अपि मित्रे ।सुब्रह्मण्य भारती , चिदम्बरं च यदा मिलितवन्तौ तदा द्वयोः चिन्तनमपि समानम् इति अवगतवन्तौ । द्वौ अपि सदा देशविषयकमेव सम्भाषेते स्म । सुब्रह्मण्य भारती स्वस्य भावात्मकगीतै: जनान् स्वतन्त्राय उत्तेजितवान् । तयोः मैत्री कालान्तरेण सम्यक् वर्धिता ।

व.उ.चिदम्बरं पिळ्ळैवर्येन आरब्धाः राष्ट्रियसंस्थाः[सम्पादयतु]

व.उ.चिदम्बरं पिळ्ळै तिरुनेल्वेल्यां , तूतुकुड्यां च प्रसिद्धः नेता आसीत् । सः “ स्वदेशीप्रचारसभा “ , ” धर्मसङ्घतन्तुवायशाला “ , “ स्वदेशीय-भण्डार-शाला “ , “ कर्षकसङ्घम् “ इत्यादयाः संस्थाः आरब्धवान् ।

स्वदेशीयनौकासङ्घम् १९०६[सम्पादयतु]

आङ्ग्लेयाः भारतं प्रति वाणिज्यं कर्तुमेव आगताः । किन्तु ते भारतस्य शासनकरणस्य अधिकारं प्राप्य भारतस्य समृद्धिम् अपहृतवन्तः । एतत् चिन्तनं चिदम्बरस्य मनः नितरां बाधते स्म । अतः सः तस्मिन् विषये स्वस्य विरोधभावनाम् आङ्ग्लेभ्यः ज्ञापयितुम् इष्टवान् ।“ ब्रिट्टीश् इण्डिया स्टीं नाविगेशन् कम्पनी “ द्वारा भारत-श्रीलङ्कयोः मध्ये आङ्ग्लेयाः नौकां चालयन्ति स्म । तदेव आङ्ग्लेयानां वाणिज्ये प्रधानं कार्यम् आसीत् । अतः व.उ.चिदम्बरं पिळ्ळै भारतीयानां कृते नौकासंस्थाम् आरब्धुं निश्चितवान् । व.उ.चिदम्बरं पिळ्ळै१९०६ तमे वर्षे अक्टोबर् मासे १६ दिनाङ्के “ स्वदेशीय नौका संस्था “ नामिकायाः नूतनायाः नौकासंस्थायाः पञ्जीकरणं कृतवान् । तस्य अध्यक्षः आसीत् मधुरैतमिळ्सङ्घस्य अध्यक्षः वळ्ळल् पाण्डितुरैत्तेवर् एव । न्यायालोचकः सेलं श्री विजयराघवाच्चार्यार आसीत् । संस्थायाः मूलधनं १०,००,००० रूप्यकाणि आसन् । २५ रूप्यकात्मकं ४०,००० भागाः [ शेर्स् ] तत्र अन्तर्भूताः । अध्यापकाः सर्वे अपि तत्र भागकर्ताराः भवितुं शक्नुवनति । ४ अधिवक्ताराः , १३ वित्तकोषस्थाः आसन् । नौका संस्थायाः पञ्जीकरणानन्तरं नूतनान् भागकर्तृन् योजयितुम् आरब्धवान् । “ जनाब् हाजि मोहम्मद् बक्कीर् सेट् “ ८००० भागेभ्यः २,००,००० रूप्यकाणि दत्तवान् । किन्तु संस्थायाः कृते स्वनौका नासीत् । “ शालेन् स्टीमर्स् कम्पेनि “ तः नौकाः भाटकार्थं स्वीकरणीयाः आसन् । ब्रिटीष- इण्डिया नाविगेशन् कम्पेनी एतां नूतनां स्पर्धां न इष्टवती । अतः सा शालेन् स्टीमर्स् कंपेनि संस्थायाः कृते स्वनौका नासीत् इत्यतः भारतीयाः वाणिज्यं कर्तुं कष्ठं अनुभूतवन्तः । व.उ.चिदम्बरं पिळ्ळैभीतः न अभवत् । सः श्रीलङ्कां गत्वा भाटकार्थं नौकां प्राप्तवान् । किञ्चित् कालं तेन वाणिज्यं कृतं भरातीयैः । किन्तु स्वनौकया विना संस्थां चालयितुं न शक्यते इति अवगतं चिदंबरेण । अतः स्वकीयाः नौकाः क्रेतुं निश्चितवान् । तूत्तुकुडी वणिक्जनाः साहाय्यं कृतवन्तः । तत् अपर्याप्तम् आसीत् । अतः सः नूतनान् भागकर्तृन् योजयितुं मुंबै , कोल्कत्ता इत्यादीन् नगरान् प्रति गतवान् । तत्रत्याः तस्य वाग्चातुर्येण आकृष्टाः सन् नौका संस्थायाः भागकर्ताराः अभवन् । व.उ.चि उत्तरभारतं प्रति प्रस्थानात् पूर्वं “नौका सहितमेव पुनरागमनं भवति ; नौका नास्ति चेत् समुद्रे एव आत्महत्यं करोमि “ इति प्रतिज्ञां स्वीकृतवान् आसीत् । तस्य प्रतिज्ञां पूरितवान् । “ एस्.एस्.गलिलियो “ नाम नौकया सह प्रत्यागतवान् । भारतीयाः सर्वे महत् आनन्दम् अनुभूतवन्तः । नौकायां ४२ प्रथमश्रेणि-आसन्दाः , २४ द्वितीयश्रेणि-आसन्दाः ,१३०० सामान्यासन्दाः आसन् । अपि च ४००० गोणि परिमितानि वस्तूनि अपि नेतुं शक्यते स्म । एस्. वेदमूर्तिः फ्रान्स् देशं गत्वा “ एस्.एस्.लावो “ नामिकां नौकाम् आनीतवान् । भारतीय पत्रिकासु सर्वासु एतं विषयम् अधिकृत्य लेखनानि प्रकाशितानि । सर्वाः चिदंबरस्य् प्रशंशां कृतवत्यः । नौकासंस्थायाः वर्धनम् अभवत् । जनाः स्वदेशीयनौकायां एव यात्रां कृतवन्तः । वस्तूनि अपि स्वदेशीयनौकायां प्रेषितवन्तः । आङ्ग्लसंस्थाः एतस्यां स्पर्धायाम् स्थातुम् न शक्तवत्यः । अतः ताः शुल्कं न्यूनीकृतवत्यः । अन्ते निश्शुल्कमपि नयाम: इति उक्तवत्यः । ब्रिट्टीश् नौका संस्थायाः उपायानां विषये व.उ.चिदम्बरं पिळ्ळै जनानां मध्ये भाषणं कृतवान् । “ आरंभे निश्शुल्कं नीत्वा भारतीनौका-संस्थायाः नाशानन्तरं तेषाम् इच्छानुसारं शुल्कं वर्धयन्ति ; तदा भारतीयैः किमपि कर्तुं न शक्यते “ इति । अतः भारतीयाः निश्शुल्कयात्रां निराकृतवन्तः । आङ्ग्लेयाः तदनन्तरं चिदंबराय उत्कोचं दातुं प्रयत्नं कृतवन्तः । स्वदेशी नौका संस्थां त्यक्तवा गच्छति चेत् १,००,००० रूप्यकाणि दीयते इति उक्तवन्तः । व.उ.चिदम्बरं पिळ्ळै न अङ्गीकृतवान् । आङ्ग्लसर्वकारेण ब्रिट्टीश् संस्थायै बहुधा साहाय्यं कृतम् । ते ब्रिट्टीश् नौकया एव यात्रा करणीया इति सर्वकारकार्यकर्तृन् रहस्यपत्रेण आदिष्टवन्तः । अधिकारिण: ,वैद्याः ,सर्वकारकार्यकर्ताराः सर्वे अपि स्वदेशीयनौकायाःकृते क्लेशं जनितवन्तः । एकदा भरतीयनौका ब्रिट्टीश्नौकायाः उपरि घट्टनं कर्तुं आगतवती इति दोषारोपं कृतवन्तः । व.उ.चिदम्बरं पिळ्ळै तम् असत्यारोपः इति न्यायालये निरूप्य नौका चालनार्थम् अनुमतिं प्राप्तवान् । स्वदेशीयनौका संस्थायाः वर्धनस्य स्थगनं कर्तुं न शक्तवन्तः आङ्ग्लेयाः ।

