सामग्री पर जाएँ

सदस्यः:सञ्जयकुमार जोषी/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इतिहासः

[सम्पादयतु]

ई. शताब्दीभ्यः पूर्वं पुदुच्चेरी-नगरात् ८ किलोमीटरमिते दूरे अरिकमेडु-नामकः पोताश्रयः स्थितः आसीत् । सः रोमन-साम्राज्यस्य व्यापारिकं केन्द्रं विद्यते स्म । अस्मिन् क्षेत्रे पल्लव-शासकैः, राष्ट्रकूट-शासकैः, चोल-शासकैः, चालुक्य-शासकैः, विजयनगर-शासकैः, मराठा-शासकैः, मुसलिम-शासकैः, फ्रेञ्च्-शासकैः च शासनं कृतम् आसीत् । ई. स. १६७३ तमात् वर्षात् आरभ्यते । तस्मिन् समये “ईस्ट् इण्डिया कम्पनी” इत्यस्याः संस्थायाः मार्ट्न्-नामकः प्रतिनिधिः पुदुच्चेरी-नगरं समागतः । डज-जनैः सः प्रतिनिधिः पराजितः । पराजिते सत्यपि “मार्टिन्” इत्याख्यः पुदुच्चेरी-नगरे निवसितवान् । अनन्तरं तेन पुदुच्चेरी-नगरस्य आर्थिकविकासः कृतः । ई. स. १९६४ तमे वर्षे “ईस्ट् इण्डिया कम्पनी” इत्यनया संस्थया पुदुच्चेरी-स्थले एकं नगरं स्थापितम् । किन्तु वास्तविकरूपेण मार्टिन्-इत्याख्येन एव पुदुच्चेरी-स्थले नगरं स्थापितम् आसीत् । अनन्तरं पुदुच्चेरी-नगरं फ्रान्सीसी-साम्राज्यस्य राजधानीत्वेन उद्घोषितम् । ई. स. १७४५ तमे वर्षे, ई. स. १७४७ तमे वर्षे च आङ्ग्लैः अपि पुदुच्चेरी-नगरे आधिपत्यं स्थापयितुम् प्रयासाः कृताः । किन्तु ते निष्फलाः अभवन् । ई. स. १७६१ तमे वर्षे आङ्ग्लैः पुदुच्चेरी-नगरे आधिपत्यं स्थापितम् । किन्तु वर्षद्वयानन्तरम् आङ्ग्लैः फ्रान्सीसी-जनेभ्यः पुदुच्चेरी-नगरस्य अधिकारं प्रदत्तम् । ई. स. १९५४ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के भारत-फ्रान्स्-सर्वकारयोः सन्धिः अभवत् । तदा अस्य नगरस्य प्रशासनं भारतस्य अधिकारे अभवत् । ई. स. १९५६ तमे वषे नगरमिदं पूर्णतया भारत-देशस्य अधिकारे आगतम् । ई. स. १९६३ तमे वर्षे भारतसर्वकारेण पुदुच्चेरी-नगरं केन्द्रशासितप्रदेशत्वेन उद्घोषितम् ।

जलवायुः

[सम्पादयतु]

अस्य प्रदेशस्य जलवायुः आर्द्रः वर्तते । प्रदेशेऽस्मिन् तापमानं सामान्यतः २६ डिग्रीसेल्सियस् भवति । जलवायुः आद्रे सत्यपि तत्र वर्षा अल्पमात्रायाम् एव भवति । जुलाई-मासतः सितम्बर-मासपर्यन्तं अल्पवृष्टिः भवति । पुदुच्चेरी-केन्द्रशासितप्रदेशे बह्व्यः नद्यः प्रवहन्ति । अरासालार-नदी, माहे-नदी, गौतमी-नदी, कोरिङ्गा-नदी, बञ्जियार-नदी, नन्दालर-नदी, नूलार-नदी, पुरवाउयारन-नदी इत्यादयः नद्यः अस्य प्रदेशस्य प्रमुखाः नद्यः सन्ति []

