सदस्यः:ब्रह्मदेवः पाण्डेयः/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अशोच्यानन्वशोचस्त्वम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य शोकनिवृत्त्यै उपदेशम् आरभते । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रम् अर्जुनस्य युद्धोपरामस्य निर्णयं श्रावयित्वा तूष्णीस्थितम् अर्जुनं भगवान् एतानि वचनानि अवदत् इत्युक्तवान् । एतस्मात् श्लोकात् भगवान् अर्जुनाय उपदेशम् आरभते । भगवान् अवदत् यत्, यस्य कृते शोकः अनावश्यकः उच्यते, तादृशः शोकः त्वया क्रियते । पाण्डित्यपूर्णवचनानि वदन् असि, परन्तु ये मृताः उत ये न मृताः, तेषां पण्डिताः शोकं न कुर्वन्ति इति ।

भावार्थः[सम्पादयतु]

मनुष्यः शोकं तदा करोति, यदा सः संसारस्य प्राणिस्थितिपदार्थान् विभागद्वये विभजते । "एतत् मम", "एतत् न मम" च । एते मे कुटुम्बकाः, एते न मे कुटुम्बकाः । एते मे वर्णीयाः (जातिनः), एते न मे वर्णीयाः । एते मे आश्रमिनः, एते न मे आश्रमिनः । ये "मम" इत्यनेन स्वीकृताः, तेषु ममता, कामना, प्रीतिः, आसक्तिः च भवति । ताः सर्वाः शोक-चिन्ता-भय-उद्वेग-सन्तापादीनां दोषाणां कारणं भवन्ति । गीतायाः प्रथमाध्यायस्य प्रप्रथमे श्लोके धृतराष्ट्रः सञ्जयम् अपृच्छत् यत्, मामकाः पुत्राः, पाण्डवाः च युद्धभूमौ किं कुर्वन्तः सन्ति ? इति । यद्यपि पाण्डवेभ्यः धृतराष्ट्रः पितृति (पितृतुल्यः आसीत्) स्म, तथापि धृतराष्ट्रः स्वस्य पुत्रेषु एव ममता सेवते स्म । एवं तस्य मनसि स्वपुत्रान् प्रति, पाण्डुपुत्रान् प्रति च पक्षपातपूर्वकः भेदः आसीत् यत्, एते मे, ते न मे चेति ।

या ममता धृतराष्ट्रस्य मनसि आसीत्, सैवा ममता अर्जुनेऽपि उत्पन्ना । परन्तु अर्जुनस्य ममता धृतराष्ट्रस्य ममतातुल्या नासीत् । अर्जुने धृतराष्ट्रवत् पक्षपातः नासीत्; किञ्च सः सर्वान् स्वजनत्वेन सम्बोधयति [१] । स तु दुर्योधनमपि स्वजनेषु परिगणयति [२] । तात्पर्यम् अस्ति यत्, अर्जुनस्य कुरुवंशीयेषु ममता आसीत् । तस्याः ममतायाः कारणत्वादेव कौरवानां मरणशङ्कया अर्जुनः शोकमग्नः आसीत् । तं शोकं दूरीकर्तुम् एव भगवान् अर्जुनाय गीतोपदेशं ददाति, यस्योपदेशस्य आरम्भः एतस्मात् श्लोकादेव भवति । उपदेशान्ते भगवान् अर्जुनम् अनुचितं शोकं त्यक्त्वा केवलं मे आश्रयी भव इति कथयति [३] । किञ्च संसाराश्रयेणैव शोकः उत्पद्यते । अनन्यभावेन मे (भगवतः) आश्रये स्वीकृते शोक-चिन्ता-कामनादिभ्यः त्वं मुक्तः भविष्यसि इति ।

