श्री कण्ठीरवः नरसिंहराज ओडेयर् बहद्दूरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्री कण्ठीरवः नरसिंहराज ऒडॆयर् बहद्दूरः (Shree Kanteerava Narasimharaaja Odeyar) अध्यक्षावधिः - क्रि.श. १९२४ तः १९४०पर्यन्तम् . अस्य अध्यक्षावधौ सञ्चालितानि कन्नडसाहित्यसम्मेलनम् ।

  • १. दशमसाहित्यसम्मेलनम् - कोलारम् - क्रि.श. १९२४तमवर्षे । अध्यक्षः - होसकोटे कृष्णशास्त्री ।
  • २ .एकादशमसाहित्यसम्मेलनम् - बेळगावी - क्रि.श. १९२५तमवर्षे । अध्यक्षः - बेनगल् रामरायः ।
  • ३. द्वादशसाहित्यसम्मेलनम् - बळ्ळारी - क्रि.श. १९२६तमवर्षे । अध्यक्षः - प.घु.हळकट्टि ।
  • ४. त्रयोदशमसाहित्यसम्मेलनम् - मङ्गळूरु - क्रि.श. १९२७तमवर्षे । अध्यक्षः - आर्. ताताचार्यः ।
  • ५. चतुर्दशमसाहित्यसम्मेलनम् - कलबुर्गी - क्रि.श.१९२८तमवर्षे । अध्यक्षः - बि.एम्.श्रीकण्ठय्यः ।
  • ६. पञ्चदशमसाहित्यसम्मेलनम् - बेळगावि - क्रि.श. १९२९तमवर्षे । अध्यक्षः - मास्ति वेङ्कटेश अय्यङ्गार्यः ।
  • ७. षोडषसाहित्यसम्मेलनम् - मैसूरु - क्रि.श. १९३०तमवर्षे । अध्यक्षः - आलूरु वेङ्कटरायः ।
  • ८. सप्तदशमसाहित्यसम्मेलनम् - कारवारम् - क्रि.श. १९३१तमवर्षे । अध्यक्षः - मुळिय तिम्मप्पय्य ।
  • ९. अष्टादशमसाहित्यसम्मेलनम् - मडिकेरी - क्रि.श. १९३२तमवर्षे । अध्यक्षः - डि.वि.गुण्डप्पः ।
  • १०. नवदशमसाहित्यसम्मेलनम् - हुब्बळ्ळि - क्रि.श. १९३३तमवर्षे । अध्यक्षः - वै.नागेशशास्त्री ।
  • ११. विंशतितमसाहित्यसम्मेलनम् - राजचूरु - क्रि.श. १९३४तमवर्षे । अध्यक्षः - पञ्जेमङ्गेशरायः।
  • १२. एकविंशतितमसाहित्यसम्मेलनम् - मुम्बै- क्रि.श. १९३५तमवर्षे । अध्यक्षः - एन्.एस्.सुब्बरावः ।
  • १३. एकविंशतितमसाहित्यसम्मेलनम् - जमखण्डि - क्रि.श. १९३७तमवर्षे । अध्यक्षः - बेळ्ळावे वेङ्कटनारणप्प ।
  • १४. द्वविंशतितमसाहित्यसम्मेलनम् - बळारी- क्रि.श. १९३८तमवर्षे । अध्यक्षः - रं.रा.दिवाकरः ।
  • १५. चतुर्विंशतितमसाहित्यसम्मेलनम् - बेळगावी - क्रि.श. १९३९तमवर्षे । अध्यक्षः - मुदवीडु कृष्णरायः ।

उपाधयः[सम्पादयतु]

क्रि.श. १९१५तमवर्षे ब्रिटिश् सर्वकारेण जि.सि.ऐ.इ. इति उपाधिः । क्रि.श. १९१८तमवर्षे ब्रिटिश् सर्वकारेण हिस् हैनेस् इति उपाधिः ।