चिदंबरस्य राजनीतिक्षेत्रकार्यम्[सम्पादयतु]

स्वदेशीयनौकासंस्थायाः विजयेन चिदंबरः सन्तृप्तः नाभवत् । सः जानानां मनस्सु स्वातन्त्र्यपिपासाम् आनेतुं चिन्तितवान् । तदर्थमपि एकः अवसरः तस्य पुरतः आगतः । “ लार्ड्र राय् “ कश्चन भारतस्थ आङ्ग्लेय अधिकारि आसीत् । सः लण्डन् नगरे प्रवृत्ते वाणिज्यानां मेलने “ भारते वाणिज्यं संयक कर्तुं शक्यते किमर्थं चेत् तत्र कर्मकरेभ्यः इति संस्था नास्ति , कर्मकरेभ्यः वेतनम् अल्पमेव भवति “ इति भाषितवान् । तस्य भषणेन तदानीन्तन कर्मकराणां स्थितिम् अवगन्तुं शक्नुमः । तूत्तुकुड्यां काचित् तन्तुवाय संस्था आसीत् । तत्रत्य कर्मकरेभ्यः वेतनम् अल्पम् । किन्तु तैः पूर्ण दिनं विश्रान्तिं विना कार्यं करणीयं भवति । तेषां विरामः अपि न भवति । केनाऽपि दोषः क्रियते चेत् तदर्थं दण्डनं कठोरतया भवति । तत्रत्यानां स्थितिं दृष्ट्वा चिदंबरः दुःखितः अभवत् । सः कर्मकरान् कार्यस्थगन्ं कर्तुं प्रेरितवान् । चिदंबरः , सुब्रह्मण्यशिवः च तेभ्यः अङ्गीकारं दर्शितवन्तौ । १९०८ तमे वर्षे फेब्रुवरि २३ दिनाङ्के चिदंबरः तूत्तुकुड्यां भाषणं कृतवान् । १९०८ तमे वर्षे फेब्रुवरि २७ दिनाङ्के कर्मकराः कार्यं स्थगितवन्तः । सङ्घर्ष समये तेषां घोषणम् आसीत् एवम् १.अधिक वेतनम् २. सप्ताहे एकं दिनं विरामः ३. अन्य दिनेषु विरामः । मण्डलाधिकारि तिरुनेल्वेली तः अधिकारि द्वयं , शिवकाशी तः ३० आरक्षकाः च प्रेषितवान् । तदनन्तरदिने मण्डलाधिकारि श्री.विञ्च् स्वयं तूत्तुकुडीम् आगतवान् । तेन मिलतु इति चिदंबरस्य कृते वार्तां प्रेषितवान् । मेलनानन्तरं संस्थायाः निर्वाहकानां कठोरहृदयकारणेन एव सङ्घर्षः चलति इति अधिकारेः समीपम् उक्तवान् इति कर्मकराणाम् समीपम् उक्तवान् । सः जनानां साहाय्येन , स्वधनेन च कर्मकराणांकृते साहाय्यं कृतवान् । तेन तस्य सम्पादनस्य महान् भागः व्ययीकृतः । निर्वाहकाः कर्मकराः अविश्वासेन शीघ्रमेव कार्यार्थम् आगच्छन्ति इति प्रतीक्षां कृतवन्त: । आङ्ग्लसर्वकारः निर्वाहकानां पक्षे आसीत् । किन्तु अनन्तरदिनेषु अधिकाः सङ्घर्षे योजितवन्तः । निर्वाहकानां स्थितिः क्लेशाय अभवत् । ते काञ्चित् भायितवन्तः , काञ्चित् उद्योगात् निष्कासितवन्तः । सर्वमपि व्यर्थम् अभवत् । भारतीयानां सर्वेषां श्रद्धा सङ्घर्षस्य उपरि आगता । व.उ.चि प्रतिदिनं सार्वजनिक मेलनेषु कर्मकराणां स्थिति विषये भाषणं कृतवान् । अतः तेषाम् अपि आदरः आसीत् । सङ्घर्षः इतोऽपि तीव्रतां गतः । कर्मकराः प्रतिदिनं शोभायात्रां कृतवन्तः । वणिक्जनाः आङ्ग्लेभ्यः वस्तूनि विक्रयणं न कृतवन्तः । तेन कारणेन ते श्रीलङ्कातः भोजनवस्तूनि क्रीतवन्तः । ते भीत्या तूत्तुकुडी मध्ये वासं त्यक्त्वा समुद्रे नौकायां वासं कृतवन्तः । अन्ते निर्वाहकाः कर्मकराणां प्रार्थनाः पूरयितुम् अङ्गीकृतवन्तः । १९०८ तमे वर्षे मार्च् ६ दिनाङ्के तन्तुवायशालायाः निर्वाहकेन चिदंबरः मिलितः । चिदंबरेण ५० कर्मकरैः सह निर्वाहकः मिलितः । सङ्घर्षस्य महान् विजयः प्राप्तः । तदानीन्तनकाले कर्मकरेभ्यः सङ्घः इति कोऽपि नासीत् । १९२० तमे वर्षे एव प्रथमः सङ्घः आरब्धः । सोवियत्सङ्घर्षः अपि १९१७ तमे वर्षे एव अभवत् । व.उ.चि तु ११९०८ तमे वर्षे एव कर्मकराणां सङ्घेनविनैव तान् मेलयित्वा कार्यत्यागं कारयित्वा तेषां मार्गदर्शनं कृतवा विजयं प्राप्तवान् । व.उ.चिदम्बरं पिळ्ळै सर्वेषां मार्गदर्शकः अस्ति । एतेन सङ्घर्षेण अन्य आङ्ग्लसंस्थानां कर्मकराः अपि फलं प्राप्तवन्तः । तेषाम् वेतनम् अधिकं कृतवन्तः , तान् क्रूरतया कार्यम् अपि न कारितवन्तः ।