जनसङ्ख्या

[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं पुदुच्चेरी-केन्द्रशासितप्रदेशस्य जनसङ्ख्या १२,४४,४६४ अस्ति । तेषु ६,१०,४८५ पुरुषाः, ६,३३,९७९ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते २५९८ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५९८ जनाः । पुदुच्चेरी-केन्द्रशासितप्रदेशे पुरुषस्त्रियोः अनुपातः १०००-१०३८ अस्ति । केन्द्रशासितप्रदेशेषु अस्य प्रदेशस्य लिङ्गानुपातः सर्वाधिकः अस्ति []

मण्डलानि

[सम्पादयतु]

पुदुच्चेरी-केन्द्रशासितप्रदेशे चत्वारि मण्डलानि सन्ति । एतेषु मण्डलेषु पुदुच्चेरी-मण्डलं बृहत्तमं, माहे-मण्डलं च लघुत्तमं मण्डलम् अस्ति । तानि –

  1. पुदुच्चेरीमण्डलम्
  2. कराईकलमण्डलम्
  3. यानममण्डलम्
  4. माहेमण्डलम्

शिक्षणम्

[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं पुदुच्चेरी-केन्द्रशासितप्रदेशस्य साक्षरतामानं ८६.६७ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ९२.१२ प्रतिशतं, स्त्रीणां च ८१.२२ प्रतिशतं च अस्ति । पुदुच्चेरी-नगरस्य “पुदुच्चेरी-विश्वविद्यालयः”, “पुदुच्चेरी इन्स्टीट्यूट् ऑफ् लिङ्ग्विस्टिक्स् एण्ड् कल्चर्”, “जवाहरलाल इन्स्टीट्यूट् ऑफ् पोस्ट् ग्रेजुएट् मेडिकल् एजुकेशन् एण्ड् रिसर्च्”, “एकोले फ्रान्सिस् डी एक्सट्रीम् ओरिएण्ट् इन्स्टीट्यूट् फॉर् इण्डोलॉजी” इत्येतानि पुदुच्चेरी-केन्द्रशासितप्रदेशस्य शैक्षणिकसंस्थानानि सन्ति ।[]

राजनीतिः

[सम्पादयतु]

पुदुच्चेरी-केन्द्रशासितप्रदेशे एकसदनात्मकं विधानमण्डलं विदयते । अस्मिन् राज्ये राष्ट्रपतिः एव प्रशासनप्रमुखः भवति । सः एव तस्य प्रदेशस्य प्रशासकस्य नियुक्तिं करोति । सः प्रशासकः “उपराज्यपालः” इति कथ्यते । अस्मिन् प्रदेशे विधानसभायाः ३० स्थानानि सन्ति । अस्य राज्यस्य विधानसभा भारतस्य विधानसभासु लघुत्तमा वर्तते । पुदुच्चेरी-केन्द्रशासितप्रदेशस्य लोकसभायां, राज्यसभायां च एकम् एकं स्थानम् अस्ति । “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “ऑल् इण्डिया अन्ना द्रविड मुन्नेत्र कडगम” (AIADMK), “द्रविड मुन्नेत्र कडगम” (DMK), “भारतीय कम्युनिस्ट् पार्टी”, “पट्टालि मकल काच्छी”, “पुदुच्चेरी मुन्नेत्र कॉङ्ग्रेस्”, “मरुमालार्ची द्रविड मुन्नेत्र कडगम” इत्यादयः पुदुच्चेरी-केन्द्रशासितप्रदेशस्य राजनैतिकसमूहाः सन्ति []

अर्थव्यवस्था, कृषिः उद्योगश्च

[सम्पादयतु]

