संस्कृतम्- भारतस्य सांस्कृतिकभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

साम्प्रतं मातृभाषा राष्ट्रभाषा राजभाषा लोकभाषा इत्यादि विविधनामभिः एव भाषा: ज्ञायन्ते। संस्कृतस्य तु देवभाषा पौराणिकभाषा सहजशास्त्रियभाषा इत्यादि नाम्ना प्रसिद्धः अस्ति एव। संस्कृतस्य अस्तित्वम् अद्यतनावश्यकता वा केवलं पूर्वोक्तनामभिः प्रसिद्धं भवतु इति न, अपि तु भारतस्य सांस्कृतिकभाषा इत्येवं भवतु इति भारतस्य उच्चतमन्यायलयेन (सुप्रीं कोर्ट्)अपि एतत्स्पष्टीकृतम् अस्ति ।

सर्वाः अपि भाषाः स्वसंस्कृतेः प्रसारार्थं विद्यमानाः उपायाः भवन्ति इति भाषाशब्दनिर्वचनतः अवगम्यते। तथा – आशयविनिमयार्थं या उपाधिःसा भाषा –इति। आशयविनिमयः नाम आशयस्य विनिमयः, आशयः इत्युक्ते संस्कारः इत्यर्थः यतः आशेरते इत्याशयः इति व्युत्पत्तिः । अतः संस्कारस्य परम्परापरिवर्तनमेव भाषायाः मुख्यं लक्ष्यम् ।

मलयाळं मलयाळसंस्कृतिं कन्नड कर्णाटकसंस्कृतिं तमिल् तमिल्-संस्कृतिं मराठी महाराष्ट्रसंस्कृतिं हिन्दी हिन्दीसंस्कृतिम् आङगलम् आङगलेयसंस्कृतिं च निरन्तरं प्रसारयति । भारतीयसकलभाषाणामपि स्वस्वसंस्कारान् सर्वान् अपि संरक्ष्य सर्वभारातैकस्वभावभूतां सनातनसंस्कृतिं सर्वत्र सम्प्रसारयति सर्वभाषाजननी इयं संस्कृतवाणी। भाषाशास्त्रदृष्ट्या अपि सर्वभाषासु ५०% तः ९०% यावत् संस्कृतशब्दाः सन्ति। अतः संस्कृतभाषया प्रचलिता संस्कृतिः कीदृशी भवतीति अवलोकनम् असमञ्जसं न भवति।

संस्कृतं व्याकरणादिघटनाविशेषेषु साहित्यादिग्रन्थतल्लजेषु च भारतीयसंस्कृतिं वहति। सा वेदोक्ता त्यागप्रधाना सर्वश्रेष्ठा सर्वादरणीया सनातनी च भवती इत्यत्र न कोऽपि विवादः । स्वदेशो भुवनत्रयम्, विश्वं भवत्येकनिडम्, कृण्वन्तो विश्वमार्यम्, वसुधैव कुटुम्बकम्, मातृदेवोभव, पितृदेवोभव, आचार्यदेवोभव, अतिथिदेवोभव, न कश्चित् दुःखमाप्नुयात्, लोकाः समस्ताः सुखिनो भवन्तु, पुज्यपूजाव्यतिक्रमो पापाय इत्यदि श्रुत्याधारिता खलु त्यागोज्ज्वला परोपकारकेन्द्रिता च सनातनभारतसंस्कृतिः । चिरपुरातनां नित्यनूतनाम् एतामेव वहति संस्कृतभाषा स्वघटनापरेण चांशेन।

घटनापरे कार्ये संस्कृतमपि भाषा इत्यनेन भाषायाः आधारभूतं वाक्यं एकतिङ् वाक्यम् इत्यनेन क्रियापदं च प्रथमं परिगण्यते । एतस्मिन्नवसरे संस्कृतस्य इतरभिन्ना वैशिष्ट्यरूपा पुरुषकल्पना एव प्रथमगणनेया भवति । प्रथमपुरुषः, मध्यमपुरुषः,उत्तमपुरुषः इति पुरुषत्रयम् । प्रथमगणनीयः 'सः' प्रथमपुरुषः, मध्यमगणनीयः 'त्वं' मध्यमपुरुषः इत्येवं पुज्यपूजाविधिं यथाक्रमं पालयति इत्यतः 'अहम्' उत्तमपुरुषः च । तृतीयम् अतिथिं प्रपूज्यैव त्वंपदवाच्यं मित्रं सत्कारोति । 'अतिथिदेवोभव', इति श्रुतितामैत्पर्यमत्र द्रष्टुं शक्यते ।