व.उ.चिदंबरस्य बन्धनम्-१९०८[सम्पादयतु]

स्वदेशीनौकासंस्थायाः वर्धनम् आङ्ग्लेयैः सोढुम् अशक्यम् अभवत् । तन्तुवायशाला सङ्घर्षः आङ्ग्लेयान् भाययति स्म । भारते स्थातव्यं चेत् चिदंबरस्य बन्धनम् आवश्यकम् इति ते अवगतवन्तः । ते तादृश अवसरार्थं प्रतीक्षमाणाः आसन् । व.उ.चि विदेशीयवस्तूनि निराकृतवान् । जनाः अपि निराकृतवन्तः । तदानीं विञ्च् एव मण्डलाधिकारि ,किन्तु जनाः चिदंबरस्य वचनानि एव आदेश रूपेण स्वीकृतवन्तः । जनानां चिदंबरस्य उपरि तादृशः आधरः आसीत् । तस्य् पृष्ठतः सामान्यकर्मकराः सर्वे आसन् । स्वातन्त्र्यसङ्घर्षभावनायाः ज्वाला जनानां मनस्सु संयक् ज्वलत् आसीत् । व.उ.चिदम्बरं पिळ्ळै यत् किमपि वदति चेदपि तत् कर्तुं जनाः सिद्धाः आसन् । चिदंबरस्य कालात् पूर्वं ये पठितवन्तः ते एव स्वातन्त्र्यसङ्घर्षे भागं गृहीतवन्तः । किन्तु सामान्यकर्मकरान् , सामान्यान् चिदंबरः एव स्वातन्त्र्यान्दोलने योजितवान् । ते सर्वे आङ्ग्लेयानाम् कृते कार्यं कर्तुम् सिद्धाः न आसन् । तेन आङ्ग्लेयानां कष्ठम् अभवत् । व.उ.चिदम्बरं पिळ्ळै स्वदेशीयनौकासंस्थां धनार्थं वा यशः प्राप्युं वा न आरब्धवान् । किन्तु तस्याः भागकर्ताराः धनं सम्पातयितुमेव इष्टवन्तः । ते चिदंबरस्य स्वातन्त्र्यसङ्घर्षे भाग स्वीकरणम् न इष्टवन्तः । किन्तु चिदंबरः तेषां मतं न अङ्गीकृतवान् । बङ्गस्य स्वातन्त्र्यस्ङ्घर्षस्य नेता “ विपिन्चन्द्रबालः “ १९०८ तमे वर्षे मार्च् ९ दिनाङ्के कारागृहात् स्वातन्त्र्यं प्राप्नोति इत्यासीत् । व.उ.चि तत् उत्सवरूपेण आचरितुम् इष्टवान् । तत् भवति चेत् जनानां मध्ये चिदंबरस्य भाषणं भवति । तत् आङ्ग्लसर्वकारेण न इष्टम् । अतः ते तं कारागृहे स्थापयितुं निश्चितवन्तः । किन्तु तं तूत्तुकुड्यां बन्धनं करोति चेत् जनानाम् उद्वेगः भवति इति मत्वा तं तिरुनेल्वेल्यां बन्धनं कर्तुं निश्चितवन्तः । तदर्थं तिरुनेल्वेलीम् आगत्य मिलतु इति सहमण्डलअधिकारिणा चिदंबरस्य कृते आज्ञा प्रेषिता । व.उ.चि तिरुनेल्वेलीम् प्रति प्रस्थितः । गच्छति चेत् बन्धितः भवति इति सर्वे अपि जानन्ति । अतः सर्वे गमनं मास्तु इति तं स्थगितवन्तः । किन्तु व.उ.चि सर्वेषां सान्त्वनं कृत्वा तस्य आत्मीयमित्रेण सुब्रह्मण्यशिवेन सह तिरुनेल्वेलीं गतवान् ।

