संस्कृतसम्भाषणशिबिरम् (संस्कृतभारती)
संस्कृतसम्भाषणशिबिरम् संस्कृताध्ययने प्रवेष्टुम् इच्छतां जनानां कृते संस्कृतभारत्या चाल्यमाना काचित् कक्ष्या।[१]
इतिहासः
[सम्पादयतु]संस्कृतस्य जनभाषात्वं स्याच्चेत् संस्कृतेन सम्भाषणस्य आरम्भः भवेत् इति संस्कृतभारत्याः ज्येष्ठैः चिन्तितम्। च मू कृष्ण शास्त्रीजनार्दनहेगडे च प्रथमं संस्कृतसम्भाषणशिबिरम् १९८१ तमे वर्षे बेङ्गळूरुनगरे प्रथमं शिबिरं चालितवान्।[उद्धरणं वाञ्छितम्] ततः समग्रे भारते विदेशेषु च १,२०,००० शिबिराणि चालितानि। १ कोटिः छात्राः शिबिरं प्रविष्टाः।
उद्देश्यानि
[सम्पादयतु]संस्कृतसम्भाषणशिबिरस्य उद्देश्यं विशालं वर्तते। सर्वस्यापि बीजरूपेण तु संस्कृतसम्भाषणशिबिरस्य आरम्भः अभवत्।
- संस्कृतपठनस्य प्रोत्साहनं समाजस्य सर्ववर्गेभ्यः संस्कृताध्ययनार्थम् अवसरप्रकल्पनम् ।
- संस्कृतपरम्परायाः संस्कृते निहितज्ञानस्य विषये च यथा योगः, मनोविज्ञानं, कला, सङ्गीतं, नृत्यम्, आयुर्वेदः इत्यादिशास्त्रेषु अनुसन्धानकार्याणां व्यवस्थापनं सहयोगो वा ।
- संस्कृतभाषायाः पारम्परिकशास्त्राणां संरक्षकेभ्यः प्रचारकेभ्यश्च सहयोगः, सहकारः, छात्रवृत्तिः, मानदेयम्, इत्यादीनाम् आलम्बनकार्याणां व्यवस्थापनम् ।
- संस्कृते निहितज्ञानस्य संस्कृतविषयकसमाचारस्य सम्प्रेषणार्थं प्रचारार्थं च पुस्तकानां, पत्त्रिकाणां, वार्तापत्त्र-पत्त्रिकाणां च प्रकाशनम् ।
शिबिरस्य स्वरूपम्
[सम्पादयतु]अन्येषां पाठ्यक्रमाणाम् अपेक्षया संस्कृतसम्भाषणशिबिरं भिद्यते।
शिबिरस्य कालावधिः
[सम्पादयतु]सम्भाषणशिबिरम् प्रतिदिनम् घण्टाद्वयं प्रवर्तते। एवं दश दिनानि एतद् शिबिरं प्रवर्तते। तत्र घण्टाद्वयं निरन्तरं शिक्षकः पाठयति। दिने यदा कदापि एतद् शिबिरं भवितुमर्हति परन्तु घण्टाद्वयं यावत् निरन्तरं पाठनम् अनिवार्यम्।
शिबिरस्थानम्
[सम्पादयतु]शिबिरार्थं २५-३० आदर्शसङ्ख्या भवति। अतः तावतां जनानाम् उपवेशनार्थं पर्याप्तमात्रम् प्रकोष्ठः भवेत्। प्रकोष्ठे एका उत्पीठिका भवेत्। श्यामफलकम्, सुधाखण्डः च न अपेक्षते। सम्भाषणमाध्यमेनैव पाठनं प्रचलति।
शिबिरशिक्षकः
[सम्पादयतु]प्रायेण संस्कृतसम्भाषणसमर्थः संस्कृतभारत्याः कार्यकर्ता शिबिरं चालयति। शिबिरचालनार्थं सम्भाषणे कौशलम्, कक्ष्यानिर्वहणसामर्थ्यं च पर्याप्तं भवति। किमपि प्रमाणपत्रं न अपेक्ष्यते। शिबिरशिक्षकाय वेतनं न दीयते।
शिबिरच्छात्रः
[सम्पादयतु]शिबिरे वयसः निर्बन्धः निर्बन्धः न भवति। यः कोपि (पुरुषः अथवा महिला) शिबिरं प्रवेष्टुमर्हन्ति। शिबिरशुल्कं न भवति परन्तु शिबिरान्ते यथाशक्ति समाजनिधिसमर्पणं करणीयम् भवति।