अपि च संस्कृते विद्यामानपरस्मैपदि आत्मनेपदि उभयपदि इत्यादि सङ्कल्पः अपि परिशीलनीयः। संस्कृते विद्यमानानां सकलधातूनामपि पुर्वोक्तरीत्या विभजनं कृतमस्ति । परस्मैपदी इत्युक्ते परस्मै-परोपकाराय,पदं- पदविन्यासः(प्रवृत्तिः) अस्य अस्ति इति पदि । एवं परोपकारप्रवृत्तिसूचकधातवः अस्मिन् गणे अन्तर्भवन्ति । आत्मनेपदी इत्यस्मिन् स्वस्य निमित्तं क्रियामाणप्रवृत्तिसूचकधातवः उभयपदी इत्यस्मिन् परोपकाराय स्वस्मै च क्रीयमाणप्रवृत्तिसूचकधातवश्च अन्तर्भवन्ति। पाकक्रियां परिशीलयति चेत् जानाति यत् कदाचित् स्वस्मै कदाचित् अन्यस्मै च एषा क्रीया भवति । अतः स्वस्मै चेत् पचते इति अन्यथा पचति इति उभयपदप्रयोगः च विहितः ।

परस्मैपदि इति नामश्रवणे एव मनसि ‘भू सत्तयाम् ’इति धातोःनाम स्फुरति। लोके सर्वस्यापि अस्तित्त्वं परोपकाराय अस्ति इति एतत् प्रदर्शयति खलु। परोपकारार्थमिदं शरीरम् इत्युक्ति स्पष्टीकोरति एतत् । एवमेव ‘पठ्’ धातुरपि परस्मैपदी । अतः अस्माभिः ज्ञातव्यं यत् पठनप्रक्रिया कदापि स्वस्य केवलं कार्यासम्पादनार्थं धनसम्पादनर्थं वा न, परोपकाराय भवेत् इति। वन्दनक्रिया तु इतरेषां बोधनाय न, आत्मोत्कर्षाय संस्कारवर्धनाय अस्ति इति बोधयितुं ‘वन्द्’ धातोः आत्मानेपदितत्त्वंम्। एवमेव चिन्तयति चेत् अग्रे सर्वं स्पष्टं भवति ।

क्रियापदचिन्तनानन्तरं नामरूपचिन्तनमेव उचितं खलु । नामरूपपठने आद्यं "रामशब्दमेव पाठयति । रामादिवत् प्रवर्तितव्यम् न तु रावणादिवत्" इत्यादि कृत्याकृत्यप्रवृत्तिनिर्णयार्थमेतत् । सीता वनमित्यादिशब्दाः अपि अस्माकं संस्कारेण सह अभेद्यबन्धं प्रदर्शयन्ति खलु । ।

साहित्यविषयमधिकृत्य चिन्तयति चेत् रामायणं महाभारतं पुराणानि अन्यकृतयःच अस्माकं संस्कृतेः वाहकानि इति अवगन्तुं शक्यते । कविकुलगुरोः कालिदासस्य अभिज्ञनाशाकुन्तलं कुमारसम्भवं च पूरकत्वेन पठति चेत् एतत् व्यक्तिभविष्यति । ।

विश्वोत्तरनाटके अभिज्ञानशाकुन्तले यतः कुतश्चित् प्राप्तम् अनाथां शकुन्तलां पुत्रीरूपेण पालितवान् परमपूज्यः तातकण्वः । तस्याः यौवनावस्थायाम् आश्रमस्य अतिथिसत्कारकार्ये तां नियुज्य दुरितनिवारणाय तीर्थयात्रार्थं गच्छति। तदा तत्र समागतं दुष्यन्तमहाराजम् अतिथिमर्यादसीमाम् अतिरिच्य स्वीकरोति । ततः अनन्यमानसा सा तपोधनं दुर्वाससम् अतिथिं न पूजयति च । एतेषां सर्वेषां परिणतफलमेव शकुन्तला अन्ते अनुभवति ।