सुब्रह्मण्यशिव:[सम्पादयतु]

सुब्रह्मण्यशिवः , मदुरै नगरस्य समीपस्थ “ वत्तलगुण्डु “ प्रदेशस्थः । तस्य प्रदेशस्य नायकस्य पुत्रः अस्ति । सः तमिळ् ,आङ्ग्ल भाषयोः निपुणः आसीत् । सः प्रति ग्रामं गत्वा मातृभूमेः स्वातन्त्र्यम् उद्दिश्य भाषणं कुर्वन् आसीत् । १९०७ तमे वर्षे तूत्तुकुड्यां जनानां मध्ये यदा भाषणं कृतवान् तदा चिदंबरेण दृष्टः । तस्य भाषणस्य शक्तिं ,देशभक्तिं च दृष्ट्वा चिदंबरः आकृष्टः । तदनन्तरं तौ द्वौ अपि मित्रे अभवन् । चिदंबरः ,शिवः च मिलित्वा जनेषु स्वातन्त्र्य दीपस्य ज्वालनं कृतवन्तौ । आङ्ग्लसर्वकारः तयोः कार्यं स्थगयितुम् इष्टवान् । द्वौ मिलित्वा मण्डलाधिकरेः दर्शनार्थं यदा गतवन्तौ तदा अधिकारि तौ द्वौ तिरुनेल्वेलीतः बहिर् गन्तुम् आदिष्टवान् , पुनः सार्वजनिक कार्यक्रमेषु भाषणं न करणीयम् इत्यपि आदिष्टवान् । चिदंबरः तत् न अङ्गीकृतवान् । अतः चिदंबरं ,शिवं च १९०८ तमे वर्षे मार्च् १२ दिनाङ्के बन्धितवन्तः ।

व.उ.चिदंबरस्य बन्धनस्य प्रतिकारः-१९०८[सम्पादयतु]

व.उ.चिदंबरस्य बन्धनम् ज्ञात्वा जनानाम् उद्वेगः अभवत् । आपणान् कीलितवन्तः । विद्यालयान् , महविद्यालयान् नाशितवन्तः । दिनद्वयं एतादृशी स्थितिः एव आसीत् । पत्रालयस्य ज्वालनं कृतवन्तः । आरक्षकालयस्य उपरि आक्रमणं कृतवन्तः । तूत्तुकुड्यां चिदंबरस्य बन्धनं शृत्वा जनाः निद्रां त्यक्तवन्त: । आपणाः कीलिताः । कोरल् तन्तुवायशालायाः कर्मकराः , पेस्ट् अन्ड् कम्पेनि कर्मकराः उद्योगार्थं न गतवन्तः । एवं नाविताः , रजकाः , अश्वचकटचालकाः च भागं स्वीकृतवन्तः । भारतस्य प्रथमः राजनैथिककार्यत्यागः एषः एव । १९०८ तमे वर्षे मार्च् १४ दिनाङ्कतः १९ दिनाङ्कपर्यन्तं आसीत् । सर्वे जनाः अपि तत्र भागं गृहीतवन्तः । सार्वजनिककार्यक्रमाः शोभायात्रा: च अभवन् । आरक्षकानां भुशुण्डि प्रयोगेन ४ मृतवन्तः । व.उ.चिदंबरः यदा कारागृहे आसीत् तदा तस्य मित्राणि तं जामीन् मध्ये बहिरागन्तुम् प्रार्थितवन्तः । शिवः ,पद्मनाभऐयङ्गार् च तेन सह आसीत् । सः तौ त्यक्त्वा पृथक् बहिरागन्तुं न इष्टवान् । एतेन अवसरेण तस्य सत्यसन्धतां ,धैर्यं च अवगच्छामः ।

चिदंबरस्य कारागृहवासः १९०८[सम्पादयतु]

आरक्षकाः चिदंबरस्य उपरि न्यायालये केस् बुक् कृतवन्तः १.व.उ.चिदम्बरं पिळ्ळै आङ्ग्लसर्वकारं विरुद्धिकृत्य भाषणं कृतवान् ( विभागः १२३ अ ) २.व.उ.चिदम्बरं पिळ्ळै सुब्रह्मण्यशिवस्य कृते आश्रयं दत्तवान् । ( विभागः १५३ अ ) वादप्रतिवादाः सत्यसन्धतया नासीत् इत्यतः तत्र भागं स्वीकर्तुं नाङ्गीकृतवान् चिदंबरः । मासद्वयं चलत् आसीत् । भारतीयाः सर्वे श्रद्धया अवलोकितवन्तः ।

न्यायादीशस्य पिन्हे वर्यस्य निश्चयः[सम्पादयतु]