पुदुच्चेरी-नगरस्य जनसङ्ख्यायाः ३५ प्रतिशतं जनाः कृषिकार्यं कुर्वन्ति । अस्य केन्द्रशासितप्रदेशस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य प्रदेशस्य ८५ प्रतिशतं कृषिस्थलेषु सेचनाय सौकर्यं विद्यते । पुदुच्चेरी-केन्द्रशासितप्रदेशे तडागेभ्यः सेचनं क्रियते । तण्डुलाः अस्य प्रदेशस्य प्रमुखं सस्यं विद्यते । अस्य प्रदेशस्य माहे-क्षेत्रे वृक्षाणां पादपानां च आधिक्यमस्ति । अस्मिन् प्रदेशे विद्युदुत्पादनं न क्रियते । तमिळनाडू-राज्यात्, केरल-राज्यात् च विद्युतं प्राप्यते । वस्त्राणि, चर्मवस्तूनि, स्टील-धातोः पात्राणि, विद्युदुपकरणानि, रासायनिकपदार्थाः, कर्गजः, मुद्रणम् इत्यादीनि अस्य प्रदेशस्य व्यावसायिकसाधनानि सन्ति । ई. स. २०१० तमवर्षस्य सर्वेक्षणे अस्मिन् प्रदेशे प्रायः ८,००० पञ्जीकृताः उद्योगाः आसन् । तेषु उद्योगेषु ९०,००० जनाः कार्यं कुर्वन्ति स्म ।[]। ई. स. २००८ तमस्य वर्षस्य मार्च-मासे ७,९८२ औद्योगिकघटकैह् २,१७७ कोटिरूप्यकाणां निवेशः कृतः आसीत् । तस्यां योजनायां ९३,०४४ जनाः कार्यं कुर्वन्ति स्म ।

सेचनं, विद्युदुत्पादनं च

[सम्पादयतु]

युरोपीय-सङ्घस्य साहाय्येन बहूनां तडागानाम् शुद्धिकरणं कृतम् । अस्य प्रदेशस्य नदीषु अष्टस्थानेषु जलबन्धाः निर्मापिताः । अस्य प्रदेशस्य सर्वकारेण कुल्याः अपि निर्मापिताः । ताभिः कुल्याभिः अस्मिन् प्रदेशे सेचनकार्याणि क्रियन्ते । अस्य प्रदेशस्य विद्युतः आपूर्तिः समीपस्थानि राज्यानि कुर्वन्ति । “तमिळनाडूविद्युद्विभागात्” “केरलविद्युद्विभागात्” पुदुच्चेरी-केन्द्रशासितप्रदेशः विद्युतं क्रीणाति । अस्मिन् प्रदेशे आहत्य ३९६.५८ मेगावॉट्-मात्रात्मिका विद्युत् उपलब्धा वर्तते । अस्मिन् प्रदेशस्य कराईकल-नगरे “पुदुचेरी पॉवर् कॉरपोरेशन् लिमिटेड्” अयं समूहः विद्यते । अयं समूहः पुदुच्चेरी-प्रदेशस्य नगरेभ्यः विद्युतं प्रेषयति ।

कला, संस्कृतिश्च

[सम्पादयतु]

साम्प्रतम् अपि पुदुच्चेरी-केन्द्रशासितप्रदेशे फ्रेञ्च्-संस्कृतेः प्रभावः दृश्यते । अयं प्रदेशः पूर्व-पश्चिमसंस्कृतेः प्रभावितः वर्तते । अतः तत्र हस्तनिर्मितानि मृत्पात्राणि, सुगन्धितधूपाः, चर्मवस्तूनि, हस्तनिर्मितानि कर्गजानि प्राप्यन्ते । अस्य प्रदेशस्य बहुषु उत्सवेषु फ्रेञ्च्-संस्कृतेः प्रभावः दृश्यते । “विष्णुपर्व”, “मास्क्-उत्सवः”, “मासी मगम”, “मङ्गानी” इत्यादीनि पुदुच्चेरी-केन्द्रशासितप्रदेशस्य प्रमुखाः उत्सवाः सन्ति । एतेषु मास्क्-उत्सवः मार्च-मासे अप्रैल-मासे वा आचर्यते । अस्मिन् उत्सवे जनाः विशेषवस्त्राणि, छद्ममुखानि च धरन्ति । अनन्तरं नृत्यं कुर्वन्ति । मङ्गानी-उत्सवः कराईकल-नगरे आचर्यते । एकमासं यावत् अयम् उत्सवः आचर्यते । पुदुच्चेरी-प्रदेशे ३६५ मन्दिराणि सन्ति । तेषु मन्दिरेषु “तिरुकानेश्वर विलियानूर-मन्दिरं, वेदपुरीश्वरशिवमन्दिरं इत्येते मन्दिरे प्रमुखे स्तः ।[]