पाठ्योपकरणानि
[सम्पादयतु]दैनन्दिनजीवने उपयुज्यमानि उपपञ्चाशानि वस्तूनि, कतिचनस्फोरकपत्राणि, करपत्राणि च शिबिरे उपयुज्यन्ते।
गीतम्
[सम्पादयतु]प्रतिदिनम् आरम्भे पठत संस्कृतं वदत संस्कृतम्[२] इति गीतम् गीयते। शिबिरमध्ये च मनसा सततं इति गीतम् गीयते। एतद्विहाय अनेकानि बालगीतानि, सरलसंस्कृतगीतानि च शिबिरेषु बोधयन्ति।
क्रीडाः
[सम्पादयतु]सङ्ख्याक्रीडाः, नामस्मरणक्रीडा, इत्यादयः क्रीडाः शिबिरे क्रीड्यन्ते।[३]
कथाः
[सम्पादयतु]प्रतिदिनं शिबिरे काचित् प्रसिद्धा कथा सरलसंस्कृतेन कथ्यते।
शिबिरपाठ्यक्रमः
[सम्पादयतु]सरलात् कठिनं प्रति, ज्ञातात् अज्ञातं प्रति इति शिक्षणपद्धतीः अवलम्ब्य शिबिरपाठ्यक्रमः विन्यस्तः। भाषापाठनार्थम् अत्र अनेकविधाः कार्यकलापाः भवन्ति। तत्र दशानां दिनानां विविधबिन्दवः निर्दिष्टाः। सामान्यतया सम्भाषणार्थम् उपयुज्यमानामि सहस्रं पदानि शिबिरे पाठ्यन्ते। पाठनावसरे उपस्थापनम्, अभ्यासः, प्रयोगः इति सोपानत्रयम् अनुस्रियते। छात्राः अध्यापकस्य पाठनमनुसृत्य वाक्यानि वदन्ति। उपस्थापने अध्यापकस्य शतप्रतिशतं प्रयत्नः, अभ्यासे पञ्चाशत्प्रतिशतम्, प्रयोगे च छात्रस्य शतप्रतिशतम् योगदानं भवति। एवं दशदिनपर्यन्तं शिबिरं प्रवर्तते।
शिबिरोद्घाटनम्
[सम्पादयतु]ग्रामस्य कश्चित् ज्येष्ठः आगत्य दीपं प्रज्वाल्य शिबिरोद्घाटनं करोति। शिबिरोद्घाटनकार्यक्रमः दशनिमेषात्मकः भवति। तदनन्तरं प्रथमदिने एव साक्षात् शिबिरम् आरभ्यते।
शिबिरसमारोपः
[सम्पादयतु]शिबिरस्य समारोपः दशमे दिने भविष्यति। समग्रस्य कार्यक्रमस्य निर्वहणं शिबिरच्छात्राः एव कुर्वन्ति। अध्यापकः केवलं साहाय्यं करोति। शिबिरस्थानसमीपस्थः कश्चन ज्येष्ठः जनः मुख्यातिथिः भवति। संस्कृतवेत्ता कश्चन मुख्यवक्ता भवति। छात्राः संस्कृतसम्भाषणाधारितान् कार्यक्रमान् प्रस्तुवन्ति। अयं कार्यक्रमः प्रायेण एकघण्टात्मकः भवति।
समाजनिधिसमर्पणम्
[सम्पादयतु]सम्भाषणशिबिरस्य तु शुल्कं न भवति। परन्तु अन्तिमदिने भारतमातुः पूजनं कृत्वा छात्राः सर्वे अपि यथाशक्ति स्वेच्छया किञ्चित् धनं समाजनिधिरूपेण अर्पयन्ति। एतत् धनं संस्कृतभारत्या संस्कृतकार्येषु विनियोज्यते।
अनुवर्तिशिक्षणम्
[सम्पादयतु]शिबिरसमाप्तेः परं प्रतिसप्ताहं साप्ताहिकमेलनं चाल्यते। तत्र शिबिरच्छात्राः मिलन्ति। साप्ताहिकमेलनेषु प्रायेण पत्रालयद्वारा संस्कृतस्य पाठाः, गीतासोपानस्य पाठाः वा पाठ्यन्ते।