१.आङ्ग्लसर्वकारस्य विरोधार्थं जनान् उद्वेजितवान् इत्यस्य दण्डना रूपेण २० वर्षाणि द्वीपानन्तरं प्रति प्रेषणीयः । २.शिवस्यकृते आश्रयं दत्तवान् इत्यस्य दण्डना रूपेण पुनः २० वर्षाणि द्वीपान्तरे भवितव्यम् ३. सुब्रह्मण्यशिवस्यकृते १० वर्षाणि कारागृहवासः ४० वर्षाणि द्वीपान्तर दण्डना ! कस्यापि कृते पूर्वं न दत्तम् आसीत् । तस्य उपरि आङ्ग्लेयानां बहु भयम् आसीत् । एतादृश्याः क्रूरदण्डनायाः कारणं तत् भयमेव । तं कारागृहे स्थापयति चेदेव तैः शासितुं शक्यते । व. उ. चिदंबरस्य तदानीं ३६ वयः एव अभवत् । एतादृश्याः क्रूरदण्डनायाः श्रवणेन भारतीयाः सर्वे चकिताः । “ बङ्गाली ” , “ स्वदेशमित्रः “ , “ इण्ड्या “ , “ स्वराज्या “ इत्यादयाः पत्रिकाः एतस्य विरुद्धं लिखितवत्यः । “ स्टेट्स्मेन् “ नाम आङ्ग्लपत्रिका अपि एतत् धर्मयुक्तं कार्यं न इति चिदंबरस्य त्यागः तु माहान् अस्ति , तस्य वन्दनम् एव करणीयम् अस्माभिः । ये आङ्ग्लसर्वकारस्य पक्षे आसन् ते अपि एतत् नाङ्गीकृतवन्तः । लार्ड् मार्लि भारतार्थम् नियुक्तः आङ्ग्लमन्त्री , सः एतं विषयं नाङ्गीकर्तुं शक्यते इति लार्ड्मन्ड्रोः कृते लिखितवान् । एतं निश्चयं विरुध्य चेन्नै न्यायलये आवेदनं कृतम् । तत्र १० वर्षाणि द्वीपान्तरदण्डना इति न्यूनी कृता । अन्दमान् प्रेषयितुं न शक्यते इति कारणेन कोवै कारागृहे स्थापितः । तस्य मित्राणि लण्डन् राजसभां ( प्रिव्यू कौन्सिल् ) प्रति एतं विषयं नीतवन्तः । तत्र ६ वर्षाणि एव दण्डनाकालः इति न्यूनीकृतः ।

कारागृहवासः १९०८-१९१२[सम्पादयतु]

व.उ.चिदम्बरं पिळ्ळै प्रथमं कोयम्बत्तूर् कारागृहे तदनन्तरं कण्णनूर् कारागृहे च आसीत् । अधुना राजनैथिककारागृहवासिनां कृते आदरः दीयते । किन्तु तदानीं एवम् नासीत् । कठिनानि कार्याणि करणीयानि भवति । व.उ.चिदम्बरं पिळ्ळै तु धनिकः आसीत् । गृहे उत्तम , आरोग्ययुक्त , स्वादुयुक्त भोजनमेव करोति स्म । किन्तु कारागृहे शिलाखण्डयुक्त , मृत्तिकायुक्त यवाहु एव स्वीकरणीयं अभवत् । कारागृहे तस्य कृते कठोरवस्त्राणि दत्तवन्तः । तस्य मुण्डनं कारयित्वा हस्तपादौ बन्धितवन्तः । कठिनानि कार्यानि कृतवान् । पाषाणखण्डानि भग्नं कृतवान् । तैलोत्पत्ति निमित्तम् एकम् उपकरणम् अस्ति ; तत् कारयितुं धेनोः चालनं क्रियते ,तत्र आङ्ग्लेयाः चिदंबरस्य उपयोगं कृतवन्तः । श्रेष्ठः अधिवक्ता धेनोः स्थाने अभवत् । एतेन चिदंबरस्य भारः न्यूनः जातः । वैद्यः कारागृहस्य अधिकारिणं कण्डितवान् । तदनन्तरं तस्मै तण्डुलेन निर्मितं भोजनं दत्तम् । पुनः स्वयं निर्मितं भोजनं खादितुं इति अनुमतिं दत्तवन्तः । वडुगुमारन् नाम कश्चन कदाचित् चिदंबरं नमस्कृतवान् । तत् दृष्ट्वा कारागृहाधिकारिणः कोपः आगतः । इतःपरं नमस्करोति चेत् पदरक्षया ताडनं प्राप्यते इति तं भायितवन्तः । वडुगुमारः तम् अधिकारिणं मारयियुं निश्चितवान् । किन्तु व.उ.चिदम्बरं पिळ्ळै तत् निवारितवान् । कदाचित् रविवासरे मध्यान्ने सर्वे कारागृहवासिनः मिलित्वा कलहं कृतवन्तः । तदा अधिकारी अपि ताडनं प्राप्तवान् । अतः ते सर्वेषां कृते कठोर दण्डनां दत्तवन्तः । व.उ. चि मित्राणां साहाय्येन न्यायालयं गत्वा दण्डनाकालं न्यूनीकृतवान् । न्यायलये कारागृहवासीनां पक्षे साक्षी आसीत् । स: अधिकारिणां दुर्व्यवहारः एव कलहस्य कारणम् इति सूचितवान् । कारागृहस्य निर्वाहकः एकं दिनं कारागृहस्य कार्यदर्शी भवति चेत् दण्डनाकालः न्यूनी क्रियते इति उक्तवन्तः । चिदंबरः तत् नाङ्गीकृतवान् । केरळस्थ कण्णणूर्कारागृहं प्रति परिवर्तितः चिदंबरः । तत्र दण्दनायाः नूतना शैली एका आसीत् । ऊर्णाच्छादकैः जनान् आवृत्य ताडयन्ति स्म । तत्रत्य अधिकारी क्रूरम् एकं मनुष्यं चिदंबरेण सह रात्रौ निद्रां कारितवान् । स्वाभाविकतया सः सर्वान् ताडयति स्म । किन्तु एक रात्र्यभ्यन्तरे चिदंबरस्य शिष्यः अभवत् सः मनुष्यः ।

आशस्य हननम्[सम्पादयतु]