वीक्षणीयस्थलानि

[सम्पादयतु]

पुदुच्चेरी-केन्द्रशासितप्रदेशे बहूनि वीक्षणीयस्थलानि सन्ति । “अरविन्द-आश्रमः, “ओरोविल-आश्रमः”, “टैगोर-उद्यानम्”, “ऑवर् लेडि एञ्जिल्स् चर्च्”, “पुदुच्चेरी-सङ्ग्रहालयः”, “मस्तान सैयद दाऊद दरगाह” इत्यादीनि अस्य केन्द्रशासितप्रदेशस्य पर्यटनस्थलानि सन्ति । अस्मिन् केन्द्रशासितप्रदेशे “समुद्रतटानि”, “भव्यभवनानि”, “ईसाई-उपासनागृहाणि”, “जोन् ऑफ् आर्क्”, “जोसेफ् डुप्ले के बुत” इत्यादीनि अपि आर्कषणस्य केन्द्राणि सन्ति ।[]

पुदुच्चेरी

[सम्पादयतु]

पुदुच्चेरी-नगरं पुरा “पॉण्डिचेरी” इति नाम्ना ज्ञायते स्म । किन्तु ई. स. २००६ तमे वर्षे सर्वकारेण अस्य नामपरिवर्तनं कृतम् । पुदुच्चेरी-नगरं पुदुच्चेरी-केन्द्रशासितप्रदेशस्य राजधानी अस्ति । अस्मिन् नगरे फ्रेञ्च्-संस्कृतेः प्रभावः दृश्यते । नगरमिदं बङ्गाल-समुद्रकुक्ष्याः तटे स्थितम् अस्ति । अस्मात् नगरात् १६२ किलोमीटरमिते दूरे चेन्नै-नगरं स्थितम् अस्ति । इदं नगरं विहाराय उत्तमं स्थलं वर्तते । अस्मिन् नगरे चत्वारि तटानि सन्ति । प्रोमनेड-तटं, पैराडाइस-तटं, सेरेनिटी-तटं, आरोविले-तटं च एतानि तटानि तत्र स्थितानि सन्ति । तत्र “अरबिन्दो-आश्रमः” विद्यते । अयं भारतस्य प्रसिद्धः आश्रमः वर्तते । अयं योगकेन्द्रम् अपि विद्यते । पुदुच्चेरी-नगरे बहवः स्मारकाः, मूर्तयः च सन्ति । “मातृमन्दिरं”, “फ्रान्सीसी-युद्धस्मारकः”, “जोसफ फ्रेङ्कोअस् डुपलीक्स् इत्याख्यस्य मूर्तिः”, “पुदेच्चेरी-सङ्ग्रहालयः”, “जवाहर खिलौना सङ्ग्रहालयः”, “बॉटनिकल्-उद्यानं”, “ऑसटेरी वैटलैण्ड्”, “भारथिदसन सङ्ग्रहालयः”, “राष्ट्रियोद्यानं”, “अरिकामेडु”, “राजनिवासः” इत्यादीनि अस्य नगरस्य पर्यटनस्थलानि सन्ति । नगरेऽस्मिन् विविधधर्माणां धार्मिकस्थलानि अपि सन्ति । “मनाकुला विनयागर मन्दिरं”, “वरदराजा पेरुमल मन्दिरं”, “कन्निगा परमेश्वरी मन्दिरं” इत्यादीनि धार्मिकस्थलानि प्रचलितानि सन्ति । अस्य नगरस्य भवनानि अपि आकर्षकानि भवन्ति । इदं नगरं द्वयोः भागयोः विभक्तम् अस्ति । फ्रेञ्च्-भागः, भारतीयः भागः च । पुदेच्चेरी-नगरस्य खाद्यानि अपि भारते प्रसिद्धानि सन्ति । तत्र विविधानि व्यञ्जनानि प्राप्यन्ते । अस्य नगरस्य वातावरणम् आवर्षं सामान्यं भवति । अतः जनाः भ्रमणार्थं यथासमयं गच्छन्ति । पुदुच्चेरी-नगरं ४५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुदुच्चेरी-केन्द्रशासितप्रदेशस्य सर्वकारेण प्रचालितानि बसयानानि अपि प्राप्यन्ते । तैः बसयानैः पुदुच्चेरी-नगरं गन्तुं शक्यते । नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः पुदुच्चेरी-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं मुख्यं वर्तते । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुदुच्चेरी-रेलस्थानकात् पुणे-नगराय, देहली-नगराय, मुम्बई-नगराय, जयपुर-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । पुदुच्चेरी-नगरे विमानस्थानकं नास्ति । चेन्नै-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । चेन्नै-विमानस्थाकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नराय, भुवनेश्वर-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः, विदेशस्य नगरेभ्यः च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कराईकल-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया कराईकल-नगरं प्राप्तुं शक्नुवन्ति ।