  • जन्मदिनाङ्कः - क्रि.श. १८८८तमवर्षस्य जुलैमासस्य पञ्चमदिनम् ।
  • जन्मस्थानम् - मैसूरु
  • मातापितरौ - चामराजेन्द्र ओडेयर् केम्पुनञ्जम्मण्णि ।
  • अध्ययनम् - सर् स्टुयूयर्ट् फ्रेसर् इति स्थानस्य ग्रीष्मप्रासादे अध्ययनम् । क्रि.श. १९०३तमे वर्षे अज्मीरस्य मेयो राजकुमारमहाविद्यालये उन्नतशिक्षा । मैसूरुनगरे क्याप्टन् आर्.जे.डब्ल्यू हिल् तथा एम्.ए.नारायण अय्यङ्गार्यः इत्येतयोः गुरुत्वे अध्ययनम् ।

वृत्तिजीवनम्[सम्पादयतु]

क्रि.श. १९०२तमवर्षात् मैसूरुसंस्थानस्य युवराजपदम् । मिथिक् सोसैटि इति सङ्घटनस्य प्रधानोपपोषकः । मैसूरुविश्वविद्यालयस्य तात्कालिकः उपकुलपतिः ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

क्रि.श. १९०२तमे वर्षे प्रदत्ता नैट् कमाण्डर् इति प्रशस्तिः । परम्परया प्राप्ता युवराजपदम् । |

कौटुम्बिकजीवनम्[सम्पादयतु]

पत्नी केम्पु चेलुवाजम्मण्णि । क्रि.श. १९१०तमवर्षे दळवायी देवराजे अरसु इत्यस्य पुत्रीं चेलुवाजम्मण्णि इति कन्यां परिणीतवान् । पुत्रः जयचामराज ओडेयर् ।

योगदानम्[सम्पादयतु]

युवराजः नरसिंहराज ओडेयर् अध्ययनेन सह आङ्गिकव्यायामः अश्वारोहणम्, मृगयात्रा, क्रिकेट्, टेन्निस्, पोलो इत्याद्याः क्रीडाः अतीव प्रियाः । बाल्ये एव राज्ये सर्वत्र प्रवासं कृत्वा जनानां जीवनं स्थितिगतिः इत्यादीन् विषयान् सङ्गृह्णाति स्म । तदाधारेण ग्रामीणजननां जीवनसमृद्धये बहुकार्याणि कृतवान् । क्रि.श. १९०८-०९तमवर्षेषु जपान् देशं सन्दृश्य तस्य देशस्य तान्त्रिकसामर्थ्यस्य कारणं ज्ञातवान् । तत्सर्वं तदानीन्तनकाले मैसूरुराज्ये अपि अनुष्ठातुं प्रायतत । क्रि.श. १९१३तमे वर्षे ऐरोप्यदेशेषु प्रवासं कृत्वा इङ्ग्लेण्ड्, फ्रान्स्, इटलि, स्विट्ज़र्लेण्ड्,बेल्ज़ियं राष्ट्रानि सन्दृश्य तेषां राज्यप्रशसनविषये अधिकं ज्ञातवान् । प्रथममहायुद्धे पीडितकुटुम्बानां परिहारार्थं निधिसङ्ग्रहं कृतवान् । मैसूरुप्रदेशस्स्य योधानां सौकर्यार्थं पृथक् धननिधिं स्थापितवान् । एषः मैसूरुसंस्थानस्य स्कौट् आन्दोलनस्य नेता रेड् क्रास् संस्थायाः सदस्य च आसीत् । गर्भवतीनां शिशूनां च चिकित्सार्थं पृथक् वैद्यालयानां प्रतिष्ठापितवान् । अविकसितसमाजस्य छात्राणां सौकर्यार्थं निश्शुल्कछात्रावासं निर्मितवान् । सर्वमतधर्मान् समानदृष्ट्या पश्यति स्म । हिन्दुमुसल्मानैकतां साधयितुं नितरां प्रयत्नमकरोत् । युवराजस्य अवस्थायाम् एव अस्य कार्यनिष्ठां कौशलं च ज्ञात्वा महाराजः एतस्मै सेनागणस्य, आरक्षकविभागस्य, वैद्यविभागस्य, नैर्मल्यस्य, कारागृहस्य च दायित्वं समर्पितवान् । अधिकारं सम्यक् कृत्वा महाराजस्य सर्वकारस्य च प्रशंसापात्रम् अभवत् ।