आश् तिरुनेल्वेली मण्डलस्य मण्डलाधिकारि अस्ति । सः तूत्तुकुडी तन्तुवायानाम् कार्यत्यागसङ्घर्षसमये चिदंबरस्य् बन्धनार्थं प्रवृत्तस्य सङ्घर्ष समये जनानां मध्ये कठोरतया व्यवहृतवान् । सः तूत्तुकुडी समीपस्थ मणियाच्ची रेल् स्थानके भुशुण्डी प्र्योगेन मारितः । चेङ्गोट्टै प्रदेशस्थ वाञ्ची नाम क्रान्तिकारी युवकः एतत् कार्यं साधितवान् । तत् क्षणमेव सः स्वयमपि आत्महत्यं कृतवान् । चिदंबरस्य एतादृश्याः कठोरदण्डनायाः कारणकर्ता आश् इति कारणेन एव तं मारितवान् वाञ्ची । एतां वार्तां ज्ञात्वा चिदंबरः आश्चर्यचकितः । युवकाः एवं जीवत्यागं कुर्वन्ति इति सः बहु दुःखम् अनुभूतवान् । पुनश्च सः आङ्ग्लाधिपत्यस्य् एव विरोधं कृतवान् , न आङ्ग्लेयानाम् । व.उ.चि यदा कारागृहे आसीत् तदा नौका संस्था नष्टा अभवत् । तं विहाय नौका संस्थां चालयितुं कस्यापि सामर्थ्यं नासीत् । ते नौकां विक्रीतवन्तः । तदपि एस्.एस्. गलिलियो नामिकां नौकाम् आङ्ग्लेभ्यः एव विक्रीतवन्तः । तत् शृत्वा व.उ.चि बहु खेदम् अनुभूतवान् । तां क्रेतुं सः कीदृशानि कार्याणि कृतानि आसन् तेन ! १९१२ तमे वर्षे दिसंबेर् २४ दिनाङ्के कारागृहात् मोचितः चिदंबरः । तदा राजनैथिक क्षेत्रे बहूनि परिवर्तनानि जातानि आसन् । सत्याग्रहम् इत्यादयाः सङ्घर्षाः आरब्धाः आसन् । तादृशानां सङ्घर्षाणां विषये तस्य सम्मतिः नासीत् । स्वेच्छानुसारं अनुवर्त्यते चेत् तत् स्वतन्त्रान्दोळनस्य विघ्नाय भवति । तेन पृथक् एकस्य पक्षस्य आरंभं कर्तुं शक्यम् आसीत् चेदपि सः न कृतवान् । तेन तस्य देशभक्तिं , उदारस्वभावं च अवगच्छामः ।

स्वतन्त्रानन्तरं चिदंबरस्य जीवनम्[सम्पादयतु]

व.उ.चि कारागृहवासं समाप्य स्वातन्त्र्य प्राप्ति अनन्तरं [[चेन्नै] , कोयम्बत्तूर् , कोविल्पट्टी , तूत्तुकुडी इत्यादीषु प्रदेशेषु वासं कृतवान् ।

चेन्नै जीवनम् ( १९१३-१९३६ )[सम्पादयतु]

कारागृहात् मोचनं प्राप्य सः चेन्नैं गतवान् । तत्र मृत्तैलस्य वाणिज्यं कृतवान् । किन्तु सः वणिक् रूपेण विजयं प्राप्तुं न शक्तवान् । स: उदारमनस्कः , स्नेहपूर्णहृदय युक्तः आसीत् । तेन कथं वाणिज्ये विजयं प्राप्तुं शक्यते ? १९२० तमे वर्षे कल्कत्ता नगरे काङ्ग्रेस् समावेशः आसीत् । व.उ.चि तत्र प्रतिनिधि रूपेण भागं गृहीतवान् । सः लोकमान्यतिलकस्य अनुयायी अस्ति । तिलकः कर्मवीरः । अतः चिदंबरः गान्धीवर्यस्य मार्गम् अनुसर्तुं न इष्टवान् । तेन चिन्तितम् यत् गान्धीवर्यस्य मार्गः अनुसरणीयः उत स्वमनसः इति । अन्ते स्वमनसः निश्चयम् अङ्गीकृतवान् । अतः सः राजनैथिकक्षेत्रात् दूरं गतवान् । किन्तु चिदंबरस्य ,गान्धीवर्यस्य च मनसि परस्परम् आदरः आसीत् । गान्धीवर्यः चिदंबरस्य निस्स्वार्थ कार्यकरण विषये जानाति स्म । चिदंबरस्य अपि गान्धीवर्यस्य सरल जीवनस्य ,शुद्धतायाः विषये बहुमानम् आसीत् । व.उ.चिदंबरस्य बहूनि पुस्तकानि सः यदा चेन्नै नगरे आसीत् तदा एव प्रकाशितानि । सः कारागृहं गत्वा आगतवान् इति कारणेन अधिवक्ता रूपेण कार्यं कर्तुम् अनुमतिः नासीत् । तिलकः तस्मै प्रति मासं ५० रूप्यकाणि प्रेषयन् आसीत् ।

कोयंबत्तूर् जीवनम् ( १९२०-१९२४ )[सम्पादयतु]

कोयंबत्तूरे कर्मकराणां सङ्घ कार्येषु तीव्रतया भागं गृहीतवान् । तत्र वित्तकोषे सञ्चालक रूपेणापि कार्यं कृतवान् । तेन प्राप्तः आयः तस्य कृते पर्याप्तमात्रं नासीत् । व.उ.चि. कारागृहे आसीत् चेदपि राजनैथिक-कारगृहवासी एव आसीत् इत्यतः अधिवक्ता रूपेण कार्यं कर्तुम् अनुमतिं ददातु इति सर्वकारस्य समीपं प्रार्थितवान् । ई.हेच्. वालस् १९०८ तमे वर्षे तिरुनेल्वेल्यां कार्यं कुर्वन्नासीत् इत्यतः सः चिदम्बरस्य सत्यसन्धतायः , चातुर्यस्य विषये सम्यक् जानाति स्म । अतः सः अनुमतिं दत्तवान् । तस्य कार्यस्य कृतज्ञतां ज्ञापयितुं स्वस्य कनिष्ठपुत्रस्य कृते “ वालेश्वरन् “ इति नामकरणं कृतवान् ।

कोविल्पट्टी जीवनम् ( १९२४-१९३२ )[सम्पादयतु]