कराईकल

[सम्पादयतु]

कराईकल-नगरं पुदुच्चेरी-केन्द्रशासितप्रदेशस्य कराईकल-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं “मन्दिराणां नगरं” कथ्यते । नगरमिदं शनिश्वरा-मन्दिराय प्रसिद्धम् अस्ति । मन्दिरमिदं लोकप्रियं वर्तते । अम्मैयार-मन्दिरं, ऑवर् लेडी एञ्जिल्स् चर्च्, मस्तान सैयद दाऊद दरगाह, लॉर्ड् दरबारनेश्वर-मन्दिरम् इत्यादीनि धार्मिकस्थलानि कराईकल-नगरे स्थितानि सन्ति । अस्य नगरस्य सिकतामयानि तटानि, पोताश्रयः, सुन्दराणि मन्दिराणि च मनोहराणि स्थलानि सन्ति । नगरेऽस्मिन् फ्रेञ्च-संस्कृतिः, वास्तुकला च दृश्यते । कराईकल-नगरं महत्त्वपूर्णः पोताश्रयः विद्यते । इदं बङ्गाल-समुद्रकुक्ष्याः कोरामण्डलतटे स्थितम् अस्ति । अत्र एका कूल्या आसीत् । सा कूल्या चूर्णमिश्रणेन निर्मिता अस्ति । किन्तु साम्प्रतम् अस्मिन् नगरे एकाऽपि कूल्या नास्ति । अस्मिन् नगरे मन्दिराणाम् आधिक्यं वर्तते । अतः इदं नगरं प्रसिद्धं वर्तते । कैलासनाथ-मन्दिरं, नवग्रह-मन्दिरं, अम्मैयार-मन्दिरं इत्यादीनि मुख्यानि मन्दिराणि सन्ति । कराईकल-नगरस्य समीपे केचन ग्रामाः प्राचीनाः सन्ति । तेषां पुरातात्त्विकं महत्त्वं विद्यते । “कीझा कासाकुडे”, “मेला कासाकुडे” च एतौ ग्रामौ पुरातात्त्विकौ स्तः । “नागौर”, “वेलानकन्नी” इत्येते प्रसिद्धे तीर्थस्थले अपि कराईकल-नगरस्य समीपे स्थिते स्तः । अस्य नगरस्य इतिहासः समृद्धं वर्तते । अष्टमशताब्दीतः अस्य नगरस्य इतिहासः आरब्धः । नगरमिदं पल्लव-राज्यकालेन सह सम्बद्धम् अस्ति । किन्तु तदनन्तरम् अष्टादशशताब्दीपर्यन्तम् अस्य इतिहासः अस्पष्टः वर्तते । अष्टादशशताब्द्यां ई. स. १७३८ तमे वर्षे तञ्जावुर-राज्ञः शासनकाले कश्चन डुमास-नामकः फ्रेञ्च-अधिकारी अत्र समागतः । सः अधिकारी तञ्जावुर-राज्ञः मन्त्रिणा सह मन्त्रणां कर्तुम् आगतवान् आसीत् । अनन्तरम् ई. स. १७३९ तमे वर्षे तेन कराईकल-नगरे आधिपत्यं स्थापितम् । ई. स. १७६१ तमे वर्षे आङ्ग्लैः सः फ्रेञ्च्-अधिकारी पराजितः । यद्यपि ई. स. १८१४ तमे वर्षे पेरिस-सन्ध्यनुसारं आङ्ग्लैः इदं क्षेत्रं फ्रेञ्च्-सर्वकाराय प्रदत्तम् आसीत् । तदनन्तरम् ई. स. १९५४ तमवर्षं यावत् फ्रेञ्च्-सर्वकारेण शासनं कृतम् आसीत् । अतः साम्प्रतमपि अस्मिन् नगरे फ्रेञ्च्-संस्कृत्याः प्रभावः दृश्यते । भारतस्य दक्षिणदिशः तटीयक्षेत्राणां तुलनायां कराईकल-नगरे उष्णतायाः आधिक्यं वर्तते । अतः एव शीतर्तोः वातावरणम् अस्य नगरस्य भ्रमणाय विहाराय च उत्तमं वर्तते । नवम्बर-मासतः फरवरी-मासपर्यन्तं जनाः तत्र गच्छन्ति । तस्मिन् काले अस्य नगरस्य वातावरणं सुखदं, स्वास्थ्यकरं च भवति । कराईकल-नगरं भूमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तमिलनाडु-राज्यस्य, पुदुच्चेरी-केन्द्रशासितप्रदेशस्य च सर्वकारेण प्रचालितानि बसयानानि अपि प्राप्यन्ते । तैः बसयानैः कराईकल-नगरं गन्तुं शक्यते । नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः कराईकल-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं पुदुच्चेरी-केन्द्रशासितप्रदेशस्य, तमिळनाडु-राज्यस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्य समीपे नागौर-रेलस्थानकम् अपि विद्यते । कराईकल-नगरात् नागौर-रेलस्थानकं १० किलोमीटरमिते दूरे स्थितम् अस्ति । नागौर-रेलस्थानकम् अपि भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । नागौर-रेलस्थानकात् पुणे-नगराय, देहली-नगराय, मुम्बई-नगराय, जयपुर-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । कराईकल-नगरे विमानस्थानकं नास्ति । अस्मिन् नगरे विमानस्थानकनिर्माणकार्यं जायमानम् अस्ति । त्रिची-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं राष्ट्रियविमानस्थानकम् अस्ति । इदं विमानस्थानकं चेन्नै-नगरेण सह सम्बद्धम् अस्ति । चेन्नै-नगरस्य विमानस्थानकं कराईकल-नगरस्य निकटतमम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । कराईकल-नगरात् चेन्नै-विमानस्थानकं ३०० किलोमीटरमिते दूरे स्थितम् अस्ति । चेन्नै-विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कराईकल-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया कराईकल-नगरं प्राप्तुं शक्नुवन्ति ।

