श्रीकृष्णभट्टः
कविपरिचयः
[सम्पादयतु]श्रीकृष्णभट्टस्य (Srikrishna Bhatta) स्थितिकालः - १६७५ क्रिस्ताब्दतः १७६१ क्रिस्ताब्दपर्यन्तं स्वीक्रियते । अयम् आन्ध्रप्रदेशस्य तैलङ्गब्राह्मणपरिवारे जनिं लेभे । अयं जयपुरनरेशस्य द्वितीयजयसिंहस्य तत्पुत्रस्य ईश्वरसिंहस्य च सभापण्डितः आसीत् । तौ १६११ तः १७५० वर्षपर्यन्तं शासनं चक्रतुः । ततः पूर्वं कविः बून्दीराज्याश्रये अतिष्ठत् ।
कृतिपरिचयः
[सम्पादयतु]- ईश्वरविलासमहाकाव्यम्
- राघवगीतम्
- सुन्दरीस्तवराजः
- पद्यमुक्तावली
- वृत्तमुक्तावली चास्य प्रमुखकाव्यरचनाः सन्ति ।
काव्यकला
[सम्पादयतु]आश्रयदातुः प्रशस्तिगानमेव अस्य महाकाव्यस्य प्रयोजनम् । यद्यपि कथानकमत्र ऐतिहासिकं, परं कल्पनापक्षः एव प्रबलः । ऐतिहासिकतथ्यानां घटनानाञ्च यथार्थचित्रणे न कवेराग्रहः । संस्कृतकाव्यपरम्पराम् अनुसृत्य तेन चरित्रचित्रणे घटनावर्णने च अलौकिकतायाः मिश्रणं कृतम् । अत एव ऐतिहासिकघटनाचक्रस्य प्राधान्येऽपि अत्र काव्यत्वहानिः नानुभूयते । ऐतिहासिकघटनोल्लेखे कविः स्वकल्पनावैभवमपि प्रदर्श्यत्येव । यथा -
- कृतं राजाधिराजेन हयमेधं महामखम् ।
- जगुर्गन्धर्वपतयः स्वयम्भूसदनान्तरे ॥
कविः पात्रचरित्रचित्रणे सावधानः । चरितनायके ईश्वरसिंहे तेन धीरोदात्तनायकोचितानि सर्वाणि लक्षणानि सम्यक् प्रदर्शितानि । तद्यथा -
- वसुन्धरायाः कमनः क ईश्वरो
- द्विषच्चमूनां दमनः क ईश्वरः ।
- दरिद्रतायाः शमनः क ईश्वरः
- कविव्रजैरित्थमुपास्य ईश्वरः ॥
ईश्वरविलासे विलक्षणा प्रौढिरस्ति । अत्र कल्पनायां रमणीयता सरसता मौलिकता च सन्ति । शैल्यां चास्ति प्राञ्जलता । अत्र भावकलापक्षयोः सामञ्जस्यं संलक्ष्यते । भावानां गाम्भीर्यं, रसानां परिपाकः, भाषायाः रमणीयता, अलङ्काराणां स्वाभाविकता चास्य वैशिष्ट्यम् ।