कोविल्पट्यां सः अधिवक्ता रूपेण कार्यं कृतवान् । तत्रापि सः निर्धनेभ्यः , स्वातन्त्र्य सङ्घर्षवीरेभ्यः एव निश्शुल्कं वादं कृतवान् । १९२७ तमे वर्षे पुनः काङ्ग्रेस् पक्षे योजितवान् । सेलं नगरे प्रवृत्ते तृतीय संमेलने भागं गृहीत्वा अध्यक्षभाषणं कृतवान् । पक्षस्य कार्येषु परिवर्तनानि दृश्यन्ते , तद्दृष्ट्वा आनन्दम् अनुभवामि इति उक्तवान् । किन्तु सेलं मेलनानन्तरं पुनः दूरे एव स्थितवान् । पक्षस्य कार्येभ्यः दूरे तिष्ठन्नासीत् चेदपि अन्तिमपर्यन्तं तिलकस्य शिष्यः एव आसीत् । अन्तिम श्वास पर्यन्तं आङ्ग्लादिक्यस्य विरोधं कुर्वन्नेव आसीत् ।

तूत्तुकुडी जीवनम् ( १९३२-१९३६ )[सम्पादयतु]

१९३२ तमे वर्षे तूत्तुकुडीं प्रति आगतः । तमिळ् ग्रन्थानां लेखनेन तस्य समयः यापितः । तमिळ् साहित्य विषये मित्रैः सह चर्चाम् अपि करोति स्म । सः स्वतन्त्र भारतस्य वायुं श्वासं कर्तुम् इष्टवान् । द्वितीय लोक युद्धः भवति चेत् भारतं निश्चयेन स्वतन्त्रं प्राप्नोति इति उक्तवान् । तथैव द्वितीय लोक युद्धानन्तरं १९४७ तमे वर्षे आगस्ट् १५ दिनाङ्के भारतस्य स्वतन्त्रः प्राप्तः । व.उ.चि १९३६ तमे वर्षे नवेम्बेर् १८ दिनाङ्के दिवङ्गतः ।

तमिळ् पण्डितः व.उ.चि.[सम्पादयतु]

चिदंबरेण लिखिताः ग्रन्थाः[सम्पादयतु]

चिदंबरेण लिखिताः ४ ग्रन्थाः अपि पद्याः । ते च १. मेय्यरम् २. मेय्यरिवु ३. पाडल् तिरट्टु ४. स्वचरितम्

मेय्यरम्-१९१४[सम्पादयतु]

मेय्यरम् नाम सत्यधर्मः इत्यर्थः । ग्रन्थेस्मिन् १२५ अधिकाराः सन्ति । प्रत्येकाधिकारेऽपि १० श्लोकाः सन्ति । एकस्मिन् श्लोके एका पङ्तिः भवति । अस्मिन् ग्रन्थे ५ भागाः सन्ति । प्रथमः भागः छात्राणां कृते अस्ति । तस्मिन् ३० अधिकाराः सन्ति । द्वितीयः भागः गृहस्थानां कृते अस्ति । तस्मिन्नपि ३० अधिकाराः सन्ति । तृतीय भागे एकः महाराजः कथं भवेत् इति विवृतम् अस्ति । ५० अधिकाराः तृतीय भागे अन्तर्भवन्ति । चतुर्थ भागे १० अधिकाराः सन्ति । सन्मार्ग विषये सः बोधयति । अन्तिम भागे ५ अधिकाराः सन्ति । तैः कथं सत्यं प्राप्तुं शक्यम् इति बोधयति चिदंबरः ।

मेय्यरिवु-१९१५[सम्पादयतु]

मेय्यरिवु इत्युक्ते सत्यज्ञानम् । चिदंबरः यदा कण्णणूर् कारागृहे आसीत् धर्ममार्ग विषये कारागृहवासीन् बोधयति स्म । उपदेशम् अपि करोति । तदा ते पद्य रूपे अस्ति चेत् कण्ठपाठं कर्तुम् सरलं भवति इति उक्तवन्तः । तदर्थं तेन रचिताः एव सत्य ज्ञानम् नाम ग्रन्थः अस्ति । अस्मिन् ग्रन्थे १० अधिकाराः सन्ति । प्रत्येकाधिकारे १० श्लोकाः सन्ति । एकस्मिन् श्लोके ४ पादाः सन्ति । अस्मिन् ग्रन्थे आत्म साक्शात्कार विषये , आरोग्यस्य संरक्षण विषये , मनसः नियन्त्रण विषये च बोधयति ।

पाडल् तिरट्टु -१९१५[सम्पादयतु]

विभिन्नेषु अवसरेषु चिदंबरेण लिखितानां गीतानां सङ्ग्रहः अस्ति एषः ग्रन्थः । पाडल् तिरट्टु नाम गीतसङ्ग्रः इत्यर्थः भवति । एषः ग्रन्थः चिदंबरेण लिखितेषु ग्रन्तेषु श्रेष्ठतमः ग्रन्थः अस्ति ।

स्वचरितम् -१९४६[सम्पादयतु]

अत्र भागद्वयम् अस्ति । प्रथमः भागः १९१६ तमे वर्षे प्रकाशितः । तस्मिन् तस्य बाल्यकाल विषये , अध्यापकनां , कुटुम्भस्य अध्ययन विषये लिखितम् अस्ति । द्वितीयः भागः १९३० तमे वर्षे प्रकाशितः । तस्मिन् कारागृहवासविषये , आश् हननं , कारागृहात् मोचनम् इत्यादीषु विषयेषु लिखितवान् अस्ति । तस्य मरणात् १० वर्षानन्तरम् १९४६ तमे वर्षे एषः भागः प्रकाशितः । त्तस्मिन् वर्षे भागद्वयमपि योजयित्वा प्रकाशितवन्तः ।

चिदंबरेण लिखितानि भाष्याणि[सम्पादयतु]

व.उ.चि. इन्निलै , शिवध्यान बोधं , तिरुक्कुरळ् इत्यादीनां ग्रन्थानां कृते भाष्यं लिखितवान् ।

इन्निलै-१९१७[सम्पादयतु]

व.उ.चिदंबरः रत्नकविरायेन लिखितस्य इन्निलै नाम ग्रन्थस्य कृते भाष्यं लिखितवान् । तस्य ग्रन्थस्य पठनेन चिदंबरस्य व्याकरण ज्ञानम् अवगंयते ।