यानम-नगरं पुदुच्चेरी-केन्द्रशासितप्रदेशस्य यानम-मण्डलस्य केन्द्रं विद्यते । अस्य नगरस्य संस्कृतिः, इतिहासः च समृद्धः वर्तते । उपनिवेशकाले अस्मिन् नगरे फ्रान्स्-जनानां शासनम् आसीत् । ई. स. १९५४ तमवर्षं यावत् फ्रान्स्-जनानां शासनम् आसीत् । इदं क्षेत्रं ३० चतुरस्रकिलोमीटरमितः विस्तृतम् अस्ति । इदम् आन्ध्रप्रदेशस्य पूर्वीगोदावरी-मण्डलस्य समीपे स्थितम् अस्ति । पुरा अस्मिन् नगरे बालविवाहः अपराधः न मन्यते स्म । ये जनाः तेलुगु-भाषां वदन्ति । ते इदं नगरं “कल्याणपुरम्” इति कथयन्ति । यानम-नगरस्य इतिहासः ३०० वर्षाणि पुरातनः अस्ति । अस्य नगरस्य समीपे “सिवालयं”, “ग्रैड् मस्जिद्”, “कैथोलिक् चर्च्” इत्यादीनि प्रमुखाणि पर्यटनस्थलानि सन्ति । यानम-नगरस्य वातावरणं अधिकांशतः उष्णम्, आर्द्रं च भवति । अस्य नगरस्य आर्द्रतामानं ६८ प्रतिशतं तः ८० प्रतिशतं भवति । ग्रीष्मर्तुः अस्य नगरस्य भ्रमणार्थम् अधमा वर्तते । शीतर्तौ एव अस्य नगरस्य विहारः कर्त्तव्यः । यानम-नगरं भूमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुदुच्चेरी-केन्द्रशासितप्रदेशस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः यानम-नगरं गन्तुं शक्यते । नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः यानम-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । काकीनाडा-रेलस्थानकं यानम-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । यानम-नगरात् काकीनाडा-रेलस्थानकं २६ किलोमीटरमिते दूरे स्थितम् अस्ति । काकीनाडा-नगरम् आन्ध्रप्रदेश-राज्यस्य दक्षिणगोदावरी-मण्डलस्य मुख्यालयः अपि अस्ति । इदं रेलस्थानकं पुदुच्चेरी-केन्द्रशासितप्रदेशस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । यानम-नगरे विमानस्थानकं नास्ति । आन्ध्रप्रदेशराज्यस्य राजमुन्दरी-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं राष्ट्रियविमानस्थानकम् अस्ति । यानम-नगरात् इदं विमानस्थानकं ६० किलोमीटरमिते दूरे स्थितम् अस्ति । चेन्नै-नगरस्य विमानस्थानकं यानम-नगरस्य निकटतमम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । यानम-नगरात् चेन्नै-विमानस्थानकं १५० किलोमीटरमिते दूरे स्थितम् अस्ति । चेन्नै-विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण यानम-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया यानम-नगरं प्राप्तुं शक्नुवन्ति ।