कुमारसम्भवे तु नायिका श्रीपार्वती अतिकठिनतपसा प्राणनाथं परमेश्वरं दासरूपेण एकान्तसुन्दरवने साक्षात्कृत्यापि आचार्यमर्यादमनुसृत्य पितरं कन्यां पृच्छतु इति सखीद्वार प्रार्थितवती । तेन अग्रे पार्वती जगज्जननीपदवीं प्राप्नोति । एतयोः शाकुन्तलकुमारसम्भवयोःपठनतः पूज्यपूजाव्यतिक्रमो पापाय इति श्रुतितात्पर्यं ज्ञात्वा पाठकाः सांस्कृतिकजीवनाय प्रचोदनं प्राप्नुवन्ति।

नित्यनैमित्तिकाचारद्वारा अपि संस्कृतं महत्तमसनातनसंस्कृतिंम् अस्माकं जीवितेन सह सम्बध्नाति । उषः काले उत्थाय –

कराग्रे वसते लक्ष्मीः करमध्येसरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् । ।

इति उचार्य करदर्शनं कृत्वा –

समुद्रवसने देवि पर्वस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ॥

इति श्लोकेन भूमिवन्दनां करोति इति यत् तत् अस्माकं संस्कृतेः पराकोटिं प्रदर्शयति खलु ?

अस्माकं संस्कृतौ मातृस्थानं देवतातुल्यमस्ति । पूजनीयेषु पूज्यं सर्वं वयं मातृशब्देन व्यवहरामः यथा माता, गङगामाता भारतमाता इत्यादि । श्रीशङकरभागवत्त्पादानाम् एकं श्लोकं पठतु –

आस्तां तावदीयं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुच्यं तनुशोषणं मलमयी शय्या च सांवत्सरी ।
एकस्यापि च गर्भभारभरणक्लेशस्य यस्याक्षमो
दातुं निष्कुतिमुन्नतो॓ऽपि तनयस्तस्यै जनन्य़ै नमः। । इति ।

(प्रसवकाले अनुभूयमाना वेदना तत्र तिष्ठतु नाम । गर्भकाले रुच्यभावः तनुशोषणं प्रसवानन्तरं वर्षं यावत् मलमयी शय्या इत्यादि गर्भकालिककष्टेषु यस्य कस्यापि एकस्य प्रत्युपकारं कर्तुं उन्नतः अपि तनयः शक्नोति किम् नैव । तादृश्यै सर्वंसहायै मात्रे नमस्कारः इति भावः ।)

सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्भवेत् ॥
जीवने यावदादानां प्रदानं स्यात्त्ततोऽधिकम् ।
इत्येषा प्रार्थनास्माकं भगवान् परिपूर्यताम् ॥

इत्यादि प्रार्थनाः कालिदासस्य रघुवंशे त्यागाय सम्भृतार्थानाम् इत्यदि प्रयोगाः,

परोपकाराय फलन्तिवृक्ष परोपकारय दुहन्ति गावः ।
परोपकाराय वहन्ति नद्यः परोपकारार्थमिदं शरीरम् । ।

इत्यदि सुभाषितानि सकलसंस्कृतवाङ्मयविशेषाः अपि एतां संस्कृतिम् उच्चैस्तरं प्रस्तुवन्ति । । एवं संस्कृतभाषा सर्वदा सर्वथा सनातनभारतीयसंस्कृतेः वाहिनी इति सुविदितम् एव । अत एव पूर्वऋषयः एवं गीतवन्तः - भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति । । भारतस्य संस्कृतिनामककमलस्य विकासाय संस्कृतस्य सूर्यस्य विकासः अनिवार्यः इति श्री श्री पेजावर्मठाधीशाः उक्तवन्तः सन्ति ।

अहो विधिवैपरित्यमेतत् यत् अद्य बहवः एतस्य अवगणनां कुर्वन्ति । एतस्याः दुःस्थितेः परिवर्तनाय सर्वे संस्कृतप्रेमिणः अपि एकीभूताः क्रियाशीलाश्च भवेयुः एतन्निमित्तां परब्रह्मस्वरूपिणीं क्रियाशाक्ति प्रार्थायामहे तावत् । ।