शाकाहाराः प्राणिनः
पठन सेटिंग्स
ये शाकमात्रेण जीवन्ति, मांसं कदापि न खादन्ति, ते शाकाहाराः प्राणिनः यथा गौः ,महिषी, अजा।तेषाम् एतानि लक्षणानि -
- १ दन्ताः पृथवः स्थूलाः च।
- २ नखानि अतीक्ष्णानि।
- ३ चर्वणम् कृत्वा अन्नं निगिरन्ति।
- ४ हनुसन्धिः ऊर्ध्वं तथा अधः चलति, वामतः दक्षिणतः अपि चलति।
- ५ जिह्वा मृदुस्पर्शा।
- ६ जलपानकाले जिह्वा मुखाद् बहिः न आगच्छति।
- ७ अन्त्रस्य दैर्घ्यम् अधिकम्म्।प्रायः शरीरदैर्घ्यस्य चतुर्गुणितम् अन्त्रदैर्घ्यम्। अतः भक्षितम् अन्नं प्रदीर्घ-कालेन देहाद् बहिः निःसरति।
- ८ यकृत् तथा वृक्कौ इति एते अवयवाः ह्रस्वाः।
- ९ जठरे हायड्रोक्लोरिक-अम्लस्य प्रमाणम् अल्पम्।
- १० देहस्थितिः क्षारप्राया।
- ११ नवजातस्य अर्भकस्य जन्मनः आरभ्य दृष्टिः अस्ति।
- १२ स्वेदः अस्ति।
- १३ नेत्रे अर्धवर्तुलाकारे स्तः।
- १४ रात्रौ मन्दं पश्यन्ति, दिवा स्पष्टं पश्यन्ति।
- १५ यूथं कुर्वन्ति।
- १६ आघ्राणशक्तिः मन्दा।
- १७ क्षुधाकुलाः चेत् अपि स्वशावकान् न खादन्ति।