शिवज्ञानबोधम् -१९३५[सम्पादयतु]

शिवज्ञानबोधं एकः भक्तिग्रन्थः । एतस्य ग्रन्थस्य भाष्यं चिदंबरेण अत्युत्तमतया लिखितम् । एतस्य ग्रन्थस्य विषये व.उ.चि. अघात चिन्तनं कृतवान् इत्यतः तत्त्व , भक्ति विषययोः श्रेष्ठः अभवत् । एतस्मिन् ग्रन्थे चिदंबरः मतभेदत्व विषये खण्डयति । “ अहं , मम इति येषां ममत्वम् अस्ति ते एव मतभेदत्वं कल्पयन्ति । देशस्य अस्याम् अवस्थायां भेदत्व कल्पनं हानिकरं भवति इति लिखितवान् अस्ति ।

तिरुक्कुरळ् -१९३५[सम्पादयतु]

पुरातन तमिळ् साहित्य ग्रन्थेषु तिरुक्कुरळ् , तोल्काप्पियम् इत्येतौ ग्रन्थौ चिदंबरस्य प्रियतमौ स्तः । तस्य भाष्येण तस्य गाढ व्याकरणज्ञानम् अवगंयते । तस्य अर्थ कथन शैली , अन्य ग्रन्थैः सह तोलन शैली , व्याकरण टिप्पण्यः च तस्य ज्ञानस्य वैशाल्यं सूचयन्ति ।

व.उ.चिदम्बरेण प्रकाशिताः ग्रन्थाः[सम्पादयतु]

1. तिरुक्कुरळ् ( मणक्कुडवर् भाष्य सहितम् )- १९१७ 2. तोल्काप्पियम् ( इळंपूरनार् भाष्य सहितम् ) -१९२८

चिदंबरेण लिखिताः लेखाः[सम्पादयतु]

व.उ.चिदम्बरं पिळ्ळै विभिन्न विषयान् अधिकृत्य विभिन्नासु पत्रिकासु लेखाः लिखितवान् अस्ति । धनस्य अभावेन ताः न प्रकाशिताः । दौर्भाग्य वशात् हस्तेन लिखिताः अपि न प्राप्यन्ते ।

व.उ.चिदंबरस्य राजनैथिक भाषणम्[सम्पादयतु]

चिदंबरः श्रेष्ठः भाषकः अस्ति । सेलं नगरे तेन कृतं भाषणं “ एनदु पेरुञ्चोल् “ ( मम महा वाक्यं ) नाम्नि पुस्तक रूपेण प्रकाशितम् अस्ति ।

पत्रिकायाः संपादकः व.उ.चिदम्बरं पिळ्ळै[सम्पादयतु]

व.उ.चिदम्बरं पिळ्ळै “ विवेकभानु “ , “ इन्दुनेसन् “ , “ दि नेशनल् “ पत्रिकासु सम्पादकः आसीत् ।

अनुवादकः व.उ.चि[सम्पादयतु]

व.उ.चिदम्बरं पिळ्ळै ४ पुस्तकानाम् अनुवादं कृतवान् अस्ति । तानि सर्वाणि अपि जेम्स् आलन् वर्येन लिखितानि । अनुवादने अपि सः चतुरः आसीत् ।

अवमर्शः[सम्पादयतु]

“ व.उ.चिदंबरस्य भाषणं , महाकवि भारतेः गीतानि च शृणोति चेत् शवः अपि जीवं प्राप्नोति “ १९०८ तमे वर्षे यदा मरणदण्डना द्वयं प्रदत्तं तदा न्यायादीशेन लिखितं वाक्यम् एतत् । एतेन चिदंबरस्य स्वतन्त्र प्राप्तेः उद्वेगः अवगंयते । चिदंबरः स्वस्य आरोग्यं , सम्पत् सर्वम् अपि देशस्य कृते एव समर्पितवान् । कठोराणि शिक्षणानि प्राप्तवान् । मातृभूमेः कृते सः सर्वं सोढवान् । सः धीरः अस्ति । स्वदेशी नौका चालने , समान्यानां कृते सङ्घर्ष चालने , कर्मकरेभयः सङ्घानाम् सम्स्थापने अग्रेसरः आसीत् चिदंबरः । काङ्ग्रेस् पक्षस्य कार्येण सह अभिप्राय भेदः आसीत् चेदपि अन्तिम श्वासपर्यन्तं काङ्ग्रेस् पक्षे आसीत् । व.उ.चि सद्गुणैः पूरितः । तमिळ्भाषायाः उपरि अपि तस्य बहु आसक्तिः आसीत् । प्राविण्यमपि आसीत् । भारतस्य नेतृणां कृते उदाहरणपुरुषः आसीत् ।

प्रथिमाः[सम्पादयतु]

1. चेन्नै नगरे रायपेट्टै प्रदेशे काङ्रस् कार्यालये ( १९३९ ) अस्ति । 2. तिरुनेल्वेली नगरे पाळयङ्कोट्टै प्रदेशे अस्ति । 3. चेन्नै मरीना समुद्रतटे अस्ति । 4. तूत्तुकुडी समुद्रतटे अस्ति । ( पूर्वतन प्रधानमन्त्र्या इण्द्रागान्ध्या स्थापिता ) 5. मदुरै सिम्मक्कल् प्रदेशे अस्ति । ( मुख्यमन्त्री- एम्.जी.रामचन्द्रेण स्थापिता ) 6. तिरुनेल्वेली व.उ.चिदम्बरं पिळ्ळै स्मारकभवने अस्ति । ( मुख्यमन्त्री-जेयललितया स्थापिता ) इतोपि विभिन्नेषु स्थलेषु तस्य प्रथिमाः स्थापिताः सन्ति । मार्गेभ्यः , विद्यालयेभ्यः , भवनेभ्यः तस्य नामकरणं कृतम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=व_उ_चिदम्बरम्_पिळ्ळै&oldid=297765" इत्यस्माद् पुनः प्राप्तिः