'अशोच्यानन्वशोचस्त्वम्' – निखिले संसारे पदार्थद्वयम् अस्ति । सद्, असद् च (शरीरं, शरीरी च) । तयोः शरीरी अविनाशी अस्ति, शरीरं विनाशी च । तौ उभौ पदार्थौ अशोच्यौ स्तः । अविनाशिनः कदापि विनाशो न भवति, अतः शोकाय अवसरः न । विनाशिनः विनाशः निश्चितः, अतः एकक्षणं यावत् सः स्थायी न भवति । एवं तस्य शोकः अपि अयोग्यः । तात्पर्यम् अस्ति यत्, शरीरम् उद्दिश्य, शिरिरिणं चोद्दिश्य शोकः सर्वथा अविवेककारणी, मूर्खताकारणी एव । मनुष्यस्य सम्मुखं जन्ममृत्यू, लाभहानी इत्यादिमाध्यमेन परिस्थितिः उपतिष्ठते । सा परिस्थितिः प्रारब्धफलं भवति । अर्थात् मनुष्यस्य पूर्वकृतानां कर्मणां फलम् । तम्फलानुगणम् अनुकूलप्रतिकूलपरिस्थित्योः उद्भवः भवति । तयोः परिस्थित्योः अनुगुणं क्रमेण सुखानुभूतिः, दुःखानुभूतिः च मूर्खत्वम् अस्ति । यतो हि अनुकूला, प्रतिकूला वा परस्थितिः आरम्भान्तयुक्ता भवति । अर्थात् सा स्थितिः आदौ नासीत्, अन्ते च न भविष्यति । या स्थितिः आद्यन्तयोः न भवति, सा मध्ये अपि स्थायिनी न भवति । यदि सा स्थितिः स्थायिनी अभविष्यत्, तर्हि तस्याः अन्तः कथम् अभविष्यत् ? यदि अन्तः भवेत्, तर्हि स्थिरा कथं भवेत् ? एवं मनुष्यः प्रतिक्षणं नश्यमानयोः प्रतिकूलानुकूलपरिस्थित्योः कारणेन हर्ष-शोकौ कृत्वा, सुखि-दुःखिनौ भूत्वा च केवलं मूर्खतामेव प्रदर्शयति ।

'प्रज्ञावादांश्च भाषसे' – एकत्र त्वं पाण्डित्यपूर्णविषयान् वदसि, अपरत्र शोकम् अपि करोषि ? अतः त्वं केवलं जल्पषि । वास्तव्येन त्वं पण्डितः नासि; किञ्च यदि त्वं पण्डितः अभविष्यः, तर्हि कदापि शोकं नाकरिष्यः । कुलस्य नाशे सति कूलधर्मणां नाशो भविष्यति । धर्मनाशे सति स्त्रियः दूषिताः भविष्यन्ति । दूषिताभ्यः स्त्रिभ्यः वर्णसङ्करः भविष्यन्ति । ते वर्णसङ्कराः कुलघातिनः कुलं नरकीकरिष्यन्ति । पिण्ड-तर्पणयोः अभावे पितॄपतनं भविष्यति । एतादृशैः ते पाण्डित्यपूर्णवचनैः सिद्ध्यति यत्, शरीरं नाशवद् अस्ति, शरीरी चावनिनाशी । एवं कुलादिनां पतनभयस्तु न भवेदेव । अतः ते शोकः अनुचितः ।

'गतासूनगतासूंश्च' – सर्वेषां पिण्डप्राणवियोगः अवश्यम्भावी एव । एवं केषाञ्चन पिण्डप्राणवियोगः जातः, केषाञ्चन भविष्यति च । अतः शोकः अयोग्यः । ये मृताः, तेभ्यः शोकः अयोग्यः । यतः मृतेभ्यः शोके सति प्राणी दुःखी भवति । यथा मृतात्मभ्यः यद् पिण्डजलादि दद्मः, तत् ते परलोके प्राप्नुवन्ति, तथैव मृतात्मभ्यः ये अश्रूणि सारयन्ति, तानि अश्रूणि मृतात्मना परवशे भूते सति भोक्तव्यानि भवन्ति [४] [५] । ये जीवन्तः सन्ति, तेभ्यः अपि शोकः न कर्तव्यः । यथा तेषां पालनं कथं भविष्यति, तेषां जीवनं कीदृशं भविष्यति, तेषां साहाय्यं के करिष्यन्ति ? इत्यादयः चिन्ताप्रश्नाः न करणीयाः । किञ्च चिन्तया, शोकेन च कोऽपि लाभः न भवति ।

शरीराङ्गानि मे शिथिलानि जायमानानि सन्ति, मुखं शुष्कं भवद् अस्ति इत्यादयः विकाराः शरीरेण सह तादात्म्यभावत्वात् उत्पद्यन्ते । यतो हि शरीरेण सह तादात्म्ये सत्येव शरीरस्य पालकानां प्रति ममत्वम् उत्पद्यते । स्वजनानां मरणाशङ्कया एव अर्जुनस्य मनसि चिन्ता, शोकश्च उत्पद्यते, तयोः फलत्वादेव तस्य शरीरे उपर्युक्ताः विकाराः जायन्ते ।