माहे-नगरं पुदुच्चेरी-केन्द्रशासितप्रदेशस्य माहे-मण्डलस्य मुख्यालयः वर्तते । नगरमिदं ९ चतुरस्रकिलोमीटरमितं विस्तृतं वर्तते । अस्य पश्चिमदिशि अरबसागरः स्थितः अस्ति । अन्यासु दिक्षु केरल-राज्यं स्थितम् अस्ति । अतः एव अस्य नगरस्य भाषायां, भोजने च केरल-राज्यस्य प्रभावः वर्तते । नगरमिदं अरबसागरस्य प्रवेशद्वारं कथ्यते । ई. स.२०११ तमस्य वर्षस्य जनगणनानुसारं अस्य नगरस्य जनसङ्ख्या ४१,८१६ अस्ति । एवं च अस्य नगरस्य साक्षरतामानं ९७.८७ प्रतिशतं वर्तते । इदं नगरं सम्पूर्णभारतस्य सर्वाधिकेषु साक्षरग्रामसङ्घेषु (Municipality) अन्यतमं वर्तते । ई. स. १९५४ पर्यन्तम् अस्मिन् नगरे फ्रेञ्च्-जनानाम् अधिकारः आसीत् । अतः अस्य नगरस्य संस्कृतौ फ्रान्स्-संस्कृत्याः प्रभावः दृश्यते । माहे-नगरस्य “माहे-चर्च्” ईसाई-धर्मस्य लोकप्रियं धार्मिकस्थलं वर्तते । “माहे बोट् हाउस्” अस्य नगरस्य प्रमुखम् आकर्षणस्य केन्द्रम् अस्ति । जनाः जलक्रीडायै, विहाराय माहे-नगरं गच्छन्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि अपि सन्ति । “सेण्ट् थैरेस् चर्च्”, “ओथिन्न-दुर्गः”, “थलास्सरी-दुर्गः”, “श्रीरामस्वामी-मन्दिरं”, “धर्मडेम-द्वीपः”, “सेण्ट् जॉर्ज् चर्च्”, “पुत्तलम” इत्यादीनि माहे-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य वातावरणं सामान्यं, सुखदं च भवति । ग्रीष्मर्तौ अस्य नगरस्य ताममानम् अधिकं भवति । अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं माहे-नगरस्य वातावरणं शीतलं, उत्तमं च भवति । अतः तस्मिन् काले जनाः विहाराय गच्छन्ति । माहे-नगरं २१३ क्रमाङ्कस्य, १७ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ माहे-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयतः । पुदुच्चेरी-केन्द्रशासितप्रदेशस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः माहे-नगरं गन्तुं शक्यते । माहे-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः माहे-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । किन्तु इदं रेलस्थानकं सामान्यं वर्तते । थालास्सेरी-रेलस्थानकं माहे-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । माहे-नगरात् थालास्सेरी-रेलस्थानकं १० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं केरल-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोयम्बतूर-नगराय, पुणे-नगराय, देहली-नगराय, मुम्बई-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । माहे-नगरे विमानस्थानकं नास्ति । केरल-राज्यस्य करीपुर-नगरस्य कालीकट-विमानस्थानकम् अस्य नगरस्य समीपस्थं अन्ताराष्ट्रियविमानस्थानकम् अस्ति । माहे-नगरात् इदं विमानस्थानकं ८० किलोमीटरमिते दूरे स्थितम् अस्ति । करीपुर-नगरस्य कालीकट-विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । अस्मात् विमानस्थानकात् विदेशस्य नगरेभ्यः अपि वायुयानानि प्राप्यन्ते । अनेन प्रकारेण माहे-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया माहे-नगरं प्राप्तुं शक्नुवन्ति ।