अर्जुनस्य शोकस्य कारणत्वेन भगवान् 'गतासून्', 'अगतासून्' इत्ययोः पदयोः उपयोगं करोति । 'गतासून्' अर्थात् ये मृताः । 'अगतासून्' अर्थात् येषां प्राणाः न व्यपगताः (जीविताः) । "पिण्डोदयाभावात् पितृपतनं भवति" इति अर्जुनस्य चिन्ता 'गतासून्'-चिन्ता अस्ति । "येभ्यः वयं राज्यादीनाम् इच्छां कुर्मः, ते तु युद्धाय मे सम्मुखं स्थिताः सन्ति" इति अर्जुनस्य चिन्ता 'अगतासून्'-चिन्ता अस्ति । द्विप्रकारकी चिन्ता सा शरीरेण सह तादात्म्यत्वादेव जायते । एवं सा द्विप्रकारकी सा चिन्ता मूलतः तु चिन्ता एव । यतः 'गतासून्', 'अगतासून्' इत्येतौ च नाशवन्तः एव । 'गतासून्', 'अगतासून्' – एतयोः कृते कर्तव्यकर्माचारः चिन्तायाः विषयः न । 'गतासून्' इत्येतेभ्यः पिण्डोदकक्रिया कर्तव्यम् अस्ति, 'अगतासून्' इत्येतेभ्यश्च व्यवस्थापनं, निर्वाहश्चापि कर्तव्यम् अस्ति । कर्तव्यं कदापि चिन्तायाः विषयः न भवति । विचारैः कर्तव्यबोधः भवति, चिन्तया च विचारनाशः ।

'नानुशोचन्ति पण्डिताः' – सदसतोः विवेकशीला बुद्धिरेव 'पण्डा' । सा 'पण्डा' येषां विकसिता अस्ति अर्थात् ये सदसतोः स्पष्टतया विवेकं कर्तुं सक्षमाः, ते एव पण्डिताः । सदसतोः विवेकत्वात् पण्डिताः शोकं न कुर्वन्ति । किञ्च सदसदयोः यथार्थदर्शनेन कदापि शोकः न जायते । स्वयं सद् अस्ति, शरीरम् असच्च । असतं सतं मत्वा शोकः उत्पद्यते । अर्थात् शरीरादयः नित्याः इति भ्रमत्वादेव शोकः भवति । सतः चिन्ता, शोकश्च कदापि न भवति ।

भाष्यार्थः[सम्पादयतु]

ये शोकयोग्याः न सन्ति, ते अशोच्याः । अत्र भीष्म-द्रोणादयः सदाचाररूपेण, परमार्थरूपेण च नित्यत्वात् अशोच्याः । तेषां अशोच्यानां निमित्तं त्वं शोकं कुर्वन् असि यत्, ते मे हस्तेन मरिष्यन्ति, तान् विहाय अहं राज्यस्य, सुखोपभोगानां च किं करिष्यामि ? इति । तथा च त्वं प्रज्ञावन्तः यथा वदन्ति, तथापि वदसि । अर्थात् त्वं स्वस्मिन् परस्परविरोधयुक्तान् पाण्डित्यपूर्णमूर्खतापूर्णान् भावन् प्रदर्शयसि । किञ्च आत्मज्ञानिनः मृतानां, जीवीतानां च शोकं न कुर्वन्ति । "पाण्डित्यं सम्पाद्य" [६] इत्यस्य श्रुतिवाक्यस्य अनुसारम् आत्मविषयकबुद्धेः नाम पण्डा इति । सा च बुद्धिः यस्मिन् अस्ति, स पण्डितः । परन्तु परमार्थदृष्ट्या नित्येभ्यः, अशोचनीयेभ्यः भीष्मादिभ्यः श्रेष्ठपुरुषेभ्यः त्वं शोकं कुर्वन् असि, अतः त्वं मूढः असि इति ।

  1. दृष्ट्वैमं स्वजनम्, गीता, अ. १, श्लो. २८
  2. स्वजनं हि कथं हत्वा सुखिनः स्याम माधव, गीता, अ. १, श्लो. ३७
  3. मा शुचः, गीता, अ. १८, श्लो. ६६
  4. अश्रुपातं न कुर्वीत दत्त्वा दाहजलाञ्जलिम् ।
    श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ॥
    अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।
    ततस्तेषूपविष्टेषु पुराणज्ञः सुकृत्स्वकः ॥ गरुडपुराणम्, प्रेतकाण्डः, अध्यायः – ४, श्लो. ८०, ८१
  5. मृतानां बान्धवा ये तु मुञ्चन्त्यश्रुणि भूतले ।
    पिबन्त्यश्रूणि तान्यद्धा मृताः प्रेताः परत्र वै ।। स्कन्दपुराणम्, ब्रह्मस्कन्दः, सेतुः, ४८, श्लो. ४२
  6. पाण्डित्यं निर्विद्य