परिवहनम्

[सम्पादयतु]

पुदुच्चेरी-केन्द्रशासितप्रदेशस्य परिवहनं समृद्धम् अस्ति । अस्य प्रदेशस्य प्रमुखनगराणि भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धानि सन्ति । अतः जनाः सरलतया पुदुच्चेरी-केन्द्रशासितप्रदेशं प्राप्नुवन्ति ।

भूमार्गः

[सम्पादयतु]

पुदुच्चेरी-केन्द्रशासितप्रदेशे “लोकनिर्माणविभागः” अस्ति । अयं विभागः प्रदेशस्य मार्गाणां व्यवस्थां पश्यति । विभागोऽयं मार्गाणां, निर्माणं चापि कारयति । अस्मिन् प्रदेशे २५५२ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । अयं प्रदेशः ४५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः अपि भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः सरलतया भूमार्गेण पुदुच्चेरी-प्रदेशः प्राप्यते ।

धूमशकटमार्गः

[सम्पादयतु]

पुदुच्चेरी-प्रदेशस्य धूमशकटमार्गः तमिळनाडू-राज्येन, केरल-राज्येन च सह सम्बद्धम् अस्ति । विलुप्पुरम-नगरं, चेन्नै-नगरं च धूमशकटमार्गस्य मुख्यालयः वर्तते । एते नगरे धूमशकटमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धे स्तः । पुदुच्चेरी-केन्द्रशासितप्रदेशे पुदुच्चेरी-नगरस्य, कराईकल-नगरस्य, माहे-नगरस्य च रेलस्थानकं प्रमुखं वर्तते । एतानि रेलस्थानकानि केरल-राज्यस्य, तमिळनाडू-राज्यस्य च प्रमुखनगरैः सह सम्बद्धानि सन्ति । अनेन प्रकारेण पुदुच्चेरी-केन्द्रशासितप्रदेशः धूमशकटमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धमम् अस्ति । जनाः धूमशकटमार्गेण पुदुच्चेरी-केन्द्रशासितप्रदेशस्य भ्रमणं कर्तुं शक्नुवन्ति ।

वायुमार्गः

[सम्पादयतु]

अस्मिन् केन्द्रशासितप्रदेशस्य पुदुच्चेरी-नगरे विमानस्थानकम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । बेङ्गळूरु-नगराय अस्मात् विमानस्थानकात् वायुयानानि प्राप्यन्ते । अस्य प्रदेशस्य समीपे चेन्नै-नगरस्य विमानस्थानकम् स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकं विद्यते । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च मुख्यनगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखविमानस्थानकैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण पुदुच्चेरी-केन्द्रशासितप्रदेशः वायुमार्गेण भारतस्य, विदेशस्य च विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । जनाः सरलतया गन्तुं शक्नुवन्ति ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६२-३६३
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५७
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६३
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५९-३६०
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६३
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६३-३६४
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६४